Sankhya Kārika
Karika 64
एवं तत्त्वाभ्यासान्नास्ति न मे नाहमित्यपरिशेषम्। अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम् ॥६४॥