Mahabharata - Sauptika Parva (महाभारत - सौप्तिकपर्वम्)
10.013
Core and Pancharatra: Krishna goes looking for Bhima, along with Yudhisthira and Arjuna. Bhima finds Ashwatthama along with Krishna Dwaipayana Vyasa. Ashwatthama, scared, without much thought, releases the divine weapon against the Pandavas.
वैशम्पायन उवाच॥
एवमुक्त्वा युधां श्रेष्ठः सर्वयादवनन्दनः। सर्वायुधवरोपेतमारुरोह महारथम् ॥ युक्तं परमकाम्बोजैस्तुरगैर्हेममालिभिः ॥१०-१३-१॥
आदित्योदयवर्णस्य धुरं रथवरस्य तु। दक्षिणामवहत्सैन्यः सुग्रीवः सव्यतोऽवहत् ॥ पार्ष्णिवाहौ तु तस्यास्तां मेघपुष्पबलाहकौ ॥१०-१३-२॥
विश्वकर्मकृता दिव्या नानारत्नविभूषिता। उच्छ्रितेव रथे माया ध्वजयष्टिरदृश्यत ॥१०-१३-३॥
वैनतेयः स्थितस्तस्यां प्रभामण्डलरश्मिवान्। तस्य सत्यवतः केतुर्भुजगारिरदृश्यत ॥१०-१३-४॥
अन्वारोहद्धृषीकेशः केतुः सर्वधनुष्मताम्। अर्जुनः सत्यकर्मा च कुरुराजो युधिष्ठिरः ॥१०-१३-५॥
अशोभेतां महात्मानौ दाशार्हमभितः स्थितौ। रथस्थं शार्ङ्गधन्वानमश्विनाविव वासवम् ॥१०-१३-६॥
तावुपारोप्य दाशार्हः स्यन्दनं लोकपूजितम्। प्रतोदेन जवोपेतान्परमाश्वानचोदयत् ॥१०-१३-७॥
ते हयाः सहसोत्पेतुर्गृहीत्वा स्यन्दनोत्तमम्। आस्थितं पाण्डवेयाभ्यां यदूनामृषभेण च ॥१०-१३-८॥
वहतां शार्ङ्गधन्वानमश्वानां शीघ्रगामिनाम्। प्रादुरासीन्महाञ्शब्दः पक्षिणां पततामिव ॥१०-१३-९॥
ते समार्छन्नरव्याघ्राः क्षणेन भरतर्षभ। भीमसेनं महेष्वासं समनुद्रुत्य वेगिताः ॥१०-१३-१०॥
क्रोधदीप्तं तु कौन्तेयं द्विषदर्थे समुद्यतम्। नाशक्नुवन्वारयितुं समेत्यापि महारथाः ॥१०-१३-११॥
स तेषां प्रेक्षतामेव श्रीमतां दृढधन्विनाम्। ययौ भागिरथीकच्छं हरिभिर्भृशवेगितैः ॥ यत्र स्म श्रूयते द्रौणिः पुत्रहन्ता महात्मनाम् ॥१०-१३-१२॥
स ददर्श महात्मानमुदकान्ते यशस्विनम्। कृष्णद्वैपायनं व्यासमासीनमृषिभिः सह ॥१०-१३-१३॥
तं चैव क्रूरकर्माणं घृताक्तं कुशचीरिणम्। रजसा ध्वस्तकेशान्तं ददर्श द्रौणिमन्तिके ॥१०-१३-१४॥
तमभ्यधावत्कौन्तेयः प्रगृह्य सशरं धनुः। भीमसेनो महाबाहुस्तिष्ठ तिष्ठेति चाब्रवीत् ॥१०-१३-१५॥
स दृष्ट्वा भीमधन्वानं प्रगृहीतशरासनम्। भ्रातरौ पृष्ठतश्चास्य जनार्दनरथे स्थितौ ॥१०-१३-१६॥
व्यथितात्माभवद्द्रौणिः प्राप्तं चेदममन्यत ॥१०-१३-१६॥
स तद्दिव्यमदीनात्मा परमास्त्रमचिन्तयत्। जग्राह च स चैषीकां द्रौणिः सव्येन पाणिना ॥ स तामापदमासाद्य दिव्यमस्त्रमुदीरयत् ॥१०-१३-१७॥
अमृष्यमाणस्ताञ्शूरान्दिव्यायुधधरान्स्थितान्। अपाण्डवायेति रुषा व्यसृजद्दारुणं वचः ॥१०-१३-१८॥
इत्युक्त्वा राजशार्दूल द्रोणपुत्रः प्रतापवान्। सर्वलोकप्रमोहार्थं तदस्त्रं प्रमुमोच ह ॥१०-१३-१९॥
ततस्तस्यामिषीकायां पावकः समजायत। प्रधक्ष्यन्निव लोकांस्त्रीन्कालान्तकयमोपमः ॥१०-१३-२०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.