11.027
Core and Pancharatra: All women perform water rites for their loved ones on the banks of the river Ganga. Kunti discloses Karna as her son and asks the Pandavas to perform his last rites accordingly.
वैशम्पायन उवाच॥
ते समासाद्य गङ्गां तु शिवां पुण्यजनोचिताम्। ह्रदिनीं वप्रसम्पन्नां महानूपां महावनाम् ॥११-२७-१॥
भूषणान्युत्तरीयाणि वेष्टनान्यवमुच्य च। ततः पितॄणां पौत्राणां भ्रातॄणां स्वजनस्य च ॥११-२७-२॥
पुत्राणामार्यकाणां च पतीनां च कुरुस्त्रियः। उदकं चक्रिरे सर्वा रुदन्त्यो भृशदुःखिताः ॥
उदके क्रियमाणे तु वीराणां वीरपत्निभिः। सूपतीर्थाभवद्गङ्गा भूयो विप्रससार च ॥११-२७-४॥
तन्महोदधिसङ्काशं निरानन्दमनुत्सवम्। वीरपत्नीभिराकीर्णं गङ्गातीरमशोभत ॥११-२७-५॥
ततः कुन्ती महाराज सहसा शोककर्शिता। रुदती मन्दया वाचा पुत्रान्वचनमब्रवीत् ॥११-२७-६॥
यः स शूरो महेष्वासो रथयूथपयूथपः। अर्जुनेन हतः सङ्ख्ये वीरलक्षणलक्षितः ॥११-२७-७॥
यं सूतपुत्रं मन्यध्वं राधेयमिति पाण्डवाः। यो व्यराजच्चमूमध्ये दिवाकर इव प्रभुः ॥११-२७-८॥
प्रत्ययुध्यत यः सर्वान्पुरा वः सपदानुगान्। दुर्योधनबलं सर्वं यः प्रकर्षन्व्यरोचत ॥११-२७-९॥
यस्य नास्ति समो वीर्ये पृथिव्यामपि कश्चन। सत्यसन्धस्य शूरस्य सङ्ग्रामेष्वपलायिनः ॥११-२७-१०॥
कुरुध्वमुदकं तस्य भ्रातुरक्लिष्टकर्मणः। स हि वः पूर्वजो भ्राता भास्करान्मय्यजायत ॥ कुण्डली कवची शूरो दिवाकरसमप्रभः ॥११-२७-११॥
श्रुत्वा तु पाण्डवाः सर्वे मातुर्वचनमप्रियम्। कर्णमेवानुशोचन्त भूयश्चार्ततराभवन् ॥११-२७-१२॥
ततः स पुरुषव्याघ्रः कुन्तीपुत्रो युधिष्ठिरः। उवाच मातरं वीरो निःश्वसन्निव पन्नगः ॥११-२७-१३॥
यस्येषुपातमासाद्य नान्यस्तिष्ठेद्धनञ्जयात्। कथं पुत्रो भवत्यां स देवगर्भः पुराभवत् ॥११-२७-१४॥
यस्य बाहुप्रतापेन तापिताः सर्वतो वयम्। तमग्निमिव वस्त्रेण कथं छादितवत्यसि ॥ यस्य बाहुबलं घोरं धार्तराष्ट्रैरुपासितम् ॥११-२७-१५॥
नान्यः कुन्तीसुतात्कर्णादगृह्णाद्रथिनां रथी। स नः प्रथमजो भ्राता सर्वशस्त्रभृतां वरः ॥ असूत तं भवत्यग्रे कथमद्भुतविक्रमम् ॥११-२७-१६॥
अहो भवत्या मन्त्रस्य पिधानेन वयं हताः। निधनेन हि कर्णस्य पीडिताः स्म सबान्धवाः ॥११-२७-१७॥
अभिमन्योर्विनाशेन द्रौपदेयवधेन च। पाञ्चालानां च नाशेन कुरूणां पतनेन च ॥११-२७-१८॥
ततः शतगुणं दुःखमिदं मामस्पृशद्भृशम्। कर्णमेवानुशोचन्हि दह्याम्यग्नाविवाहितः ॥११-२७-१९॥
न हि स्म किञ्चिदप्राप्यं भवेदपि दिवि स्थितम्। न च स्म वैशसं घोरं कौरवान्तकरं भवेत् ॥११-२७-२०॥
एवं विलप्य बहुलं धर्मराजो युधिष्ठिरः। विनदञ्शनकै राजंश्चकारास्योदकं प्रभुः ॥११-२७-२१॥
ततो विनेदुः सहसा स्त्रीपुंसास्तत्र सर्वशः। अभितो ये स्थितास्तत्र तस्मिन्नुदककर्मणि ॥११-२७-२२॥
तत आनाययामास कर्णस्य सपरिच्छदम्। स्त्रियः कुरुपतिर्धीमान्भ्रातुः प्रेम्णा युधिष्ठिरः ॥११-२७-२३॥
स ताभिः सह धर्मात्मा प्रेतकृत्यमनन्तरम्। कृत्वोत्ततार गङ्गायाः सलिलादाकुलेन्द्रियः ॥११-२७-२४॥