Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.055
Core and Pancharatra: Bhishma says Yudhishthira should only ask the questions directly, and then he will answer. Accordingly, Yudhishthira comes forward and takes his blessings.
वैशम्पायन उवाच॥
अथाब्रवीन्महातेजा वाक्यं कौरवनन्दनः। हन्त धर्मान्प्रवक्ष्यामि दृढे वाङ्मनसी मम ॥ तव प्रसादाद्गोविन्द भूतात्मा ह्यसि शाश्वतः ॥१२-५५-१॥
युधिष्ठिरस्तु मां राजा धर्मान्समनुपृच्छतु। एवं प्रीतो भविष्यामि धर्मान्वक्ष्यामि चानघ ॥१२-५५-२॥
यस्मिन्राजर्षभे जाते धर्मात्मनि महात्मनि। अहृष्यन्नृषयः सर्वे स मां पृच्छतु पाण्डवः ॥१२-५५-३॥
सर्वेषां दीप्तयशसां कुरूणां धर्मचारिणाम्। यस्य नास्ति समः कश्चित्स मां पृच्छतु पाण्डवः ॥१२-५५-४॥
धृतिर्दमो ब्रह्मचर्यं क्षमा धर्मश्च नित्यदा। यस्मिन्नोजश्च तेजश्च स मां पृच्छतु पाण्डवः ॥१२-५५-५॥
सत्यं दानं तपः शौचं शान्तिर्दाक्ष्यमसम्भ्रमः। यस्मिन्नेतानि सर्वाणि स मां पृच्छतु पाण्डवः ॥१२-५५-६॥
यो न कामान्न संरम्भान्न भयान्नार्थकारणात्। कुर्यादधर्मं धर्मात्मा स मां पृच्छतु पाण्डवः ॥१२-५५-७॥
सम्बन्धिनोऽतिथीन्भृत्यान्संश्रितोपाश्रितांश्च यः। संमानयति सत्कृत्य स मां पृच्छतु पाण्डवः ॥१२-५५-८॥
सत्यनित्यः क्षमानित्यो ज्ञाननित्योऽतिथिप्रियः। यो ददाति सतां नित्यं स मां पृच्छतु पाण्डवः ॥१२-५५-९॥
इज्याध्ययननित्यश्च धर्मे च निरतः सदा। शान्तः श्रुतरहस्यश्च स मां पृच्छतु पाण्डवः ॥१२-५५-१०॥
वासुदेव उवाच॥
लज्जया परयोपेतो धर्मात्मा स युधिष्ठिरः। अभिशापभयाद्भीतो भवन्तं नोपसर्पति ॥१२-५५-११॥
लोकस्य कदनं कृत्वा लोकनाथो विशां पते। अभिशापभयाद्भीतो भवन्तं नोपसर्पति ॥१२-५५-१२॥
पूज्यान्मान्यांश्च भक्तांश्च गुरून्सम्बन्धिबान्धवान्। अर्घ्यार्हानिषुभिर्हत्वा भवन्तं नोपसर्पति ॥१२-५५-१३॥
भीष्म उवाच॥
ब्राह्मणानां यथा धर्मो दानमध्ययनं तपः। क्षत्रियाणां तथा कृष्ण समरे देहपातनम् ॥१२-५५-१४॥
पितॄन्पितामहान्पुत्रान्गुरून्सम्बन्धिबान्धवान्। मिथ्याप्रवृत्तान्यः सङ्ख्ये निहन्याद्धर्म एव सः ॥१२-५५-१५॥
समयत्यागिनो लुब्धान्गुरूनपि च केशव। निहन्ति समरे पापान्क्षत्रियो यः स धर्मवित् ॥१२-५५-१६॥
आहूतेन रणे नित्यं योद्धव्यं क्षत्रबन्धुना। धर्म्यं स्वर्ग्यं च लोक्यं च युद्धं हि मनुरब्रवीत् ॥१२-५५-१७॥
वैशम्पायन उवाच॥
एवमुक्तस्तु भीष्मेण धर्मराजो युधिष्ठिरः। विनीतवदुपागम्य तस्थौ संदर्शनेऽग्रतः ॥१२-५५-१८॥
अथास्य पादौ जग्राह भीष्मश्चाभिननन्द तम्। मूर्ध्नि चैनमुपाघ्राय निषीदेत्यब्रवीत्तदा ॥१२-५५-१९॥
तमुवाचाथ गाङ्गेय ऋषभः सर्वधन्विनाम्। पृच्छ मां तात विस्रब्धं मा भैस्त्वं कुरुसत्तम ॥१२-५५-२०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.