09.052
Library: Reason why the Kurukshetra field was ploughed by the noble Kuru.
ऋषय ऊचुः॥
प्रजापतेरुत्तरवेदिरुच्यते; सनातना राम समन्तपञ्चकम्। समीजिरे यत्र पुरा दिवौकसो; वरेण सत्रेण महावरप्रदाः ॥९-५२-१॥
पुरा च राजर्षिवरेण धीमता; बहूनि वर्षाण्यमितेन तेजसा। प्रकृष्टमेतत्कुरुणा महात्मना; ततः कुरुक्षेत्रमितीह पप्रथे ॥९-५२-२॥
राम उवाच॥
किमर्थं कुरुणा कृष्टं क्षेत्रमेतन्महात्मना। एतदिच्छाम्यहं श्रोतुं कथ्यमानं तपोधनाः ॥९-५२-३॥
ऋषय ऊचुः॥
पुरा किल कुरुं राम कृषन्तं सततोत्थितम्। अभ्येत्य शक्रस्त्रिदिवात्पर्यपृच्छत कारणम् ॥९-५२-४॥
किमिदं वर्तते राजन्प्रयत्नेन परेण च। राजर्षे किमभिप्रेतं येनेयं कृष्यते क्षितिः ॥९-५२-५॥
कुरुरुवाच॥
इह ये पुरुषाः क्षेत्रे मरिष्यन्ति शतक्रतो। ते गमिष्यन्ति सुकृताँल्लोकान्पापविवर्जितान् ॥९-५२-६॥
अवहस्य ततः शक्रो जगाम त्रिदिवं प्रभुः। राजर्षिरप्यनिर्विण्णः कर्षत्येव वसुन्धराम् ॥९-५२-७॥
आगम्यागम्य चैवैनं भूयो भूयोऽवहस्य च। शतक्रतुरनिर्विण्णं पृष्ट्वा पृष्ट्वा जगाम ह ॥९-५२-८॥
यदा तु तपसोग्रेण चकर्ष वसुधां नृपः। ततः शक्रोऽब्रवीद्देवान्राजर्षेर्यच्चिकीर्षितम् ॥९-५२-९॥
तच्छ्रुत्वा चाब्रुवन्देवाः सहस्राक्षमिदं वचः। वरेण च्छन्द्यतां शक्र राजर्षिर्यदि शक्यते ॥९-५२-१०॥
यदि ह्यत्र प्रमीता वै स्वर्गं गच्छन्ति मानवाः। अस्माननिष्ट्वा क्रतुभिर्भागो नो न भविष्यति ॥९-५२-११॥
आगम्य च ततः शक्रस्तदा राजर्षिमब्रवीत्। अलं खेदेन भवतः क्रियतां वचनं मम ॥९-५२-१२॥
मानवा ये निराहारा देहं त्यक्ष्यन्त्यतन्द्रिताः। युधि वा निहताः सम्यगपि तिर्यग्गता नृप ॥९-५२-१३॥
ते स्वर्गभाजो राजेन्द्र भवन्त्विति महामते। तथास्त्विति ततो राजा कुरुः शक्रमुवाच ह ॥९-५२-१४॥
ततस्तमभ्यनुज्ञाप्य प्रहृष्टेनान्तरात्मना। जगाम त्रिदिवं भूयः क्षिप्रं बलनिषूदनः ॥९-५२-१५॥
एवमेतद्यदुश्रेष्ठ कृष्टं राजर्षिणा पुरा। शक्रेण चाप्यनुज्ञातं पुण्यं प्राणान्विमुञ्चताम् ॥९-५२-१६॥
अपि चात्र स्वयं शक्रो जगौ गाथां सुराधिपः। कुरुक्षेत्रे निबद्धां वै तां शृणुष्व हलायुध ॥९-५२-१७॥
पांसवोऽपि कुरुक्षेत्राद्वायुना समुदीरिताः। अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् ॥९-५२-१८॥
सुरर्षभा ब्राह्मणसत्तमाश्च; तथा नृगाद्या नरदेवमुख्याः। इष्ट्वा महार्हैः क्रतुभिर्नृसिंह; संन्यस्य देहान्सुगतिं प्रपन्नाः ॥९-५२-१९॥
तरन्तुकारन्तुकयोर्यदन्तरं; रामह्रदानां च मचक्रुकस्य। एतत्कुरुक्षेत्रसमन्तपञ्चकं; प्रजापतेरुत्तरवेदिरुच्यते ॥९-५२-२०॥
शिवं महत्पुण्यमिदं दिवौकसां; सुसंमतं स्वर्गगुणैः समन्वितम्। अतश्च सर्वेऽपि वसुन्धराधिपा; हता गमिष्यन्ति महात्मनां गतिम् ॥९-५२-२१॥