12.050
Pancharatra: Krishna praises Bhishma for his knowledge and ask him to dispel the doubts of King Yudhishthira.
वैशम्पायन उवाच॥
ततो रामस्य तत्कर्म श्रुत्वा राजा युधिष्ठिरः। विस्मयं परमं गत्वा प्रत्युवाच जनार्दनम् ॥१२-५०-१॥
अहो रामस्य वार्ष्णेय शक्रस्येव महात्मनः। विक्रमो येन वसुधा क्रोधान्निःक्षत्रिया कृता ॥१२-५०-२॥
गोभिः समुद्रेण तथा गोलाङ्गूलर्क्षवानरैः। गुप्ता रामभयोद्विग्नाः क्षत्रियाणां कुलोद्वहाः ॥१२-५०-३॥
अहो धन्यो हि लोकोऽयं सभाग्याश्च नरा भुवि। यत्र कर्मेदृशं धर्म्यं द्विजेन कृतमच्युत ॥१२-५०-४॥
तथा यान्तौ तदा तात तावच्युतयुधिष्ठिरौ। जग्मतुर्यत्र गाङ्गेयः शरतल्पगतः प्रभुः ॥१२-५०-५॥
ततस्ते ददृशुर्भीष्मं शरप्रस्तरशायिनम्। स्वरश्मिजालसंवीतं सायंसूर्यमिवानलम् ॥१२-५०-६॥
उपास्यमानं मुनिभिर्देवैरिव शतक्रतुम्। देशे परमधर्मिष्ठे नदीमोघवतीमनु ॥१२-५०-७॥
दूरादेव तमालोक्य कृष्णो राजा च धर्मराट्। चत्वारः पाण्डवाश्चैव ते च शारद्वतादयः ॥१२-५०-८॥
अवस्कन्द्याथ वाहेभ्यः संयम्य प्रचलं मनः। एकीकृत्येन्द्रियग्राममुपतस्थुर्महामुनीन् ॥१२-५०-९॥
अभिवाद्य च गोविन्दः सात्यकिस्ते च कौरवाः। व्यासादींस्तानृषीन्पश्चाद्गाङ्गेयमुपतस्थिरे ॥१२-५०-१०॥
तपोवृद्धिं ततः पृष्ट्वा गाङ्गेयं यदुकौरवाः। परिवार्य ततः सर्वे निषेदुः पुरुषर्षभाः ॥१२-५०-११॥
ततो निशम्य गाङ्गेयं शाम्यमानमिवानलम्। किञ्चिद्दीनमना भीष्ममिति होवाच केशवः ॥१२-५०-१२॥
कच्चिज्ज्ञानानि ते राजन्प्रसन्नानि यथा पुरा। कच्चिदव्याकुला चैव बुद्धिस्ते वदतां वर ॥१२-५०-१३॥
शराभिघातदुःखात्ते कच्चिद्गात्रं न दूयते। मानसादपि दुःखाद्धि शारीरं बलवत्तरम् ॥१२-५०-१४॥
वरदानात्पितुः कामं छन्दमृत्युरसि प्रभो। शन्तनोर्धर्मशीलस्य न त्वेतच्छमकारणम् ॥१२-५०-१५॥
सुसूक्ष्मोऽपीह देहे वै शल्यो जनयते रुजम्। किं पुनः शरसङ्घातैश्चितस्य तव भारत ॥१२-५०-१६॥
कामं नैतत्तवाख्येयं प्राणिनां प्रभवाप्ययौ। भवान्ह्युपदिशेच्छ्रेयो देवानामपि भारत ॥१२-५०-१७॥
यद्धि भूतं भविष्यच्च भवच्च पुरुषर्षभ। सर्वं तज्ज्ञानवृद्धस्य तव पाणाविवाहितम् ॥१२-५०-१८॥
संसारश्चैव भूतानां धर्मस्य च फलोदयः। विदितस्ते महाप्राज्ञ त्वं हि ब्रह्ममयो निधिः ॥१२-५०-१९॥
त्वां हि राज्ये स्थितं स्फीते समग्राङ्गमरोगिणम्। स्त्रीसहस्रैः परिवृतं पश्यामीहोर्ध्वरेतसम् ॥१२-५०-२०॥
ऋते शान्तनवाद्भीष्मात्त्रिषु लोकेषु पार्थिव। सत्यसन्धान्महावीर्याच्छूराद्धर्मैकतत्परात् ॥१२-५०-२१॥
मृत्युमावार्य तरसा शरप्रस्तरशायिनः। निसर्गप्रभवं किञ्चिन्न च तातानुशुश्रुम ॥१२-५०-२२॥
सत्ये तपसि दाने च यज्ञाधिकरणे तथा। धनुर्वेदे च वेदे च नित्यं चैवान्ववेक्षणे ॥१२-५०-२३॥
अनृशंसं शुचिं दान्तं सर्वभूतहिते रतम्। महारथं त्वत्सदृशं न कञ्चिदनुशुश्रुम ॥१२-५०-२४॥
त्वं हि देवान्सगन्धर्वान्ससुरासुरराक्षसान्। शक्त एकरथेनैव विजेतुं नात्र संशयः ॥१२-५०-२५॥
त्वं हि भीष्म महाबाहो वसूनां वासवोपमः। नित्यं विप्रैः समाख्यातो नवमोऽनवमो गुणैः ॥१२-५०-२६॥
अहं हि त्वाभिजानामि यस्त्वं पुरुषसत्तम। त्रिदशेष्वपि विख्यातः स्वशक्त्या सुमहाबलः ॥१२-५०-२७॥
मनुष्येषु मनुष्येन्द्र न दृष्टो न च मे श्रुतः। भवतो यो गुणैस्तुल्यः पृथिव्यां पुरुषः क्वचित् ॥१२-५०-२८॥
त्वं हि सर्वैर्गुणै राजन्देवानप्यतिरिच्यसे। तपसा हि भवाञ्शक्तः स्रष्टुं लोकांश्चराचरान् ॥१२-५०-२९॥
तदस्य तप्यमानस्य ज्ञातीनां सङ्क्षयेण वै। ज्येष्ठस्य पाण्डुपुत्रस्य शोकं भीष्म व्यपानुद ॥१२-५०-३०॥
ये हि धर्माः समाख्याताश्चातुर्वर्ण्यस्य भारत। चातुराश्रम्यसंसृष्टास्ते सर्वे विदितास्तव ॥१२-५०-३१॥
चातुर्वेद्ये च ये प्रोक्ताश्चातुर्होत्रे च भारत। साङ्ख्ये योगे च नियता ये च धर्माः सनातनाः ॥१२-५०-३२॥
चातुर्वर्ण्येन यश्चैको धर्मो न स्म विरुध्यते। सेव्यमानः स चैवाद्यो गाङ्गेय विदितस्तव ॥१२-५०-३३॥
इतिहासपुराणं च कार्त्स्न्येन विदितं तव। धर्मशास्त्रं च सकलं नित्यं मनसि ते स्थितम् ॥१२-५०-३४॥
ये च केचन लोकेऽस्मिन्नर्थाः संशयकारकाः। तेषां छेत्ता नास्ति लोके त्वदन्यः पुरुषर्षभ ॥१२-५०-३५॥
स पाण्डवेयस्य मनःसमुत्थितं; नरेन्द्र शोकं व्यपकर्ष मेधया। भवद्विधा ह्युत्तमबुद्धिविस्तरा; विमुह्यमानस्य जनस्य शान्तये ॥१२-५०-३६॥