Mahabharata - Sauptika Parva (महाभारत - सौप्तिकपर्वम्)
10.012
Pancharatra: Krishna tells Yudhisthira, Ashwatthama is restless and has Brahmashira weapon, and so, Bhima should be protected.
वैशम्पायन उवाच॥
तस्मिन्प्रयाते दुर्धर्षे यदूनामृषभस्ततः। अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम् ॥१०-१२-१॥
एष पाण्डव ते भ्राता पुत्रशोकमपारयन्। जिघांसुर्द्रौणिमाक्रन्दे याति भारत भारतः ॥१०-१२-२॥
भीमः प्रियस्ते सर्वेभ्यो भ्रातृभ्यो भरतर्षभ। तं कृच्छ्रगतमद्य त्वं कस्मान्नाभ्यवपद्यसे ॥१०-१२-३॥
यत्तदाचष्ट पुत्राय द्रोणः परपुरञ्जयः। अस्त्रं ब्रह्मशिरो नाम दहेद्यत्पृथिवीमपि ॥१०-१२-४॥
तन्महात्मा महाभागः केतुः सर्वधनुष्मताम्। प्रत्यपादयदाचार्यः प्रीयमाणो धनञ्जयम् ॥१०-१२-५॥
तत्पुत्रोऽस्यैवमेवैनमन्वयाचदमर्षणः। ततः प्रोवाच पुत्राय नातिहृष्टमना इव ॥१०-१२-६॥
विदितं चापलं ह्यासीदात्मजस्य महात्मनः। सर्वधर्मविदाचार्यो नान्विषत्सततं सुतम् ॥१०-१२-७॥
परमापद्गतेनापि न स्म तात त्वया रणे। इदमस्त्रं प्रयोक्तव्यं मानुषेषु विशेषतः ॥१०-१२-८॥
इत्युक्तवान्गुरुः पुत्रं द्रोणः पश्चादथोक्तवान्। न त्वं जातु सतां मार्गे स्थातेति पुरुषर्षभ ॥१०-१२-९॥
स तदाज्ञाय दुष्टात्मा पितुर्वचनमप्रियम्। निराशः सर्वकल्याणैः शोचन्पर्यपतन्महीम् ॥१०-१२-१०॥
ततस्तदा कुरुश्रेष्ठ वनस्थे त्वयि भारत। अवसद्द्वारकामेत्य वृष्णिभिः परमार्चितः ॥१०-१२-११॥
स कदाचित्समुद्रान्ते वसन्द्रारवतीमनु। एक एकं समागम्य मामुवाच हसन्निव ॥१०-१२-१२॥
यत्तदुग्रं तपः कृष्ण चरन्सत्यपराक्रमः। अगस्त्याद्भारताचार्यः प्रत्यपद्यत मे पिता ॥१०-१२-१३॥
अस्त्रं ब्रह्मशिरो नाम देवगन्धर्वपूजितम्। तदद्य मयि दाशार्ह यथा पितरि मे तथा ॥१०-१२-१४॥
अस्मत्तस्तदुपादाय दिव्यमस्त्रं यदूत्तम। ममाप्यस्त्रं प्रयच्छ त्वं चक्रं रिपुहरं रणे ॥१०-१२-१५॥
स राजन्प्रीयमाणेन मयाप्युक्तः कृताञ्जलिः। याचमानः प्रयत्नेन मत्तोऽस्त्रं भरतर्षभ ॥१०-१२-१६॥
देवदानवगन्धर्वमनुष्यपतगोरगाः। न समा मम वीर्यस्य शतांशेनापि पिण्डिताः ॥१०-१२-१७॥
इदं धनुरियं शक्तिरिदं चक्रमियं गदा। यद्यदिच्छसि चेदस्त्रं मत्तस्तत्तद्ददानि ते ॥१०-१२-१८॥
यच्छक्नोषि समुद्यन्तुं प्रयोक्तुमपि वा रणे। तद्गृहाण विनास्त्रेण यन्मे दातुमभीप्ससि ॥१०-१२-१९॥
स सुनाभं सहस्रारं वज्रनाभमयस्मयम्। वव्रे चक्रं महाबाहो स्पर्धमानो मया सह ॥१०-१२-२०॥
गृहाण चक्रमित्युक्तो मया तु तदनन्तरम्। जग्राहोपेत्य सहसा चक्रं सव्येन पाणिना ॥ न चैतदशकत्स्थानात्सञ्चालयितुमच्युत ॥१०-१२-२१॥
अथ तद्दक्षिणेनापि ग्रहीतुमुपचक्रमे। सर्वयत्नेन तेनापि गृह्णन्नेतदकल्पयत् ॥१०-१२-२२॥
ततः सर्वबलेनापि यच्चैतन्न शशाक सः। उद्धर्तुं वा चालयितुं द्रौणिः परमदुर्मनाः ॥ कृत्वा यत्नं परं श्रान्तः स न्यवर्तत भारत ॥१०-१२-२३॥
निवृत्तमथ तं तस्मादभिप्रायाद्विचेतसम्। अहमामन्त्र्य सुस्निग्धमश्वत्थामानमब्रुवम् ॥१०-१२-२४॥
यः स देवमनुष्येषु प्रमाणं परमं गतः। गाण्डीवधन्वा श्वेताश्वः कपिप्रवरकेतनः ॥१०-१२-२५॥
यः साक्षाद्देवदेवेशं शितिकण्ठमुमापतिम्। द्वंद्वयुद्धे पराजिष्णुस्तोषयामास शङ्करम् ॥१०-१२-२६॥
यस्मात्प्रियतरो नास्ति ममान्यः पुरुषो भुवि। नादेयं यस्य मे किञ्चिदपि दाराः सुतास्तथा ॥१०-१२-२७॥
तेनापि सुहृदा ब्रह्मन्पार्थेनाक्लिष्टकर्मणा। नोक्तपुर्वमिदं वाक्यं यत्त्वं मामभिभाषसे ॥१०-१२-२८॥
ब्रह्मचर्यं महद्घोरं चीर्त्वा द्वादशवार्षिकम्। हिमवत्पार्श्वमभ्येत्य यो मया तपसार्चितः ॥१०-१२-२९॥
समानव्रतचारिण्यां रुक्मिण्यां योऽन्वजायत। सनत्कुमारस्तेजस्वी प्रद्युम्नो नाम मे सुतः ॥१०-१२-३०॥
तेनाप्येतन्महद्दिव्यं चक्रमप्रतिमं मम। न प्रार्थितमभून्मूढ यदिदं प्रार्थितं त्वया ॥१०-१२-३१॥
रामेणातिबलेनैतन्नोक्तपूर्वं कदाचन। न गदेन न साम्बेन यदिदं प्रार्थितं त्वया ॥१०-१२-३२॥
द्वारकावासिभिश्चान्यैर्वृष्ण्यन्धकमहारथैः। नोक्तपूर्वमिदं जातु यदिदं प्रार्थितं त्वया ॥१०-१२-३३॥
भारताचार्यपुत्रः सन्मानितः सर्वयादवैः। चक्रेण रथिनां श्रेष्ठ किं नु तात युयुत्ससे ॥१०-१२-३४॥
एवमुक्तो मया द्रौणिर्मामिदं प्रत्युवाच ह। प्रयुज्य भवते पूजां योत्स्ये कृष्ण त्वयेत्युत ॥१०-१२-३५॥
ततस्ते प्रार्थितं चक्रं देवदानवपूजितम्। अजेयः स्यामिति विभो सत्यमेतद्ब्रवीमि ते ॥१०-१२-३६॥
त्वत्तोऽहं दुर्लभं काममनवाप्यैव केशव। प्रतियास्यामि गोविन्द शिवेनाभिवदस्व माम् ॥१०-१२-३७॥
एतत्सुनाभं वृष्णीनामृषभेण त्वया धृतम्। चक्रमप्रतिचक्रेण भुवि नान्योऽभिपद्यते ॥१०-१२-३८॥
एतावदुक्त्वा द्रौणिर्मां युग्यमश्वान्धनानि च। आदायोपययौ बालो रत्नानि विविधानि च ॥१०-१२-३९॥
स संरम्भी दुरात्मा च चपलः क्रूर एव च। वेद चास्त्रं ब्रह्मशिरस्तस्माद्रक्ष्यो वृकोदरः ॥१०-१२-४०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.