12.056
Pancharatra: Bhishma starts instructing Yudhishthira the kingly duties: restraint is regarded as the means of governance; royal duties in the world dispel the path of inauspiciousness; prosperity is never attained by fate alone, but only through effort; when an undertaking fails, do not grieve, humility is the highest policy; there is no greater cause for trust than truth; gentle and harsh - practice both qualities; human fortress is the most difficult to overcome; king must act for the welfare of his subjects without self care.
वैशम्पायन उवाच॥
प्रणिपत्य हृषीकेशमभिवाद्य पितामहम्। अनुमान्य गुरून्सर्वान्पर्यपृच्छद्युधिष्ठिरः ॥१२-५६-१॥
राज्यं वै परमो धर्म इति धर्मविदो विदुः। महान्तमेतं भारं च मन्ये तद्ब्रूहि पार्थिव ॥१२-५६-२॥
राजधर्मान्विशेषेण कथयस्व पितामह। सर्वस्य जीवलोकस्य राजधर्माः परायणम् ॥१२-५६-३॥
त्रिवर्गोऽत्र समासक्तो राजधर्मेषु कौरव। मोक्षधर्मश्च विस्पष्टः सकलोऽत्र समाहितः ॥१२-५६-४॥
यथा हि रश्मयोऽश्वस्य द्विरदस्याङ्कुशो यथा। नरेन्द्रधर्मो लोकस्य तथा प्रग्रहणं स्मृतम् ॥१२-५६-५॥
अत्र वै सम्प्रमूढे तु धर्मे राजर्षिसेविते। लोकस्य संस्था न भवेत्सर्वं च व्याकुलं भवेत् ॥१२-५६-६॥
उदयन्हि यथा सूर्यो नाशयत्यासुरं तमः। राजधर्मास्तथालोक्यामाक्षिपन्त्यशुभां गतिम् ॥१२-५६-७॥
तदग्रे राजधर्माणामर्थतत्त्वं पितामह। प्रब्रूहि भरतश्रेष्ठ त्वं हि बुद्धिमतां वरः ॥१२-५६-८॥
आगमश्च परस्त्वत्तः सर्वेषां नः परन्तप। भवन्तं हि परं बुद्धौ वासुदेवोऽभिमन्यते ॥१२-५६-९॥
भीष्म उवाच॥
नमो धर्माय महते नमः कृष्णाय वेधसे। ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान् ॥१२-५६-१०॥
शृणु कार्त्स्न्येन मत्तस्त्वं राजधर्मान्युधिष्ठिर। निरुच्यमानान्नियतो यच्चान्यदभिवाञ्छसि ॥१२-५६-११॥
आदावेव कुरुश्रेष्ठ राज्ञा रञ्जनकाम्यया। देवतानां द्विजानां च वर्तितव्यं यथाविधि ॥१२-५६-१२॥
दैवतान्यर्चयित्वा हि ब्राह्मणांश्च कुरूद्वह। आनृण्यं याति धर्मस्य लोकेन च स मान्यते ॥१२-५६-१३॥
उत्थाने च सदा पुत्र प्रयतेथा युधिष्ठिर। न ह्युत्थानमृते दैवं राज्ञामर्थप्रसिद्धये ॥१२-५६-१४॥
साधारणं द्वयं ह्येतद्दैवमुत्थानमेव च। पौरुषं हि परं मन्ये दैवं निश्चित्यमुच्यते ॥१२-५६-१५॥
विपन्ने च समारम्भे सन्तापं मा स्म वै कृथाः। घटते विनयस्तात राज्ञामेष नयः परः ॥१२-५६-१६॥
न हि सत्यादृते किञ्चिद्राज्ञां वै सिद्धिकारणम्। सत्ये हि राजा निरतः प्रेत्य चेह च नन्दति ॥१२-५६-१७॥
ऋषीणामपि राजेन्द्र सत्यमेव परं धनम्। तथा राज्ञः परं सत्यान्नान्यद्विश्वासकारणम् ॥१२-५६-१८॥
गुणवाञ्शीलवान्दान्तो मृदुर्धर्म्यो जितेन्द्रियः। सुदर्शः स्थूललक्ष्यश्च न भ्रश्येत सदा श्रियः ॥१२-५६-१९॥
आर्जवं सर्वकार्येषु श्रयेथाः कुरुनन्दन। पुनर्नयविचारेण त्रयीसंवरणेन च ॥१२-५६-२०॥
मृदुर्हि राजा सततं लङ्घ्यो भवति सर्वशः। तीक्ष्णाच्चोद्विजते लोकस्तस्मादुभयमाचर ॥१२-५६-२१॥
अदण्ड्याश्चैव ते नित्यं विप्राः स्युर्ददतां वर। भूतमेतत्परं लोके ब्राह्मणा नाम भारत ॥१२-५६-२२॥
मनुना चापि राजेन्द्र गीतौ श्लोकौ महात्मना। धर्मेषु स्वेषु कौरव्य हृदि तौ कर्तुमर्हसि ॥१२-५६-२३॥
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्। तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥१२-५६-२४॥
अयो हन्ति यदाश्मानमग्निश्चापोऽभिपद्यते। ब्रह्म च क्षत्रियो द्वेष्टि तदा सीदन्ति ते त्रयः ॥१२-५६-२५॥
एतज्ज्ञात्वा महाराज नमस्या एव ते द्विजाः। भौमं ब्रह्म द्विजश्रेष्ठा धारयन्ति शमान्विताः ॥१२-५६-२६॥
एवं चैव नरव्याघ्र लोकतन्त्रविघातकाः। निग्राह्या एव सततं बाहुभ्यां ये स्युरीदृशाः ॥१२-५६-२७॥
श्लोकौ चोशनसा गीतौ पुरा तात महर्षिणा। तौ निबोध महाप्राज्ञ त्वमेकाग्रमना नृप ॥१२-५६-२८॥
उद्यम्य शस्त्रमायान्तमपि वेदान्तगं रणे। निगृह्णीयात्स्वधर्मेण धर्मापेक्षी नरेश्वरः ॥१२-५६-२९॥
विनश्यमानं धर्मं हि यो रक्षति स धर्मवित्। न तेन भ्रूणहा स स्यान्मन्युस्तं मनुमृच्छति ॥१२-५६-३०॥
एवं चैव नरश्रेष्ठ रक्ष्या एव द्विजातयः। स्वपराद्धानपि हि तान्विषयान्ते समुत्सृजेत् ॥१२-५६-३१॥
अभिशस्तमपि ह्येषां कृपायीत विशां पते। ब्रह्मघ्ने गुरुतल्पे च भ्रूणहत्ये तथैव च ॥१२-५६-३२॥
राजद्विष्टे च विप्रस्य विषयान्ते विसर्जनम्। विधीयते न शारीरं भयमेषां कदाचन ॥१२-५६-३३॥
दयिताश्च नरास्ते स्युर्नित्यं पुरुषसत्तम। न कोशः परमो ह्यन्यो राज्ञां पुरुषसञ्चयात् ॥१२-५६-३४॥
दुर्गेषु च महाराज षट्सु ये शास्त्रनिश्चिताः। सर्वेषु तेषु मन्यन्ते नरदुर्गं सुदुस्तरम् ॥१२-५६-३५॥
तस्मान्नित्यं दया कार्या चातुर्वर्ण्ये विपश्चिता। धर्मात्मा सत्यवाक्चैव राजा रञ्जयति प्रजाः ॥१२-५६-३६॥
न च क्षान्तेन ते भाव्यं नित्यं पुरुषसत्तम। अधर्म्यो हि मृदू राजा क्षमावानिव कुञ्जरः ॥१२-५६-३७॥
बार्हस्पत्ये च शास्त्रे वै श्लोका विनियताः पुरा। अस्मिन्नर्थे महाराज तन्मे निगदतः शृणु ॥१२-५६-३८॥
क्षममाणं नृपं नित्यं नीचः परिभवेज्जनः। हस्तियन्ता गजस्येव शिर एवारुरुक्षति ॥१२-५६-३९॥
तस्मान्नैव मृदुर्नित्यं तीक्ष्णो वापि भवेन्नृपः। वसन्तेऽर्क इव श्रीमान्न शीतो न च घर्मदः ॥१२-५६-४०॥
प्रत्यक्षेणानुमानेन तथौपम्योपदेशतः। परीक्ष्यास्ते महाराज स्वे परे चैव सर्वदा ॥१२-५६-४१॥
व्यसनानि च सर्वाणि त्यजेथा भूरिदक्षिण। न चैव न प्रयुञ्जीत सङ्गं तु परिवर्जयेत् ॥१२-५६-४२॥
नित्यं हि व्यसनी लोके परिभूतो भवत्युत। उद्वेजयति लोकं चाप्यतिद्वेषी महीपतिः ॥१२-५६-४३॥
भवितव्यं सदा राज्ञा गर्भिणीसहधर्मिणा। कारणं च महाराज शृणु येनेदमिष्यते ॥१२-५६-४४॥
यथा हि गर्भिणी हित्वा स्वं प्रियं मनसोऽनुगम्। गर्भस्य हितमाधत्ते तथा राज्ञाप्यसंशयम् ॥१२-५६-४५॥
वर्तितव्यं कुरुश्रेष्ठ नित्यं धर्मानुवर्तिना। स्वं प्रियं समभित्यज्य यद्यल्लोकहितं भवेत् ॥१२-५६-४६॥
न सन्त्याज्यं च ते धैर्यं कदाचिदपि पाण्डव। धीरस्य स्पष्टदण्डस्य न ह्याज्ञा प्रतिहन्यते ॥१२-५६-४७॥
परिहासश्च भृत्यैस्ते न नित्यं वदतां वर। कर्तव्यो राजशार्दूल दोषमत्र हि मे शृणु ॥१२-५६-४८॥
अवमन्यन्ति भर्तारं संहर्षादुपजीविनः। स्वे स्थाने न च तिष्ठन्ति लङ्घयन्ति हि तद्वचः ॥१२-५६-४९॥
प्रेष्यमाणा विकल्पन्ते गुह्यं चाप्यनुयुञ्जते। अयाच्यं चैव याचन्तेऽभोज्यान्याहारयन्ति च ॥१२-५६-५०॥
क्रुध्यन्ति परिदीप्यन्ति भूमिमध्यासतेऽस्य च। उत्कोचैर्वञ्चनाभिश्च कार्याण्यनुविहन्ति च ॥१२-५६-५१॥
जर्जरं चास्य विषयं कुर्वन्ति प्रतिरूपकैः। स्त्रीरक्षिभिश्च सज्जन्ते तुल्यवेषा भवन्ति च ॥१२-५६-५२॥
वातं च ष्ठीवनं चैव कुर्वते चास्य संनिधौ। निर्लज्जा नरशार्दूल व्याहरन्ति च तद्वचः ॥१२-५६-५३॥
हयं वा दन्तिनं वापि रथं नृपतिसंमतम्। अधिरोहन्त्यनादृत्य हर्षुले पार्थिवे मृदौ ॥१२-५६-५४॥
इदं ते दुष्करं राजन्निदं ते दुर्विचेष्टितम्। इत्येवं सुहृदो नाम ब्रुवन्ति परिषद्गताः ॥१२-५६-५५॥
क्रुद्धे चास्मिन्हसन्त्येव न च हृष्यन्ति पूजिताः। सङ्घर्षशीलाश्च सदा भवन्त्यन्योन्यकारणात् ॥१२-५६-५६॥
विस्रंसयन्ति मन्त्रं च विवृण्वन्ति च दुष्कृतम्। लीलया चैव कुर्वन्ति सावज्ञास्तस्य शासनम् ॥ अलङ्करणभोज्यं च तथा स्नानानुलेपनम् ॥१२-५६-५७॥
हेलमाना नरव्याघ्र स्वस्थास्तस्योपशृण्वते। निन्दन्ति स्वानधीकारान्सन्त्यजन्ति च भारत ॥१२-५६-५८॥
न वृत्त्या परितुष्यन्ति राजदेयं हरन्ति च। क्रीडितुं तेन चेच्छन्ति ससूत्रेणेव पक्षिणा ॥ अस्मत्प्रणेयो राजेति लोके चैव वदन्त्युत ॥१२-५६-५९॥
एते चैवापरे चैव दोषाः प्रादुर्भवन्त्युत। नृपतौ मार्दवोपेते हर्षुले च युधिष्ठिर ॥१२-५६-६०॥