10.017
Pancharatra-Ext and Core: Yudhishthira asks Krishna as to why Ashwatthama was able to cause such destruction, including the killing of the very powerful Dhrushtadyumna. Krishna responds by narrating how Ashwatthama sought refuge under Lord Shiva and Lord Shiva's glory.
वैशम्पायन उवाच॥
हतेषु सर्वसैन्येषु सौप्तिके तै रथैस्त्रिभिः। शोचन्युधिष्ठिरो राजा दाशार्हमिदमब्रवीत् ॥१०-१७-१॥
कथं नु कृष्ण पापेन क्षुद्रेणाक्लिष्टकर्मणा। द्रौणिना निहताः सर्वे मम पुत्रा महारथाः ॥१०-१७-२॥
तथा कृतास्त्रा विक्रान्ताः सहस्रशतयोधिनः। द्रुपदस्यात्मजाश्चैव द्रोणपुत्रेण पातिताः ॥१०-१७-३॥
यस्य द्रोणो महेष्वासो न प्रादादाहवे मुखम्। तं जघ्ने रथिनां श्रेष्ठं धृष्टद्युम्नं कथं नु सः ॥१०-१७-४॥
किं नु तेन कृतं कर्म तथायुक्तं नरर्षभ। यदेकः शिबिरं सर्वमवधीन्नो गुरोः सुतः ॥१०-१७-५॥
वासुदेव उवाच॥
नूनं स देवदेवानामीश्वरेश्वरमव्ययम्। जगाम शरणं द्रौणिरेकस्तेनावधीद्बहून् ॥१०-१७-६॥
प्रसन्नो हि महादेवो दद्यादमरतामपि। वीर्यं च गिरिशो दद्याद्येनेन्द्रमपि शातयेत् ॥१०-१७-७॥
वेदाहं हि महादेवं तत्त्वेन भरतर्षभ। यानि चास्य पुराणानि कर्माणि विविधान्युत ॥१०-१७-८॥
आदिरेष हि भूतानां मध्यमन्तश्च भारत। विचेष्टते जगच्चेदं सर्वमस्यैव कर्मणा ॥१०-१७-९॥
एवं सिसृक्षुर्भूतानि ददर्श प्रथमं विभुः। पितामहोऽब्रवीच्चैनं भूतानि सृज माचिरम् ॥१०-१७-१०॥
हरिकेशस्तथेत्युक्त्वा भूतानां दोषदर्शिवान्। दीर्घकालं तपस्तेपे मग्नोऽम्भसि महातपाः ॥१०-१७-११॥
सुमहान्तं ततः कालं प्रतीक्ष्यैनं पितामहः। स्रष्टारं सर्वभूतानां ससर्ज मनसापरम् ॥१०-१७-१२॥
सोऽब्रवीत्पितरं दृष्ट्वा गिरिशं मग्नमम्भसि। यदि मे नाग्रजस्त्वन्यस्ततः स्रक्ष्याम्यहं प्रजाः ॥१०-१७-१३॥
तमब्रवीत्पिता नास्ति त्वदन्यः पुरुषोऽग्रजः। स्थाणुरेष जले मग्नो विस्रब्धः कुरु वै कृतिम् ॥१०-१७-१४॥
स भूतान्यसृजत्सप्त दक्षादींस्तु प्रजापतीन्। यैरिमं व्यकरोत्सर्वं भूतग्रामं चतुर्विधम् ॥१०-१७-१५॥
ताः सृष्टमात्राः क्षुधिताः प्रजाः सर्वाः प्रजापतिम्। बिभक्षयिषवो राजन्सहसा प्राद्रवंस्तदा ॥१०-१७-१६॥
स भक्ष्यमाणस्त्राणार्थी पितामहमुपाद्रवत्। आभ्यो मां भगवान्पातु वृत्तिरासां विधीयताम् ॥१०-१७-१७॥
ततस्ताभ्यो ददावन्नमोषधीः स्थावराणि च। जङ्गमानि च भूतानि दुर्बलानि बलीयसाम् ॥१०-१७-१८॥
विहितान्नाः प्रजास्तास्तु जग्मुस्तुष्टा यथागतम्। ततो ववृधिरे राजन्प्रीतिमत्यः स्वयोनिषु ॥१०-१७-१९॥
भूतग्रामे विवृद्धे तु तुष्टे लोकगुरावपि। उदतिष्ठज्जलाज्ज्येष्ठः प्रजाश्चेमा ददर्श सः ॥१०-१७-२०॥
बहुरूपाः प्रजा दृष्ट्वा विवृद्धाः स्वेन तेजसा। चुक्रोध भगवान्रुद्रो लिङ्गं स्वं चाप्यविध्यत ॥१०-१७-२१॥
तत्प्रविद्धं तदा भूमौ तथैव प्रत्यतिष्ठत। तमुवाचाव्ययो ब्रह्मा वचोभिः शमयन्निव ॥१०-१७-२२॥
किं कृतं सलिले शर्व चिरकालं स्थितेन ते। किमर्थं चैतदुत्पाट्य भूमौ लिङ्गं प्रवेरितम् ॥१०-१७-२३॥
सोऽब्रवीज्जातसंरम्भस्तदा लोकगुरुर्गुरुम्। प्रजाः सृष्टाः परेणेमाः किं करिष्याम्यनेन वै ॥१०-१७-२४॥
तपसाधिगतं चान्नं प्रजार्थं मे पितामह। ओषध्यः परिवर्तेरन्यथैव सततं प्रजाः ॥१०-१७-२५॥
एवमुक्त्वा तु सङ्क्रुद्धो जगाम विमना भवः। गिरेर्मुञ्जवतः पादं तपस्तप्तुं महातपाः ॥१०-१७-२६॥