12.155
भीष्म उवाच॥
सर्वमेतत्तपोमूलं कवयः परिचक्षते। न ह्यतप्ततपा मूढः क्रियाफलमवाप्यते ॥१२-१५५-१॥
प्रजापतिरिदं सर्वं तपसैवासृजत्प्रभुः। तथैव वेदानृषयस्तपसा प्रतिपेदिरे ॥१२-१५५-२॥
तपसो ह्यानुपूर्व्येण फलमूलानिलाशनाः। त्रीँल्लोकांस्तपसा सिद्धाः पश्यन्ति सुसमाहिताः ॥१२-१५५-३॥
औषधान्यगदादीनि तिस्रो विद्याश्च संस्कृताः। तपसैव हि सिध्यन्ति तपोमूलं हि साधनम् ॥१२-१५५-४॥
यद्दुरापं दुराम्नायं दुराधर्षं दुरुत्सहम्। सर्वं तत्तपसा शक्यं तपो हि दुरतिक्रमम् ॥१२-१५५-५॥
सुरापोऽसंमतादायी भ्रूणहा गुरुतल्पगः। तपसैव सुतप्तेन नरः पापाद्विमुच्यते ॥१२-१५५-६॥
तपसो बहुरूपस्य तैस्तैर्द्वारैः प्रवर्ततः। निवृत्त्या वर्तमानस्य तपो नानशनात्परम् ॥१२-१५५-७॥
अहिंसा सत्यवचनं दानमिन्द्रियनिग्रहः। एतेभ्यो हि महाराज तपो नानशनात्परम् ॥१२-१५५-८॥
न दुष्करतरं दानान्नातिमातरमाश्रमः। त्रैविद्येभ्यः परं नास्ति संन्यासः परमं तपः ॥१२-१५५-९॥
इन्द्रियाणीह रक्षन्ति धनधान्याभिगुप्तये। तस्मादर्थे च धर्मे च तपो नानशनात्परम् ॥१२-१५५-१०॥
ऋषयः पितरो देवा मनुष्या मृगसत्तमाः। यानि चान्यानि भूतानि स्थावराणि चराणि च ॥१२-१५५-११॥
तपःपरायणाः सर्वे सिध्यन्ति तपसा च ते। इत्येवं तपसा देवा महत्त्वं चाप्यवाप्नुवन् ॥१२-१५५-१२॥
इमानीष्टविभागानि फलानि तपसा सदा। तपसा शक्यते प्राप्तुं देवत्वमपि निश्चयात् ॥१२-१५५-१३॥