Chapter 7: Divine and demonic descents, creation genealogies, and their births among the principal Mahābhārata figures.
य एते कीर्तिता ब्रह्मन्ये चान्ये नानुकीर्तिताः। सम्यक्ताञ्श्रोतुमिच्छामि राज्ञश्चान्यान्सुवर्चसः॥BORI: १-५८-१॥
यदर्थमिह सम्भूता देवकल्पा महारथाः। भुवि तन्मे महाभाग सम्यगाख्यातुमर्हसि॥BORI: १-५८-२॥
रहस्यं खल्विदं राजन्देवानामिति नः श्रुतम्। तत्तु ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे॥BORI: १-५८-३॥
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां पुरा। जामदग्न्यस्तपस्तेपे महेन्द्रे पर्वतोत्तमे॥BORI: १-५८-४॥
तदा निःक्षत्रिये लोके भार्गवेण कृते सति। ब्राह्मणान्क्षत्रिया राजन्गर्भार्थिन्योऽभिचक्रमुः॥BORI: १-५८-५॥
ताभिः सह समापेतुर्ब्राह्मणाः संशितव्रताः। ऋतावृतौ नरव्याघ्र न कामान्नानृतौ तथा॥BORI: १-५८-६॥
तेभ्यस्तु लेभिरे गर्भान्क्षत्रियास्ताः सहस्रशः। ततः सुषुविरे राजन्क्षत्रियान्वीर्यसंमतान् । कुमारांश्च कुमारीश्च पुनः क्षत्राभिवृद्धये॥BORI: १-५८-७॥
एवं तद्ब्राह्मणैः क्षत्रं क्षत्रियासु तपस्विभिः। जातमृध्यत धर्मेण सुदीर्घेणायुषान्वितम् । चत्वारोऽपि तदा वर्णा बभूवुर्ब्राह्मणोत्तराः॥BORI: १-५८-८॥
अभ्यगच्छन्नृतौ नारीं न कामान्नानृतौ तथा। तथैवान्यानि भूतानि तिर्यग्योनिगतान्यपि । ऋतौ दारांश्च गच्छन्ति तदा स्म भरतर्षभ॥BORI: १-५८-९॥
ततोऽवर्धन्त धर्मेण सहस्रशतजीविनः। ताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाः । आधिभिर्व्याधिभिश्चैव विमुक्ताः सर्वशो नराः॥BORI: १-५८-१०॥
अथेमां सागरापाङ्गां गां गजेन्द्रगताखिलाम्। अध्यतिष्ठत्पुनः क्षत्रं सशैलवनकाननाम्॥BORI: १-५८-११॥
प्रशासति पुनः क्षत्रे धर्मेणेमां वसुन्धराम्। ब्राह्मणाद्यास्तदा वर्णा लेभिरे मुदमुत्तमाम्॥BORI: १-५८-१२॥
कामक्रोधोद्भवान्दोषान्निरस्य च नराधिपाः। दण्डं दण्ड्येषु धर्मेण प्रणयन्तोऽन्वपालयन्॥BORI: १-५८-१३॥
तथा धर्मपरे क्षत्रे सहस्राक्षः शतक्रतुः। स्वादु देशे च काले च ववर्षाप्याययन्प्रजाः॥BORI: १-५८-१४॥
न बाल एव म्रियते तदा कश्चिन्नराधिप। न च स्त्रियं प्रजानाति कश्चिदप्राप्तयौवनः॥BORI: १-५८-१५॥
एवमायुष्मतीभिस्तु प्रजाभिर्भरतर्षभ। इयं सागरपर्यन्ता समापूर्यत मेदिनी॥BORI: १-५८-१६॥
ईजिरे च महायज्ञैः क्षत्रिया बहुदक्षिणैः। साङ्गोपनिषदान्वेदान्विप्राश्चाधीयते तदा॥BORI: १-५८-१७॥
न च विक्रीणते ब्रह्म ब्राह्मणाः स्म तदा नृप। न च शूद्रसमाभ्याशे वेदानुच्चारयन्त्युत॥BORI: १-५८-१८॥
कारयन्तः कृषिं गोभिस्तथा वैश्याः क्षिताविह। न गामयुञ्जन्त धुरि कृशाङ्गाश्चाप्यजीवयन्॥BORI: १-५८-१९॥
फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाः। न कूटमानैर्वणिजः पण्यं विक्रीणते तदा॥BORI: १-५८-२०॥
कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाः। धर्ममेवानुपश्यन्तश्चक्रुर्धर्मपरायणाः॥BORI: १-५८-२१॥
स्वकर्मनिरताश्चासन्सर्वे वर्णा नराधिप। एवं तदा नरव्याघ्र धर्मो न ह्रसते क्वचित्॥BORI: १-५८-२२॥
काले गावः प्रसूयन्ते नार्यश्च भरतर्षभ। फलन्त्यृतुषु वृक्षाश्च पुष्पाणि च फलानि च॥BORI: १-५८-२३॥
एवं कृतयुगे सम्यग्वर्तमाने तदा नृप। आपूर्यत मही कृत्स्ना प्राणिभिर्बहुभिर्भृशम्॥BORI: १-५८-२४॥
ततः समुदिते लोके मानुषे भरतर्षभ। असुरा जज्ञिरे क्षेत्रे राज्ञां मनुजपुङ्गव॥BORI: १-५८-२५॥
आदित्यैर्हि तदा दैत्या बहुशो निर्जिता युधि। ऐश्वर्याद्भ्रंशिताश्चापि सम्बभूवुः क्षिताविह॥BORI: १-५८-२६॥
इह देवत्वमिच्छन्तो मानुषेषु मनस्विनः। जज्ञिरे भुवि भूतेषु तेषु तेष्वसुरा विभो॥BORI: १-५८-२७॥
गोष्वश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च। क्रव्यादेषु च भूतेषु गजेषु च मृगेषु च॥BORI: १-५८-२८॥
जातैरिह महीपाल जायमानैश्च तैर्मही। न शशाकात्मनात्मानमियं धारयितुं धरा॥BORI: १-५८-२९॥
अथ जाता महीपालाः केचिद्बलसमन्विताः। दितेः पुत्रा दनोश्चैव तस्माल्लोकादिह च्युताः॥BORI: १-५८-३०॥
वीर्यवन्तोऽवलिप्तास्ते नानारूपधरा महीम्। इमां सागरपर्यन्तां परीयुररिमर्दनाः॥BORI: १-५८-३१॥
ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चैवाप्यपीडयन्। अन्यानि चैव भूतानि पीडयामासुरोजसा॥BORI: १-५८-३२॥
त्रासयन्तो विनिघ्नन्तस्तांस्तान्भूतगणांश्च ते। विचेरुः सर्वतो राजन्महीं शतसहस्रशः॥BORI: १-५८-३३॥
आश्रमस्थान्महर्षींश्च धर्षयन्तस्ततस्ततः। अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च॥BORI: १-५८-३४॥
एवं वीर्यबलोत्सिक्तैर्भूरियं तैर्महासुरैः। पीड्यमाना महीपाल ब्रह्माणमुपचक्रमे॥BORI: १-५८-३५॥
न हीमां पवनो राजन्न नागा न नगा महीम्। तदा धारयितुं शेकुराक्रान्तां दानवैर्बलात्॥BORI: १-५८-३६॥
ततो मही महीपाल भारार्ता भयपीडिता। जगाम शरणं देवं सर्वभूतपितामहम्॥BORI: १-५८-३७॥
सा संवृतं महाभागैर्देवद्विजमहर्षिभिः। ददर्श देवं ब्रह्माणं लोककर्तारमव्ययम्॥BORI: १-५८-३८॥
गन्धर्वैरप्सरोभिश्च बन्दिकर्मसु निष्ठितैः। वन्द्यमानं मुदोपेतैर्ववन्दे चैनमेत्य सा॥BORI: १-५८-३९॥
अथ विज्ञापयामास भूमिस्तं शरणार्थिनी। संनिधौ लोकपालानां सर्वेषामेव भारत॥BORI: १-५८-४०॥
तत्प्रधानात्मनस्तस्य भूमेः कृत्यं स्वयम्भुवः। पूर्वमेवाभवद्राजन्विदितं परमेष्ठिनः॥BORI: १-५८-४१॥
स्रष्टा हि जगतः कस्मान्न सम्बुध्येत भारत। सुरासुराणां लोकानामशेषेण मनोगतम्॥BORI: १-५८-४२॥
तमुवाच महाराज भूमिं भूमिपतिर्विभुः। प्रभवः सर्वभूतानामीशः शम्भुः प्रजापतिः॥BORI: १-५८-४३॥
यदर्थमसि सम्प्राप्ता मत्सकाशं वसुन्धरे। तदर्थं संनियोक्ष्यामि सर्वानेव दिवौकसः॥BORI: १-५८-४४॥
इत्युक्त्वा स महीं देवो ब्रह्मा राजन्विसृज्य च। आदिदेश तदा सर्वान्विबुधान्भूतकृत्स्वयम्॥BORI: १-५८-४५॥
अस्या भूमेर्निरसितुं भारं भागैः पृथक्पृथक्। अस्यामेव प्रसूयध्वं विरोधायेति चाब्रवीत्॥BORI: १-५८-४६॥
तथैव च समानीय गन्धर्वाप्सरसां गणान्। उवाच भगवान्सर्वानिदं वचनमुत्तमम् । स्वैरंशैः सम्प्रसूयध्वं यथेष्टं मानुषेष्विति॥BORI: १-५८-४७॥
अथ शक्रादयः सर्वे श्रुत्वा सुरगुरोर्वचः। तथ्यमर्थ्यं च पथ्यं च तस्य ते जगृहुस्तदा॥BORI: १-५८-४८॥
अथ ते सर्वशोंऽशैः स्वैर्गन्तुं भूमिं कृतक्षणाः। नारायणममित्रघ्नं वैकुण्ठमुपचक्रमुः॥BORI: १-५८-४९॥
यः स चक्रगदापाणिः पीतवासासितप्रभः। पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः॥BORI: १-५८-५०॥
तं भुवः शोधनायेन्द्र उवाच पुरुषोत्तमम्। अंशेनावतरस्वेति तथेत्याह च तं हरिः॥BORI: १-५८-५१॥
प्रजापतिपतिर्देवः सुरनाथो महाबलः । श्रीवत्साङ्को हृषीकेशः सर्वदैवतपूजितः ॥KUMB: १-६५-५३; NILA: ०१.०६४.०५३॥
अथ नारायणेनेन्द्रश्चकार सह संविदम्। अवतर्तुं महीं स्वर्गादंशतः सहितः सुरैः॥BORI: १-५९-१॥
आदिश्य च स्वयं शक्रः सर्वानेव दिवौकसः। निर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह॥BORI: १-५९-२॥
तेऽमरारिविनाशाय सर्वलोकहिताय च। अवतेरुः क्रमेणेमां महीं स्वर्गाद्दिवौकसः॥BORI: १-५९-३॥
ततो ब्रह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च। जज्ञिरे राजशार्दूल यथाकामं दिवौकसः॥BORI: १-५९-४॥
दानवान्राक्षसांश्चैव गन्धर्वान्पन्नगांस्तथा। पुरुषादानि चान्यानि जघ्नुः सत्त्वान्यनेकशः॥BORI: १-५९-५॥
दानवा राक्षसाश्चैव गन्धर्वाः पन्नगास्तथा। न तान्बलस्थान्बाल्येऽपि जघ्नुर्भरतसत्तम॥BORI: १-५९-६॥
देवदानवसङ्घानां गन्धर्वाप्सरसां तथा। मानवानां च सर्वेषां तथा वै यक्षरक्षसाम्॥BORI: १-५९-७॥
श्रोतुमिच्छामि तत्त्वेन सम्भवं कृत्स्नमादितः। प्राणिनां चैव सर्वेषां सर्वशः सर्वविद्ध्यसि॥BORI: १-५९-८॥
हन्त ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे। सुरादीनामहं सम्यग्लोकानां प्रभवाप्ययम्॥BORI: १-५९-९॥
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः। मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः॥BORI: १-५९-१०॥
मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाः। प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश॥BORI: १-५९-११॥
अदितिर्दितिर्दनुः काला अनायुः सिंहिका मुनिः। क्रोधा प्रावा अरिष्टा च विनता कपिला तथा॥BORI: १-५९-१२॥
कद्रूश्च मनुजव्याघ्र दक्षकन्यैव भारत। एतासां वीर्यसम्पन्नं पुत्रपौत्रमनन्तकम्॥BORI: १-५९-१३॥
अदित्यां द्वादशादित्याः सम्भूता भुवनेश्वराः। ये राजन्नामतस्तांस्ते कीर्तयिष्यामि भारत॥BORI: १-५९-१४॥
धाता मित्रोऽर्यमा शक्रो वरुणश्चांश एव च। भगो विवस्वान्पूषा च सविता दशमस्तथा॥BORI: १-५९-१५॥
एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते। जघन्यजः स सर्वेषामादित्यानां गुणाधिकः॥BORI: १-५९-१६॥
एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतः। नाम्ना ख्यातास्तु तस्येमे पुत्राः पञ्च महात्मनः॥BORI: १-५९-१७॥
प्रह्रादः पूर्वजस्तेषां संह्रादस्तदनन्तरम्। अनुह्रादस्तृतीयोऽभूत्तस्माच्च शिबिबाष्कलौ॥BORI: १-५९-१८॥
प्रह्रादस्य त्रयः पुत्राः ख्याताः सर्वत्र भारत। विरोचनश्च कुम्भश्च निकुम्भश्चेति विश्रुताः॥BORI: १-५९-१९॥
विरोचनस्य पुत्रोऽभूद्बलिरेकः प्रतापवान्। बलेश्च प्रथितः पुत्रो बाणो नाम महासुरः॥BORI: १-५९-२०॥
चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारत। तेषां प्रथमजो राजा विप्रचित्तिर्महायशाः॥BORI: १-५९-२१॥
शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुतः। असिलोमा च केशी च दुर्जयश्चैव दानवः॥BORI: १-५९-२२॥
अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान्। तथा गगनमूर्धा च वेगवान्केतुमांश्च यः॥BORI: १-५९-२३॥
स्वर्भानुरश्वोऽश्वपतिर्वृषपर्वाजकस्तथा। अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महासुरः॥BORI: १-५९-२४॥
इसृपा एकचक्रश्च विरूपाक्षो हराहरौ। निचन्द्रश्च निकुम्भश्च कुपथः कापथस्तथा॥BORI: १-५९-२५॥
शरभः शलभश्चैव सूर्याचन्द्रमसौ तथा। इति ख्याता दनोर्वंशे दानवाः परिकीर्तिताः । अन्यौ तु खलु देवानां सूर्याचन्द्रमसौ स्मृतौ॥BORI: १-५९-२६॥
इमे च वंशे प्रथिताः सत्त्ववन्तो महाबलाः। दनुपुत्रा महाराज दश दानवपुङ्गवाः॥BORI: १-५९-२७॥
एकाक्षो मृतपा वीरः प्रलम्बनरकावपि। वातापिः शत्रुतपनः शठश्चैव महासुरः॥BORI: १-५९-२८॥
गविष्ठश्च दनायुश्च दीर्घजिह्वश्च दानवः। असङ्ख्येयाः स्मृतास्तेषां पुत्राः पौत्राश्च भारत॥BORI: १-५९-२९॥
सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम्। सुचन्द्रं चन्द्रहन्तारं तथा चन्द्रविमर्दनम्॥BORI: १-५९-३०॥
क्रूरस्वभावं क्रूरायाः पुत्रपौत्रमनन्तकम्। गणः क्रोधवशो नाम क्रूरकर्मारिमर्दनः॥BORI: १-५९-३१॥
अनायुषः पुनः पुत्राश्चत्वारोऽसुरपुङ्गवाः। विक्षरो बलवीरौ च वृत्रश्चैव महासुरः॥BORI: १-५९-३२॥
कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहारिणः। भुवि ख्याता महावीर्या दानवेषु परन्तपाः॥BORI: १-५९-३३॥
विनाशनश्च क्रोधश्च हन्ता क्रोधस्य चापरः। क्रोधशत्रुस्तथैवान्यः कालेया इति विश्रुताः॥BORI: १-५९-३४॥
असुराणामुपाध्यायः शुक्रस्त्वृषिसुतोऽभवत्। ख्याताश्चोशनसः पुत्राश्चत्वारोऽसुरयाजकाः॥BORI: १-५९-३५॥
त्वष्टावरस्तथात्रिश्च द्वावन्यौ मन्त्रकर्मिणौ। तेजसा सूर्यसङ्काशा ब्रह्मलोकप्रभावनाः॥BORI: १-५९-३६॥
इत्येष वंशप्रभवः कथितस्ते तरस्विनाम्। असुराणां सुराणां च पुराणे संश्रुतो मया॥BORI: १-५९-३७॥
एतेषां यदपत्यं तु न शक्यं तदशेषतः। प्रसङ्ख्यातुं महीपाल गुणभूतमनन्तकम्॥BORI: १-५९-३८॥
तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ। आरुणिर्वारुणिश्चैव वैनतेया इति स्मृताः॥BORI: १-५९-३९॥
शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजङ्गमः। कूर्मश्च कुलिकश्चैव काद्रवेया महाबलाः॥BORI: १-५९-४०॥
भीमसेनोग्रसेनौ च सुपर्णो वरुणस्तथा। गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः॥BORI: १-५९-४१॥
पत्रवानर्कपर्णश्च प्रयुतश्चैव विश्रुतः। भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी॥BORI: १-५९-४२॥
तथा शालिशिरा राजन्प्रद्युम्नश्च चतुर्दशः। कलिः पञ्चदशश्चैव नारदश्चैव षोडशः । इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः॥BORI: १-५९-४३॥
अतस्तु भूतान्यन्यानि कीर्तयिष्यामि भारत। अनवद्यामनुवशामनूनामरुणां प्रियाम् । अनूपां सुभगां भासीमिति प्रावा व्यजायत॥BORI: १-५९-४४॥
सिद्धः पूर्णश्च बर्ही च पूर्णाशश्च महायशाः। ब्रह्मचारी रतिगुणः सुपर्णश्चैव सप्तमः॥BORI: १-५९-४५॥
विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा। इत्येते देवगन्धर्वाः प्रावेयाः परिकीर्तिताः॥BORI: १-५९-४६॥
इमं त्वप्सरसां वंशं विदितं पुण्यलक्षणम्। प्रावासूत महाभागा देवी देवर्षितः पुरा॥BORI: १-५९-४७॥
अलम्बुसा मिश्रकेषी विद्युत्पर्णा तुलानघा। अरुणा रक्षिता चैव रम्भा तद्वन्मनोरमा॥BORI: १-५९-४८॥
असिता च सुबाहुश्च सुव्रता सुभुजा तथा। सुप्रिया चातिबाहुश्च विख्यातौ च हहाहुहू । तुम्बुरुश्चेति चत्वारः स्मृता गन्धर्वसत्तमाः॥BORI: १-५९-४९॥
अमृतं ब्राह्मणा गावो गन्धर्वाप्सरसस्तथा। अपत्यं कपिलायास्तु पुराणे परिकीर्तितम्॥BORI: १-५९-५०॥
इति ते सर्वभूतानां सम्भवः कथितो मया। यथावत्परिसङ्ख्यातो गन्धर्वाप्सरसां तथा॥BORI: १-५९-५१॥
भुजगानां सुपर्णानां रुद्राणां मरुतां तथा। गवां च ब्राह्मणानां च श्रीमतां पुण्यकर्मणाम्॥BORI: १-५९-५२॥
आयुष्यश्चैव पुण्यश्च धन्यः श्रुतिसुखावहः। श्रोतव्यश्चैव सततं श्राव्यश्चैवानसूयता॥BORI: १-५९-५३॥
इमं तु वंशं नियमेन यः पठे; न्महात्मनां ब्राह्मणदेवसंनिधौ। अपत्यलाभं लभते स पुष्कलं; श्रियं यशः प्रेत्य च शोभनां गतिम्॥BORI: १-५९-५४॥
रुद्रस्यानुचरः श्रीमान्महाकालेति यं विदुः ॥KUMB: १-६६-२१; NILA: ०१.०६५.०२१॥
अन्यौ दानवमुख्यानां सूर्याचन्द्रमसौ तथा ॥KUMB: १-६६-२७; NILA: ०१.०६५.०२७॥
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः। एकादश सुताः स्थाणोः ख्याताः परममानसाः॥BORI: १-६०-१॥
मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः। अजैकपादहिर्बुध्न्यः पिनाकी च परन्तपः॥BORI: १-६०-२॥
दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः। स्थाणुर्भवश्च भगवान्रुद्रा एकादश स्मृताः॥BORI: १-६०-३॥
मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः। षडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः॥BORI: १-६०-४॥
त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः। बृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः॥BORI: १-६०-५॥
अत्रेस्तु बहवः पुत्राः श्रूयन्ते मनुजाधिप। सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः॥BORI: १-६०-६॥
राक्षसास्तु पुलस्त्यस्य वानराः किंनरास्तथा। पुलहस्य मृगाः सिंहा व्याघ्राः किम्पुरुषास्तथा॥BORI: १-६०-७॥
क्रतोः क्रतुसमाः पुत्राः पतङ्गसहचारिणः। विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः॥BORI: १-६०-८॥
दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः। ब्रह्मणः पृथिवीपाल पुत्रः पुत्रवतां वरः॥BORI: १-६०-९॥
वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः। तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः॥BORI: १-६०-१०॥
ताः सर्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाः। पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः॥BORI: १-६०-११॥
ददौ स दश धर्माय सप्तविंशतिमिन्दवे। दिव्येन विधिना राजन्कश्यपाय त्रयोदश॥BORI: १-६०-१२॥
नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे। कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा॥BORI: १-६०-१३॥
बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश। द्वाराण्येतानि धर्मस्य विहितानि स्वयम्भुवा॥BORI: १-६०-१४॥
सप्तविंशति सोमस्य पत्न्यो लोके परिश्रुताः। कालस्य नयने युक्ताः सोमपत्न्यः शुभव्रताः । सर्वा नक्षत्रयोगिन्यो लोकयात्राविधौ स्थिताः॥BORI: १-६०-१५॥
पितामहो मुनिर्देवस्तस्य पुत्रः प्रजापतिः। तस्याष्टौ वसवः पुत्रास्तेषां वक्ष्यामि विस्तरम्॥BORI: १-६०-१६॥
धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः। प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविति स्मृताः॥BORI: १-६०-१७॥
धूम्रायाश्च धरः पुत्रो ब्रह्मविद्यो ध्रुवस्तथा। चन्द्रमास्तु मनस्विन्याः श्वसायाः श्वसनस्तथा॥BORI: १-६०-१८॥
रतायाश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः। प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ॥BORI: १-६०-१९॥
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा। ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः॥BORI: १-६०-२०॥
सोमस्य तु सुतो वर्चा वर्चस्वी येन जायते। मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा॥BORI: १-६०-२१॥
अह्नः सुतः स्मृतो ज्योतिः श्रमः शान्तस्तथा मुनिः। अग्नेः पुत्रः कुमारस्तु श्रीमाञ्शरवणालयः॥BORI: १-६०-२२॥
तस्य शाखो विशाखश्च नैगमेशश्च पृष्ठजः। कृत्तिकाभ्युपपत्तेश्च कार्त्तिकेय इति स्मृतः॥BORI: १-६०-२३॥
अनिलस्य शिवा भार्या तस्याः पुत्रः पुरोजवः। अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु॥BORI: १-६०-२४॥
प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाथ देवलम्। द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ॥BORI: १-६०-२५॥
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी। योगसिद्धा जगत्सर्वमसक्तं विचरत्युत । प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह॥BORI: १-६०-२६॥
विश्वकर्मा महाभागो जज्ञे शिल्पप्रजापतिः। कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः॥BORI: १-६०-२७॥
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः। यो दिव्यानि विमानानि देवतानां चकार ह॥BORI: १-६०-२८॥
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः। पूजयन्ति च यं नित्यं विश्वकर्माणमव्ययम्॥BORI: १-६०-२९॥
स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहः। निःसृतो भगवान्धर्मः सर्वलोकसुखावहः॥BORI: १-६०-३०॥
त्रयस्तस्य वराः पुत्राः सर्वभूतमनोहराः। शमः कामश्च हर्षश्च तेजसा लोकधारिणः॥BORI: १-६०-३१॥
कामस्य तु रतिर्भार्या शमस्य प्राप्तिरङ्गना। नन्दी तु भार्या हर्षस्य यत्र लोकाः प्रतिष्ठिताः॥BORI: १-६०-३२॥
मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः। जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः॥BORI: १-६०-३३॥
त्वाष्ट्री तु सवितुर्भार्या वडवारूपधारिणी। असूयत महाभागा सान्तरिक्षेऽश्विनावुभौ॥BORI: १-६०-३४॥
द्वादशैवादितेः पुत्राः शक्रमुख्या नराधिप। तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिताः॥BORI: १-६०-३५॥
त्रयस्त्रिंशत इत्येते देवास्तेषामहं तव। अन्वयं सम्प्रवक्ष्यामि पक्षैश्च कुलतो गणान्॥BORI: १-६०-३६॥
रुद्राणामपरः पक्षः साध्यानां मरुतां तथा। वसूनां भार्गवं विद्याद्विश्वेदेवांस्तथैव च॥BORI: १-६०-३७॥
वैनतेयस्तु गरुडो बलवानरुणस्तथा। बृहस्पतिश्च भगवानादित्येष्वेव गण्यते॥BORI: १-६०-३८॥
अश्विभ्यां गुह्यकान्विद्धि सर्वौषध्यस्तथा पशून्। एष देवगणो राजन्कीर्तितस्तेऽनुपूर्वशः । यं कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते॥BORI: १-६०-३९॥
ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान्भृगुः। भृगोः पुत्रः कविर्विद्वाञ्शुक्रः कविसुतो ग्रहः॥BORI: १-६०-४०॥
त्रैलोक्यप्राणयात्रार्थे वर्षावर्षे भयाभये। स्वयम्भुवा नियुक्तः सन्भुवनं परिधावति॥BORI: १-६०-४१॥
योगाचार्यो महाबुद्धिर्दैत्यानामभवद्गुरुः। सुराणां चापि मेधावी ब्रह्मचारी यतव्रतः॥BORI: १-६०-४२॥
तस्मिन्नियुक्ते विभुना योगक्षेमाय भार्गवे। अन्यमुत्पादयामास पुत्रं भृगुरनिन्दितम्॥BORI: १-६०-४३॥
च्यवनं दीप्ततपसं धर्मात्मानं मनीषिणम्। यः स रोषाच्च्युतो गर्भान्मातुर्मोक्षाय भारत॥BORI: १-६०-४४॥
आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः। और्वस्तस्यां समभवदूरुं भित्त्वा महायशाः । महातपा महातेजा बाल एव गुणैर्युतः॥BORI: १-६०-४५॥
ऋचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत्। जमदग्नेस्तु चत्वार आसन्पुत्रा महात्मनः॥BORI: १-६०-४६॥
रामस्तेषां जघन्योऽभूदजघन्यैर्गुणैर्युतः। सर्वशस्त्रास्त्रकुशलः क्षत्रियान्तकरो वशी॥BORI: १-६०-४७॥
और्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम्। तेषां पुत्रसहस्राणि बभूवुर्भृगुविस्तरः॥BORI: १-६०-४८॥
द्वौ पुत्रौ ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम्। लोके धाता विधाता च यौ स्थितौ मनुना सह॥BORI: १-६०-४९॥
तयोरेव स्वसा देवी लक्ष्मीः पद्मगृहा शुभा। तस्यास्तु मानसाः पुत्रास्तुरगा व्योमचारिणः॥BORI: १-६०-५०॥
वरुणस्य भार्या ज्येष्ठा तु शुक्राद्देवी व्यजायत। तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम्॥BORI: १-६०-५१॥
प्रजानामन्नकामानामन्योन्यपरिभक्षणात्। अधर्मस्तत्र सञ्जातः सर्वभूतविनाशनः॥BORI: १-६०-५२॥
तस्यापि निरृतिर्भार्या नैरृता येन राक्षसाः। घोरास्तस्यास्त्रयः पुत्राः पापकर्मरताः सदा । भयो महाभयश्चैव मृत्युर्भूतान्तकस्तथा॥BORI: १-६०-५३॥
काकीं श्येनीं च भासीं च धृतराष्ट्रीं तथा शुकीम्। ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः॥BORI: १-६०-५४॥
उलूकान्सुषुवे काकी श्येनी श्येनान्व्यजायत। भासी भासानजनयद्गृध्रांश्चैव जनाधिप॥BORI: १-६०-५५॥
धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः। चक्रवाकांश्च भद्रं ते प्रजज्ञे सा तु भामिनी॥BORI: १-६०-५६॥
शुकी विजज्ञे धर्मज्ञ शुकानेव मनस्विनी। कल्याणगुणसम्पन्ना सर्वलक्षणपूजिता॥BORI: १-६०-५७॥
नव क्रोधवशा नारीः प्रजज्ञेऽप्यात्मसम्भवाः। मृगीं च मृगमन्दां च हरिं भद्रमनामपि॥BORI: १-६०-५८॥
मातङ्गीमथ शार्दूलीं श्वेतां सुरभिमेव च। सर्वलक्षणसम्पन्नां सुरसां च यशस्विनीम्॥BORI: १-६०-५९॥
अपत्यं तु मृगाः सर्वे मृग्या नरवरात्मज। ऋक्षाश्च मृगमन्दायाः सृमराश्चमरा अपि॥BORI: १-६०-६०॥
ततस्त्वैरावतं नागं जज्ञे भद्रमना सुतम्। ऐरावतः सुतस्तस्या देवनागो महागजः॥BORI: १-६०-६१॥
हर्याश्च हरयोऽपत्यं वानराश्च तरस्विनः। गोलाङ्गूलांश्च भद्रं ते हर्याः पुत्रान्प्रचक्षते॥BORI: १-६०-६२॥
प्रजज्ञे त्वथ शार्दूली सिंहान्व्याघ्रांश्च भारत। द्वीपिनश्च महाभाग सर्वानेव न संशयः॥BORI: १-६०-६३॥
मातङ्ग्यास्त्वथ मातङ्गा अपत्यानि नराधिप। दिशागजं तु श्वेताख्यं श्वेताजनयदाशुगम्॥BORI: १-६०-६४॥
तथा दुहितरौ राजन्सुरभिर्वै व्यजायत। रोहिणीं चैव भद्रं ते गन्धर्वीं च यशस्विनीम्॥BORI: १-६०-६५॥
रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनः सुताः॥BORI: १-६०-६५॥
सुरसाजनयन्नागान्राजन्कद्रूश्च पन्नगान्। सप्त पिण्डफलान्वृक्षाननलापि व्यजायत । अनलायाः शुकी पुत्री कद्र्वास्तु सुरसा सुता॥BORI: १-६०-६६॥
अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ। सम्पातिं जनयामास तथैव च जटायुषम् । द्वौ पुत्रौ विनतायास्तु विख्यातौ गरुडारुणौ॥BORI: १-६०-६७॥
इत्येष सर्वभूतानां महतां मनुजाधिप। प्रभवः कीर्तितः सम्यङ्मया मतिमतां वर॥BORI: १-६०-६८॥
यं श्रुत्वा पुरुषः सम्यक्पूतो भवति पाप्मनः। सर्वज्ञतां च लभते गतिमग्र्यां च विन्दति॥BORI: १-६०-६९॥
यक्षाश्च मनुजव्याघ्र पुत्रास्तस्य च धीमतः ॥KUMB: १-६७-७; NILA: ०१.०६६.००७॥
पुलहस्य सुता राजञ्शरभाश्च प्रकीर्तिताः ॥KUMB: १-६७-८; NILA: ०१.०६६.००८॥
न तस्य भार्या पुत्रो वा कश्चिदस्त्यन्तको हि सः ॥KUMB: १-६७-५५; NILA: ०१.०६६.०५५॥
विमलामपि भद्रं ते अनलामपि भारत ॥KUMB: १-६७-६८; NILA: ०१.०६६.०६८॥
इरायाः कन्यका जातास्तिस्रः कमललोचनाः । वनस्पतीनां वृक्षाणां वीरुधां चैव मातरः ॥KUMB: १-६७-६९॥
लतारुहे च द्वे प्रोक्ते वीरुधां चैव ताः स्मृताः । गृह्णन्ति ये विना पुष्पं फलानि तरवः पृथक् ॥KUMB: १-६७-७०॥
लतासुतास्ते विज्ञेयास्तानेवाहुर्वनस्पतीन् । पुष्पैः फलग्रहान्वृक्षान्रुहायाः प्रसवं विदुः ॥KUMB: १-६७-७१॥
लतागुल्मानि वृक्षाश्च त्वक्सारतृणजन्तवः । वीरुधो याः प्रजास्तस्यास्तत्र वंशः समाप्यते ॥KUMB: १-६७-७२॥
देवानां दानवानां च यक्षाणामथ रक्षसाम्। अन्येषां चैव भूतानां सर्वेषां भगवन्नहम् ॥BORI: १-०६१-१॥
श्रोतुमिच्छामि तत्त्वेन मानुषेषु महात्मनाम्। जन्म कर्म च भूतानामेतेषामनुपूर्वशः ॥BORI: १-०६१-२॥
मानुषेषु मनुष्येन्द्र सम्भूता ये दिवौकसः। प्रथमं दानवांश्चैव तांस्ते वक्ष्यामि सर्वशः ॥BORI: १-०६१-३॥
विप्रचित्तिरिति ख्यातो य आसीद्दानवर्षभः। जरासन्ध इति ख्यातः स आसीन्मनुजर्षभः ॥BORI: १-०६१-४॥
दितेः पुत्रस्तु यो राजन्हिरण्यकशिपुः स्मृतः। स जज्ञे मानुषे लोके शिशुपालो नरर्षभः ॥BORI: १-०६१-५॥
संह्राद इति विख्यातः प्रह्रादस्यानुजस्तु यः। स शल्य इति विख्यातो जज्ञे बाह्लीकपुङ्गवः ॥BORI: १-०६१-६॥
अनुह्रादस्तु तेजस्वी योऽभूत्ख्यातो जघन्यजः। धृष्टकेतुरिति ख्यातः स आसीन्मनुजेश्वरः ॥BORI: १-०६१-७॥
यस्तु राजञ्शिबिर्नाम दैतेयः परिकीर्तितः। द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः ॥BORI: १-०६१-८॥
बाष्कलो नाम यस्तेषामासीदसुरसत्तमः। भगदत्त इति ख्यातः स आसीन्मनुजेश्वरः ॥BORI: १-०६१-९॥
अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान्। तथा गगनमूर्धा च वेगवांश्चात्र पञ्चमः ॥BORI: १-०६१-१०॥
पञ्चैते जज्ञिरे राजन्वीर्यवन्तो महासुराः। केकयेषु महात्मानः पार्थिवर्षभसत्तमाः ॥BORI: १-०६१-११॥
केतुमानिति विख्यातो यस्ततोऽन्यः प्रतापवान्। अमितौजा इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥BORI: १-०६१-१२॥
स्वर्भानुरिति विख्यातः श्रीमान्यस्तु महासुरः। उग्रसेन इति ख्यात उग्रकर्मा नराधिपः ॥BORI: १-०६१-१३॥
यस्त्वश्व इति विख्यातः श्रीमानासीन्महासुरः। अशोको नाम राजासीन्महावीर्यपराक्रमः ॥BORI: १-०६१-१४॥
तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः। दैतेयः सोऽभवद्राजा हार्दिक्यो मनुजर्षभः ॥BORI: १-०६१-१५॥
वृषपर्वेति विख्यातः श्रीमान्यस्तु महासुरः। दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥BORI: १-०६१-१६॥
अजकस्त्वनुजो राजन्य आसीद्वृषपर्वणः। स मल्ल इति विख्यातः पृथिव्यामभवन्नृपः ॥BORI: १-०६१-१७॥
अश्वग्रीव इति ख्यातः सत्त्ववान्यो महासुरः। रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥BORI: १-०६१-१८॥
सूक्ष्मस्तु मतिमान् राजन्कीर्तिमान्यः प्रकीर्तितः। बृहन्त इति विख्यातः क्षितावासीत्स पार्थिवः ॥BORI: १-०६१-१९॥
तुहुण्ड इति विख्यातो य आसीदसुरोत्तमः। सेनाबिन्दुरिति ख्यातः स बभूव नराधिपः ॥BORI: १-०६१-२०॥
इसृपा नाम यस्तेषामसुराणां बलाधिकः। पापजिन्नाम राजासीद्भुवि विख्यातविक्रमः ॥BORI: १-०६१-२१॥
एकचक्र इति ख्यात आसीद्यस्तु महासुरः। प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ ॥BORI: १-०६१-२२॥
विरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः। चित्रवर्मेति विख्यातः क्षितावासीत्स पार्थिवः ॥BORI: १-०६१-२३॥
हरस्त्वरिहरो वीर आसीद्यो दानवोत्तमः। सुवास्तुरिति विख्यातः स जज्ञे मनुजर्षभः ॥BORI: १-०६१-२४॥
अहरस्तु महातेजाः शत्रुपक्षक्षयङ्करः। बाह्लीको नाम राजा स बभूव प्रथितः क्षितौ ॥BORI: १-०६१-२५॥
निचन्द्रश्चन्द्रवक्त्रश्च य आसीदसुरोत्तमः। मुञ्जकेश इति ख्यातः श्रीमानासीत्स पार्थिवः ॥BORI: १-०६१-२६॥
निकुम्भस्त्वजितः सङ्ख्ये महामतिरजायत। भूमौ भूमिपतिः श्रेष्ठो देवाधिप इति स्मृतः ॥BORI: १-०६१-२७॥
शरभो नाम यस्तेषां दैतेयानां महासुरः। पौरवो नाम राजर्षिः स बभूव नरेष्विह ॥BORI: १-०६१-२८॥
द्वितीयः शलभस्तेषामसुराणां बभूव यः। प्रह्रादो नाम बाह्लीकः स बभूव नराधिपः ॥BORI: १-०६१-२९॥
चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः। ऋषिको नाम राजर्षिर्बभूव नृपसत्तमः ॥BORI: १-०६१-३०॥
मृतपा इति विख्यातो य आसीदसुरोत्तमः। पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम ॥BORI: १-०६१-३१॥
गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः। द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥BORI: १-०६१-३२॥
मयूर इति विख्यातः श्रीमान्यस्तु महासुरः। स विश्व इति विख्यातो बभूव पृथिवीपतिः ॥BORI: १-०६१-३३॥
सुपर्ण इति विख्यातस्तस्मादवरजस्तु यः। कालकीर्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥BORI: १-०६१-३४॥
चन्द्रहन्तेति यस्तेषां कीर्तितः प्रवरोऽसुरः। शुनको नाम राजर्षिः स बभूव नराधिपः ॥BORI: १-०६१-३५॥
विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः। जानकिर्नाम राजर्षिः स बभूव नराधिपः ॥BORI: १-०६१-३६॥
दीर्घजिह्वस्तु कौरव्य य उक्तो दानवर्षभः। काशिराज इति ख्यातः पृथिव्यां पृथिवीपतिः ॥BORI: १-०६१-३७॥
ग्रहं तु सुषुवे यं तं सिंही चन्द्रार्कमर्दनम्। क्राथ इत्यभिविख्यातः सोऽभवन्मनुजाधिपः ॥BORI: १-०६१-३८॥
अनायुषस्तु पुत्राणां चतुर्णां प्रवरोऽसुरः। विक्षरो नाम तेजस्वी वसुमित्रोऽभवन्नृपः ॥BORI: १-०६१-३९॥
द्वितीयो विक्षराद्यस्तु नराधिप महासुरः। पांसुराष्ट्राधिप इति विश्रुतः सोऽभवन्नृपः ॥BORI: १-०६१-४०॥
बलवीर इति ख्यातो यस्त्वासीदसुरोत्तमः। पौण्ड्रमत्स्यक इत्येव स बभूव नराधिपः ॥BORI: १-०६१-४१॥
वृत्र इत्यभिविख्यातो यस्तु राजन्महासुरः। मणिमान्नाम राजर्षिः स बभूव नराधिपः ॥BORI: १-०६१-४२॥
क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः। दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ ॥BORI: १-०६१-४३॥
क्रोधवर्धन इत्येव यस्त्वन्यः परिकीर्तितः। दण्डधार इति ख्यातः सोऽभवन्मनुजेश्वरः ॥BORI: १-०६१-४४॥
कालकायास्तु ये पुत्रास्तेषामष्टौ नराधिपाः। जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः ॥BORI: १-०६१-४५॥
मगधेषु जयत्सेनः श्रीमानासीत्स पार्थिवः। अष्टानां प्रवरस्तेषां कालेयानां महासुरः ॥BORI: १-०६१-४६॥
द्वितीयस्तु ततस्तेषां श्रीमान्हरिहयोपमः। अपराजित इत्येव स बभूव नराधिपः ॥BORI: १-०६१-४७॥
तृतीयस्तु महाराज महाबाहुर्महासुरः। निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः ॥BORI: १-०६१-४८॥
तेषामन्यतमो यस्तु चतुर्थः परिकीर्तितः। श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः ॥BORI: १-०६१-४९॥
पञ्चमस्तु बभूवैषां प्रवरो यो महासुरः। महौजा इति विख्यातो बभूवेह परन्तपः ॥BORI: १-०६१-५०॥
षष्ठस्तु मतिमान्यो वै तेषामासीन्महासुरः। अभीरुरिति विख्यातः क्षितौ राजर्षिसत्तमः ॥BORI: १-०६१-५१॥
समुद्रसेनश्च नृपस्तेषामेवाभवद्गणात्। विश्रुतः सागरान्तायां क्षितौ धर्मार्थतत्त्ववित् ॥BORI: १-०६१-५२॥
बृहन्नामाष्टमस्तेषां कालेयानां परन्तपः। बभूव राजन्धर्मात्मा सर्वभूतहिते रतः ॥BORI: १-०६१-५३॥
गणः क्रोधवशो नाम यस्ते राजन् प्रकीर्तितः। ततः सञ्जज्ञिरे वीराः क्षिताविह नराधिपाः ॥BORI: १-०६१-५४॥
नन्दिकः कर्णवेष्टश्च सिद्धार्थः कीटकस्तथा। सुवीरश्च सुबाहुश्च महावीरोऽथ बाह्लिकः ॥BORI: १-०६१-५५॥
क्रोधो विचित्यः सुरसः श्रीमान्नीलश्च भूमिपः । वीरधामा च कौरव्य भूमिपालश्च नामतः ॥BORI: १-०६१-५६॥
दन्तवक्त्रश्च नामासीद्दुर्जयश्चैव नामतः । रुक्मी च नृपशार्दूलो राजा च जनमेजयः ॥BORI: १-०६१-५७॥
आषाढो वायुवेगश्च भूरितेजास्तथैव च । एकलव्यः सुमित्रश्च वाटधानोऽथ गोमुखः ॥BORI: १-०६१-५८॥
कारूषकाश्च राजानः क्षेमधूर्तिस्तथैव च । श्रुतायुरुद्धवश्चैव बृहत्सेनस्तथैव च ॥BORI: १-०६१-५९॥
क्षेमोग्रतीर्थः कुहरः कलिङ्गेषु नराधिपः । मतिमांश्च मनुष्येन्द्र ईश्वरश्चेति विश्रुतः ॥BORI: १-०६१-६०॥
गणात्क्रोधवशादेवं राजपूगोऽभवत्क्षितौ । जातः पुरा महाराज महाकीर्तिर्महाबलः ॥BORI: १-०६१-६१॥
यस्त्वासीद्देवको नाम देवराजसमद्युतिः । स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः ॥BORI: १-०६१-६२॥
बृहस्पतेर्बृहत्कीर्तेर्देवर्षेर्विद्धि भारत । अंशाद्द्रोणं समुत्पन्नं भारद्वाजमयोनिजम् ॥BORI: १-०६१-६३॥
धन्विनां नृपशार्दूल यः स सर्वास्त्रवित्तमः । बृहत्कीर्तिर्महातेजाः सञ्जज्ञे मनुजेष्विह ॥BORI: १-०६१-६४॥
धनुर्वेदे च वेदे च यं तं वेदविदो विदुः । वरिष्ठमिन्द्रकर्माणं द्रोणं स्वकुलवर्धनम् ॥BORI: १-०६१-६५॥
महादेवान्तकाभ्यां च कामात्क्रोधाच्च भारत । एकत्वमुपपन्नानां जज्ञे शूरः परन्तपः ॥BORI: १-०६१-६६॥
अश्वत्थामा महावीर्यः शत्रुपक्षक्षयङ्करः । वीरः कमलपत्राक्षः क्षितावासीन्नराधिप ॥BORI: १-०६१-६७॥
जज्ञिरे वसवस्त्वष्टौ गङ्गायां शन्तनोः सुताः । वसिष्ठस्य च शापेन नियोगाद्वासवस्य च ॥BORI: १-०६१-६८॥
तेषामवरजो भीष्मः कुरूणामभयङ्करः । मतिमान्वेदविद्वाग्मी शत्रुपक्षक्षयङ्करः ॥BORI: १-०६१-६९॥
जामदग्न्येन रामेण यः स सर्वविदां वरः । अयुध्यत महातेजा भार्गवेण महात्मना ॥BORI: १-०६१-७०॥
यस्तु राजन्कृपो नाम ब्रह्मर्षिरभवत्क्षितौ । रुद्राणां तं गणाद्विद्धि सम्भूतमतिपौरुषम् ॥BORI: १-०६१-७१॥
शकुनिर्नाम यस्त्वासीद्राजा लोके महारथः । द्वापरं विद्धि तं राजन्सम्भूतमरिमर्दनम् ॥BORI: १-०६१-७२॥
सात्यकिः सत्यसन्धस्तु योऽसौ वृष्णिकुलोद्वहः । पक्षात्स जज्ञे मरुतां देवानामरिमर्दनः ॥BORI: १-०६१-७३॥
द्रुपदश्चापि राजर्षिस्तत एवाभवद्गणात् । मानुषे नृप लोकेऽस्मिन्सर्वशस्त्रभृतां वरः ॥BORI: १-०६१-७४॥
ततश्च कृतवर्माणं विद्धि राजञ्जनाधिपम् । जातमप्रतिकर्माणं क्षत्रियर्षभसत्तमम् ॥BORI: १-०६१-७५॥
मरुतां तु गणाद्विद्धि सञ्जातमरिमर्दनम् । विराटं नाम राजर्षिं परराष्ट्रप्रतापनम् ॥BORI: १-०६१-७६॥
अरिष्टायास्तु यः पुत्रो हंस इत्यभिविश्रुतः । स गन्धर्वपतिर्जज्ञे कुरुवंशविवर्धनः ॥BORI: १-०६१-७७॥
धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनादपि । दीर्घबाहुर्महातेजाः प्रज्ञाचक्षुर्नराधिपः। मातुर्दोषादृषेः कोपादन्ध एव व्यजायत ॥BORI: १-०६१-७८॥
अत्रेस्तु सुमहाभागं पुत्रं पुत्रवतां वरम् । विदुरं विद्धि लोकेऽस्मिञ्जातं बुद्धिमतां वरम् ॥BORI: १-०६१-७९॥
कलेरंशात्तु सञ्जज्ञे भुवि दुर्योधनो नृपः । दुर्बुद्धिर्दुर्मतिश्चैव कुरूणामयशस्करः ॥BORI: १-०६१-८०॥
जगतो यः स सर्वस्य विद्विष्टः कलिपूरुषः । यः सर्वां घातयामास पृथिवीं पुरुषाधमः। येन वैरं समुद्दीप्तं भूतान्तकरणं महत् ॥BORI: १-०६१-८१॥
पौलस्त्या भ्रातरः सर्वे जज्ञिरे मनुजेष्विह । शतं दुःशासनादीनां सर्वेषां क्रूरकर्मणाम् ॥BORI: १-०६१-८२॥
दुर्मुखो दुःसहश्चैव ये चान्ये नानुशब्दिताः । दुर्योधनसहायास्ते पौलस्त्या भरतर्षभ ॥BORI: १-०६१-८३॥
धर्मस्यांशं तु राजानं विद्धि राजन्युधिष्ठिरम् । भीमसेनं तु वातस्य देवराजस्य चार्जुनम् ॥BORI: १-०६१-८४॥
अश्विनोस्तु तथैवांशौ रूपेणाप्रतिमौ भुवि । नकुलः सहदेवश्च सर्वलोकमनोहरौ ॥BORI: १-०६१-८५॥
यः सुवर्चा इति ख्यातः सोमपुत्रः प्रतापवान् । अभिमन्युर्बृहत्कीर्तिरर्जुनस्य सुतोऽभवत् ॥BORI: १-०६१-८६॥
अग्नेरंशं तु विद्धि त्वं धृष्टद्युम्नं महारथम् । शिखण्डिनमथो राजन्स्त्रीपुंसं विद्धि राक्षसम् ॥BORI: १-०६१-८७॥
द्रौपदेयाश्च ये पञ्च बभूवुर्भरतर्षभ । विश्वेदेवगणान्राजंस्तान्विद्धि भरतर्षभ ॥BORI: १-०६१-८८॥
आमुक्तकवचः कर्णो यस्तु जज्ञे महारथः । दिवाकरस्य तं विद्धि देवस्यांशमनुत्तमम् ॥BORI: १-०६१-८९॥
यस्तु नारायणो नाम देवदेवः सनातनः । तस्यांशो मानुषेष्वासीद्वासुदेवः प्रतापवान् ॥BORI: १-०६१-९०॥
शेषस्यांशस्तु नागस्य बलदेवो महाबलः । सनत्कुमारं प्रद्युम्नं विद्धि राजन्महौजसम् ॥BORI: १-०६१-९१॥
एवमन्ये मनुष्येन्द्र बहवोंऽशा दिवौकसाम् । जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः ॥BORI: १-०६१-९२॥
गणस्त्वप्सरसां यो वै मया राजन्प्रकीर्तितः । तस्य भागः क्षितौ जज्ञे नियोगाद्वासवस्य च ॥BORI: १-०६१-९३॥
तानि षोडश देवीनां सहस्राणि नराधिप । बभूवुर्मानुषे लोके नारायणपरिग्रहः ॥BORI: १-०६१-९४॥
श्रियस्तु भागः सञ्जज्ञे रत्यर्थं पृथिवीतले । द्रुपदस्य कुले कन्या वेदिमध्यादनिन्दिता ॥BORI: १-०६१-९५॥
नातिह्रस्वा न महती नीलोत्पलसुगन्धिनी । पद्मायताक्षी सुश्रोणी असितायतमूर्धजा ॥BORI: १-०६१-९६॥
सर्वलक्षणसम्पन्ना वैडूर्यमणिसंनिभा । पञ्चानां पुरुषेन्द्राणां चित्तप्रमथिनी रहः ॥BORI: १-०६१-९७॥
सिद्धिर्धृतिश्च ये देव्यौ पञ्चानां मातरौ तु ते । कुन्ती माद्री च जज्ञाते मतिस्तु सुबलात्मजा ॥BORI: १-०६१-९८॥
इति देवासुराणां ते गन्धर्वाप्सरसां तथा । अंशावतरणं राजन्राक्षसानां च कीर्तितम् ॥BORI: १-०६१-९९॥
ये पृथिव्यां समुद्भूता राजानो युद्धदुर्मदाः । महात्मानो यदूनां च ये जाता विपुले कुले ॥BORI: १-०६१-१००॥
धन्यं यशस्यं पुत्रीयमायुष्यं विजयावहम् । इदमंशावतरणं श्रोतव्यमनसूयता ॥BORI: १-०६१-१०१॥
अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम् । प्रभवाप्ययवित्प्राज्ञो न कृच्छ्रेष्ववसीदति ॥BORI: १-०६१-१०२॥
सिंहव्याघ्रमृगाणां च पन्नगानां पतत्त्रिणाम् ॥KUMB: १-६८-१; NILA: ०१.०६७.००१॥
कुपटस्तु महावीर्यः श्रीमान्राजन्महासुरः ॥KUMB: १-६८-२८; NILA: ०१.०६७.०२८॥
सुपार्श्व इति विख्यातः क्षितौ जज्ञे महीपतिः । कपटस्तु राजन्राजर्षिः क्षितौ जज्ञे महासुरः ॥KUMB: १-६८-२९; NILA: ०१.०६७.०२९॥
पार्वतेय इति ख्यातः काञ्चनाचलसन्निभः ॥KUMB: १-६८-३०; NILA: ०१.०६७.०३०॥
चन्द्रवर्मेति विख्यातः काम्बोजानां नराधिपः ॥KUMB: १-६८-३२; NILA: ०१.०६७.०३२॥
कुक्षिस्तु राजन्विख्यातो दानवानां महाबलः । पार्वतीय इति ख्यातः काञ्चनाचलसन्निभः ॥KUMB: १-६८-५६; NILA: ०१.०६७.०५६॥
क्रथनश्च महावीर्यः श्रीमान्राजा महासुरः । सूर्याक्ष इति विख्यातः क्षितौ जज्ञे महीपतिः ॥KUMB: १-६८-५७; NILA: ०१.०६७.०५७॥
असुराणां तु यः सकूर्यः श्रीमांश्चैव महासुरः । दरदो नाम बाह्लीको वरः सर्वमहीक्षिताम् ॥KUMB: १-६८-५८; NILA: ०१.०६७.०५८॥
कालनेमिरिति ख्यातो दानवानां महाबलः । स कंस इति विख्यात उग्रसेनसुतो बली ॥KUMB: १-६८-६७; NILA: ०१.०६७.०६७॥
मरुतां तु गणाद्वीरः सर्वशस्त्रभृतां वरः । पाण्डुर्जज्ञे महाबाहुस्तव पूर्वपितामहः । तस्यैवावरजो भ्राता महासत्वो महाबलः ॥KUMB: १-६८-८५; NILA: ०१.०६७.०८५॥
स पाण्डुरिति विख्यातः सत्यधर्मरतः शुचिः ॥NILA: ०१.०६७.०८६॥
यस्यावतरणे राजन्सुरान्सोमोऽब्रवीदिदम् ॥KUMB: १-६८-११३; NILA: ०१.०६७.११३॥
नाहं दद्यां प्रियं पुत्रं मम प्राणैर्गरीयसम् । समयः क्रियतामेष न शक्यमतिवर्तितुम् ॥KUMB: १-६८-११४; NILA: ०१.०६७.११४॥
सुरकार्यं हि नः कार्यमसुराणां क्षितौ वधः । तत्र यास्यत्ययं वर्चा न च स्थास्यति वै चिरम् ॥KUMB: १-६८-११५; NILA: ०१.०६७.११५॥
ऐन्द्रिर्नरस्तु भविता यस्य नारायणः सखा ॥KUMB: १-६८-११६; NILA: ०१.०६७.११६॥
तस्यायं भविता पुत्रो बालो भुवि महारथः । ततः षोडशवर्षाणि स्थास्यत्यमरसत्तमाः ॥KUMB: १-६८-११७; NILA: ०१.०६७.११७॥
अस्य षोडशवर्षस्य स सङ्ग्रामो भविष्यति । यत्रांशा वः करिष्यन्ति कर्म वीरनिषूदनम् ॥KUMB: १-६८-११८; NILA: ०१.०६७.११८॥
नरनारायणाभ्यां तु स सङ्ग्रामो विनाकृतः । चक्रव्यूहं समास्थाय योधयिष्यन्ति वःसुराः ॥KUMB: १-६८-११९; NILA: ०१.०६७.११९॥
विमुखाञ्छात्रवान्सर्वान्कारयिष्यति मे सुतः । बालः प्रविश्य च व्यूहमभेद्यं विचरिष्यति ॥KUMB: १-६८-१२०; NILA: ०१.०६७.१२०॥
महारथानां वीराणां कदनं च करिष्यति । सर्वेषामेव शत्रूणां चतुर्थांशं नयिष्यति ॥KUMB: १-६८-१२१; NILA: ०१.०६७.१२१॥
दिनार्धेन महाबाहुः प्रेतराजपुरं प्रति । ततो महारथैर्वीरैः समेत्य बहुशो रणे ॥KUMB: १-६८-१२२; NILA: ०१.०६७.१२२॥
दिनक्षये महाबाहुर्मया भूयः समेष्यति । एकं वंशकरं पुत्रं वीरं वै जनयिष्यति ॥KUMB: १-६८-१२३; NILA: ०१.०६७.१२३॥
प्रनष्टं भारतं वंशं स भूयो धारयिष्यति । एतत्सोमवचः श्रुत्वा तथास्त्विति दिवौकसः ॥KUMB: १-६८-१२४; KUMB: १-६८-१२४क्ष्; NILA: ०१.०६७.१२४॥
प्रत्यूचुः सहिताः सर्वे ताराधिपमपूजयन् । एवं ते कथितं राजंस्तव जन्म पितुः पितुः ॥KUMB: १-६८-१२५; NILA: ०१.०६७.१२५॥
भीष्मकस्य कुले साध्वी रुक्मिणी नाम नामतः ॥KUMB: १-६८-१५६; NILA: ०१.०६७.१५६॥
द्रौपदीं त्वथ सञ्जज्ञे शचीभागादनिन्दिता ॥NILA: ०१.०६७.१५७॥
ब्राह्मणाः क्षत्रिया वैश्या मया ते परिकीर्तिताः ॥KUMB: १-६८-१६३; NILA: ०१.०६७.१६३॥