12.051
Pancharatra: Bhishma recognizes and worships Krishna as Lord Vishnu. Krishna requests Bhishma to impart the vast knowledge he has to Yudhishthira.
वैशम्पायन उवाच॥
श्रुत्वा तु वचनं भीष्मो वासुदेवस्य धीमतः। किञ्चिदुन्नाम्य वदनं प्राञ्जलिर्वाक्यमब्रवीत् ॥१२-५१-१॥
नमस्ते भगवन्विष्णो लोकानां निधनोद्भव। त्वं हि कर्ता हृषीकेश संहर्ता चापराजितः ॥१२-५१-२॥
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसम्भव। अपवर्गोऽसि भूतानां पञ्चानां परतः स्थितः ॥१२-५१-३॥
नमस्ते त्रिषु लोकेषु नमस्ते परतस्त्रिषु। योगेश्वर नमस्तेऽस्तु त्वं हि सर्वपरायणम् ॥१२-५१-४॥
मत्संश्रितं यदात्थ त्वं वचः पुरुषसत्तम। तेन पश्यामि ते दिव्यान्भावान्हि त्रिषु वर्त्मसु ॥१२-५१-५॥
तच्च पश्यामि तत्त्वेन यत्ते रूपं सनातनम्। सप्त मार्गा निरुद्धास्ते वायोरमिततेजसः ॥१२-५१-६॥
दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुन्धरा। दिशो भुजौ रविश्चक्षुर्वीर्ये शक्रः प्रतिष्ठितः ॥१२-५१-७॥
अतसीपुष्पसङ्काशं पीतवाससमच्युतम्। वपुर्ह्यनुमिमीमस्ते मेघस्येव सविद्युतः ॥१२-५१-८॥
त्वत्प्रपन्नाय भक्ताय गतिमिष्टां जिगीषवे। यच्छ्रेयः पुण्डरीकाक्ष तद्ध्यायस्व सुरोत्तम ॥१२-५१-९॥
वासुदेव उवाच॥
यतः खलु परा भक्तिर्मयि ते पुरुषर्षभ। ततो वपुर्मया दिव्यं तव राजन्प्रदर्शितम् ॥१२-५१-१०॥
न ह्यभक्ताय राजेन्द्र भक्तायानृजवे न च। दर्शयाम्यहमात्मानं न चादान्ताय भारत ॥१२-५१-११॥
भवांस्तु मम भक्तश्च नित्यं चार्जवमास्थितः। दमे तपसि सत्ये च दाने च निरतः शुचिः ॥१२-५१-१२॥
अर्हस्त्वं भीष्म मां द्रष्टुं तपसा स्वेन पार्थिव। तव ह्युपस्थिता लोका येभ्यो नावर्तते पुनः ॥१२-५१-१३॥
पञ्चाशतं षट्च कुरुप्रवीर; शेषं दिनानां तव जीवितस्य। ततः शुभैः कर्मफलोदयैस्त्वं; समेष्यसे भीष्म विमुच्य देहम् ॥१२-५१-१४॥
एते हि देवा वसवो विमाना; न्यास्थाय सर्वे ज्वलिताग्निकल्पाः। अन्तर्हितास्त्वां प्रतिपालयन्ति; काष्ठां प्रपद्यन्तमुदक्पतङ्गम् ॥१२-५१-१५॥
व्यावृत्तमात्रे भगवत्युदीचीं; सूर्ये दिशं कालवशात्प्रपन्ने। गन्तासि लोकान्पुरुषप्रवीर; नावर्तते यानुपलभ्य विद्वान् ॥१२-५१-१६॥
अमुं च लोकं त्वयि भीष्म याते; ज्ञानानि नङ्क्ष्यन्त्यखिलेन वीर। अतः स्म सर्वे त्वयि संनिकर्षं; समागता धर्मविवेचनाय ॥१२-५१-१७॥
तज्ज्ञातिशोकोपहतश्रुताय; सत्याभिसन्धाय युधिष्ठिराय। प्रब्रूहि धर्मार्थसमाधियुक्त; मर्थ्यं वचोऽस्यापनुदास्य शोकम् ॥१२-५१-१८॥