Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.256
तुलाधार उवाच॥
सद्भिर्वा यदि वासद्भिरयं पन्थाः समाश्रितः। प्रत्यक्षं क्रियतां साधु ततो ज्ञास्यसि तद्यथा ॥१२-२५६-१॥
एते शकुन्ता बहवः समन्ताद्विचरन्ति हि। तवोत्तमाङ्गे सम्भूताः श्येनाश्चान्याश्च जातयः ॥१२-२५६-२॥
आह्वयैनान्महाब्रह्मन्विशमानांस्ततस्ततः। पश्येमान्हस्तपादेषु श्लिष्टान्देहे च सर्वशः ॥१२-२५६-३॥
सम्भावयन्ति पितरं त्वया सम्भाविताः खगाः। असंशयं पिता च त्वं पुत्रानाह्वय जाजले ॥१२-२५६-४॥
भीष्म उवाच॥
ततो जाजलिना तेन समाहूताः पतत्रिणः। वाचमुच्चारयन्दिव्यां धर्मस्य वचनात्किल ॥१२-२५६-५॥
अहिंसादिकृतं कर्म इह चैव परत्र च। स्पर्धा निहन्ति वै ब्रह्मन्साहता हन्ति तं नरम् ॥१२-२५६-६॥
श्रद्धावृद्धं वाङ्मनसी न यज्ञस्त्रातुमर्हति। अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः ॥१२-२५६-७॥
शुचेरश्रद्दधानस्य श्रद्दधानस्य चाशुचेः। देवाश्चित्तममन्यन्त सदृशं यज्ञकर्मणि ॥१२-२५६-८॥
श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः। मीमांसित्वोभयं देवाः सममन्नमकल्पयन् ॥१२-२५६-९॥
प्रजापतिस्तानुवाच विषमं कृतमित्युत। श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत् ॥ भोज्यमन्नं वदान्यस्य कदर्यस्य न वार्धुषेः ॥१२-२५६-१०॥
अश्रद्दधान एवैको देवानां नार्हते हविः। तस्यैवान्नं न भोक्तव्यमिति धर्मविदो विदुः ॥१२-२५६-११॥
अश्रद्धा परमं पापं श्रद्धा पापप्रमोचनी। जहाति पापं श्रद्धावान्सर्पो जीर्णामिव त्वचम् ॥१२-२५६-१२॥
ज्यायसी या पवित्राणां निवृत्तिः श्रद्धया सह। निवृत्तशीलदोषो यः श्रद्धावान्पूत एव सः ॥१२-२५६-१३॥
किं तस्य तपसा कार्यं किं वृत्तेन किमात्मना। श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥१२-२५६-१४॥
इति धर्मः समाख्यातः सद्भिर्धर्मार्थदर्शिभिः। वयं जिज्ञासमानास्त्वा सम्प्राप्ता धर्मदर्शनात् ॥१२-२५६-१५॥
स्पर्धां जहि महाप्राज्ञ ततः प्राप्स्यसि यत्परम्। श्रद्धावाञ्श्रद्दधानश्च धर्मांश्चैवेह वाणिजः ॥ स्ववर्त्मनि स्थितश्चैव गरीयानेष जाजले ॥१२-२५६-१६॥
एवं बहुमतार्थं च तुलाधारेण भाषितम्। सम्यक्चैवमुपालब्धो धर्मश्चोक्तः सनातनः ॥१२-२५६-१७॥
तस्य विख्यातवीर्यस्य श्रुत्वा वाक्यानि स द्विजः। तुलाधारस्य कौन्तेय शान्तिमेवान्वपद्यत ॥१२-२५६-१८॥
ततोऽचिरेण कालेन तुलाधारः स एव च। दिवं गत्वा महाप्राज्ञौ विहरेतां यथासुखम् ॥ स्वं स्वं स्थानमुपागम्य स्वकर्मफलनिर्जितम् ॥१२-२५६-१९॥
समानां श्रद्दधानानां संयतानां सुचेतसाम्। कुर्वतां यज्ञ इत्येव न यज्ञो जातु नेष्यते ॥१२-२५६-२०॥
श्रद्धा वै सात्त्विकी देवी सूर्यस्य दुहिता नृप। सावित्री प्रसवित्री च जीवविश्वासिनी तथा ॥१२-२५६-२१॥
वाग्वृद्धं त्रायते श्रद्धा मनोवृद्धं च भारत। यथौपम्योपदेशेन किं भूयः श्रोतुमिच्छसि ॥१२-२५६-२२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.