Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.045
युधिष्ठिर उवाच॥
कन्यायाः प्राप्तशुल्कायाः पतिश्चेन्नास्ति कश्चन। तत्र का प्रतिपत्तिः स्यात्तन्मे ब्रूहि पितामह ॥१३-४५-१॥
भीष्म उवाच॥
यापुत्रकस्याप्यरिक्थस्य प्रतिपत्सा तदा भवेत्। अथ चेत्साहरेच्छुल्कं क्रीता शुल्कप्रदस्य सा। तस्यार्थेऽपत्यमीहेत येन न्यायेन शक्नुयात् ॥१३-४५-३॥
न तस्या मन्त्रवत्कार्यं कश्चित्कुर्वीत किञ्चन। स्वयं वृतेति सावित्री पित्रा वै प्रत्यपद्यत। तत्तस्यान्ये प्रशंसन्ति धर्मज्ञा नेतरे जनाः ॥१३-४५-५॥
एतत्तु नापरे चक्रुर्न परे जातु साधवः। साधूनां पुनराचारो गरीयो धर्मलक्षणम् ॥१३-४५-६॥
अस्मिन्नेव प्रकरणे सुक्रतुर्वाक्यमब्रवीत्। नप्ता विदेहराजस्य जनकस्य महात्मनः ॥१३-४५-७॥
असदाचरिते मार्गे कथं स्यादनुकीर्तनम्। अनुप्रश्नः संशयो वा सतामेतदुपालभेत् ॥१३-४५-८॥
असदेव हि धर्मस्य प्रमादो धर्म आसुरः। नानुशुश्रुम जात्वेतामिमां पूर्वेषु जन्मसु ॥१३-४५-९॥
भार्यापत्योर्हि सम्बन्धः स्त्रीपुंसोस्तुल्य एव सः। रतिः साधारणो धर्म इति चाह स पार्थिवः ॥१३-४५-१०॥
युधिष्ठिर उवाच॥
अथ केन प्रमाणेन पुंसामादीयते धनम्। पुत्रवद्धि पितुस्तस्य कन्या भवितुमर्हति ॥१३-४५-११॥
भीष्म उवाच॥
यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा। तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत् ॥१३-४५-१२॥
मातुश्च यौतकं यत्स्यात्कुमारीभाग एव सः। दौहित्र एव वा रिक्थमपुत्रस्य पितुर्हरेत् ॥१३-४५-१३॥
ददाति हि स पिण्डं वै पितुर्मातामहस्य च। पुत्रदौहित्रयोर्नेह विशेषो धर्मतः स्मृतः ॥१३-४५-१४॥
अन्यत्र जातया सा हि प्रजया पुत्र ईहते। दुहितान्यत्र जातेन पुत्रेणापि विशिष्यते ॥१३-४५-१५॥
दौहित्रकेण धर्मेण नात्र पश्यामि कारणम्। विक्रीतासु च ये पुत्रा भवन्ति पितुरेव ते ॥१३-४५-१६॥
असूयवस्त्वधर्मिष्ठाः परस्वादायिनः शठाः। आसुरादधिसम्भूता धर्माद्विषमवृत्तयः ॥१३-४५-१७॥
अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः। धर्मज्ञा धर्मशास्त्रेषु निबद्धा धर्मसेतुषु ॥१३-४५-१८॥
यो मनुष्यः स्वकं पुत्रं विक्रीय धनमिच्छति। कन्यां वा जीवितार्थाय यः शुल्केन प्रयच्छति ॥१३-४५-१९॥
सप्तावरे महाघोरे निरये कालसाह्वये। स्वेदं मूत्रं पुरीषं च तस्मिन्प्रेत उपाश्नुते ॥१३-४५-२०॥
आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव तत्। अल्पं वा बहु वा राजन्विक्रयस्तावदेव सः ॥१३-४५-२१॥
यद्यप्याचरितः कैश्चिन्नैष धर्मः कथञ्चन। अन्येषामपि दृश्यन्ते लोभतः सम्प्रवृत्तयः ॥१३-४५-२२॥
वश्यां कुमारीं विहितां ये च तामुपभुञ्जते। एते पापस्य कर्तारस्तमस्यन्धेऽथ शेरते ॥१३-४५-२३॥
अन्योऽप्यथ न विक्रेयो मनुष्यः किं पुनः प्रजाः। अधर्ममूलैर्हि धनैर्न तैरर्थोऽस्ति कश्चन ॥१३-४५-२४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.