Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.048
Pancharatra and Library: On the way to the Kurukshetra battlefield, Yudhishthira enquires about five lakes and the incident related to Parashurama destroying the warrior class.
वैशम्पायन उवाच॥
ततः स च हृषीकेशः स च राजा युधिष्ठिरः। कृपादयश्च ते सर्वे चत्वारः पाण्डवाश्च ह ॥१२-४८-१॥
रथैस्ते नगराकारैः पताकाध्वजशोभितैः। ययुराशु कुरुक्षेत्रं वाजिभिः शीघ्रगामिभिः ॥१२-४८-२॥
तेऽवतीर्य कुरुक्षेत्रं केशमज्जास्थिसङ्कुलम्। देहन्यासः कृतो यत्र क्षत्रियैस्तैर्महात्मभिः ॥१२-४८-३॥
गजाश्वदेहास्थिचयैः पर्वतैरिव सञ्चितम्। नरशीर्षकपालैश्च शङ्खैरिव समाचितम् ॥१२-४८-४॥
चितासहस्रैर्निचितं वर्मशस्त्रसमाकुलम्। आपानभूमिं कालस्य तदा भुक्तोज्झितामिव ॥१२-४८-५॥
भूतसङ्घानुचरितं रक्षोगणनिषेवितम्। पश्यन्तस्ते कुरुक्षेत्रं ययुराशु महारथाः ॥१२-४८-६॥
गच्छन्नेव महाबाहुः सर्वयादवनन्दनः। युधिष्ठिराय प्रोवाच जामदग्न्यस्य विक्रमम् ॥१२-४८-७॥
अमी रामह्रदाः पञ्च दृश्यन्ते पार्थ दूरतः। येषु सन्तर्पयामास पूर्वान्क्षत्रियशोणितैः ॥१२-४८-८॥
त्रिःसप्तकृत्वो वसुधां कृत्वा निःक्षत्रियां प्रभुः। इहेदानीं ततो रामः कर्मणो विरराम ह ॥१२-४८-९॥
युधिष्ठिर उवाच॥
त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया तदा। रामेणेति यदात्थ त्वमत्र मे संशयो महान् ॥१२-४८-१०॥
क्षत्रबीजं यदा दग्धं रामेण यदुपुङ्गव। कथं भूयः समुत्पत्तिः क्षत्रस्यामितविक्रम ॥१२-४८-११॥
महात्मना भगवता रामेण यदुपुङ्गव। कथमुत्सादितं क्षत्रं कथं वृद्धिं पुनर्गतम् ॥१२-४८-१२॥
महाभारतयुद्धे हि कोटिशः क्षत्रिया हताः। तथाभूच्च मही कीर्णा क्षत्रियैर्वदतां वर ॥१२-४८-१३॥
एवं मे छिन्धि वार्ष्णेय संशयं तार्क्ष्यकेतन। आगमो हि परः कृष्ण त्वत्तो नो वासवानुज ॥१२-४८-१४॥
वैशम्पायन उवाच॥
ततो व्रजन्नेव गदाग्रजः प्रभुः; शशंस तस्मै निखिलेन तत्त्वतः। युधिष्ठिरायाप्रतिमौजसे तदा; यथाभवत्क्षत्रियसङ्कुला मही ॥१२-४८-१५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.