13.029
इन्द्रमतङ्गसंवादः
भीष्म उवाच॥
एवमुक्तो मतङ्गस्तु संशितात्मा यतव्रतः। अतिष्ठदेकपादेन वर्षाणां शतमच्युत ॥१३-२९-१॥
तमुवाच ततः शक्रः पुनरेव महायशाः। मतङ्ग परमं स्थानं प्रार्थयन्नतिदुर्लभम् ॥१३-२९-२॥
मा कृथाः साहसं पुत्र नैष धर्मपथस्तव। अप्राप्यं प्रार्थयानो हि नचिराद्विनशिष्यसि ॥१३-२९-३॥
मतङ्ग परमं स्थानं वार्यमाणो मया सकृत्। चिकीर्षस्येव तपसा सर्वथा न भविष्यसि ॥१३-२९-४॥
तिर्यग्योनिगतः सर्वो मानुष्यं यदि गच्छति। स जायते पुल्कसो वा चण्डालो वा कदाचन ॥१३-२९-५॥
पुंश्चलः पापयोनिर्वा यः कश्चिदिह लक्ष्यते। स तस्यामेव सुचिरं मतङ्ग परिवर्तते ॥१३-२९-६॥
ततो दशगुणे काले लभते शूद्रतामपि। शूद्रयोनावपि ततो बहुशः परिवर्तते ॥१३-२९-७॥
ततस्त्रिंशद्गुणे काले लभते वैश्यतामपि। वैश्यतायां चिरं कालं तत्रैव परिवर्तते ॥१३-२९-८॥
ततः षष्टिगुणे काले राजन्यो नाम जायते। राजन्यत्वे चिरं कालं तत्रैव परिवर्तते ॥१३-२९-९॥
ततः षष्टिगुणे काले लभते ब्रह्मबन्धुताम्। ब्रह्मबन्धुश्चिरं कालं तत्रैव परिवर्तते ॥१३-२९-१०॥
ततस्तु द्विशते काले लभते काण्डपृष्ठताम्। काण्डपृष्ठश्चिरं कालं तत्रैव परिवर्तते ॥१३-२९-११॥
ततस्तु त्रिशते काले लभते द्विजतामपि। तां च प्राप्य चिरं कालं तत्रैव परिवर्तते ॥१३-२९-१२॥
ततश्चतुःशते काले श्रोत्रियो नाम जायते। श्रोत्रियत्वे चिरं कालं तत्रैव परिवर्तते ॥१३-२९-१३॥
तदैव क्रोधहर्षौ च कामद्वेषौ च पुत्रक। अतिमानातिवादौ तमाविशन्ति द्विजाधमम् ॥१३-२९-१४॥
तांश्चेज्जयति शत्रून्स तदा प्राप्नोति सद्गतिम्। अथ ते वै जयन्त्येनं तालाग्रादिव पात्यते ॥१३-२९-१५॥
मतङ्ग सम्प्रधार्यैतद्यदहं त्वामचूचुदम्। वृणीष्व काममन्यं त्वं ब्राह्मण्यं हि सुदुर्लभम् ॥१३-२९-१६॥