12.196
मनुरुवाच॥
यदिन्द्रियैस्तूपकृतान्पुरस्ता; त्प्राप्तान्गुणान्संस्मरते चिराय। तेष्विन्द्रियेषूपहतेषु पश्चा; त्स बुद्धिरूपः परमः स्वभावः ॥१२-१९६-१॥
यथेन्द्रियार्थान्युगपत्समस्ता; न्नावेक्षते कृत्स्नमतुल्यकालम्। यथाबलं सञ्चरते स विद्वां; स्तस्मात्स एकः परमः शरीरी ॥१२-१९६-२॥
रजस्तमः सत्त्वमथो तृतीयं; गच्छत्यसौ ज्ञानगुणान्विरूपान्। तथेन्द्रियाण्याविशते शरीरी; हुताशनं वायुरिवेन्धनस्थम् ॥१२-१९६-३॥
न चक्षुषा पश्यति रूपमात्मनो; न पश्यति स्पर्शमिन्द्रियेन्द्रियम्। न श्रोत्रलिङ्गं श्रवणे निदर्शनं; तथागतं पश्यति तद्विनश्यति ॥१२-१९६-४॥
श्रोत्रादीनि न पश्यन्ति स्वं स्वमात्मानमात्मना। सर्वज्ञः सर्वदर्शी च क्षेत्रज्ञस्तानि पश्यति ॥१२-१९६-५॥
यथा हिमवतः पार्श्वं पृष्ठं चन्द्रमसो यथा। न दृष्टपूर्वं मनुजैर्न च तन्नास्ति तावता ॥१२-१९६-६॥
तद्वद्भूतेषु भूतात्मा सूक्ष्मो ज्ञानात्मवानसौ। अदृष्टपूर्वश्चक्षुर्भ्यां न चासौ नास्ति तावता ॥१२-१९६-७॥
पश्यन्नपि यथा लक्ष्म जगत्सोमे न विन्दति। एवमस्ति न वेत्येतन्न च तन्न परायणम् ॥१२-१९६-८॥
रूपवन्तमरूपत्वादुदयास्तमये बुधाः। धिया समनुपश्यन्ति तद्गताः सवितुर्गतिम् ॥१२-१९६-९॥
तथा बुद्धिप्रदीपेन दूरस्थं सुविपश्चितः। प्रत्यासन्नं निनीषन्ति ज्ञेयं ज्ञानाभिसंहितम् ॥१२-१९६-१०॥
न हि खल्वनुपायेन कश्चिदर्थोऽभिसिध्यति। सूत्रजालैर्यथा मत्स्यान्बध्नन्ति जलजीविनः ॥१२-१९६-११॥
मृगैर्मृगाणां ग्रहणं पक्षिणां पक्षिभिर्यथा। गजानां च गजैरेवं ज्ञेयं ज्ञानेन गृह्यते ॥१२-१९६-१२॥
अहिरेव ह्यहेः पादान्पश्यतीति निदर्शनम्। तद्वन्मूर्तिषु मूर्तिष्ठं ज्ञेयं ज्ञानेन पश्यति ॥१२-१९६-१३॥
नोत्सहन्ते यथा वेत्तुमिन्द्रियैरिन्द्रियाण्यपि। तथैवेह परा बुद्धिः परं बुद्ध्या न पश्यति ॥१२-१९६-१४॥
यथा चन्द्रो ह्यमावास्यामलिङ्गत्वान्न दृश्यते। न च नाशोऽस्य भवति तथा विद्धि शरीरिणम् ॥१२-१९६-१५॥
क्षीणकोशो ह्यमावास्यां चन्द्रमा न प्रकाशते। तद्वन्मूर्तिवियुक्तः सञ्शरीरी नोपलभ्यते ॥१२-१९६-१६॥
यथा कोशान्तरं प्राप्य चन्द्रमा भ्राजते पुनः। तद्वल्लिङ्गान्तरं प्राप्य शरीरी भ्राजते पुनः ॥१२-१९६-१७॥
जन्मवृद्धिक्षयश्चास्य प्रत्यक्षेणोपलभ्यते। सा तु चन्द्रमसो व्यक्तिर्न तु तस्य शरीरिणः ॥१२-१९६-१८॥
उत्पत्तिवृद्धिव्ययतो यथा स इति गृह्यते। चन्द्र एव त्वमावास्यां तथा भवति मूर्तिमान् ॥१२-१९६-१९॥
नाभिसर्पद्विमुञ्चद्वा शशिनं दृश्यते तमः। विसृजंश्चोपसर्पंश्च तद्वत्पश्य शरीरिणम् ॥१२-१९६-२०॥
यथा चन्द्रार्कसंयुक्तं तमस्तदुपलभ्यते। तद्वच्छरीरसंयुक्तः शरीरीत्युपलभ्यते ॥१२-१९६-२१॥
यथा चन्द्रार्कनिर्मुक्तः स राहुर्नोपलभ्यते। तद्वच्छरीरनिर्मुक्तः शरीरी नोपलभ्यते ॥१२-१९६-२२॥
यथा चन्द्रो ह्यमावास्यां नक्षत्रैर्युज्यते गतः। तद्वच्छरीरनिर्मुक्तः फलैर्युज्यति कर्मणः ॥१२-१९६-२३॥