09.051
Library: Kuṇi Gārgya's daughter and son of Gālava - how did the maiden engage in penance in ancient times? Balarama receives the news about death of Shalya.
जनमेजय उवाच॥
कथं कुमारी भगवंस्तपोयुक्ता ह्यभूत्पुरा। किमर्थं च तपस्तेपे को वास्या नियमोऽभवत् ॥९-५१-१॥
सुदुष्करमिदं ब्रह्मंस्त्वत्तः श्रुतमनुत्तमम्। आख्याहि तत्त्वमखिलं यथा तपसि सा स्थिता ॥९-५१-२॥
वैशम्पायन उवाच॥
ऋषिरासीन्महावीर्यः कुणिर्गार्ग्यो महायशाः। स तप्त्वा विपुलं राजंस्तपो वै तपतां वरः ॥ मानसीं स सुतां सुभ्रूं समुत्पादितवान्विभुः ॥९-५१-३॥
तां च दृष्ट्वा भृशं प्रीतः कुणिर्गार्ग्यो महायशाः। जगाम त्रिदिवं राजन्सन्त्यज्येह कलेवरम् ॥९-५१-४॥
सुभ्रूः सा ह्यथ कल्याणी पुण्डरीकनिभेक्षणा। महता तपसोग्रेण कृत्वाश्रममनिन्दिता ॥९-५१-५॥
उपवासैः पूजयन्ती पितॄन्देवांश्च सा पुरा। तस्यास्तु तपसोग्रेण महान्कालोऽत्यगान्नृप ॥९-५१-६॥
सा पित्रा दीयमानापि भर्त्रे नैच्छदनिन्दिता। आत्मनः सदृशं सा तु भर्तारं नान्वपश्यत ॥९-५१-७॥
ततः सा तपसोग्रेण पीडयित्वात्मनस्तनुम्। पितृदेवार्चनरता बभूव विजने वने ॥९-५१-८॥
सात्मानं मन्यमानापि कृतकृत्यं श्रमान्विता। वार्द्धकेन च राजेन्द्र तपसा चैव कर्शिता ॥९-५१-९॥
सा नाशकद्यदा गन्तुं पदात्पदमपि स्वयम्। चकार गमने बुद्धिं परलोकाय वै तदा ॥९-५१-१०॥
मोक्तुकामां तु तां दृष्ट्वा शरीरं नारदोऽब्रवीत्। असंस्कृतायाः कन्यायाः कुतो लोकास्तवानघे ॥९-५१-११॥
एवं हि श्रुतमस्माभिर्देवलोके महाव्रते। तपः परमकं प्राप्तं न तु लोकास्त्वया जिताः ॥९-५१-१२॥
तन्नारदवचः श्रुत्वा साब्रवीदृषिसंसदि। तपसोऽर्धं प्रयच्छामि पाणिग्राहस्य सत्तमाः ॥९-५१-१३॥
इत्युक्ते चास्या जग्राह पाणिं गालवसम्भवः। ऋषिः प्राक्षृङ्गवान्नाम समयं चेदमब्रवीत् ॥९-५१-१४॥
समयेन तवाद्याहं पाणिं स्प्रक्ष्यामि शोभने। यद्येकरात्रं वस्तव्यं त्वया सह मयेति ह ॥९-५१-१५॥
तथेति सा प्रतिश्रुत्य तस्मै पाणिं ददौ तदा। चक्रे च पाणिग्रहणं तस्योद्वाहं च गालविः ॥९-५१-१६॥
सा रात्रावभवद्राजंस्तरुणी देववर्णिनी। दिव्याभरणवस्त्रा च दिव्यस्रगनुलेपना ॥९-५१-१७॥
तां दृष्ट्वा गालविः प्रीतो दीपयन्तीमिवात्मना। उवास च क्षपामेकां प्रभाते साब्रवीच्च तम् ॥९-५१-१८॥
यस्त्वया समयो विप्र कृतो मे तपतां वर। तेनोषितास्मि भद्रं ते स्वस्ति तेऽस्तु व्रजाम्यहम् ॥९-५१-१९॥
सानुज्ञाताब्रवीद्भूयो योऽस्मिंस्तीर्थे समाहितः। वत्स्यते रजनीमेकां तर्पयित्वा दिवौकसः ॥९-५१-२०॥
चत्वारिंशतमष्टौ च द्वे चाष्टौ सम्यगाचरेत्। यो ब्रह्मचर्यं वर्षाणि फलं तस्य लभेत सः ॥ एवमुक्त्वा ततः साध्वी देहं त्यक्त्वा दिवं गता ॥९-५१-२१॥
ऋषिरप्यभवद्दीनस्तस्या रूपं विचिन्तयन्। समयेन तपोऽर्धं च कृच्छ्रात्प्रतिगृहीतवान् ॥९-५१-२२॥
साधयित्वा तदात्मानं तस्याः स गतिमन्वयात्। दुःखितो भरतश्रेष्ठ तस्या रूपबलात्कृतः ॥ एतत्ते वृद्धकन्याया व्याख्यातं चरितं महत् ॥९-५१-२३॥
तत्रस्थश्चापि शुश्राव हतं शल्यं हलायुधः। तत्रापि दत्त्वा दानानि द्विजातिभ्यः परन्तप ॥ शुशोच शल्यं सङ्ग्रामे निहतं पाण्डवैस्तदा ॥९-५१-२४॥
समन्तपञ्चकद्वारात्ततो निष्क्रम्य माधवः। पप्रच्छर्षिगणान्रामः कुरुक्षेत्रस्य यत्फलम् ॥९-५१-२५॥
ते पृष्टा यदुसिंहेन कुरुक्षेत्रफलं विभो। समाचख्युर्महात्मानस्तस्मै सर्वं यथातथम् ॥९-५१-२६॥