Mahabharata - Stree Parva (महाभारत - स्त्रीपर्वम्)
11.026
Core and Pancharatra: Krishna says all miseries due to war are self-caused; Yudhishthira describes how, based on the state of mind while dying, different warriors attained different worlds; Yudhishthira orders final rights for every dead body found on the battlefield.
वासुदेव उवाच॥
उत्तिष्ठोत्तिष्ठ गान्धारि मा च शोके मनः कृथाः। तवैव ह्यपराधेन कुरवो निधनं गताः ॥११-२६-१॥
या त्वं पुत्रं दुरात्मानमीर्षुमत्यन्तमानिनम्। दुर्योधनं पुरस्कृत्य दुष्कृतं साधु मन्यसे ॥११-२६-२॥
निष्ठुरं वैरपरुषं वृद्धानां शासनातिगम्। कथमात्मकृतं दोषं मय्याधातुमिहेच्छसि ॥११-२६-३॥
मृतं वा यदि वा नष्टं योऽतीतमनुशोचति। दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते ॥११-२६-४॥
तपोर्थीयं ब्राह्मणी धत्त गर्भं; गौर्वोढारं धावितारं तुरङ्गी। शूद्रा दासं पशुपालं तु वैश्या; वधार्थीयं त्वद्विधा राजपुत्री ॥११-२६-५॥
वैशम्पायन उवाच॥
तच्छ्रुत्वा वासुदेवस्य पुनरुक्तं वचोऽप्रियम्। तूष्णीं बभूव गान्धारी शोकव्याकुललोचना ॥११-२६-६॥
धृतराष्ट्रस्तु राजर्षिर्निगृह्याबुद्धिजं तमः। पर्यपृच्छत धर्मात्मा धर्मराजं युधिष्ठिरम् ॥११-२६-७॥
जीवतां परिमाणज्ञः सैन्यानामसि पाण्डव। हतानां यदि जानीषे परिमाणं वदस्व मे ॥११-२६-८॥
युधिष्ठिर उवाच॥
दशायुतानामयुतं सहस्राणि च विंशतिः। कोट्यः षष्टिश्च षट्चैव येऽस्मिन्राजमृधे हताः ॥११-२६-९॥
अलक्ष्याणां तु वीराणां सहस्राणि चतुर्दश। दश चान्यानि राजेन्द्र शतं षष्टिश्च पञ्च च ॥११-२६-१०॥
धृतराष्ट्र उवाच॥
युधिष्ठिर गतिं कां ते गताः पुरुषसत्तमाः। आचक्ष्व मे महाबाहो सर्वज्ञो ह्यसि मे मतः ॥११-२६-११॥
युधिष्ठिर उवाच॥
यैर्हुतानि शरीराणि हृष्टैः परमसंयुगे। देवराजसमाँल्लोकान्गतास्ते सत्यविक्रमाः ॥११-२६-१२॥
ये त्वहृष्टेन मनसा मर्तव्यमिति भारत। युध्यमाना हताः सङ्ख्ये ते गन्धर्वैः समागताः ॥११-२६-१३॥
ये तु सङ्ग्रामभूमिष्ठा याचमानाः पराङ्मुखाः। शस्त्रेण निधनं प्राप्ता गतास्ते गुह्यकान्प्रति ॥११-२६-१४॥
पीड्यमानाः परैर्ये तु हीयमाना निरायुधाः। ह्रीनिषेधा महात्मानः परानभिमुखा रणे ॥११-२६-१५॥
छिद्यमानाः शितैः शस्त्रैः क्षत्रधर्मपरायणाः। गतास्ते ब्रह्मसदनं हता वीराः सुवर्चसः ॥११-२६-१६॥
ये तत्र निहता राजन्नन्तरायोधनं प्रति। यथा कथञ्चित्ते राजन्सम्प्राप्ता उत्तरान्कुरून् ॥११-२६-१७॥
धृतराष्ट्र उवाच॥
केन ज्ञानबलेनैवं पुत्र पश्यसि सिद्धवत्। तन्मे वद महाबाहो श्रोतव्यं यदि वै मया ॥११-२६-१८॥
युधिष्ठिर उवाच॥
निदेशाद्भवतः पूर्वं वने विचरता मया। तीर्थयात्राप्रसङ्गेन सम्प्राप्तोऽयमनुग्रहः ॥११-२६-१९॥
देवर्षिर्लोमशो दृष्टस्ततः प्राप्तोऽस्म्यनुस्मृतिम्। दिव्यं चक्षुरपि प्राप्तं ज्ञानयोगेन वै पुरा ॥११-२६-२०॥
धृतराष्ट्र उवाच॥
येऽत्रानाथा जनस्यास्य सनाथा ये च भारत। कच्चित्तेषां शरीराणि धक्ष्यन्ति विधिपूर्वकम् ॥११-२६-२१॥
न येषां सन्ति कर्तारो न च येऽत्राहिताग्नयः। वयं च कस्य कुर्यामो बहुत्वात्तात कर्मणः ॥११-२६-२२॥
यान्सुपर्णाश्च गृध्राश्च विकर्षन्ति ततस्ततः। तेषां तु कर्मणा लोका भविष्यन्ति युधिष्ठिर ॥११-२६-२३॥
वैशम्पायन उवाच॥
एवमुक्तो महाप्राज्ञः कुन्तीपुत्रो युधिष्ठिरः। आदिदेश सुधर्माणं धौम्यं सूतं च सञ्जयम् ॥११-२६-२४॥
विदुरं च महाबुद्धिं युयुत्सुं चैव कौरवम्। इन्द्रसेनमुखांश्चैव भृत्यान्सूतांश्च सर्वशः ॥११-२६-२५॥
भवन्तः कारयन्त्वेषां प्रेतकार्याणि सर्वशः। यथा चानाथवत्किञ्चिच्छरीरं न विनश्यति ॥११-२६-२६॥
शासनाद्धर्मराजस्य क्षत्ता सूतश्च सञ्जयः। सुधर्मा धौम्यसहित इन्द्रसेनादयस्तथा ॥११-२६-२७॥
चन्दनागुरुकाष्ठानि तथा कालीयकान्युत। घृतं तैलं च गन्धांश्च क्षौमाणि वसनानि च ॥११-२६-२८॥
समाहृत्य महार्हाणि दारूणां चैव सञ्चयान्। रथांश्च मृदितांस्तत्र नानाप्रहरणानि च ॥११-२६-२९॥
चिताः कृत्वा प्रयत्नेन यथामुख्यान्नराधिपान्। दाहयामासुरव्यग्रा विधिदृष्टेन कर्मणा ॥११-२६-३०॥
दुर्योधनं च राजानं भ्रातॄंश्चास्य शताधिकान्। शल्यं शलं च राजानं भूरिश्रवसमेव च ॥११-२६-३१॥
जयद्रथं च राजानमभिमन्युं च भारत। दौःशासनिं लक्ष्मणं च धृष्टकेतुं च पार्थिवम् ॥११-२६-३२॥
बृहन्तं सोमदत्तं च सृञ्जयांश्च शताधिकान्। राजानं क्षेमधन्वानं विराटद्रुपदौ तथा ॥११-२६-३३॥
शिखण्डिनं च पाञ्चाल्यं धृष्टद्युम्नं च पार्षतम्। युधामन्युं च विक्रान्तमुत्तमौजसमेव च ॥११-२६-३४॥
कौसल्यं द्रौपदेयांश्च शकुनिं चापि सौबलम्। अचलं वृषकं चैव भगदत्तं च पार्थिवम् ॥११-२६-३५॥
कर्णं वैकर्तनं चैव सहपुत्रममर्षणम्। केकयांश्च महेष्वासांस्त्रिगर्तांश्च महारथान् ॥११-२६-३६॥
घटोत्कचं राक्षसेन्द्रं बकभ्रातरमेव च। अलम्बुसं च राजानं जलसन्धं च पार्थिवम् ॥११-२६-३७॥
अन्यांश्च पार्थिवान्राजञ्शतशोऽथ सहस्रशः। घृतधाराहुतैर्दीप्तैः पावकैः समदाहयन् ॥११-२६-३८॥
पितृमेधाश्च केषाञ्चिदवर्तन्त महात्मनाम्। सामभिश्चाप्यगायन्त तेऽन्वशोच्यन्त चापरैः ॥११-२६-३९॥
साम्नामृचां च नादेन स्त्रीणां च रुदितस्वनैः। कश्मलं सर्वभूतानां निशायां समपद्यत ॥११-२६-४०॥
ते विधूमाः प्रदीप्ताश्च दीप्यमानाश्च पावकाः। नभसीवान्वदृश्यन्त ग्रहास्तन्वभ्रसंवृताः ॥११-२६-४१॥
ये चाप्यनाथास्तत्रासन्नानादेशसमागताः। तांश्च सर्वान्समानाय्य राशीन्कृत्वा सहस्रशः ॥११-२६-४२॥
चित्वा दारुभिरव्यग्रः प्रभूतैः स्नेहतापितैः। दाहयामास विदुरो धर्मराजस्य शासनात् ॥११-२६-४३॥
कारयित्वा क्रियास्तेषां कुरुराजो युधिष्ठिरः। धृतराष्ट्रं पुरस्कृत्य गङ्गामभिमुखोऽगमत् ॥११-२६-४४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.