Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
Chapter 5: Vyāsa arrives at Janamejaya’s serpent sacrifice, and Vaiśampāyana begins narrating the Jaya with its table of contents.
श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम्। अभ्यागच्छदृषिर्विद्वान्कृष्णद्वैपायनस्तदा॥BORI: १-५४-१॥
जनयामास यं काली शक्तेः पुत्रात्पराशरात्। कन्यैव यमुनाद्वीपे पाण्डवानां पितामहम्॥BORI: १-५४-२॥
जातमात्रश्च यः सद्य इष्ट्या देहमवीवृधत्। वेदांश्चाधिजगे साङ्गान्सेतिहासान्महायशाः॥BORI: १-५४-३॥
यं नातितपसा कश्चिन्न वेदाध्ययनेन च। न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना॥BORI: १-५४-४॥
विव्यासैकं चतुर्धा यो वेदं वेदविदां वरः। परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतः शुचिः॥BORI: १-५४-५॥
यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्यजीजनत्। शन्तनोः सन्ततिं तन्वन्पुण्यकीर्तिर्महायशाः॥BORI: १-५४-६॥
जनमेजयस्य राजर्षेः स तद्यज्ञसदस्तदा। विवेश शिष्यैः सहितो वेदवेदाङ्गपारगैः॥BORI: १-५४-७॥
तत्र राजानमासीनं ददर्श जनमेजयम्। वृतं सदस्यैर्बहुभिर्देवैरिव पुरंदरम्॥BORI: १-५४-८॥
तथा मूर्धावसिक्तैश्च नानाजनपदेश्वरैः। ऋत्विग्भिर्देवकल्पैश्च कुशलैर्यज्ञसंस्तरे॥BORI: १-५४-९॥
जनमेजयस्तु राजर्षिर्दृष्ट्वा तमृषिमागतम्। सगणोऽब्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः॥BORI: १-५४-१०॥
काञ्चनं विष्टरं तस्मै सदस्यानुमते प्रभुः। आसनं कल्पयामास यथा शक्रो बृहस्पतेः॥BORI: १-५४-११॥
तत्रोपविष्टं वरदं देवर्षिगणपूजितम्। पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा॥BORI: १-५४-१२॥
पाद्यमाचमनीयं च अर्घ्यं गां च विधानतः। पितामहाय कृष्णाय तदर्हाय न्यवेदयत्॥BORI: १-५४-१३॥
प्रतिगृह्य च तां पूजां पाण्डवाज्जनमेजयात्। गां चैव समनुज्ञाय व्यासः प्रीतोऽभवत्तदा॥BORI: १-५४-१४॥
तथा सम्पूजयित्वा तं यत्नेन प्रपितामहम्। उपोपविश्य प्रीतात्मा पर्यपृच्छदनामयम्॥BORI: १-५४-१५॥
भगवानपि तं दृष्ट्वा कुशलं प्रतिवेद्य च। सदस्यैः पूजितः सर्वैः सदस्यानभ्यपूजयत्॥BORI: १-५४-१६॥
ततस्तं सत्कृतं सर्वैः सदस्यैर्जनमेजयः। इदं पश्चाद्द्विजश्रेष्ठं पर्यपृच्छत्कृताञ्जलिः॥BORI: १-५४-१७॥
कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान्। तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज॥BORI: १-५४-१८॥
कथं समभवद्भेदस्तेषामक्लिष्टकर्मणाम्। तच्च युद्धं कथं वृत्तं भूतान्तकरणं महत्॥BORI: १-५४-१९॥
पितामहानां सर्वेषां दैवेनाविष्टचेतसाम्। कार्त्स्न्येनैतत्समाचक्ष्व भगवन्कुशलो ह्यसि॥BORI: १-५४-२०॥
तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा। शशास शिष्यमासीनं वैशम्पायनमन्तिके॥BORI: १-५४-२१॥
कुरूणां पाण्डवानां च यथा भेदोऽभवत्पुरा। तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि॥BORI: १-५४-२२॥
गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा। आचचक्षे ततः सर्वमितिहासं पुरातनम्॥BORI: १-५४-२३॥
तस्मै राज्ञे सदस्येभ्यः क्षत्रियेभ्यश्च सर्वशः। भेदं राज्यविनाशं च कुरुपाण्डवयोस्तदा॥BORI: १-५४-२४॥
गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिः। सम्पूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान्॥BORI: १-५५-१॥
महर्षेः सर्वलोकेषु विश्रुतस्यास्य धीमतः। प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः॥BORI: १-५५-२॥
श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम्। गुरोर्वक्तुं परिस्पन्दो मुदा प्रोत्साहतीव माम्॥BORI: १-५५-३॥
शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत्। राज्यार्थे द्यूतसम्भूतो वनवासस्तथैव च॥BORI: १-५५-४॥
यथा च युद्धमभवत्पृथिवीक्षयकारकम्। तत्तेऽहं सम्प्रवक्ष्यामि पृच्छते भरतर्षभ॥BORI: १-५५-५॥
मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम्। नचिरादिव विद्वांसो वेदे धनुषि चाभवन्॥BORI: १-५५-६॥
तांस्तथा रूपवीर्यौजःसम्पन्नान्पौरसंमतान्। नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्श्रीयशोभृतः॥BORI: १-५५-७॥
ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः। तेषां निग्रहनिर्वासान्विविधांस्ते समाचरन्॥BORI: १-५५-८॥
ददावथ विषं पापो भीमाय धृतराष्ट्रजः। जरयामास तद्वीरः सहान्नेन वृकोदरः॥BORI: १-५५-९॥
प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम्। तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत्॥BORI: १-५५-१०॥
यदा प्रबुद्धः कौन्तेयस्तदा सञ्छिद्य बन्धनम्। उदतिष्ठन्महाराज भीमसेनो गतव्यथः॥BORI: १-५५-११॥
आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत्। सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा॥BORI: १-५५-१२॥
तेषां तु विप्रकारेषु तेषु तेषु महामतिः। मोक्षणे प्रतिघाते च विदुरोऽवहितोऽभवत्॥BORI: १-५५-१३॥
स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः। पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः॥BORI: १-५५-१४॥
यदा तु विविधोपायैः संवृतैर्विवृतैरपि। नाशक्नोद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान्॥BORI: १-५५-१५॥
ततः संमन्त्र्य सचिवैर्वृषदुःशासनादिभिः। धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत्॥BORI: १-५५-१६॥
तत्र तान्वासयामास पाण्डवानमितौजसः। अदाहयच्च विस्रब्धान्पावकेन पुनस्तदा॥BORI: १-५५-१७॥
ते प्रातिष्ठन्त सहिता नगरान्नागसाह्वयात् । प्रस्थाने चाभवन्मन्त्री क्षत्ता तेषां महात्मनाम् ॥KUMB: १-६१-२०; NILA: ०१.०६१.०१९॥
न्यवसन्त महात्मानो मात्रा सह परन्तपाः । धृतराष्ट्रेण चाज्ञप्ता उषिता जातुषे गृहे ॥KUMB: १-६१-२२; NILA: ०१.०६१.०२१॥
पुरोचनाद्रक्षमाणाः संवत्सरमतन्द्रिताः । सुरुङ्गां कारयित्वा तु विदुरेण प्रचोदिताः ॥KUMB: १-६१-२३; NILA: ०१.०६१.०२२॥
विदुरस्यैव वचनात्खनित्री विहिता ततः। मोक्षयामास योगेन ते मुक्ताः प्राद्रवन्भयात्॥BORI: १-५५-१८॥
आदीप्य जातुषं वेश्म दग्ध्वा चैव पुरोचनम् । प्राद्रवन्भयसंविग्ना मात्रा सह परन्तपाः ॥KUMB: १-६१-२४; NILA: ०१.०६१.०२३॥
ततो महावने घोरे हिडिम्बं नाम राक्षसम्। भीमसेनोऽवधीत्क्रुद्धो भुवि भीमपराक्रमः॥BORI: १-५५-१९॥
ददृशुर्दारुणं रक्षो हिडिम्बं वननिर्झरे । हत्वा च तं राक्षसेन्द्रं भीताः समवबोधनात् ॥KUMB: १-६१-२५; NILA: ०१.०६१.०२४॥
निशि संप्राद्रवन्पार्था धार्तराष्ट्रभयार्दिताः । प्राप्ता हिडिम्बा भीमेन यत्र जातो घटोत्कचः ॥KUMB: १-६१-२६; NILA: ०१.०६१.०२५॥
अथ सन्धाय ते वीरा एकचक्रां व्रजंस्तदा। ब्रह्मरूपधरा भूत्वा मात्रा सह परन्तपाः॥BORI: १-५५-२०॥
तत्र ते ब्राह्मणार्थाय बकं हत्वा महाबलम्। ब्राह्मणैः सहिता जग्मुः पाञ्चालानां पुरं ततः॥BORI: १-५५-२१॥
ततस्ते शुश्रुवुः कृष्णां पञ्चालेषु स्वयंवराम् । श्रुत्वा चैवाभ्यगच्छ्त गत्वा चैवालभन्त ताम् ॥KUMB: १-६१-३१; NILA: ०१.०६१.०३०॥
ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः। विदिता हास्तिनपुरं प्रत्याजग्मुररिंदमाः॥BORI: १-५५-२२॥
त उक्ता धृतराष्ट्रेण राज्ञा शान्तनवेन च। भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति । अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः॥BORI: १-५५-२३॥
तस्माज्जनपदोपेतं सुविभक्तमहापथम्। वासाय खाण्डवप्रस्थं व्रजध्वं गतमन्यवः॥BORI: १-५५-२४॥
तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः। नगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः॥BORI: १-५५-२५॥
तत्र ते न्यवसन्राजन्संवत्सरगणान्बहून्। वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः॥BORI: १-५५-२६॥
एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः। अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितांस्तदा॥BORI: १-५५-२७॥
अजयद्भीमसेनस्तु दिशं प्राचीं महाबलः। उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा॥BORI: १-५५-२८॥
दक्षिणां सहदेवस्तु विजिग्ये परवीरहा। एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुन्धराम्॥BORI: १-५५-२९॥
पञ्चभिः सूर्यसङ्काशैः सूर्येण च विराजता। षट्सूर्येवाबभौ पृथ्वी पाण्डवैः सत्यविक्रमैः॥BORI: १-५५-३०॥
ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरः। वनं प्रस्थापयामास भ्रातरं वै धनञ्जयम्॥BORI: १-५५-३१॥
स वै संवत्सरं पूर्णं मासं चैकं वनेऽवसत्। ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदाचन॥BORI: १-५५-३२॥
लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम्। अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम्॥BORI: १-५५-३३॥
सा शचीव महेन्द्रेण श्रीः कृष्णेनेव सङ्गता। सुभद्रा युयुजे प्रीता पाण्डवेनार्जुनेन ह॥BORI: १-५५-३४॥
अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम्। बीभत्सुर्वासुदेवेन सहितो नृपसत्तम॥BORI: १-५५-३५॥
नातिभारो हि पार्थस्य केशवेनाभवत्सह। व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव॥BORI: १-५५-३६॥
पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम्। इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम्॥BORI: १-५५-३७॥
मोक्षयामास बीभत्सुर्मयं तत्र महासुरम्। स चकार सभां दिव्यां सर्वरत्नसमाचिताम्॥BORI: १-५५-३८॥
तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः। ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम्॥BORI: १-५५-३९॥
वनं प्रस्थापयामास सप्त वर्षाणि पञ्च च। अज्ञातमेकं राष्ट्रे च तथा वर्षं त्रयोदशम्॥BORI: १-५५-४०॥
ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु। नालभन्त महाराज ततो युद्धमवर्तत॥BORI: १-५५-४१॥
ततस्ते सर्वमुत्साद्य हत्वा दुर्योधनं नृपम्। राज्यं विद्रुतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः॥BORI: १-५५-४२॥
इष्ट्वा क्रतूंश्च विविधानश्वमेधादिकान्बहून् । धृतराष्ट्रे गते स्वर्गं विदुरे पञ्चतां गते ॥KUMB: १-६१-५५; KUMB: १-६१-५६॥
गमयित्वा क्रियां स्वर्ग्यां राज्ञाममिततेजसाम् ॥KUMB: १-६१-५६; KUMB: १-६१-५७॥
महाप्रस्थानिकं कृत्वा गताः स्वर्गमनुत्तमम् ॥KUMB: १-६१-५७॥
एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम्। भेदो राज्यविनाशश्च जयश्च जयतां वर॥BORI: १-५५-४३॥
शृणु राजन्यथा वीरा भ्रातरः पञ्च पाण्डवाः । विरोधमन्वगच्छन्त धार्तराष्ट्रैर्दुरात्मभिः ॥KUMB: १-६१-१॥
ततो दुर्योधनः क्रूरः कुलिङ्गस्य मते स्थितः । पाण्डवान्विविधोपायै राज्यहेतोरपीडयत् ॥KUMB: १-६१-१०; NILA: ०१.०६१.००९॥
सुतप्रियैषी तान्राजा पाण्डवानम्बिकासुतः । ततो विवासयामास राज्यभोगबुभुक्षया ॥KUMB: १-६१-१९; NILA: ०१.०६१.०१८॥
तेन मुक्ता जतुगृहान्निशीथे प्राद्रवन्वनम् । ततः संप्राप्य कौन्तेया नगरं वारणावतम् ॥KUMB: १-६१-२१; NILA: ०१.०६१.०२०॥
एकचक्रां ततो हत्वा पाण्डवाः संशितव्रताः । वेदाध्ययनसंपन्नास्तेऽभवन्ब्रह्मचारिणः ॥KUMB: १-६१-२७; NILA: ०१.०६१.०२६॥
ते तत्र नियताः कालं कंचिदूषुर्नरर्षभाः । मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने ॥KUMB: १-६१-२८; NILA: ०१.०६१.०२७॥
तत्राससाद क्षुधितं पुरुषादं वृकोदरः । भीमसेनो महाबाहुर्बकं नाम महाबलम् ॥KUMB: १-६१-२९; NILA: ०१.०६१.०२८॥
तं चापि पुरुषव्याघ्रो बाहुवीर्येण पाण्डवः । निहत्य तरसा वीरो नागरान्पर्यसान्त्वयत् ॥KUMB: १-६१-३०; NILA: ०१.०६१.०२९॥
प्राणेभ्योऽपि प्रियतरं भ्रातरं सव्यसाचिनम् । अर्जुनं पुरुषव्याघ्रं स्थिरात्मानं गुणैर्युतम् ॥KUMB: १-६१-४२; KUMB: १-६१-४३; NILA: ०१.०६१.०४१; NILA: ०१.०६१.०४२॥
तीर्थयात्रां च कृतवान्नागकन्यामवाप च । पाण्ड्यस्य तनयां लब्ध्वा तत्र ताभ्यांसहोषितः ॥KUMB: १-६१-४४॥
स्वं धाम याते वार्ष्णेये कृष्णदारान्प्ररक्ष्य च ॥KUMB: १-६१-५६; KUMB: १-६१-५७॥
कथितं वै समासेन त्वया सर्वं द्विजोत्तम। महाभारतमाख्यानं कुरूणां चरितं महत्॥BORI: १-०५६-१॥
कथां त्वनघ चित्रार्थामिमां कथयति त्वयि। विस्तरश्रवणे जातं कौतूहलमतीव मे॥BORI: १-०५६-२॥
स भवान्विस्तरेणेमां पुनराख्यातुमर्हति। न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्॥BORI: १-०५६-३॥
न तत्कारणमल्पं हि धर्मज्ञा यत्र पाण्डवाः। अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः॥BORI: १-०५६-४॥
किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः। प्रयुज्यमानान्सङ्क्लेशान्क्षान्तवन्तो दुरात्मनाम्॥BORI: १-०५६-५॥
कथं नागायुतप्राणो बाहुशाली वृकोदरः। परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम॥BORI: १-०५६-६॥
कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः। शक्ता सती धार्तराष्ट्रान्नादहद्घोरचक्षुषा॥BORI: १-०५६-७॥
कथं व्यतिक्रमन्द्यूते पार्थौ माद्रीसुतौ तथा। अनुव्रजन्नरव्याघ्रं वञ्च्यमानं दुरात्मभिः॥BORI: १-०५६-८॥
कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित्। अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः॥BORI: १-०५६-९॥
कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः। अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनञ्जयः॥BORI: १-०५६-१०॥
एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन। यद्यच्च कृतवन्तस्ते तत्र तत्र महारथाः॥BORI: १-०५६-११॥
महर्षेः सर्वलोकेषु पूजितस्य महात्मनः। प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः॥BORI: १-०५६-१२॥
अध्यायानां सहस्रे द्वे पर्वणां शतमेव च । श्लोकानां तु सहस्राणि नवतिश्च दशैव च । ततोऽष्टादशभिः पर्वैः संगृहीतं महर्षिणा ॥KUMB: १-६२-१६॥
इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम्। सत्यवत्यात्मजेनेह व्याख्यातममितौजसा॥BORI: १-०५६-१३॥
य इदं श्रावयेद्विद्वान्यश्चेदं शृणुयान्नरः। ते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम्॥BORI: १-०५६-१४॥
इदं हि वेदैः समितं पवित्रमपि चोत्तमम्। श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम्॥BORI: १-०५६-१५॥
अस्मिन्नर्थश्च धर्मश्च निखिलेनोपदिश्यते। इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी॥BORI: १-०५६-१६॥
अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान्। कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते॥BORI: १-०५६-१७॥
भ्रूणहत्याकृतं चापि पापं जह्यादसंशयम्। इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः॥BORI: १-०५६-१८॥
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा। महीं विजयते सर्वां शत्रूंश्चापि पराजयेत्॥BORI: १-०५६-१९॥
इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत्। महिषीयुवराजाभ्यां श्रोतव्यं बहुशस्तथा॥BORI: १-०५६-२०॥
अर्थशास्त्रमिदं पुण्यं धर्मशास्त्रमिदं परम्। मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना॥BORI: १-०५६-२१॥
सम्प्रत्याचक्षते चैव आख्यास्यन्ति तथापरे। पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः॥BORI: १-०५६-२२॥
शरीरेण कृतं पापं वाचा च मनसैव च। सर्वं तत्त्यजति क्षिप्रमिदं शृण्वन्नरः सदा॥BORI: १-०५६-२३॥
भारतानां महज्जन्म शृण्वतामनसूयताम्। नास्ति व्याधिभयं तेषां परलोकभयं कुतः॥BORI: १-०५६-२४॥
धन्यं यशस्यमायुष्यं स्वर्ग्यं पुण्यं तथैव च। कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा॥BORI: १-०५६-२५॥
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम्। अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम्॥BORI: १-०५६-२६॥
यथा समुद्रो भगवान्यथा च हिमवान्गिरिः। ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते॥BORI: १-०५६-२७॥
य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु। धूतपाप्मा जितस्वर्गो ब्रह्मभूयं स गच्छति॥BORI: १-०५६-२८॥
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः। अक्षय्यं तस्य तच्छ्राद्धमुपतिष्ठेत्पितृनपि॥BORI: १-०५६-२९॥
अह्ना यदेनश्चाज्ञानात्प्रकरोति नरश्चरन्। तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते॥BORI: १-०५६-३०॥
भारतानां महज्जन्म महाभारतमुच्यते। निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते॥BORI: १-०५६-३१॥
त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः। महाभारतमाख्यानं कृतवानिदमुत्तमम्॥BORI: १-०५६-३२॥
तपोनियममास्थाय कृतमेतन्महर्षिणा ॥KUMB: १-६२-४५; NILA: ०१.०६२.०४२॥
तस्मान्नियमसंयुक्तैः श्रोतव्यं ब्राह्मणैरिदम् । कृष्णप्रोक्तामिमां पुण्यां भारतीमुत्तमां कथाम् ॥KUMB: १-६२-४६; NILA: ०१.०६२.०४३॥
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ। यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्॥BORI: १-०५६-३३॥
क्षणं कुरु महाराज विपुलोऽयमनुक्रमः । पुण्याख्यानस्य वक्तव्यः कृष्णद्वैपायनेरितः ॥KUMB: १-६२-१२; NILA: ०१.०६२.०१२॥
उपाख्यानैः सह ज्ञेयं श्राव्यं भारतमुत्तमम् । संक्षेपेण तु वक्ष्यामि सर्वमेतन्नराधिप ॥KUMB: १-६२-१५॥
मुच्यते सर्वपापेभ्यो राहुणा चन्द्रमा यथा ॥KUMB: १-६२-२२; NILA: ०१.०६२.०२०॥
वीरं जनयते पुत्रं कन्यां वा राज्यभागिनीम् ॥KUMB: १-६२-२४; NILA: ०१.०६२.०२२॥
इदं हि ब्राह्मणैर्लोके आख्यातं ब्राह्मणेष्विह ॥KUMB: १-६२-२६॥
सर्वविद्यावदातानां लोके प्रथितकर्मणाम् । य इदं मानवो लोके पुण्यार्थे ब्राह्मणाञ्छुचीन् ॥KUMB: १-६२-३२; NILA: ०१.०६२.०२९॥
श्रावयेत महापुण्यं तस्य धर्मः सनातनः । कुरूणां प्रथितं वंशं कीर्तयन्सततं शुचिः ॥KUMB: १-६२-३३; NILA: ०१.०६२.०३०॥
वंशमाप्नोति विपुलं लोके पूज्यतमो भवेत् । योऽधीते भारतं पुण्यं ब्राह्मणो नियतव्रतः ॥KUMB: १-६२-३४; NILA: ०१.०६२.०३१॥
चतुरो वार्षिकान्मासान्सर्वपापैः प्रमुच्यते । विज्ञेयः स च वेदानां पारगो भारतं पठन् ॥KUMB: १-६२-३५; NILA: ०१.०६२.०३२॥
देवा राजर्षयो ह्यत्र पुण्या ब्रह्मर्षयस्तथा । कीर्त्यन्ते धूतपाप्मानः कीर्त्यते केशवस्तथा ॥KUMB: १-६२-३६; NILA: ०१.०६२.०३३॥
भगवांश्चापि देवेशो यत्र देवी च कीर्त्यते । अनेकजननो यत्र कार्तिकेयस्य संभवः ॥KUMB: १-६२-३७; NILA: ०१.०६२.०३४॥
ब्राह्मणानां गवां चैव माहात्म्यं यत्र कीर्त्यते । सर्वश्रुतिसमूहोऽयं श्रोतव्यो धर्मबुद्धिभिः ॥KUMB: १-६२-३८; NILA: ०१.०६२.०३५॥
महतो ह्येनसो मर्त्यान्मोचयेदनुकीर्तितः ॥KUMB: १-६२-४४; NILA: ०१.०६२.०४१॥
श्रावयिष्यन्ति ये विप्रा ये च श्रोष्यन्ति मानवाः । सर्वथा वर्तमाना वै न ते शोच्याः कृताकृतैः ॥KUMB: १-६२-४७; NILA: ०१.०६२.०४४॥
नरेण धर्मकामेन सर्वः श्रोतव्य इत्यपि । निखिलेनेतिहासोऽयं ततः सिद्धिमवाप्नुयात् ॥KUMB: १-६२-४८; NILA: ०१.०६२.०४५॥
न तां स्वर्गगतिं प्राप्य तुष्टिं प्राप्नोति मानवः । यां श्रुत्वैवं महापुण्यमितिहासमुपाश्नुते ॥KUMB: १-६२-४९; NILA: ०१.०६२.०४६॥
शृण्वञ्श्राद्धः पुण्यशीलः श्रावयंश्चेदमद्भुतम् । नरः फलमवाप्नोति राजसूयाश्वमेधयोः ॥KUMB: १-६२-५०; NILA: ०१.०६२.०४७॥
य इदं भारतं राजन्वाचकाय प्रयच्छति । तेन सर्वा मही दत्ता भवेत्सागरमेखला ॥KUMB: १-६२-५३; NILA: ०१.०६२.०५०॥
पारिक्षित कथां दिव्यां पुण्याय विजयाय च । कथ्यमानां मया कृत्स्नां शृणु हर्षकरीमिमाम् ॥KUMB: १-६२-५४; NILA: ०१.०६२.०५१॥
शृणु कीर्तयतस्तन्म इतिहासं पुरातनम् ॥KUMB: १-६२-५६॥
पूरोर्वंशमहं धन्यं राज्ञाममिततेजसाम् । प्रवक्ष्यामि पितॄणां ते तेषां नामानि मे शृमु ॥KUMB: १-६३-१॥
अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः । तस्मान्मरीचिः संजज्ञे दक्षश्चैव प्रजापतिः ॥KUMB: १-६३-२॥
अङ्गुष्ठाद्दक्षमसृजच्चक्षुर्भ्यां च मरीचिनम् । मरीचेः कश्यपः पुत्रो दक्षस्य दुहिताऽऽदितिः ॥KUMB: १-६३-३॥
अदित्यां कश्यपाद्विवस्थान् । विवस्वतो मनुर्मनोरिला ॥KUMB: १-६३-४॥
इलायाः पुरूरवाः । पुरूरवस आयुः । आयुषो नहुषः । नहुषस्य ययातिः ॥KUMB: १-६३-५॥
ययातेर्द्वे भार्ये बभूवतुः । उशनसो दुहिता देवयानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम ॥KUMB: १-६३-६॥
तत्रानुवंशो भवति । यदुं च तुर्वसुं चैव देवयानी व्यजायत । द्रुह्यं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥KUMB: १-६३-७॥
तत्र यदोर्यादवाः । पूरोः पौरवाः । पूरोर्भार्या कौसल्या बभूव । तस्यामस्य जज्ञे जनमेजयः ॥KUMB: १-६३-८॥
स त्रीन्हयमेधानाजहार । विश्वजिता चेष्ट्वा वनं प्रविवेश ॥KUMB: १-६३-९॥
जनमेजयस्तु सुनन्दां नामोपयेमे मागधीं । तस्यामस्य जज्ञे प्राचीन्वान् ॥KUMB: १-६३-१०॥
यः प्राचीं दिशं जिगाय । यावत्सूर्यादयात् तत्तस्य प्राचीनत्वम् ॥KUMB: १-६३-११॥
प्राचीन्वांस्तु खल्वाश्मकीमुपयेमे यादवीम् । तस्यामस्य जज्ञे शस्यातिः ॥KUMB: १-६३-१२॥
शय्यातिस्तु त्रिशङ्कोर्दुहितरं वराङ्गीं नामोपयेमे तस्यामस्य जज्ञेऽहंयातिः ॥KUMB: १-६३-१३॥
अहंयातिस्तु खलु कृतवीर्यदुहितरं भानुमतीं नामोपयेमे । तस्यामस्य जज्ञे सार्वभौमः ॥KUMB: १-६३-१४॥
सार्वभौमस्तु खलु जित्वाऽऽजहार कैकयीं सुन्दरां नाम तामुपयेमे । तस्यामस्य जज्ञे जयत्सेनः ॥KUMB: १-६३-१५॥
जयत्सेनस्तु खलु वैदर्भीमुपयेमे सुश्रवां नाम । तस्यामस्य जज्ञेऽपराचीनः ॥KUMB: १-६३-१६॥
अपराचीनस्तु खलु वैदर्भीमपरामुपयेमे मर्यादां नाम । तस्यामस्य जज्ञेऽरिहः ॥KUMB: १-६३-१७॥
अरिहः खल्वाङ्गीमुपेयेमे । तस्यामस्य जज्ञे महाभौमः ॥KUMB: १-६३-१८॥
महाभौमस्तु खलु प्रसेनजिद्दुहितरमुपयेमे सुयज्ञां नाम । तस्यामस्य जज्ञे अयुतानायी ॥KUMB: १-६३-१९॥
यः पुरुषमेधे पुरुषाणामयुतमानयत्तत्तस्यायुतानायित्वम् ॥KUMB: १-६३-२०॥
अयुतानायी तु खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम । तस्यामस्य जज्ञेऽक्रोधनः ॥KUMB: १-६३-२१॥
अक्रोधनस्तु खलु कालिङ्गीं कण्डूं नामोपयेमे । तस्यामस्य जज्ञे देवातिथिः ॥KUMB: १-६३-२२॥
देवातिथिस्तु खलु वैदर्भीमुपयेमे मर्यादां नाम तस्यामस्य जज्ञे ऋचः ॥KUMB: १-६३-२३॥
ऋचस्तु खलु वामदेव्यामङ्गराजकन्यायामृक्षं पुत्रमजीजनत् ॥KUMB: १-६३-२४॥
ऋक्षस्तु खलु तक्षकदुहितरं ज्वलन्तीं नामोपयेमे । तस्यामन्त्यनारमुत्पादयामास ॥KUMB: १-६३-२५॥
अन्त्यनारस्तु खलु सरस्वत्यां द्वादशवार्षिकं सत्रमाजहार । तमुदवसाने सरस्वत्यभिगम्य भर्तारं वरयामास ॥KUMB: १-६३-२६॥
तस्यां पुत्रं जनयामास त्रस्नुं नाम । अत्रानुवंशो भवति ॥KUMB: १-६३-२७॥
त्रस्नुं सरस्वती पुत्रमन्त्यनारादजीजनत् । इलिलं जनयामास कालिन्द्यांत्रस्नुरात्मजम् ॥KUMB: १-६३-२८॥
इलिलस्तु रथन्तर्यां दुष्यन्तादीन्पञ्च पुत्रानजीजनत् ॥KUMB: १-६३-२९॥
दुष्यन्तस्तु लाक्षीं नाम भागीरथीमुपयेमे तस्यामस्य जज्ञे जनमेजयः ॥KUMB: १-६३-३०॥
सएव दुष्यन्तो विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे । तस्यामस्य जज्ञे भरतः ॥KUMB: १-६३-३१॥
तत्रेमौ श्लोकौ भवतः । माता भस्त्रा पितुः पुत्रो यस्माज्जातः स एव सः । भरस्व पुत्रं दौष्यन्तिं सत्यमाह शकुन्तला ॥KUMB: १-६३-३२॥
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् । त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥KUMB: १-६३-३३॥
ततोऽस्य भरतत्वम् । भरतस्तु खलु काशेयीं सार्वसेनीमुपयेमे सुनन्दां नाम । तस्यामस्य जज्ञे भुमन्युः ॥KUMB: १-६३-३४॥
भुमन्युस्तु खलु दाशार्हीमुपयेमे सुवर्णां नाम । तस्यामस्य जज्ञे सुहोत्रः ॥KUMB: १-६३-३५॥
सुहोत्रस्तु खल्वैक्ष्वाकीमुपयेमे जयन्तीं नाम । तस्यामस्य जज्ञे हस्ती । य इदं पुरं निर्मापयामास ॥KUMB: १-६३-३६॥
तस्माद्धास्तिनपुरत्वम् । हस्ती खलु त्रैगर्तीमुपयेमे यशोदां नाम तस्यामस्य जज्ञे विकुञ्जतः ॥KUMB: १-६३-३७॥
विकुञ्जनस्तु खलु दाशार्हीमुपयेमे सुन्दरां नाम । तस्यामस्य जज्ञेऽजमीढः ॥KUMB: १-६३-३८॥
अजमीढस्य तु चतुर्विंशतिपुत्रशतं बभूव । कैकय्यां नागायां गान्धार्यां विमलायामृक्षायामिति ॥KUMB: १-६३-३९॥
पृथग्वंशकर्तारो नृपतयः । तत्र अजमीढादृक्षायां संवरणो जज्ञे स वंशकरः ॥KUMB: १-६३-४०॥
सवरणस्तु वैवस्वतीं तपतीं नामोपयेमे । तस्यामस्य जज्ञे कुरुः ॥KUMB: १-६३-४१॥
कुरुस्तु खलु दाशार्हीमुपयेमे शुभाङ्गीं नाम । तस्यामस्य जज्ञे विदूरथः ॥KUMB: १-६३-४२॥
विदूरथस्तु खलु मागधीमुपयेमे संप्रियां नाम । तस्यामस्य जज्ञेऽनश्वान् ॥KUMB: १-६३-४३॥
अनश्वांस्तु खलु मागधीमुपयेमेऽमृतां नाम । तस्यामस्य जज्ञे परिक्षित् ॥KUMB: १-६३-४४॥
परिक्षित्खलु बाहुकामुपयेमे सुवेषां नाम । तस्यामस्य जज्ञे भीमसेनः ॥KUMB: १-६३-४५॥
भीमसेनस्तु खलु कैकयीमुपयेमे सुकुमारीं नाम । तस्यामस्य जज्ञे परिश्रवाः ॥KUMB: १-६३-४६॥
यमाहुः प्रतीप इति । प्रतीपस्तु खलु शैब्यामुपयेमे सुनन्दीं नाम । तस्यां त्रीन्पुत्रानुत्पादयामास देवापिं शन्तनुं बाह्लीकं चेति ॥KUMB: १-६३-४७॥
देवापिस्तु खलु बाल एवारण्यं प्रविवेश । शन्तनुस्तु महीपालोऽभवत् ॥KUMB: १-६३-४८॥
तत्र श्लोको भवति । यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते । पुनर्युवा च भवति तस्मात्तं शन्तनुं विदुः ॥KUMB: १-६३-४९॥
तदस्य शन्तनुत्वं । शन्तनुस्तु खलु गङ्गां भागीरथीमुपयेमे तस्यामस्य जज्ञे देवव्रतः । यमाहुर्भीष्म इति ॥KUMB: १-६३-५०॥
भीष्मस्तु खलु पितुः प्रियचिकीर्षया सत्यवतीमानयामास मातरं । यामाहुः कालीति ॥KUMB: १-६३-५१॥
तस्यां पूर्वं पुराशरात्कन्यागर्भो द्वैपायनः । तस्यामेव शन्तनोर्द्वौ पुत्रौ बभूवतुः चित्राङ्गदो विचित्रवीर्यश्च ॥KUMB: १-६३-५२॥
चित्राङ्गदस्तु प्राप्तराज्य एव गन्धर्वेण निहृतः । ततो विचित्रवीर्यो राजा बभूव ॥KUMB: १-६३-५३॥
विचित्रवीर्यस्तु खलुकाशिराजस्य सुते अम्बिकाम्बालिके उदवहत् । विचित्रवीर्योऽनुत्पन्नापत्य एव विदेहत्वं प्राप्तः ॥KUMB: १-६३-५४॥
ततः सत्यवती चिन्तयामास कथं नु खलु शन्तनोः पिण्डविच्छेदो न स्यादिति ॥KUMB: १-६३-५५॥
साथ द्वैपायनं चिन्तयामास सोऽग्रतः स्थितः किं करवाणीति । तं सत्यवत्युवाच भ्राता तेऽनपत्य एव स्वर्गतः तस्यार्थेऽपत्यमुत्पादयेति ॥KUMB: १-६३-५६॥
स परमित्युवाच स तत्र त्रीन्पुत्रानुत्पादयामास धृतराष्ट्रं पाण्डुं विदुरं चेति ॥KUMB: १-६३-५७॥
धृतराष्ट्रात्पुत्रशतं बभूव गान्धार्यां वरदानाद्द्वैपायनस्य तेषां च धार्तराष्ट्राणां चत्वारः प्रधानाः दुर्योधनो दुश्शासनो विकर्णश्चित्रसेनश्चेति ॥KUMB: १-६३-५८॥
पाण्डोस्तु कुन्ती माद्रीति स्त्रीरत्ने बभूवतुः । स मृगयां चरन्मैथुनगतमृषिं मृगचारिणं बाणेन जघान ॥KUMB: १-६३-५९॥
स बाणविद्ध उवाच पाण्डुम् । अत्र श्लोको भवति ॥KUMB: १-६३-६०॥
योऽकृतार्थं हि मां ग्रूर बाणेनाघ्ना मृगव्रतम् । त्वामप्येतादृशो भावः क्षिप्रमेवागमिष्यति ॥KUMB: १-६३-६१॥
इति मृगव्रतचारिणा ऋषिणा शप्तः । स विषण्णरूपः पाण्डुस्तं शापं परिहरन्नोपसर्पति भार्ये ॥KUMB: १-६३-६२॥
कदाचित्स आह । स्वचापल्यादिदं प्राप्तवानहम् । पुराणेषु पठ्यमानं शृणोमि नानपत्यस्य लोकाः सन्तीति ॥KUMB: १-६३-६३॥
सा त्वं मदर्थे पुत्रानुत्पादयेति कुन्तीमुवाच ॥KUMB: १-६३-६४॥
सा कुन्ती पुत्रानुत्पादयामास धर्माद्युधिष्ठिरं मारुताद्भीमसेनमिन्द्रादर्जुनमिति । स हृष्टरूपः पाण्डुरुवाच । इयं ते सपत्नी भवति माद्र्यनपत्या व्रीडिता साध्वी अस्यामपत्यमुत्पाद्यतामिति ॥KUMB: १-६३-६५॥
सा कुन्ती तस्यै माद्र्यै तथेति व्रतमादिदेश । ततस्तस्यां नकुलसहदेवौ यमावश्विभ्यां जज्ञाते ॥KUMB: १-६३-६६॥
माद्रीं तु खलु स्वलङ्कृतां दृष्ट्वा पाण्डुर्भावं चक्रे । स तां प्राप्यैव विदेहत्वं प्राप्तः ॥KUMB: १-६३-६७॥
ततस्तेन सह चितामन्वारुरोह माद्री । कुन्तीं चोवाच यमयोरार्ययाऽप्रमत्तया भवितव्यमिति ॥KUMB: १-६३-६८॥
ततः पञ्चपाण्डवान्सह कुन्त्या हास्तिनपुरं नयन्ति स्म तपस्विनः ॥KUMB: १-६३-६९॥
तत्र भीष्माय धृतराष्ट्रविदुरयोः पाण्डोः स्वर्गगमनं याथातथ्यं निवेदयन्तिस्म तपस्विनः ॥KUMB: १-६३-७०॥
पाण्डवान्सह कुन्त्या जतुगृहे दाहयितुकामो धृतराष्ट्रात्मजोऽभूत् ॥KUMB: १-६३-७१॥
तांश्च विदुरो मोक्षयामास । ततो भीमो हिडिम्बं हत्वा पुत्रमुत्पादयामास हिडिम्बायां घटोत्कचं नाम ॥KUMB: १-६३-७२॥
ततश्चैकचक्रां जग्मुः कुशलिनः । ततः पाञ्चालविषयं गत्वा स्वयंवरे द्रौपदीं लब्ध्वाऽर्धराज्यं प्राप्येन्द्रप्रस्थनिवासिनस्तस्यां पुत्रानुत्पादयामासुर्द्रौपद्याम् ॥KUMB: १-६३-७३॥
प्रतिविन्ध्यां युधिष्ठिरः । सुतसोमं वृकोदरः । श्रुतकीर्तिमर्जुनः । शतानीकं नकुलः । श्रुतसेनं सहदेव इति ॥KUMB: १-६३-७४॥
शैव्यस्य कन्यां देवकीं नामोपयेमे युधिष्ठिरः । तस्यां पुत्रं जनयामास यौधेयं नाम ॥KUMB: १-६३-७५॥
भीमसेनस्तु वाराणस्यां काशिराजकन्यां जलन्धरां नामोपयेमे स्वयंवरस्थां । तस्यामस्य जज्ञे शर्वत्रातः ॥KUMB: १-६३-७६॥
अर्जुनस्तु खलु द्वारवतीं गत्वा भगवतो वासुदेवस्य भगिनीं सुभद्रां नामोदवहद्भार्यां । तस्यामभिमन्युं नाम पुत्रं जनयामास ॥KUMB: १-६३-७७॥
नकुलस्तु खलु चैद्यां रेणुमतीं नामोदवहत् । तस्यां पुत्रं जनयामास निरमित्रं नाम ॥KUMB: १-६३-७८॥
सहदेवस्तु खलु माद्रीमेव स्वयंवरे विजयां नामोदवहद्भार्याम् । तस्यां पुत्रं जनयामास सुहोत्रं नाम ॥KUMB: १-६३-७९॥
भीमसेनश्च पूर्वमेव हिडिम्बायां राक्षस्यां पुत्रमुत्पादयामास घटोत्कचं नाम । अर्जुनस्तु नागकन्यायामुलूप्यामिरावन्तं नाम पुत्रं जनयामास ॥KUMB: १-६३-८०॥
ततो मणलूरुपतिकन्यायां चित्राङ्गदायामर्जुनः पुत्रमुत्पादयामास बभ्रुवाहनं नाम । एते त्रयोदश पुत्राः पाण्डवानाम् ॥KUMB: १-६३-८१॥
विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपेयेमे । तस्यामस्य परासुर्गर्भोऽजायत ॥KUMB: १-६३-८२॥
तमुत्सङ्गे प्रतिजग्राह पृथा नियोगात्पुरुषोत्तमस्य । षाण्मासिकं गर्भमहं जीवयामि पादस्पर्शादिति वासुदेव उवाच ॥KUMB: १-६३-८३॥
अहं जीवयामि कुमारमनन्तवीर्यं जात एवायमजायत । अभिमन्योः सत्येन चेयं पृथिवी धारयत्विति वासुदेवस्य पादस्पर्शात्सजीवोऽजायत । नाम तस्याकरोत्सुभद्रा ॥KUMB: १-६३-८४॥
परिक्षीणे कुले जात उत्तरायां परंतपः । परिक्षिदभवत्तस्मात्सौभद्रात्तु यशस्विनः ॥KUMB: १-६३-८५॥
परीक्षित्तु खलु भद्रवतीं नामोपयेमे । तस्यां तत्र भवाञ्जनमेजयः ॥KUMB: १-६३-८६॥
जनमेजयात्तु भवतः खलु वपुष्टमायां पुत्रौ द्वौ शतानीकः शङ्कुकर्णश्च ॥KUMB: १-६३-८७॥
शतानीकस्तु खलु वैदेहीमुपयेमे । तस्यामस्य जज्ञे पुत्रोऽश्वमेधदत्तः ॥KUMB: १-६३-८८॥
इत्येष पूरोर्वंशस्तु पाण्डवानां च कीर्तितः । पूरोर्वंशमिमं श्रुत्वा सर्वपापैः प्रमुच्यते ॥KUMB: १-६३-८९॥