Mahabharata - Śalya Parva (महाभारत - शाल्यपर्वम्)
09.049
Library: Story of great sage Jaigīṣavya and his message to Asita and Devala. Duties of a householder versus the path of liberation.
वैशम्पायन उवाच॥
तस्मिन्नेव तु धर्मात्मा वसति स्म तपोधनः। गार्हस्थ्यं धर्ममास्थाय असितो देवलः पुरा ॥९-४९-१॥
धर्मनित्यः शुचिर्दान्तो न्यस्तदण्डो महातपाः। कर्मणा मनसा वाचा समः सर्वेषु जन्तुषु ॥९-४९-२॥
अक्रोधनो महाराज तुल्यनिन्दाप्रियाप्रियः। काञ्चने लोष्टके चैव समदर्शी महातपाः ॥९-४९-३॥
देवताः पूजयन्नित्यमतिथींश्च द्विजैः सह। ब्रह्मचर्यरतो नित्यं सदा धर्मपरायणः ॥९-४९-४॥
ततोऽभ्येत्य महाराज योगमास्थाय भिक्षुकः। जैगीषव्यो मुनिर्धीमांस्तस्मिंस्तीर्थे समाहितः ॥९-४९-५॥
देवलस्याश्रमे राजन्न्यवसत्स महाद्युतिः। योगनित्यो महाराज सिद्धिं प्राप्तो महातपाः ॥९-४९-६॥
तं तत्र वसमानं तु जैगीषव्यं महामुनिम्। देवलो दर्शयन्नेव नैवायुञ्जत धर्मतः ॥९-४९-७॥
एवं तयोर्महाराज दीर्घकालो व्यतिक्रमत्। जैगीषव्यं मुनिं चैव न ददर्शाथ देवलः ॥९-४९-८॥
आहारकाले मतिमान्परिव्राड्जनमेजय। उपातिष्ठत धर्मज्ञो भैक्षकाले स देवलम् ॥९-४९-९॥
स दृष्ट्वा भिक्षुरूपेण प्राप्तं तत्र महामुनिम्। गौरवं परमं चक्रे प्रीतिं च विपुलां तथा ॥९-४९-१०॥
देवलस्तु यथाशक्ति पूजयामास भारत। ऋषिदृष्टेन विधिना समा बह्व्यः समाहितः ॥९-४९-११॥
कदाचित्तस्य नृपते देवलस्य महात्मनः। चिन्ता सुमहती जाता मुनिं दृष्ट्वा महाद्युतिम् ॥९-४९-१२॥
समास्तु समतिक्रान्ता बह्व्यः पूजयतो मम। न चायमलसो भिक्षुरभ्यभाषत किञ्चन ॥९-४९-१३॥
एवं विगणयन्नेव स जगाम महोदधिम्। अन्तरिक्षचरः श्रीमान्कलशं गृह्य देवलः ॥९-४९-१४॥
गच्छन्नेव स धर्मात्मा समुद्रं सरितां पतिम्। जैगीषव्यं ततोऽपश्यद्गतं प्रागेव भारत ॥९-४९-१५॥
ततः सविस्मयश्चिन्तां जगामाथासितः प्रभुः। कथं भिक्षुरयं प्राप्तः समुद्रे स्नात एव च ॥९-४९-१६॥
इत्येवं चिन्तयामास महर्षिरसितस्तदा। स्नात्वा समुद्रे विधिवच्छुचिर्जप्यं जजाप ह ॥९-४९-१७॥
कृतजप्याह्निकः श्रीमानाश्रमं च जगाम ह। कलशं जलपूर्णं वै गृहीत्वा जनमेजय ॥९-४९-१८॥
ततः स प्रविशन्नेव स्वमाश्रमपदं मुनिः। आसीनमाश्रमे तत्र जैगीषव्यमपश्यत ॥९-४९-१९॥
न व्याहरति चैवैनं जैगीषव्यः कथञ्चन। काष्ठभूतोऽऽश्रमपदे वसति स्म महातपाः ॥९-४९-२०॥
तं दृष्ट्वा चाप्लुतं तोये सागरे सागरोपमम्। प्रविष्टमाश्रमं चापि पूर्वमेव ददर्श सः ॥९-४९-२१॥
असितो देवलो राजंश्चिन्तयामास बुद्धिमान्। दृष्टः प्रभावं तपसो जैगीषव्यस्य योगजम् ॥९-४९-२२॥
चिन्तयामास राजेन्द्र तदा स मुनिसत्तमः। मया दृष्टः समुद्रे च आश्रमे च कथं त्वयम् ॥९-४९-२३॥
एवं विगणयन्नेव स मुनिर्मन्त्रपारगः। उत्पपाताश्रमात्तस्मादन्तरिक्षं विशां पते ॥ जिज्ञासार्थं तदा भिक्षोर्जैगीषव्यस्य देवलः ॥९-४९-२४॥
सोऽन्तरिक्षचरान्सिद्धान्समपश्यत्समाहितान्। जैगीषव्यं च तैः सिद्धैः पूज्यमानमपश्यत ॥९-४९-२५॥
ततोऽसितः सुसंरब्धो व्यवसायी दृढव्रतः। अपश्यद्वै दिवं यान्तं जैगीषव्यं स देवलः ॥९-४९-२६॥
तस्माच्च पितृलोकं तं व्रजन्तं सोऽन्वपश्यत। पितृलोकाच्च तं यान्तं याम्यं लोकमपश्यत ॥९-४९-२७॥
तस्मादपि समुत्पत्य सोमलोकमभिष्टुतम्। व्रजन्तमन्वपश्यत्स जैगीषव्यं महामुनिम् ॥९-४९-२८॥
लोकान्समुत्पतन्तं च शुभानेकान्तयाजिनाम्। ततोऽग्निहोत्रिणां लोकांस्तेभ्यश्चाप्युत्पपात ह ॥९-४९-२९॥
दर्शं च पौर्णमासं च ये यजन्ति तपोधनाः। तेभ्यः स ददृशे धीमाँल्लोकेभ्यः पशुयाजिनाम् ॥ व्रजन्तं लोकममलमपश्यद्देवपूजितम् ॥९-४९-३०॥
चातुर्मास्यैर्बहुविधैर्यजन्ते ये तपोधनाः। तेषां स्थानं तथा यान्तं तथाग्निष्टोमयाजिनाम् ॥९-४९-३१॥
अग्निष्टुतेन च तथा ये यजन्ति तपोधनाः। तत्स्थानमनुसम्प्राप्तमन्वपश्यत देवलः ॥९-४९-३२॥
वाजपेयं क्रतुवरं तथा बहुसुवर्णकम्। आहरन्ति महाप्राज्ञास्तेषां लोकेष्वपश्यत ॥९-४९-३३॥
यजन्ते पुण्डरीकेण राजसूयेन चैव ये। तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ॥९-४९-३४॥
अश्वमेधं क्रतुवरं नरमेधं तथैव च। आहरन्ति नरश्रेष्ठास्तेषां लोकेष्वपश्यत ॥९-४९-३५॥
सर्वमेधं च दुष्प्रापं तथा सौत्रामणिं च ये। तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ॥९-४९-३६॥
द्वादशाहैश्च सत्रैर्ये यजन्ते विविधैर्नृप। तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ॥९-४९-३७॥
मित्रावरुणयोर्लोकानादित्यानां तथैव च। सलोकतामनुप्राप्तमपश्यत ततोऽसितः ॥९-४९-३८॥
रुद्राणां च वसूनां च स्थानं यच्च बृहस्पतेः। तानि सर्वाण्यतीतं च समपश्यत्ततोऽसितः ॥९-४९-३९॥
आरुह्य च गवां लोकं प्रयान्तं ब्रह्मसत्रिणाम्। लोकानपश्यद्गच्छन्तं जैगीषव्यं ततोऽसितः ॥९-४९-४०॥
त्रीँल्लोकानपरान्विप्रमुत्पतन्तं स्वतेजसा। पतिव्रतानां लोकांश्च व्रजन्तं सोऽन्वपश्यत ॥९-४९-४१॥
ततो मुनिवरं भूयो जैगीषव्यमथासितः। नान्वपश्यत योगस्थमन्तर्हितमरिंदम ॥९-४९-४२॥
सोऽचिन्तयन्महाभागो जैगीषव्यस्य देवलः। प्रभावं सुव्रतत्वं च सिद्धिं योगस्य चातुलाम् ॥९-४९-४३॥
असितोऽपृच्छत तदा सिद्धाँल्लोकेषु सत्तमान्। प्रयतः प्राञ्जलिर्भूत्वा धीरस्तान्ब्रह्मसत्रिणः ॥९-४९-४४॥
जैगीषव्यं न पश्यामि तं शंसत महौजसम्। एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ॥९-४९-४५॥
सिद्धा ऊचुः॥
शृणु देवल भूतार्थं शंसतां नो दृढव्रत। जैगीषव्यो गतो लोकं शाश्वतं ब्रह्मणोऽव्ययम् ॥९-४९-४६॥
स श्रुत्वा वचनं तेषां सिद्धानां ब्रह्मसत्रिणाम्। असितो देवलस्तूर्णमुत्पपात पपात च ॥९-४९-४७॥
ततः सिद्धास्त ऊचुर्हि देवलं पुनरेव ह। न देवल गतिस्तत्र तव गन्तुं तपोधन ॥ ब्रह्मणः सदनं विप्र जैगीषव्यो यदाप्तवान् ॥९-४९-४८॥
तेषां तद्वचनं श्रुत्वा सिद्धानां देवलः पुनः। आनुपूर्व्येण लोकांस्तान्सर्वानवततार ह ॥९-४९-४९॥
स्वमाश्रमपदं पुण्यमाजगाम पतङ्गवत्। प्रविशन्नेव चापश्यज्जैगीषव्यं स देवलः ॥९-४९-५०॥
ततो बुद्ध्या व्यगणयद्देवलो धर्मयुक्तया। दृष्ट्वा प्रभावं तपसो जैगीषव्यस्य योगजम् ॥९-४९-५१॥
ततोऽब्रवीन्महात्मानं जैगीषव्यं स देवलः। विनयावनतो राजन्नुपसर्प्य महामुनिम् ॥ मोक्षधर्मं समास्थातुमिच्छेयं भगवन्नहम् ॥९-४९-५२॥
तस्य तद्वचनं श्रुत्वा उपदेशं चकार सः। विधिं च योगस्य परं कार्याकार्यं च शास्त्रतः ॥९-४९-५३॥
संन्यासकृतबुद्धिं तं ततो दृष्ट्वा महातपाः। सर्वाश्चास्य क्रियाश्चक्रे विधिदृष्टेन कर्मणा ॥९-४९-५४॥
संन्यासकृतबुद्धिं तं भूतानि पितृभिः सह। ततो दृष्ट्वा प्ररुरुदुः कोऽस्मान्संविभजिष्यति ॥९-४९-५५॥
देवलस्तु वचः श्रुत्वा भूतानां करुणं तथा। दिशो दश व्याहरतां मोक्षं त्यक्तुं मनो दधे ॥९-४९-५६॥
ततस्तु फलमूलानि पवित्राणि च भारत। पुष्पाण्योषधयश्चैव रोरूयन्ते सहस्रशः ॥९-४९-५७॥
पुनर्नो देवलः क्षुद्रो नूनं छेत्स्यति दुर्मतिः। अभयं सर्वभूतेभ्यो यो दत्त्वा नावबुध्यते ॥९-४९-५८॥
ततो भूयो व्यगणयत्स्वबुद्ध्या मुनिसत्तमः। मोक्षे गार्हस्थ्यधर्मे वा किं नु श्रेयस्करं भवेत् ॥९-४९-५९॥
इति निश्चित्य मनसा देवलो राजसत्तम। त्यक्त्वा गार्हस्थ्यधर्मं स मोक्षधर्ममरोचयत् ॥९-४९-६०॥
एवमादीनि सञ्चिन्त्य देवलो निश्चयात्ततः। प्राप्तवान्परमां सिद्धिं परं योगं च भारत ॥९-४९-६१॥
ततो देवाः समागम्य बृहस्पतिपुरोगमाः। जैगीषव्यं तपश्चास्य प्रशंसन्ति तपस्विनः ॥९-४९-६२॥
अथाब्रवीदृषिवरो देवान्वै नारदस्तदा। जैगीषव्ये तपो नास्ति विस्मापयति योऽसितम् ॥९-४९-६३॥
तमेवंवादिनं धीरं प्रत्यूचुस्ते दिवौकसः। मैवमित्येव शंसन्तो जैगीषव्यं महामुनिम् ॥९-४९-६४॥
तत्राप्युपस्पृश्य ततो महात्मा; दत्त्वा च वित्तं हलभृद्द्विजेभ्यः। अवाप्य धर्मं परमार्यकर्मा; जगाम सोमस्य महत्स तीर्थम् ॥९-४९-६५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.