12.154
युधिष्ठिर उवाच॥
स्वाध्यायकृतयत्नस्य ब्राह्मणस्य पितामह। धर्मकामस्य धर्मात्मन्किं नु श्रेय इहोच्यते ॥१२-१५४-१॥
बहुधादर्शने लोके श्रेयो यदिह मन्यसे। अस्मिँल्लोके परे चैव तन्मे ब्रूहि पितामह ॥१२-१५४-२॥
महानयं धर्मपथो बहुशाखश्च भारत। किं स्विदेवेह धर्माणामनुष्ठेयतमं मतम् ॥१२-१५४-३॥
धर्मस्य महतो राजन्बहुशाखस्य तत्त्वतः। यन्मूलं परमं तात तत्सर्वं ब्रूह्यतन्द्रितः ॥१२-१५४-४॥
भीष्म उवाच॥
हन्त ते कथयिष्यामि येन श्रेयः प्रपत्स्यसे। पीत्वामृतमिव प्राज्ञो ज्ञानतृप्तो भविष्यसि ॥१२-१५४-५॥
धर्मस्य विधयो नैके ते ते प्रोक्ता महर्षिभिः। स्वं स्वं विज्ञानमाश्रित्य दमस्तेषां परायणम् ॥१२-१५४-६॥
दमं निःश्रेयसं प्राहुर्वृद्धा निश्चयदर्शिनः। ब्राह्मणस्य विशेषेण दमो धर्मः सनातनः ॥१२-१५४-७॥
नादान्तस्य क्रियासिद्धिर्यथावदुपलभ्यते। दमो दानं तथा यज्ञानधीतं चातिवर्तते ॥१२-१५४-८॥
दमस्तेजो वर्धयति पवित्रं च दमः परम्। विपाप्मा तेजसा युक्तः पुरुषो विन्दते महत् ॥१२-१५४-९॥
दमेन सदृशं धर्मं नान्यं लोकेषु शुश्रुम। दमो हि परमो लोके प्रशस्तः सर्वधर्मिणाम् ॥१२-१५४-१०॥
प्रेत्य चापि मनुष्येन्द्र परमं विन्दते सुखम्। दमेन हि समायुक्तो महान्तं धर्ममश्नुते ॥१२-१५४-११॥
सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते। सुखं पर्येति लोकांश्च मनश्चास्य प्रसीदति ॥१२-१५४-१२॥
अदान्तः पुरुषः क्लेशमभीक्ष्णं प्रतिपद्यते। अनर्थांश्च बहूनन्यान्प्रसृजत्यात्मदोषजान् ॥१२-१५४-१३॥
आश्रमेषु चतुर्ष्वाहुर्दममेवोत्तमं व्रतम्। तस्य लिङ्गानि वक्ष्यामि येषां समुदयो दमः ॥१२-१५४-१४॥
क्षमा धृतिरहिंसा च समता सत्यमार्जवम्। इन्द्रियावजयो दाक्ष्यं मार्दवं ह्रीरचापलम् ॥१२-१५४-१५॥
अकार्पण्यमसंरम्भः सन्तोषः प्रियवादिता। अविवित्सानसूया चाप्येषां समुदयो दमः ॥१२-१५४-१६॥
गुरुपूजा च कौरव्य दया भूतेष्वपैशुनम्। जनवादोऽमृषावादः स्तुतिनिन्दाविवर्जनम् ॥१२-१५४-१७॥
कामः क्रोधश्च लोभश्च दर्पः स्तम्भो विकत्थनम्। मोह ईर्ष्यावमानश्चेत्येतद्दान्तो न सेवते ॥१२-१५४-१८॥
अनिन्दितो ह्यकामात्माथाल्पेच्छोऽथानसूयकः। समुद्रकल्पः स नरो न कदाचन पूर्यते ॥१२-१५४-१९॥
अहं त्वयि मम त्वं च मयि ते तेषु चाप्यहम्। पूर्वसम्बन्धिसंयोगान्नैतद्दान्तो निषेवते ॥१२-१५४-२०॥
सर्वा ग्राम्यास्तथारण्या याश्च लोके प्रवृत्तयः। निन्दां चैव प्रशंसां च यो नाश्रयति मुच्यते ॥१२-१५४-२१॥
मैत्रोऽथ शीलसम्पन्नः सुसहायपरश्च यः। मुक्तश्च विविधैः सङ्गैस्तस्य प्रेत्य महत्फलम् ॥१२-१५४-२२॥
सुवृत्तः शीलसम्पन्नः प्रसन्नात्मात्मविद्बुधः। प्राप्येह लोके सत्कारं सुगतिं प्रतिपद्यते ॥१२-१५४-२३॥
कर्म यच्छुभमेवेह सद्भिराचरितं च यत्। तदेव ज्ञानयुक्तस्य मुनेर्धर्मो न हीयते ॥१२-१५४-२४॥
निष्क्रम्य वनमास्थाय ज्ञानयुक्तो जितेन्द्रियः। कालाकाङ्क्षी चरन्नेवं ब्रह्मभूयाय कल्पते ॥१२-१५४-२५॥
अभयं यस्य भूतेभ्यो भूतानामभयं यतः। तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन ॥१२-१५४-२६॥
अवाचिनोति कर्माणि न च सम्प्रचिनोति ह। समः सर्वेषु भूतेषु मैत्रायणगतिश्चरेत् ॥१२-१५४-२७॥
शकुनीनामिवाकाशे जले वारिचरस्य वा। यथा गतिर्न दृश्येत तथा तस्य न संशयः ॥१२-१५४-२८॥
गृहानुत्सृज्य यो राजन्मोक्षमेवाभिपद्यते। लोकास्तेजोमयास्तस्य कल्पन्ते शाश्वतीः समाः ॥१२-१५४-२९॥
संन्यस्य सर्वकर्माणि संन्यस्य विधिवत्तपः। संन्यस्य विविधा विद्याः सर्वं संन्यस्य चैव ह ॥१२-१५४-३०॥
कामेषु चाप्यनावृत्तः प्रसन्नात्मात्मविच्छुचिः। प्राप्येह लोके सत्कारं स्वर्गं समभिपद्यते ॥१२-१५४-३१॥
यच्च पैतामहं स्थानं ब्रह्मराशिसमुद्भवम्। गुहायां पिहितं नित्यं तद्दमेनाभिपद्यते ॥१२-१५४-३२॥
ज्ञानारामस्य बुद्धस्य सर्वभूताविरोधिनः। नावृत्तिभयमस्तीह परलोके भयं कुतः ॥१२-१५४-३३॥
एक एव दमे दोषो द्वितीयो नोपपद्यते। यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥१२-१५४-३४॥
एतस्य तु महाप्राज्ञ दोषस्य सुमहान्गुणः। क्षमायां विपुला लोकाः सुलभा हि सहिष्णुना ॥१२-१५४-३५॥
दान्तस्य किमरण्येन तथादान्तस्य भारत। यत्रैव हि वसेद्दान्तस्तदरण्यं स आश्रमः ॥१२-१५४-३६॥
वैशम्पायन उवाच॥
एतद्भीष्मस्य वचनं श्रुत्वा राजा युधिष्ठिरः। अमृतेनेव सन्तृप्तः प्रहृष्टः समपद्यत ॥१२-१५४-३७॥
पुनश्च परिपप्रच्छ भीष्मं धर्मभृतां वरम्। तपः प्रति स चोवाच तस्मै सर्वं कुरूद्वह ॥१२-१५४-३८॥