Mahabharata - Śalya Parva (महाभारत - शाल्यपर्वम्)
09.054
Pancharatra and Core: Instructed by Balarama, Bhima and Duryodhana arrive at Samantapanchaka and prepare for the battle.
वैशम्पायन उवाच॥
एवं तदभवद्युद्धं तुमुलं जनमेजय। यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम् ॥९-५४-१॥
रामं संनिहितं दृष्ट्वा गदायुद्ध उपस्थिते। मम पुत्रः कथं भीमं प्रत्ययुध्यत सञ्जय ॥९-५४-२॥
सञ्जय उवाच॥
रामसांनिध्यमासाद्य पुत्रो दुर्योधनस्तव। युद्धकामो महाबाहुः समहृष्यत वीर्यवान् ॥९-५४-३॥
दृष्ट्वा लाङ्गलिनं राजा प्रत्युत्थाय च भारत। प्रीत्या परमया युक्तो युधिष्ठिरमथाब्रवीत् ॥९-५४-४॥
समन्तपञ्चकं क्षिप्रमितो याम विशां पते। प्रथितोत्तरवेदी सा देवलोके प्रजापतेः ॥९-५४-५॥
तस्मिन्महापुण्यतमे त्रैलोक्यस्य सनातने। सङ्ग्रामे निधनं प्राप्य ध्रुवं स्वर्गो भविष्यति ॥९-५४-६॥
तथेत्युक्त्वा महाराज कुन्तीपुत्रो युधिष्ठिरः। समन्तपञ्चकं वीरः प्रायादभिमुखः प्रभुः ॥९-५४-७॥
ततो दुर्योधनो राजा प्रगृह्य महतीं गदाम्। पद्भ्याममर्षाद्द्युतिमानगच्छत्पाण्डवैः सह ॥९-५४-८॥
तथा यान्तं गदाहस्तं वर्मणा चापि दंशितम्। अन्तरिक्षगता देवाः साधु साध्वित्यपूजयन् ॥ वातिकाश्च नरा येऽत्र दृष्ट्वा ते हर्षमागताः ॥९-५४-९॥
स पाण्डवैः परिवृतः कुरुराजस्तवात्मजः। मत्तस्येव गजेन्द्रस्य गतिमास्थाय सोऽव्रजत् ॥९-५४-१०॥
ततः शङ्खनिनादेन भेरीणां च महास्वनैः। सिंहनादैश्च शूराणां दिशः सर्वाः प्रपूरिताः ॥९-५४-११॥
प्रतीच्यभिमुखं देशं यथोद्दिष्टं सुतेन ते। गत्वा च तैः परिक्षिप्तं समन्तात्सर्वतोदिशम् ॥९-५४-१२॥
दक्षिणेन सरस्वत्याः स्वयनं तीर्थमुत्तमम्। तस्मिन्देशे त्वनिरिणे तत्र युद्धमरोचयन् ॥९-५४-१३॥
ततो भीमो महाकोटिं गदां गृह्याथ वर्मभृत्। बिभ्रद्रूपं महाराज सदृशं हि गरुत्मतः ॥९-५४-१४॥
अवबद्धशिरस्त्राणः सङ्ख्ये काञ्चनवर्मभृत्। रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव ॥९-५४-१५॥
वर्मभ्यां संवृतौ वीरौ भीमदुर्योधनावुभौ। संयुगे च प्रकाशेते संरब्धाविव कुञ्जरौ ॥९-५४-१६॥
रणमण्डलमध्यस्थौ भ्रातरौ तौ नरर्षभौ। अशोभेतां महाराज चन्द्रसूर्याविवोदितौ ॥९-५४-१७॥
तावन्योन्यं निरीक्षेतां क्रुद्धाविव महाद्विपौ। दहन्तौ लोचनै राजन्परस्परवधैषिणौ ॥९-५४-१८॥
सम्प्रहृष्टमना राजन्गदामादाय कौरवः। सृक्किणी संलिहन्राजन्क्रोधरक्तेक्षणः श्वसन् ॥९-५४-१९॥
ततो दुर्योधनो राजा गदामादाय वीर्यवान्। भीमसेनमभिप्रेक्ष्य गजो गजमिवाह्वयत् ॥९-५४-२०॥
अद्रिसारमयीं भीमस्तथैवादाय वीर्यवान्। आह्वयामास नृपतिं सिंहः सिंहं यथा वने ॥९-५४-२१॥
तावुद्यतगदापाणी दुर्योधनवृकोदरौ। संयुगे स्म प्रकाशेते गिरी सशिखराविव ॥९-५४-२२॥
तावुभावभिसङ्क्रुद्धावुभौ भीमपराक्रमौ। उभौ शिष्यौ गदायुद्धे रौहिणेयस्य धीमतः ॥९-५४-२३॥
उभौ सदृशकर्माणौ यमवासवयोरिव। तथा सदृशकर्माणौ वरुणस्य महाबलौ ॥९-५४-२४॥
वासुदेवस्य रामस्य तथा वैश्रवणस्य च। सदृशौ तौ महाराज मधुकैटभयोर्युधि ॥९-५४-२५॥
उभौ सदृशकर्माणौ रणे सुन्दोपसुन्दयोः। तथैव कालस्य समौ मृत्योश्चैव परन्तपौ ॥९-५४-२६॥
अन्योन्यमभिधावन्तौ मत्ताविव महाद्विपौ। वाशितासङ्गमे दृप्तौ शरदीव मदोत्कटौ ॥९-५४-२७॥
मत्ताविव जिगीषन्तौ मातङ्गौ भरतर्षभौ। उभौ क्रोधविषं दीप्तं वमन्तावुरगाविव ॥९-५४-२८॥
अन्योन्यमभिसंरब्धौ प्रेक्षमाणावरिंदमौ। उभौ भरतशार्दूलौ विक्रमेण समन्वितौ ॥९-५४-२९॥
सिंहाविव दुराधर्षौ गदायुद्धे परन्तपौ। नखदंष्ट्रायुधौ वीरौ व्याघ्राविव दुरुत्सहौ ॥९-५४-३०॥
प्रजासंहरणे क्षुब्धौ समुद्राविव दुस्तरौ। लोहिताङ्गाविव क्रुद्धौ प्रतपन्तौ महारथौ ॥९-५४-३१॥
रश्मिमन्तौ महात्मानौ दीप्तिमन्तौ महाबलौ। ददृशाते कुरुश्रेष्ठौ कालसूर्याविवोदितौ ॥९-५४-३२॥
व्याघ्राविव सुसंरब्धौ गर्जन्ताविव तोयदौ। जहृषाते महाबाहू सिंहौ केसरिणाविव ॥९-५४-३३॥
गजाविव सुसंरब्धौ ज्वलिताविव पावकौ। ददृशुस्तौ महात्मानौ सशृङ्गाविव पर्वतौ ॥९-५४-३४॥
रोषात्प्रस्फुरमाणोष्ठौ निरीक्षन्तौ परस्परम्। तौ समेतौ महात्मानौ गदाहस्तौ नरोत्तमौ ॥९-५४-३५॥
उभौ परमसंहृष्टावुभौ परमसंमतौ। सदश्वाविव हेषन्तौ बृंहन्ताविव कुञ्जरौ ॥९-५४-३६॥
वृषभाविव गर्जन्तौ दुर्योधनवृकोदरौ। दैत्याविव बलोन्मत्तौ रेजतुस्तौ नरोत्तमौ ॥९-५४-३७॥
ततो दुर्योधनो राजन्निदमाह युधिष्ठिरम्। सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम् ॥९-५४-३८॥
इदं व्यवसितं युद्धं मम भीमस्य चोभयोः। उपोपविष्टाः पश्यध्वं विमर्दं नृपसत्तमाः ॥९-५४-३९॥
ततः समुपविष्टं तत्सुमहद्राजमण्डलम्। विराजमानं ददृशे दिवीवादित्यमण्डलम् ॥९-५४-४०॥
तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः। उपविष्टो महाराज पूज्यमानः समन्ततः ॥९-५४-४१॥
शुशुभे राजमध्यस्थो नीलवासाः सितप्रभः। नक्षत्रैरिव सम्पूर्णो वृतो निशि निशाकरः ॥९-५४-४२॥
तौ तथा तु महाराज गदाहस्तौ दुरासदौ। अन्योन्यं वाग्भिरुग्राभिस्तक्षमाणौ व्यवस्थितौ ॥९-५४-४३॥
अप्रियाणि ततोऽन्योन्यमुक्त्वा तौ कुरुपुङ्गवौ। उदीक्षन्तौ स्थितौ वीरौ वृत्रशक्राविवाहवे ॥९-५४-४४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.