Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.197
मनुरुवाच॥
यथा व्यक्तमिदं शेते स्वप्ने चरति चेतनम्। ज्ञानमिन्द्रियसंयुक्तं तद्वत्प्रेत्य भवाभवौ ॥१२-१९७-१॥
यथाम्भसि प्रसन्ने तु रूपं पश्यति चक्षुषा। तद्वत्प्रसन्नेन्द्रियवाञ्ज्ञेयं ज्ञानेन पश्यति ॥१२-१९७-२॥
स एव लुलिते तस्मिन्यथा रूपं न पश्यति। तथेन्द्रियाकुलीभावे ज्ञेयं ज्ञाने न पश्यति ॥१२-१९७-३॥
अबुद्धिरज्ञानकृता अबुद्ध्या दुष्यते मनः। दुष्टस्य मनसः पञ्च सम्प्रदुष्यन्ति मानसाः ॥१२-१९७-४॥
अज्ञानतृप्तो विषयेष्ववगाढो न दृश्यते। अदृष्ट्वैव तु पूतात्मा विषयेभ्यो निवर्तते ॥१२-१९७-५॥
तर्षच्छेदो न भवति पुरुषस्येह कल्मषात्। निवर्तते तथा तर्षः पापमन्तं गतं यथा ॥१२-१९७-६॥
विषयेषु च संसर्गाच्छाश्वतस्य नसंश्रयात्। मनसा चान्यदाकाङ्क्षन्परं न प्रतिपद्यते ॥१२-१९७-७॥
ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः। अथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि ॥१२-१९७-८॥
प्रसृतैरिन्द्रियैर्दुःखी तैरेव नियतैः सुखी। तस्मादिन्द्रियरूपेभ्यो यच्छेदात्मानमात्मना ॥१२-१९७-९॥
इन्द्रियेभ्यो मनः पूर्वं बुद्धिः परतरा ततः। बुद्धेः परतरं ज्ञानं ज्ञानात्परतरं परम् ॥१२-१९७-१०॥
अव्यक्तात्प्रसृतं ज्ञानं ततो बुद्धिस्ततो मनः। मनः श्रोत्रादिभिर्युक्तं शब्दादीन्साधु पश्यति ॥१२-१९७-११॥
यस्तांस्त्यजति शब्दादीन्सर्वाश्च व्यक्तयस्तथा। विमुञ्चत्याकृतिग्रामांस्तान्मुक्त्वामृतमश्नुते ॥१२-१९७-१२॥
उद्यन्हि सविता यद्वत्सृजते रश्मिमण्डलम्। स एवास्तमुपागच्छंस्तदेवात्मनि यच्छति ॥१२-१९७-१३॥
अन्तरात्मा तथा देहमाविश्येन्द्रियरश्मिभिः। प्राप्येन्द्रियगुणान्पञ्च सोऽस्तमावृत्य गच्छति ॥१२-१९७-१४॥
प्रणीतं कर्मणा मार्गं नीयमानः पुनः पुनः। प्राप्नोत्ययं कर्मफलं प्रवृद्धं धर्ममात्मवान् ॥१२-१९७-१५॥
विषया विनिवर्तन्ते निराहारस्य देहिनः। रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥१२-१९७-१६॥
बुद्धिः कर्मगुणैर्हीना यदा मनसि वर्तते। तदा सम्पद्यते ब्रह्म तत्रैव प्रलयं गतम् ॥१२-१९७-१७॥
अस्पर्शनमशृण्वानमनास्वादमदर्शनम्। अघ्राणमवितर्कं च सत्त्वं प्रविशते परम् ॥१२-१९७-१८॥
मनस्याकृतयो मग्ना मनस्त्वतिगतं मतिम्। मतिस्त्वतिगता ज्ञानं ज्ञानं त्वभिगतं परम् ॥१२-१९७-१९॥
इन्द्रियैर्मनसः सिद्धिर्न बुद्धिं बुध्यते मनः। न बुद्धिर्बुध्यतेऽव्यक्तं सूक्ष्मस्त्वेतानि पश्यति ॥१२-१९७-२०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.