09.055
Pancharatra and Core: Bhima and Duryodhana exchange harsh words recounting past events.
वैशम्पायन उवाच॥
ततो वाग्युद्धमभवत्तुमुलं जनमेजय। यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम् ॥९-५५-१॥
धिगस्तु खलु मानुष्यं यस्य निष्ठेयमीदृशी। एकादशचमूभर्ता यत्र पुत्रो ममाभिभूः ॥९-५५-२॥
आज्ञाप्य सर्वान्नृपतीन्भुक्त्वा चेमां वसुन्धराम्। गदामादाय वेगेन पदातिः प्रस्थितो रणम् ॥९-५५-३॥
भूत्वा हि जगतो नाथो ह्यनाथ इव मे सुतः। गदामुद्यम्य यो याति किमन्यद्भागधेयतः ॥९-५५-४॥
अहो दुःखं महत्प्राप्तं पुत्रेण मम सञ्जय। एवमुक्त्वा स दुःखार्तो विरराम जनाधिपः ॥९-५५-५॥
सञ्जय उवाच॥
स मेघनिनदो हर्षाद्विनदन्निव गोवृषः। आजुहाव ततः पार्थं युद्धाय युधि वीर्यवान् ॥९-५५-६॥
भीममाह्वयमाने तु कुरुराजे महात्मनि। प्रादुरासन्सुघोराणि रूपाणि विविधान्युत ॥९-५५-७॥
ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च। बभूवुश्च दिशः सर्वास्तिमिरेण समावृताः ॥९-५५-८॥
महास्वनाः सनिर्घातास्तुमुला रोमहर्षणाः। पेतुस्तथोल्काः शतशः स्फोटयन्त्यो नभस्तलम् ॥९-५५-९॥
राहुश्चाग्रसदादित्यमपर्वणि विशां पते। चकम्पे च महाकम्पं पृथिवी सवनद्रुमा ॥९-५५-१०॥
रूक्षाश्च वाताः प्रववुर्नीचैः शर्करवर्षिणः। गिरीणां शिखराण्येव न्यपतन्त महीतले ॥९-५५-११॥
मृगा बहुविधाकाराः सम्पतन्ति दिशो दश। दीप्ताः शिवाश्चाप्यनदन्घोररूपाः सुदारुणाः ॥९-५५-१२॥
निर्घाताश्च महाघोरा बभूवू रोमहर्षणाः। दीप्तायां दिशि राजेन्द्र मृगाश्चाशुभवादिनः ॥९-५५-१३॥
उदपानगताश्चापो व्यवर्धन्त समन्ततः। अशरीरा महानादाः श्रूयन्ते स्म तदा नृप ॥९-५५-१४॥
एवमादीनि दृष्ट्वाथ निमित्तानि वृकोदरः। उवाच भ्रातरं ज्येष्ठं धर्मराजं युधिष्ठिरम् ॥९-५५-१५॥
नैष शक्तो रणे जेतुं मन्दात्मा मां सुयोधनः। अद्य क्रोधं विमोक्ष्यामि निगूढं हृदये चिरम् ॥ सुयोधने कौरवेन्द्रे खाण्डवे पावको यथा ॥९-५५-१६॥
शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम्। निहत्य गदया पापमिमं कुरुकुलाधमम् ॥९-५५-१७॥
अद्य कीर्तिमयीं मालां प्रतिमोक्ष्याम्यहं त्वयि। हत्वेमं पापकर्माणं गदया रणमूर्धनि ॥९-५५-१८॥
अद्यास्य शतधा देहं भिनद्मि गदयानया। नायं प्रवेष्टा नगरं पुनर्वारणसाह्वयम् ॥९-५५-१९॥
सर्पोत्सर्गस्य शयने विषदानस्य भोजने। प्रमाणकोट्यां पातस्य दाहस्य जतुवेश्मनि ॥९-५५-२०॥
सभायामवहासस्य सर्वस्वहरणस्य च। वर्षमज्ञातवासस्य वनवासस्य चानघ ॥९-५५-२१॥
अद्यान्तमेषां दुःखानां गन्ता भरतसत्तम। एकाह्ना विनिहत्येमं भविष्याम्यात्मनोऽनृणः ॥९-५५-२२॥
अद्यायुर्धार्तराष्ट्रस्य दुर्मतेरकृतात्मनः। समाप्तं भरतश्रेष्ठ मातापित्रोश्च दर्शनम् ॥९-५५-२३॥
अद्यायं कुरुराजस्य शन्तनोः कुलपांसनः। प्राणाञ्श्रियं च राज्यं च त्यक्त्वा शेष्यति भूतले ॥९-५५-२४॥
राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं मया हतम्। स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम् ॥९-५५-२५॥
इत्युक्त्वा राजशार्दूल गदामादाय वीर्यवान्। अवातिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन् ॥९-५५-२६॥
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्। भीमसेनः पुनः क्रुद्धो दुर्योधनमुवाच ह ॥९-५५-२७॥
राज्ञश्च धृतराष्ट्रस्य तथा त्वमपि चात्मनः। स्मर तद्दुष्कृतं कर्म यद्वृत्तं वारणावते ॥९-५५-२८॥
द्रौपदी च परिक्लिष्टा सभायां यद्रजस्वला। द्यूते च वञ्चितो राजा यत्त्वया सौबलेन च ॥९-५५-२९॥
वने दुःखं च यत्प्राप्तमस्माभिस्त्वत्कृतं महत्। विराटनगरे चैव योन्यन्तरगतैरिव ॥ तत्सर्वं यातयाम्यद्य दिष्ट्या दृष्टोऽसि दुर्मते ॥९-५५-३०॥
त्वत्कृतेऽसौ हतः शेते शरतल्पे प्रतापवान्। गाङ्गेयो रथिनां श्रेष्ठो निहतो याज्ञसेनिना ॥९-५५-३१॥
हतो द्रोणश्च कर्णश्च तथा शल्यः प्रतापवान्। वैराग्नेरादिकर्ता च शकुनिः सौबलो हतः ॥९-५५-३२॥
प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः। भ्रातरस्ते हताः सर्वे शूरा विक्रान्तयोधिनः ॥९-५५-३३॥
एते चान्ये च बहवो निहतास्त्वत्कृते नृपाः। त्वामद्य निहनिष्यामि गदया नात्र संशयः ॥९-५५-३४॥
इत्येवमुच्चै राजेन्द्र भाषमाणं वृकोदरम्। उवाच वीतभी राजन्पुत्रस्ते सत्यविक्रमः ॥९-५५-३५॥
किं कत्थितेन बहुधा युध्यस्व त्वं वृकोदर। अद्य तेऽहं विनेष्यामि युद्धश्रद्धां कुलाधम ॥९-५५-३६॥
नैव दुर्योधनः क्षुद्र केनचित्त्वद्विधेन वै। शक्यस्त्रासयितुं वाचा यथान्यः प्राकृतो नरः ॥९-५५-३७॥
चिरकालेप्सितं दिष्ट्या हृदयस्थमिदं मम। त्वया सह गदायुद्धं त्रिदशैरुपपादितम् ॥९-५५-३८॥
किं वाचा बहुनोक्तेन कत्थितेन च दुर्मते। वाणी सम्पद्यतामेषा कर्मणा मा चिरं कृथाः ॥९-५५-३९॥
तस्य तद्वचनं श्रुत्वा सर्व एवाभ्यपूजयन्। राजानः सोमकाश्चैव ये तत्रासन्समागताः ॥९-५५-४०॥
ततः सम्पूजितः सर्वैः सम्प्रहृष्टतनूरुहः। भूयो धीरं मनश्चक्रे युद्धाय कुरुनन्दनः ॥९-५५-४१॥
तं मत्तमिव मातङ्गं तलतालैर्नराधिपाः। भूयः संहर्षयां चक्रुर्दुर्योधनममर्षणम् ॥९-५५-४२॥
तं महात्मा महात्मानं गदामुद्यम्य पाण्डवः। अभिदुद्राव वेगेन धार्तराष्ट्रं वृकोदरः ॥९-५५-४३॥
बृंहन्ति कुञ्जरास्तत्र हया हेषन्ति चासकृत्। शस्त्राणि चाप्यदीप्यन्त पाण्डवानां जयैषिणाम् ॥९-५५-४४॥