Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.047
Pancharatra: Hymns of praise sung by Bhishma on Lord Krishna, composed by Vyasa. Krishna along with the Pandavas start their journey towards Bhishma.
जनमेजय उवाच॥
शरतल्पे शयानस्तु भरतानां पितामहः। कथमुत्सृष्टवान्देहं कं च योगमधारयत् ॥१२-४७-१॥
वैशम्पायन उवाच॥
शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः। भीष्मस्य कुरुशार्दूल देहोत्सर्गं महात्मनः ॥१२-४७-२॥
निवृत्तमात्रे त्वयन उत्तरे वै दिवाकरे। समावेशयदात्मानमात्मन्येव समाहितः ॥१२-४७-३॥
विकीर्णांशुरिवादित्यो भीष्मः शरशतैश्चितः। शिश्ये परमया लक्ष्म्या वृतो ब्राह्मणसत्तमैः ॥१२-४७-४॥
व्यासेन वेदश्रवसा नारदेन सुरर्षिणा। देवस्थानेन वात्स्येन तथाश्मकसुमन्तुना ॥१२-४७-५॥
एतैश्चान्यैर्मुनिगणैर्महाभागैर्महात्मभिः। श्रद्धादमपुरस्कारैर्वृतश्चन्द्र इव ग्रहैः ॥१२-४७-६॥
भीष्मस्तु पुरुषव्याघ्रः कर्मणा मनसा गिरा। शरतल्पगतः कृष्णं प्रदध्यौ प्राञ्जलिः स्थितः ॥१२-४७-७॥
स्वरेण पुष्टनादेन तुष्टाव मधुसूदनम्। योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम् ॥१२-४७-८॥
कृताञ्जलिः शुचिर्भूत्वा वाग्विदां प्रवरः प्रभुम्। भीष्मः परमधर्मात्मा वासुदेवमथास्तुवत् ॥१२-४७-९॥
आरिराधयिषुः कृष्णं वाचं जिगमिषामि याम्। तया व्याससमासिन्या प्रीयतां पुरुषोत्तमः ॥१२-४७-१०॥
शुचिः शुचिषदं हंसं तत्परः परमेष्ठिनम्। युक्त्वा सर्वात्मनात्मानं तं प्रपद्ये प्रजापतिम् ॥१२-४७-११॥
यस्मिन्विश्वानि भूतानि तिष्ठन्ति च विशन्ति च। गुणभूतानि भूतेशे सूत्रे मणिगणा इव ॥१२-४७-१२॥
यस्मिन्नित्ये तते तन्तौ दृढे स्रगिव तिष्ठति। सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि ॥१२-४७-१३॥
हरिं सहस्रशिरसं सहस्रचरणेक्षणम्। प्राहुर्नारायणं देवं यं विश्वस्य परायणम् ॥१२-४७-१४॥
अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम्। गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि ॥१२-४७-१५॥
यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च। गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु ॥१२-४७-१६॥
चतुर्भिश्चतुरात्मानं सत्त्वस्थं सात्वतां पतिम्। यं दिव्यैर्देवमर्चन्ति गुह्यैः परमनामभिः ॥१२-४७-१७॥
यं देवं देवकी देवी वसुदेवादजीजनत्। भौमस्य ब्रह्मणो गुप्त्यै दीप्तमग्निमिवारणिः ॥१२-४७-१८॥
यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम्। इष्ट्वानन्त्याय गोविन्दं पश्यत्यात्मन्यवस्थितम् ॥१२-४७-१९॥
पुराणे पुरुषः प्रोक्तो ब्रह्मा प्रोक्तो युगादिषु। क्षये सङ्कर्षणः प्रोक्तस्तमुपास्यमुपास्महे ॥१२-४७-२०॥
अतिवाय्विन्द्रकर्माणमतिसूर्याग्नितेजसम्। अतिबुद्धीन्द्रियात्मानं तं प्रपद्ये प्रजापतिम् ॥१२-४७-२१॥
यं वै विश्वस्य कर्तारं जगतस्तस्थुषां पतिम्। वदन्ति जगतोऽध्यक्षमक्षरं परमं पदम् ॥१२-४७-२२॥
हिरण्यवर्णं यं गर्भमदितिर्दैत्यनाशनम्। एकं द्वादशधा जज्ञे तस्मै सूर्यात्मने नमः ॥१२-४७-२३॥
शुक्ले देवान्पितॄन्कृष्णे तर्पयत्यमृतेन यः। यश्च राजा द्विजातीनां तस्मै सोमात्मने नमः ॥१२-४७-२४॥
महतस्तमसः पारे पुरुषं ज्वलनद्युतिम्। यं ज्ञात्वा मृत्युमत्येति तस्मै ज्ञेयात्मने नमः ॥१२-४७-२५॥
यं बृहन्तं बृहत्युक्थे यमग्नौ यं महाध्वरे। यं विप्रसङ्घा गायन्ति तस्मै वेदात्मने नमः ॥१२-४७-२६॥
ऋग्यजुःसामधामानं दशार्धहविराकृतिम्। यं सप्ततन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः ॥१२-४७-२७॥
यः सुपर्णो यजुर्नाम छन्दोगात्रस्त्रिवृच्छिराः। रथन्तरबृहत्यक्षस्तस्मै स्तोत्रात्मने नमः ॥१२-४७-२८॥
यः सहस्रसवे सत्रे जज्ञे विश्वसृजामृषिः। हिरण्यवर्णः शकुनिस्तस्मै हंसात्मने नमः ॥१२-४७-२९॥
पदाङ्गं सन्धिपर्वाणं स्वरव्यञ्जनलक्षणम्। यमाहुरक्षरं नित्यं तस्मै वागात्मने नमः ॥१२-४७-३०॥
यश्चिनोति सतां सेतुमृतेनामृतयोनिना। धर्मार्थव्यवहाराङ्गैस्तस्मै सत्यात्मने नमः ॥१२-४७-३१॥
यं पृथग्धर्मचरणाः पृथग्धर्मफलैषिणः। पृथग्धर्मैः समर्चन्ति तस्मै धर्मात्मने नमः ॥१२-४७-३२॥
यं तं व्यक्तस्थमव्यक्तं विचिन्वन्ति महर्षयः। क्षेत्रे क्षेत्रज्ञमासीनं तस्मै क्षेत्रात्मने नमः ॥१२-४७-३३॥
यं दृगात्मानमात्मस्थं वृतं षोडशभिर्गुणैः। प्राहुः सप्तदशं साङ्ख्यास्तस्मै साङ्ख्यात्मने नमः ॥१२-४७-३४॥
यं विनिद्रा जितश्वासाः सत्त्वस्थाः संयतेन्द्रियाः। ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥१२-४७-३५॥
अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः। शान्ताः संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः ॥१२-४७-३६॥
योऽसौ युगसहस्रान्ते प्रदीप्तार्चिर्विभावसुः। सम्भक्षयति भूतानि तस्मै घोरात्मने नमः ॥१२-४७-३७॥
सम्भक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत्। बालः स्वपिति यश्चैकस्तस्मै मायात्मने नमः ॥१२-४७-३८॥
सहस्रशिरसे तस्मै पुरुषायामितात्मने। चतुःसमुद्रपर्याययोगनिद्रात्मने नमः ॥१२-४७-३९॥
अजस्य नाभावध्येकं यस्मिन्विश्वं प्रतिष्ठितम्। पुष्करं पुष्कराक्षस्य तस्मै पद्मात्मने नमः ॥१२-४७-४०॥
यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु। कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः ॥१२-४७-४१॥
युगेष्वावर्तते योंऽशैर्दिनर्त्वनयहायनैः। सर्गप्रलययोः कर्ता तस्मै कालात्मने नमः ॥१२-४७-४२॥
ब्रह्म वक्त्रं भुजौ क्षत्रं कृत्स्नमूरूदरं विशः। पादौ यस्याश्रिताः शूद्रास्तस्मै वर्णात्मने नमः ॥१२-४७-४३॥
यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः। सूर्यश्चक्षुर्दिशः श्रोत्रे तस्मै लोकात्मने नमः ॥१२-४७-४४॥
विषये वर्तमानानां यं तं वैशेषिकैर्गुणैः। प्राहुर्विषयगोप्तारं तस्मै गोप्त्रात्मने नमः ॥१२-४७-४५॥
अन्नपानेन्धनमयो रसप्राणविवर्धनः। यो धारयति भूतानि तस्मै प्राणात्मने नमः ॥१२-४७-४६॥
परः कालात्परो यज्ञात्परः सदसतोश्च यः। अनादिरादिर्विश्वस्य तस्मै विश्वात्मने नमः ॥१२-४७-४७॥
यो मोहयति भूतानि स्नेहरागानुबन्धनैः। सर्गस्य रक्षणार्थाय तस्मै मोहात्मने नमः ॥१२-४७-४८॥
आत्मज्ञानमिदं ज्ञानं ज्ञात्वा पञ्चस्ववस्थितम्। यं ज्ञानिनोऽधिगच्छन्ति तस्मै ज्ञानात्मने नमः ॥१२-४७-४९॥
अप्रमेयशरीराय सर्वतोऽनन्तचक्षुषे। अपारपरिमेयाय तस्मै चिन्त्यात्मने नमः ॥१२-४७-५०॥
जटिने दण्डिने नित्यं लम्बोदरशरीरिणे। कमण्डलुनिषङ्गाय तस्मै ब्रह्मात्मने नमः ॥१२-४७-५१॥
शूलिने त्रिदशेशाय त्र्यम्बकाय महात्मने। भस्मदिग्धोर्ध्वलिङ्गाय तस्मै रुद्रात्मने नमः ॥१२-४७-५२॥
पञ्चभूतात्मभूताय भूतादिनिधनात्मने। अक्रोधद्रोहमोहाय तस्मै शान्तात्मने नमः ॥१२-४७-५३॥
यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः। यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः ॥१२-४७-५४॥
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसम्भव। अपवर्गोऽसि भूतानां पञ्चानां परतः स्थितः ॥१२-४७-५५॥
नमस्ते त्रिषु लोकेषु नमस्ते परतस्त्रिषु। नमस्ते दिक्षु सर्वासु त्वं हि सर्वपरायणम् ॥१२-४७-५६॥
नमस्ते भगवन्विष्णो लोकानां प्रभवाप्यय। त्वं हि कर्ता हृषीकेश संहर्ता चापराजितः ॥१२-४७-५७॥
तेन पश्यामि ते दिव्यान्भावान्हि त्रिषु वर्त्मसु। तच्च पश्यामि तत्त्वेन यत्ते रूपं सनातनम् ॥१२-४७-५८॥
दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुन्धरा। विक्रमेण त्रयो लोकाः पुरुषोऽसि सनातनः ॥१२-४७-५९॥
अतसीपुष्पसङ्काशं पीतवाससमच्युतम्। ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम् ॥१२-४७-६०॥
यथा विष्णुमयं सत्यं यथा विष्णुमयं हविः। यथा विष्णुमयं सर्वं पाप्मा मे नश्यतां तथा ॥१२-४७-६१॥
त्वां प्रपन्नाय भक्ताय गतिमिष्टां जिगीषवे। यच्छ्रेयः पुण्डरीकाक्ष तद्ध्यायस्व सुरोत्तम ॥१२-४७-६२॥
इति विद्यातपोयोनिरयोनिर्विष्णुरीडितः। वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः ॥१२-४७-६३॥
एतावदुक्त्वा वचनं भीष्मस्तद्गतमानसः। नम इत्येव कृष्णाय प्रणाममकरोत्तदा ॥१२-४७-६४॥
अभिगम्य तु योगेन भक्तिं भीष्मस्य माधवः। त्रैकाल्यदर्शनं ज्ञानं दिव्यं दातुं ययौ हरिः ॥१२-४७-६५॥
तस्मिन्नुपरते शब्दे ततस्ते ब्रह्मवादिनः। भीष्मं वाग्भिर्बाष्पकण्ठास्तमानर्चुर्महामतिम् ॥१२-४७-६६॥
ते स्तुवन्तश्च विप्राग्र्याः केशवं पुरुषोत्तमम्। भीष्मं च शनकैः सर्वे प्रशशंसुः पुनः पुनः ॥१२-४७-६७॥
विदित्वा भक्तियोगं तु भीष्मस्य पुरुषोत्तमः। सहसोत्थाय संहृष्टो यानमेवान्वपद्यत ॥१२-४७-६८॥
केशवः सात्यकिश्चैव रथेनैकेन जग्मतुः। अपरेण महात्मानौ युधिष्ठिरधनञ्जयौ ॥१२-४७-६९॥
भीमसेनो यमौ चोभौ रथमेकं समास्थितौ। कृपो युयुत्सुः सूतश्च सञ्जयश्चापरं रथम् ॥१२-४७-७०॥
ते रथैर्नगराकारैः प्रयाताः पुरुषर्षभाः। नेमिघोषेण महता कम्पयन्तो वसुन्धराम् ॥१२-४७-७१॥
ततो गिरः पुरुषवरस्तवान्विता; द्विजेरिताः पथि सुमनाः स शुश्रुवे। कृताञ्जलिं प्रणतमथापरं जनं; स केशिहा मुदितमनाभ्यनन्दत ॥१२-४७-७२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.