13.028
मतङ्गोपाख्यानम्
युधिष्ठिर उवाच॥
प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च यथा भवान्। गुणैः समुदितः सर्वैर्वयसा च समन्वितः ॥ तस्माद्भवन्तं पृच्छामि धर्मं धर्मभृतां वर ॥१३-२८-१॥
क्षत्रियो यदि वा वैश्यः शूद्रो वा राजसत्तम। ब्राह्मण्यं प्राप्नुयात्केन तन्मे व्याख्यातुमर्हसि ॥१३-२८-२॥
तपसा वा सुमहता कर्मणा वा श्रुतेन वा। ब्राह्मण्यमथ चेदिच्छेत्तन्मे ब्रूहि पितामह ॥१३-२८-३॥
भीष्म उवाच॥
ब्राह्मण्यं तात दुष्प्रापं वर्णैः क्षत्रादिभिस्त्रिभिः। परं हि सर्वभूतानां स्थानमेतद्युधिष्ठिर ॥१३-२८-४॥
बह्वीस्तु संसरन्योनीर्जायमानः पुनः पुनः। पर्याये तात कस्मिंश्चिद्ब्राह्मणो नाम जायते ॥१३-२८-५॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। मतङ्गस्य च संवादं गर्दभ्याश्च युधिष्ठिर ॥१३-२८-६॥
द्विजातेः कस्यचित्तात तुल्यवर्णः सुतः प्रभुः। मतङ्गो नाम नाम्नाभूत्सर्वैः समुदितो गुणैः ॥१३-२८-७॥
स यज्ञकारः कौन्तेय पित्रा सृष्टः परन्तप। प्रायाद्गर्दभयुक्तेन रथेनेहाशुगामिना ॥१३-२८-८॥
स बालं गर्दभं राजन्वहन्तं मातुरन्तिके। निरविध्यत्प्रतोदेन नासिकायां पुनः पुनः ॥१३-२८-९॥
तं तु तीव्रव्रणं दृष्ट्वा गर्दभी पुत्रगृद्धिनी। उवाच मा शुचः पुत्र चण्डालस्त्वाधितिष्ठति ॥१३-२८-१०॥
ब्राह्मणे दारुणं नास्ति मैत्रो ब्राह्मण उच्यते। आचार्यः सर्वभूतानां शास्ता किं प्रहरिष्यति ॥१३-२८-११॥
अयं तु पापप्रकृतिर्बाले न कुरुते दयाम्। स्वयोनिं मानयत्येष भावो भावं निगच्छति ॥१३-२८-१२॥
एतच्छ्रुत्वा मतङ्गस्तु दारुणं रासभीवचः। अवतीर्य रथात्तूर्णं रासभीं प्रत्यभाषत ॥१३-२८-१३॥
ब्रूहि रासभि कल्याणि माता मे येन दूषिता। कथं मां वेत्सि चण्डालं क्षिप्रं रासभि शंस मे ॥१३-२८-१४॥
केन जातोऽस्मि चण्डालो ब्राह्मण्यं येन मेऽनशत्। तत्त्वेनैतन्महाप्राज्ञे ब्रूहि सर्वमशेषतः ॥१३-२८-१५॥
गर्दभ्युवाच॥
ब्राह्मण्यां वृषलेन त्वं मत्तायां नापितेन ह। जातस्त्वमसि चण्डालो ब्राह्मण्यं तेन तेऽनशत् ॥१३-२८-१६॥
एवमुक्तो मतङ्गस्तु प्रत्युपायाद्गृहं प्रति। तमागतमभिप्रेक्ष्य पिता वाक्यमथाब्रवीत् ॥१३-२८-१७॥
मया त्वं यज्ञसंसिद्धौ नियुक्तो गुरुकर्मणि। कस्मात्प्रतिनिवृत्तोऽसि कच्चिन्न कुशलं तव ॥१३-२८-१८॥
मतङ्ग उवाच॥
अयोनिरग्र्ययोनिर्वा यः स्यात्स कुशली भवेत्। कुशलं तु कुतस्तस्य यस्येयं जननी पितः ॥१३-२८-१९॥
ब्राह्मण्यां वृषलाज्जातं पितर्वेदयतीह माम्। अमानुषी गर्दभीयं तस्मात्तप्स्ये तपो महत् ॥१३-२८-२०॥
एवमुक्त्वा स पितरं प्रतस्थे कृतनिश्चयः। ततो गत्वा महारण्यमतप्यत महत्तपः ॥१३-२८-२१॥
ततः सन्तापयामास विबुधांस्तपसान्वितः। मतङ्गः सुसुखं प्रेप्सुः स्थानं सुचरितादपि ॥१३-२८-२२॥
तं तथा तपसा युक्तमुवाच हरिवाहनः। मतङ्ग तप्यसे किं त्वं भोगानुत्सृज्य मानुषान् ॥१३-२८-२३॥
वरं ददानि ते हन्त वृणीष्व त्वं यदिच्छसि। यच्चाप्यवाप्यमन्यत्ते सर्वं प्रब्रूहि माचिरम् ॥१३-२८-२४॥
मतङ्ग उवाच॥
ब्राह्मण्यं कामयानोऽहमिदमारब्धवांस्तपः। गच्छेयं तदवाप्येह वर एष वृतो मया ॥१३-२८-२५॥
एतच्छ्रुत्वा तु वचनं तमुवाच पुरंदरः। ब्राह्मण्यं प्रार्थयानस्त्वमप्राप्यमकृतात्मभिः ॥१३-२८-२६॥
श्रेष्ठं यत्सर्वभूतेषु तपो यन्नातिवर्तते। तदग्र्यं प्रार्थयानस्त्वमचिराद्विनशिष्यसि ॥१३-२८-२७॥
देवतासुरमर्त्येषु यत्पवित्रं परं स्मृतम्। चण्डालयोनौ जातेन न तत्प्राप्यं कथञ्चन ॥१३-२८-२८॥