13.039
युधिष्ठिर उवाच॥
इमे वै मानवा लोके स्त्रीषु सज्जन्त्यभीक्ष्णशः। मोहेन परमाविष्टा दैवादिष्टेन पार्थिव ॥ स्त्रियश्च पुरुषेष्वेव प्रत्यक्षं लोकसाक्षिकम् ॥१३-३९-१॥
अत्र मे संशयस्तीव्रो हृदि सम्परिवर्तते। कथमासां नराः सङ्गं कुर्वते कुरुनन्दन ॥ स्त्रियो वा तेषु रज्यन्ते विरज्यन्तेऽथ वा पुनः ॥१३-३९-२॥
इति ताः पुरुषव्याघ्र कथं शक्याः स्म रक्षितुम्। प्रमदाः पुरुषेणेह तन्मे व्याख्यातुमर्हसि ॥१३-३९-३॥
एता हि मयमायाभिर्वञ्चयन्तीह मानवान्। न चासां मुच्यते कश्चित्पुरुषो हस्तमागतः ॥ गावो नवतृणानीव गृह्णन्त्येव नवान्नवान् ॥१३-३९-४॥
शम्बरस्य च या माया या माया नमुचेरपि। बलेः कुम्भीनसेश्चैव सर्वास्ता योषितो विदुः ॥१३-३९-५॥
हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्ति च। अप्रियं प्रियवाक्यैश्च गृह्णते कालयोगतः ॥१३-३९-६॥
उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः। स्त्रीबुद्ध्या न विशिष्येते ताः स्म रक्ष्याः कथं नरैः ॥१३-३९-७॥
अनृतं सत्यमित्याहुः सत्यं चापि तथानृतम्। इति यास्ताः कथं वीर संरक्ष्याः पुरुषैरिह ॥१३-३९-८॥
स्त्रीणां बुद्ध्युपनिष्कर्षादर्थशास्त्राणि शत्रुहन्। बृहस्पतिप्रभृतिभिर्मन्ये सद्भिः कृतानि वै ॥१३-३९-९॥
सम्पूज्यमानाः पुरुषैर्विकुर्वन्ति मनो नृषु। अपास्ताश्च तथा राजन्विकुर्वन्ति मनः स्त्रियः ॥१३-३९-१०॥
कस्ताः शक्तो रक्षितुं स्यादिति मे संशयो महान्। तन्मे ब्रूहि महाबाहो कुरूणां वंशवर्धन ॥१३-३९-११॥
यदि शक्या कुरुश्रेष्ठ रक्षा तासां कथञ्चन। कर्तुं वा कृतपूर्वा वा तन्मे व्याख्यातुमर्हसि ॥१३-३९-१२॥