Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.038
स्त्रीस्वभावकथनम्
युधिष्ठिर उवाच॥
स्त्रीणां स्वभावमिच्छामि श्रोतुं भरतसत्तम। स्त्रियो हि मूलं दोषाणां लघुचित्ताः पितामह ॥१३-३८-१॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। नारदस्य च संवादं पुंश्चल्या पञ्चचूडया ॥१३-३८-२॥
लोकाननुचरन्धीमान्देवर्षिर्नारदः पुरा। ददर्शाप्सरसं ब्राह्मीं पञ्चचूडामनिन्दिताम् ॥१३-३८-३॥
तां दृष्ट्वा चारुसर्वाङ्गीं पप्रच्छाप्सरसं मुनिः। संशयो हृदि मे कश्चित्तन्मे ब्रूहि सुमध्यमे ॥१३-३८-४॥
एवमुक्ता तु सा विप्रं प्रत्युवाचाथ नारदम्। विषये सति वक्ष्यामि समर्थां मन्यसे च माम् ॥१३-३८-५॥
नारद उवाच॥
न त्वामविषये भद्रे नियोक्ष्यामि कथञ्चन। स्त्रीणां स्वभावमिच्छामि त्वत्तः श्रोतुं वरानने ॥१३-३८-६॥
भीष्म उवाच॥
एतच्छ्रुत्वा वचस्तस्य देवर्षेरप्सरोत्तमा। प्रत्युवाच न शक्ष्यामि स्त्री सती निन्दितुं स्त्रियः ॥१३-३८-७॥
विदितास्ते स्त्रियो याश्च यादृशाश्च स्वभावतः। न मामर्हसि देवर्षे नियोक्तुं प्रश्न ईदृशे ॥१३-३८-८॥
तामुवाच स देवर्षिः सत्यं वद सुमध्यमे। मृषावादे भवेद्दोषः सत्ये दोषो न विद्यते ॥१३-३८-९॥
इत्युक्ता सा कृतमतिरभवच्चारुहासिनी। स्त्रीदोषाञ्शाश्वतान्सत्यान्भाषितुं सम्प्रचक्रमे ॥१३-३८-१०॥
पञ्चचूडोवाच॥
कुलीना रूपवत्यश्च नाथवत्यश्च योषितः। मर्यादासु न तिष्ठन्ति स दोषः स्त्रीषु नारद ॥१३-३८-११॥
न स्त्रीभ्यः किञ्चिदन्यद्वै पापीयस्तरमस्ति वै। स्त्रियो हि मूलं दोषाणां तथा त्वमपि वेत्थ ह ॥१३-३८-१२॥
समाज्ञातानृद्धिमतः प्रतिरूपान्वशे स्थितान्। पतीनन्तरमासाद्य नालं नार्यः प्रतीक्षितुम् ॥१३-३८-१३॥
असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो। पापीयसो नरान्यद्वै लज्जां त्यक्त्वा भजामहे ॥१३-३८-१४॥
स्त्रियं हि यः प्रार्थयते संनिकर्षं च गच्छति। ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः ॥१३-३८-१५॥
अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च। मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु ॥१३-३८-१६॥
नासां कश्चिदगम्योऽस्ति नासां वयसि संस्थितिः। विरूपं रूपवन्तं वा पुमानित्येव भुञ्जते ॥१३-३८-१७॥
न भयान्नाप्यनुक्रोशान्नार्थहेतोः कथञ्चन। न ज्ञातिकुलसम्बन्धात्स्त्रियस्तिष्ठन्ति भर्तृषु ॥१३-३८-१८॥
यौवने वर्तमानानां मृष्टाभरणवाससाम्। नारीणां स्वैरवृत्तानां स्पृहयन्ति कुलस्त्रियः ॥१३-३८-१९॥
याश्च शश्वद्बहुमता रक्ष्यन्ते दयिताः स्त्रियः। अपि ताः सम्प्रसज्जन्ते कुब्जान्धजडवामनैः ॥१३-३८-२०॥
पङ्गुष्वपि च देवर्षे ये चान्ये कुत्सिता नराः। स्त्रीणामगम्यो लोकेऽस्मिन्नास्ति कश्चिन्महामुने ॥१३-३८-२१॥
यदि पुंसां गतिर्ब्रह्म कथञ्चिन्नोपपद्यते। अप्यन्योन्यं प्रवर्तन्ते न हि तिष्ठन्ति भर्तृषु ॥१३-३८-२२॥
अलाभात्पुरुषाणां हि भयात्परिजनस्य च। वधबन्धभयाच्चापि स्वयं गुप्ता भवन्ति ताः ॥१३-३८-२३॥
चलस्वभावा दुःसेव्या दुर्ग्राह्या भावतस्तथा। प्राज्ञस्य पुरुषस्येह यथा वाचस्तथा स्त्रियः ॥१३-३८-२४॥
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः। नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥१३-३८-२५॥
इदमन्यच्च देवर्षे रहस्यं सर्वयोषिताम्। दृष्ट्वैव पुरुषं हृद्यं योनिः प्रक्लिद्यते स्त्रियः ॥१३-३८-२६॥
कामानामपि दातारं कर्तारं मानसान्त्वयोः। रक्षितारं न मृष्यन्ति भर्तारं परमं स्त्रियः ॥१३-३८-२७॥
न कामभोगान्बहुलान्नालङ्कारार्थसञ्चयान्। तथैव बहु मन्यन्ते यथा रत्यामनुग्रहम् ॥१३-३८-२८॥
अन्तकः शमनो मृत्युः पातालं वडवामुखम्। क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः ॥१३-३८-२९॥
यतश्च भूतानि महान्ति पञ्च; यतश्च लोका विहिता विधात्रा। यतः पुमांसः प्रमदाश्च निर्मिता; स्तदैव दोषाः प्रमदासु नारद ॥१३-३८-३०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.