Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.015
वैशम्पायन उवाच॥
याज्ञसेन्या वचः श्रुत्वा पुनरेवार्जुनोऽब्रवीत्। अनुमान्य महाबाहुं ज्येष्ठं भ्रातरमीश्वरम् ॥१२-१५-१॥
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति। दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ॥१२-१५-२॥
धर्मं संरक्षते दण्डस्तथैवार्थं नराधिप। कामं संरक्षते दण्डस्त्रिवर्गो दण्ड उच्यते ॥१२-१५-३॥
दण्डेन रक्ष्यते धान्यं धनं दण्डेन रक्ष्यते। एतद्विद्वन्नुपादत्स्व स्वभावं पश्य लौकिकम् ॥१२-१५-४॥
राजदण्डभयादेके पापाः पापं न कुर्वते। यमदण्डभयादेके परलोकभयादपि ॥१२-१५-५॥
परस्परभयादेके पापाः पापं न कुर्वते। एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम् ॥१२-१५-६॥
दण्डस्यैव भयादेके न खादन्ति परस्परम्। अन्धे तमसि मज्जेयुर्यदि दण्डो न पालयेत् ॥१२-१५-७॥
यस्माददान्तान्दमयत्यशिष्टान्दण्डयत्यपि। दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः ॥१२-१५-८॥
वाचि दण्डो ब्राह्मणानां क्षत्रियाणां भुजार्पणम्। दानदण्डः स्मृतो वैश्यो निर्दण्डः शूद्र उच्यते ॥१२-१५-९॥
असंमोहाय मर्त्यानामर्थसंरक्षणाय च। मर्यादा स्थापिता लोके दण्डसञ्ज्ञा विशां पते ॥१२-१५-१०॥
यत्र श्यामो लोहिताक्षो दण्डश्चरति सूनृतः। प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ॥१२-१५-११॥
ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः। दण्डस्यैव भयादेते मनुष्या वर्त्मनि स्थिताः ॥१२-१५-१२॥
नाभीतो यजते राजन्नाभीतो दातुमिच्छति। नाभीतः पुरुषः कश्चित्समये स्थातुमिच्छति ॥१२-१५-१३॥
नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम्। नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम् ॥१२-१५-१४॥
नाघ्नतः कीर्तिरस्तीह न वित्तं न पुनः प्रजाः। इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत ॥१२-१५-१५॥
य एव देवा हन्तारस्ताँल्लोकोऽर्चयते भृशम्। हन्ता रुद्रस्तथा स्कन्दः शक्रोऽग्निर्वरुणो यमः ॥१२-१५-१६॥
हन्ता कालस्तथा वायुर्मृत्युर्वैश्रवणो रविः। वसवो मरुतः साध्या विश्वेदेवाश्च भारत ॥१२-१५-१७॥
एतान्देवान्नमस्यन्ति प्रतापप्रणता जनाः। न ब्रह्माणं न धातारं न पूषाणं कथञ्चन ॥१२-१५-१८॥
मध्यस्थान्सर्वभूतेषु दान्ताञ्शमपरायणान्। यजन्ते मानवाः केचित्प्रशान्ताः सर्वकर्मसु ॥१२-१५-१९॥
न हि पश्यामि जीवन्तं लोके कञ्चिदहिंसया। सत्त्वैः सत्त्वानि जीवन्ति दुर्बलैर्बलवत्तराः ॥१२-१५-२०॥
नकुलो मूषकानत्ति बिडालो नकुलं तथा। बिडालमत्ति श्वा राजञ्श्वानं व्यालमृगस्तथा ॥१२-१५-२१॥
तानत्ति पुरुषः सर्वान्पश्य धर्मो यथागतः। प्राणस्यान्नमिदं सर्वं जङ्गमं स्थावरं च यत् ॥१२-१५-२२॥
विधानं देवविहितं तत्र विद्वान्न मुह्यति। यथा सृष्टोऽसि राजेन्द्र तथा भवितुमर्हसि ॥१२-१५-२३॥
विनीतक्रोधहर्षा हि मन्दा वनमुपाश्रिताः। विना वधं न कुर्वन्ति तापसाः प्राणयापनम् ॥१२-१५-२४॥
उदके बहवः प्राणाः पृथिव्यां च फलेषु च। न च कश्चिन्न तान्हन्ति किमन्यत्प्राणयापनात् ॥१२-१५-२५॥
सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानिचित्। पक्ष्मणोऽपि निपातेन येषां स्यात्स्कन्धपर्ययः ॥१२-१५-२६॥
ग्रामान्निष्क्रम्य मुनयो विगतक्रोधमत्सराः। वने कुटुम्बधर्माणो दृश्यन्ते परिमोहिताः ॥१२-१५-२७॥
भूमिं भित्त्वौषधीश्छित्त्वा वृक्षादीनण्डजान्पशून्। मनुष्यास्तन्वते यज्ञांस्ते स्वर्गं प्राप्नुवन्ति च ॥१२-१५-२८॥
दण्डनीत्यां प्रणीतायां सर्वे सिध्यन्त्युपक्रमाः। कौन्तेय सर्वभूतानां तत्र मे नास्ति संशयः ॥१२-१५-२९॥
दण्डश्चेन्न भवेल्लोके व्यनशिष्यन्निमाः प्रजाः। शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः ॥१२-१५-३०॥
सत्यं चेदं ब्रह्मणा पूर्वमुक्तं; दण्डः प्रजा रक्षति साधु नीतः। पश्याग्नयश्च प्रतिशाम्यन्त्यभीताः; सन्तर्जिता दण्डभयाज्ज्वलन्ति ॥१२-१५-३१॥
अन्धं तम इवेदं स्यान्न प्रज्ञायेत किञ्चन। दण्डश्चेन्न भवेल्लोके विभजन्साध्वसाधुनी ॥१२-१५-३२॥
येऽपि सम्भिन्नमर्यादा नास्तिका वेदनिन्दकाः। तेऽपि भोगाय कल्पन्ते दण्डेनोपनिपीडिताः ॥१२-१५-३३॥
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः। दण्डस्य हि भयाद्भीतो भोगायेह प्रकल्पते ॥१२-१५-३४॥
चातुर्वर्ण्याप्रमोहाय सुनीतनयनाय च। दण्डो विधात्रा विहितो धर्मार्थावभिरक्षितुम् ॥१२-१५-३५॥
यदि दण्डान्न बिभ्येयुर्वयांसि श्वापदानि च। अद्युः पशून्मनुष्यांश्च यज्ञार्थानि हवींषि च ॥१२-१५-३६॥
न ब्रह्मचार्यधीयीत कल्याणी गौर्न दुह्यते। न कन्योद्वहनं गच्छेद्यदि दण्डो न पालयेत् ॥१२-१५-३७॥
विश्वलोपः प्रवर्तेत भिद्येरन्सर्वसेतवः। ममत्वं न प्रजानीयुर्यदि दण्डो न पालयेत् ॥१२-१५-३८॥
न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः। विधिवद्दक्षिणावन्ति यदि दण्डो न पालयेत् ॥१२-१५-३९॥
चरेयुर्नाश्रमे धर्मं यथोक्तं विधिमाश्रिताः। न विद्यां प्राप्नुयात्कश्चिद्यदि दण्डो न पालयेत् ॥१२-१५-४०॥
न चोष्ट्रा न बलीवर्दा नाश्वाश्वतरगर्दभाः। युक्ता वहेयुर्यानानि यदि दण्डो न पालयेत् ॥१२-१५-४१॥
न प्रेष्या वचनं कुर्युर्न बालो जातु कर्हिचित्। तिष्ठेत्पितृमते धर्मे यदि दण्डो न पालयेत् ॥१२-१५-४२॥
दण्डे स्थिताः प्रजाः सर्वा भयं दण्डं विदुर्बुधाः। दण्डे स्वर्गो मनुष्याणां लोकोऽयं च प्रतिष्ठितः ॥१२-१५-४३॥
न तत्र कूटं पापं वा वञ्चना वापि दृष्यते। यत्र दण्डः सुविहितश्चरत्यरिविनाशनः ॥१२-१५-४४॥
हविः श्वा प्रपिबेद्धृष्टो दण्डश्चेन्नोद्यतो भवेत्। हरेत्काकः पुरोडाशं यदि दण्डो न पालयेत् ॥१२-१५-४५॥
यदिदं धर्मतो राज्यं विहितं यद्यधर्मतः। कार्यस्तत्र न शोको वै भुङ्क्ष्व भोगान्यजस्व च ॥१२-१५-४६॥
सुखेन धर्मं श्रीमन्तश्चरन्ति शुचिवाससः। संवसन्तः प्रियैर्दारैर्भुञ्जानाश्चान्नमुत्तमम् ॥१२-१५-४७॥
अर्थे सर्वे समारम्भाः समायत्ता न संशयः। स च दण्डे समायत्तः पश्य दण्डस्य गौरवम् ॥१२-१५-४८॥
लोकयात्रार्थमेवेह धर्मप्रवचनं कृतम्। अहिंसा साधुहिंसेति श्रेयान्धर्मपरिग्रहः ॥१२-१५-४९॥
नात्यन्तगुणवान्कश्चिन्न चाप्यत्यन्तनिर्गुणः। उभयं सर्वकार्येषु दृश्यते साध्वसाधु च ॥१२-१५-५०॥
पशूनां वृषणं छित्त्वा ततो भिन्दन्ति नस्तकान्। कृषन्ति बहवो भारान्बध्नन्ति दमयन्ति च ॥१२-१५-५१॥
एवं पर्याकुले लोके विपथे जर्जरीकृते। तैस्तैर्न्यायैर्महाराज पुराणं धर्ममाचर ॥१२-१५-५२॥
यज देहि प्रजा रक्ष धर्मं समनुपालय। अमित्राञ्जहि कौन्तेय मित्राणि परिपालय ॥१२-१५-५३॥
मा च ते निघ्नतः शत्रून्मन्युर्भवतु भारत। न तत्र किल्बिषं किञ्चित्कर्तुर्भवति भारत ॥१२-१५-५४॥
आततायी हि यो हन्यादाततायिनमागतम्। न तेन भ्रूणहा स स्यान्मन्युस्तं मन्युमृच्छति ॥१२-१५-५५॥
अवध्यः सर्वभूतानामन्तरात्मा न संशयः। अवध्ये चात्मनि कथं वध्यो भवति केनचित् ॥१२-१५-५६॥
यथा हि पुरुषः शालां पुनः सम्प्रविशेन्नवाम्। एवं जीवः शरीराणि तानि तानि प्रपद्यते ॥१२-१५-५७॥
देहान्पुराणानुत्सृज्य नवान्सम्प्रतिपद्यते। एवं मृत्युमुखं प्राहुर्ये जनास्तत्त्वदर्शिनः ॥१२-१५-५८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.