12.257
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। प्रजानामनुकम्पार्थं गीतं राज्ञा विचख्नुना ॥१२-२५७-१॥
छिन्नस्थूणं वृषं दृष्ट्वा विरावं च गवां भृशम्। गोग्रहे यज्ञवाटस्य प्रेक्षमाणः स पार्थिवः ॥१२-२५७-२॥
स्वस्ति गोभ्योऽस्तु लोकेषु ततो निर्वचनं कृतम्। हिंसायां हि प्रवृत्तायामाशीरेषानुकल्पिता ॥१२-२५७-३॥
अव्यवस्थितमर्यादैर्विमूढैर्नास्तिकैर्नरैः। संशयात्मभिरव्यक्तैर्हिंसा समनुकीर्तिता ॥१२-२५७-४॥
सर्वकर्मस्वहिंसा हि धर्मात्मा मनुरब्रवीत्। कामरागाद्विहिंसन्ति बहिर्वेद्यां पशून्नराः ॥१२-२५७-५॥
तस्मात्प्रमाणतः कार्यो धर्मः सूक्ष्मो विजानता। अहिंसैव हि सर्वेभ्यो धर्मेभ्यो ज्यायसी मता ॥१२-२५७-६॥
उपोष्य संशितो भूत्वा हित्वा वेदकृताः श्रुतीः। आचार इत्यनाचाराः कृपणाः फलहेतवः ॥१२-२५७-७॥
यदि यज्ञांश्च वृक्षांश्च यूपांश्चोद्दिश्य मानवाः। वृथा मांसानि खादन्ति नैष धर्मः प्रशस्यते ॥१२-२५७-८॥
मांसं मधु सुरा मत्स्या आसवं कृसरौदनम्। धूर्तैः प्रवर्तितं ह्येतन्नैतद्वेदेषु कल्पितम् ॥१२-२५७-९॥
कामान्मोहाच्च लोभाच्च लौल्यमेतत्प्रवर्तितम्। विष्णुमेवाभिजानन्ति सर्वयज्ञेषु ब्राह्मणाः ॥ पायसैः सुमनोभिश्च तस्यापि यजनं स्मृतम् ॥१२-२५७-१०॥
यज्ञियाश्चैव ये वृक्षा वेदेषु परिकल्पिताः। यच्चापि किञ्चित्कर्तव्यमन्यच्चोक्षैः सुसंस्कृतम् ॥ महासत्त्वैः शुद्धभावैः सर्वं देवार्हमेव तत् ॥१२-२५७-११॥
युधिष्ठिर उवाच॥
शरीरमापदश्चापि विवदन्त्यविहिंसतः। कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यति ॥१२-२५७-१२॥
भीष्म उवाच॥
यथा शरीरं न ग्लायेन्नेयान्मृत्युवशं यथा। तथा कर्मसु वर्तेत समर्थो धर्ममाचरेत् ॥१२-२५७-१३॥