Chapter 8: Śakuntalā’s birth from Viśvāmitra and Menakā; her Gandharva marriage with Duḥṣanta, Bharata’s birth and recognition, and the rise of the Bhārata lineage.
त्वत्तः श्रुतमिदं ब्रह्मन्देवदानवरक्षसाम्। अंशावतरणं सम्यग्गन्धर्वाप्सरसां तथा ॥BORI: १-६२-१॥
इमं तु भूय इच्छामि कुरूणां वंशमादितः। कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ ॥BORI: १-६२-२॥
पौरवाणां वंशकरो दुःषन्तो नाम वीर्यवान्। पृथिव्याश्चतुरन्ताया गोप्ता भरतसत्तम ॥BORI: १-६२-३॥
चतुर्भागं भुवः कृत्स्नं स भुङ्क्ते मनुजेश्वरः। समुद्रावरणांश्चापि देशान्स समितिञ्जयः ॥BORI: १-६२-४॥
आम्लेच्छाटविकान्सर्वान्स भुङ्क्ते रिपुमर्दनः। रत्नाकरसमुद्रान्तांश्चातुर्वर्ण्यजनावृतान् ॥BORI: १-६२-५॥
न वर्णसङ्करकरो नाकृष्यकरकृज्जनः। न पापकृत्कश्चिदासीत्तस्मिन्राजनि शासति ॥BORI: १-६२-६॥
धर्म्यां रतिं सेवमाना धर्मार्थावभिपेदिरे। तदा नरा नरव्याघ्र तस्मिञ्जनपदेश्वरे ॥BORI: १-६२-७॥
नासीच्चोरभयं तात न क्षुधाभयमण्वपि। नासीद्व्याधिभयं चापि तस्मिञ्जनपदेश्वरे ॥BORI: १-६२-८॥
स्वैर्धर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः। तमाश्रित्य महीपालमासंश्चैवाकुतोभयाः ॥BORI: १-६२-९॥
कालवर्षी च पर्जन्यः सस्यानि फलवन्ति च। सर्वरत्नसमृद्धा च मही वसुमती तदा ॥BORI: १-६२-१०॥
स चाद्भुतमहावीर्यो वज्रसंहननो युवा। उद्यम्य मन्दरं दोर्भ्यां हरेत्सवनकाननम् ॥BORI: १-६२-११॥
धनुष्यथ गदायुद्धे त्सरुप्रहरणेषु च। नागपृष्ठेऽश्वपृष्ठे च बभूव परिनिष्ठितः ॥BORI: १-६२-१२॥
बले विष्णुसमश्चासीत्तेजसा भास्करोपमः। अक्षुब्धत्वेऽर्णवसमः सहिष्णुत्वे धरासमः ॥BORI: १-६२-१३॥
संमतः स महीपालः प्रसन्नपुरराष्ट्रवान्। भूयो धर्मपरैर्भावैर्विदितं जनमावसत् ॥BORI: १-६२-१४॥
भगवन्विस्तरेणेह भरतस्य महात्मनः । जन्म कर्म च सुश्रूषोस्तन्मे शंसितुमर्हसि ॥KUMB: १-८९-१॥
स्वकर्मनिरता विप्रा नानृतं तेषु विद्यते ॥KUMB: १-८९-१०; NILA: ०१.०६८.०११॥
स कदाचिन्महाबाहुः प्रभूतबलवाहनः। वनं जगाम गहनं हयनागशतैर्वृतः ॥BORI: १-६३-१॥
खड्गशक्तिधरैर्वीरैर्गदामुसलपाणिभिः। प्रासतोमरहस्तैश्च ययौ योधशतैर्वृतः ॥BORI: १-६३-२॥
सिंहनादैश्च योधानां शङ्खदुन्दुभिनिस्वनैः। रथनेमिस्वनैश्चापि सनागवरबृंहितैः ॥BORI: १-६३-३॥
हेषितस्वनमिश्रैश्च क्ष्वेडितास्फोटितस्वनैः। आसीत्किलकिलाशब्दस्तस्मिन्गच्छति पार्थिवे ॥BORI: १-६३-४॥
प्रासादवरशृङ्गस्थाः परया नृपशोभया। ददृशुस्तं स्त्रियस्तत्र शूरमात्मयशस्करम् ॥BORI: १-६३-५॥
शक्रोपमममित्रघ्नं परवारणवारणम्। पश्यन्तः स्त्रीगणास्तत्र शस्त्रपाणिं स्म मेनिरे ॥BORI: १-६३-६॥
अयं स पुरुषव्याघ्रो रणेऽद्भुतपराक्रमः। यस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः ॥BORI: १-६३-७॥
इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा नराधिपम्। तुष्टुवुः पुष्पवृष्टीश्च ससृजुस्तस्य मूर्धनि ॥BORI: १-६३-८॥
तत्र तत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः। निर्ययौ परया प्रीत्या वनं मृगजिघांसया ॥BORI: १-६३-९॥
सुदूरमनुजग्मुस्तं पौरजानपदास्तदा। न्यवर्तन्त ततः पश्चादनुज्ञाता नृपेण ह ॥BORI: १-६३-१०॥
सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः। महीमापूरयामास घोषेण त्रिदिवं तथा ॥BORI: १-६३-११॥
स गच्छन्ददृशे धीमान्नन्दनप्रतिमं वनम्। बिल्वार्कखदिराकीर्णं कपित्थधवसङ्कुलम् ॥BORI: १-६३-१२॥
विषमं पर्वतप्रस्थैरश्मभिश्च समावृतम्। निर्जलं निर्मनुष्यं च बहुयोजनमायतम् । मृगसङ्घैर्वृतं घोरैरन्यैश्चापि वनेचरैः ॥BORI: १-६३-१३॥
तद्वनं मनुजव्याघ्रः सभृत्यबलवाहनः। लोडयामास दुःषन्तः सूदयन्विविधान्मृगान् ॥BORI: १-६३-१४॥
बाणगोचरसम्प्राप्तांस्तत्र व्याघ्रगणान्बहून्। पातयामास दुःषन्तो निर्बिभेद च सायकैः ॥BORI: १-६३-१५॥
दूरस्थान्सायकैः कांश्चिदभिनत्स नरर्षभः। अभ्याशमागतांश्चान्यान्खड्गेन निरकृन्तत ॥BORI: १-६३-१६॥
कांश्चिदेणान्स निर्जघ्ने शक्त्या शक्तिमतां वरः। गदामण्डलतत्त्वज्ञश्चचारामितविक्रमः ॥BORI: १-६३-१७॥
तोमरैरसिभिश्चापि गदामुसलकर्पणैः। चचार स विनिघ्नन्वै वन्यांस्तत्र मृगद्विजान् ॥BORI: १-६३-१८॥
राज्ञा चाद्भुतवीर्येण योधैश्च समरप्रियैः। लोड्यमानं महारण्यं तत्यजुश्च महामृगाः ॥BORI: १-६३-१९॥
तत्र विद्रुतसङ्घानि हतयूथपतीनि च। मृगयूथान्यथौत्सुक्याच्छब्दं चक्रुस्ततस्ततः ॥BORI: १-६३-२०॥
शुष्कां चापि नदीं गत्वा जलनैराश्यकर्शिताः। व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः ॥BORI: १-६३-२१॥
क्षुत्पिपासापरीताश्च श्रान्ताश्च पतिता भुवि। केचित्तत्र नरव्याघ्रैरभक्ष्यन्त बुभुक्षितैः ॥BORI: १-६३-२२॥
केचिदग्निमथोत्पाद्य समिध्य च वनेचराः। भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत्तदा ॥BORI: १-६३-२३॥
तत्र केचिद्गजा मत्ता बलिनः शस्त्रविक्षताः। सङ्कोच्याग्रकरान्भीताः प्रद्रवन्ति स्म वेगिताः ॥BORI: १-६३-२४॥
शकृन्मूत्रं सृजन्तश्च क्षरन्तः शोणितं बहु। वन्या गजवरास्तत्र ममृदुर्मनुजान्बहून् ॥BORI: १-६३-२५॥
तद्वनं बलमेघेन शरधारेण संवृतम्। व्यरोचन्महिषाकीर्णं राज्ञा हतमहामृगम् ॥BORI: १-६३-२६॥
संभवं भरतस्याहं चरितं च महामतेः । शकुन्तलायाश्चोत्पत्तिं श्रोतुमिच्छामि तत्त्वतः ॥KUMB: १-९०-१; NILA: ०१.०६९.००१॥
दुष्यन्तेन च वीरेण यथा प्राप्ता शकुन्तला । तं वै पुरुषसिंहस्य भगवन्विस्तरं त्वहम् ॥KUMB: १-९०-२; NILA: ०१.०६९.००२॥
श्रोतुमिच्छामि तत्त्वज्ञ सर्वं मतिमतां वर ॥KUMB: १-९०-३; NILA: ०१.०६९.००३॥
बलेन चतुरङ्गेण वृतः परमवल्गुना ॥KUMB: १-९०-४; NILA: ०१.०६९.००४॥
नानायुधधरैश्चापि नानावेषधरैस्तथा ॥KUMB: १-९०-७; NILA: ०१.०६९.००७॥
तं देवराजप्रतिमं मत्तवारणधूर्गतम् ॥KUMB: १-९०-१३; NILA: ०१.०६९.०१३॥
द्विजक्षत्रियविट्शूद्रा निर्यान्तमनुजग्मिरे । ददृशुर्वर्धमानास्ते आशीर्भिश्च जयेन च ॥KUMB: १-९०-१४; NILA: ०१.०६९.०१४॥
ततो मृगसहस्राणि हत्वा विपुलवाहनः। राजा मृगप्रसङ्गेन वनमन्यद्विवेश ह ॥BORI: १-६४-१॥
एक एवोत्तमबलः क्षुत्पिपासासमन्वितः। स वनस्यान्तमासाद्य महदीरिणमासदत् ॥BORI: १-६४-२॥
तच्चाप्यतीत्य नृपतिरुत्तमाश्रमसंयुतम्। मनःप्रह्लादजननं दृष्टिकान्तमतीव च । शीतमारुतसंयुक्तं जगामान्यन्महद्वनम् ॥BORI: १-६४-३॥
पुष्पितैः पादपैः कीर्णमतीव सुखशाद्वलम्। विपुलं मधुरारावैर्नादितं विहगैस्तथा ॥BORI: १-६४-४॥
प्रवृद्धविटपैर्वृक्षैः सुखच्छायैः समावृतम्। षट्पदाघूर्णितलतं लक्ष्म्या परमया युतम् ॥BORI: १-६४-५॥
नापुष्पः पादपः कश्चिन्नाफलो नापि कण्टकी। षट्पदैर्वाप्यनाकीर्णस्तस्मिन्वै काननेऽभवत् ॥BORI: १-६४-६॥
विहगैर्नादितं पुष्पैरलङ्कृतमतीव च। सर्वर्तुकुसुमैर्वृक्षैरतीव सुखशाद्वलम् । मनोरमं महेष्वासो विवेश वनमुत्तमम् ॥BORI: १-६४-७॥
मारुतागलितास्तत्र द्रुमाः कुसुमशालिनः। पुष्पवृष्टिं विचित्रां स्म व्यसृजंस्ते पुनः पुनः ॥BORI: १-६४-८॥
दिवस्पृशोऽथ सङ्घुष्टाः पक्षिभिर्मधुरस्वरैः। विरेजुः पादपास्तत्र विचित्रकुसुमाम्बराः ॥BORI: १-६४-९॥
तेषां तत्र प्रवालेषु पुष्पभारावनामिषु। रुवन्ति रावं विहगाः षट्पदैः सहिता मृदु ॥BORI: १-६४-१०॥
तत्र प्रदेशांश्च बहून्कुसुमोत्करमण्डितान्। लतागृहपरिक्षिप्तान्मनसः प्रीतिवर्धनान् । सम्पश्यन्स महातेजा बभूव मुदितस्तदा ॥BORI: १-६४-११॥
परस्पराश्लिष्टशाखैः पादपैः कुसुमाचितैः। अशोभत वनं तत्तैर्महेन्द्रध्वजसंनिभैः ॥BORI: १-६४-१२॥
सुखशीतः सुगन्धी च पुष्परेणुवहोऽनिलः। परिक्रामन्वने वृक्षानुपैतीव रिरंसया ॥BORI: १-६४-१३॥
एवङ्गुणसमायुक्तं ददर्श स वनं नृपः। नदीकच्छोद्भवं कान्तमुच्छ्रितध्वजसंनिभम् ॥BORI: १-६४-१४॥
प्रेक्षमाणो वनं तत्तु सुप्रहृष्टविहङ्गमम्। आश्रमप्रवरं रम्यं ददर्श च मनोरमम् ॥BORI: १-६४-१५॥
नानावृक्षसमाकीर्णं सम्प्रज्वलितपावकम्। यतिभिर्वालखिल्यैश्च वृतं मुनिगणान्वितम् ॥BORI: १-६४-१६॥
अग्न्यागारैश्च बहुभिः पुष्पसंस्तरसंस्तृतम्। महाकच्छैर्बृहद्भिश्च विभ्राजितमतीव च ॥BORI: १-६४-१७॥
मालिनीमभितो राजन्नदीं पुण्यां सुखोदकाम्। नैकपक्षिगणाकीर्णां तपोवनमनोरमाम् । तत्र व्यालमृगान्सौम्यान्पश्यन्प्रीतिमवाप सः ॥BORI: १-६४-१८॥
तं चाप्यतिरथः श्रीमानाश्रमं प्रत्यपद्यत। देवलोकप्रतीकाशं सर्वतः सुमनोहरम् ॥BORI: १-६४-१९॥
नदीमाश्रमसंश्लिष्टां पुण्यतोयां ददर्श सः। सर्वप्राणभृतां तत्र जननीमिव विष्ठिताम् ॥BORI: १-६४-२०॥
सचक्रवाकपुलिनां पुष्पफेनप्रवाहिनीम्। सकिंनरगणावासां वानरर्क्षनिषेविताम् ॥BORI: १-६४-२१॥
पुण्यस्वाध्यायसङ्घुष्टां पुलिनैरुपशोभिताम्। मत्तवारणशार्दूलभुजगेन्द्रनिषेविताम् ॥BORI: १-६४-२२॥
नदीमाश्रमसम्बद्धां दृष्ट्वाश्रमपदं तथा। चकाराभिप्रवेशाय मतिं स नृपतिस्तदा ॥BORI: १-६४-२३॥
अलङ्कृतं द्वीपवत्या मालिन्या रम्यतीरया। नरनारायणस्थानं गङ्गयेवोपशोभितम्। मत्तबर्हिणसङ्घुष्टं प्रविवेश महद्वनम् ॥BORI: १-६४-२४॥
तत्स चैत्ररथप्रख्यं समुपेत्य नरेश्वरः। अतीव गुणसम्पन्नमनिर्देश्यं च वर्चसा । महर्षिं काश्यपं द्रष्टुमथ कण्वं तपोधनम् ॥BORI: १-६४-२५॥
रथिनीमश्वसम्बाधां पदातिगणसङ्कुलाम्। अवस्थाप्य वनद्वारि सेनामिदमुवाच सः ॥BORI: १-६४-२६॥
मुनिं विरजसं द्रष्टुं गमिष्यामि तपोधनम्। काश्यपं स्थीयतामत्र यावदागमनं मम ॥BORI: १-६४-२७॥
तद्वनं नन्दनप्रख्यमासाद्य मनुजेश्वरः। क्षुत्पिपासे जहौ राजा हर्षं चावाप पुष्कलम् ॥BORI: १-६४-२८॥
सामात्यो राजलिङ्गानि सोऽपनीय नराधिपः। पुरोहितसहायश्च जगामाश्रममुत्तमम् । दिदृक्षुस्तत्र तमृषिं तपोराशिमथाव्ययम् ॥BORI: १-६४-२९॥
ब्रह्मलोकप्रतीकाशमाश्रमं सोऽभिवीक्ष्य च। षट्पदोद्गीतसङ्घुष्टं नानाद्विज गणायुतम् ॥BORI: १-६४-३०॥
ऋचो बह्वृचमुख्यैश्च प्रेर्यमाणाः पदक्रमैः। शुश्राव मनुजव्याघ्रो विततेष्विह कर्मसु ॥BORI: १-६४-३१॥
यज्ञविद्याङ्गविद्भिश्च क्रमद्भिश्च क्रमानपि। अमितात्मभिः सुनियतैः शुशुभे स तदाश्रमः ॥BORI: १-६४-३२॥
अथर्ववेदप्रवराः पूगयाज्ञिक संमताः। संहितामीरयन्ति स्म पदक्रमयुतां तु ते ॥BORI: १-६४-३३॥
शब्दसंस्कारसंयुक्तं ब्रुवद्भिश्चापरैर्द्विजैः। नादितः स बभौ श्रीमान्ब्रह्मलोक इवाश्रमः ॥BORI: १-६४-३४॥
यज्ञसंस्कारविद्भिश्च क्रमशिक्षा विशारदैः। न्यायतत्त्वार्थविज्ञानसम्पन्नैर्वेदपारगैः ॥BORI: १-६४-३५॥
नानावाक्यसमाहारसमवायविशारदैः। विशेषकार्यविद्भिश्च मोक्षधर्मपरायणैः ॥BORI: १-६४-३६॥
स्थापनाक्षेपसिद्धान्तपरमार्थज्ञतां गतैः। लोकायतिकमुख्यैश्च समन्तादनुनादितम् ॥BORI: १-६४-३७॥
तत्र तत्र च विप्रेन्द्रान्नियतान्संशितव्रतान्। जपहोमपरान्सिद्धान्ददर्श परवीरहा ॥BORI: १-६४-३८॥
आसनानि विचित्राणि पुष्पवन्ति महीपतिः। प्रयत्नोपहितानि स्म दृष्ट्वा विस्मयमागमत् ॥BORI: १-६४-३९॥
देवतायतनानां च पूजां प्रेक्ष्य कृतां द्विजैः। ब्रह्मलोकस्थमात्मानं मेने स नृपसत्तमः ॥BORI: १-६४-४०॥
स काश्यपतपोगुप्तमाश्रमप्रवरं शुभम्। नातृप्यत्प्रेक्षमाणो वै तपोधनगणैर्युतम् ॥BORI: १-६४-४१॥
स काश्यपस्यायतनं महाव्रतै; र्वृतं समन्तादृषिभिस्तपोधनैः। विवेश सामात्यपुरोहितोऽरिहा; विविक्तमत्यर्थमनोहरं शिवम् ॥BORI: १-६४-४२॥
तत्र मेघघनप्रख्यं सिद्धचारणसेवितम् ॥KUMB: १-९१-१॥
वनमालोकयामास नगराद्योजनद्वये । मृगाननुचरन्वन्याञ्श्रमेण परिपीडितः ॥KUMB: १-९१-२॥
मृगाननुचरन्राजा वेगेनाश्वानचोदयत् ॥KUMB: १-९१-३॥
पुंस्कोकिलनिनादैश्च झिल्लीकगणनादितम् ॥KUMB: १-९१-७; NILA: ०१.०७०.००५॥
सिद्धचारणसङ्घैश्च गन्धर्वाप्सरसां गणैः । सेवितं वनमत्यर्थं मत्तवानरकिन्नरैः ॥KUMB: १-९१-१७; NILA: ०१.०७०.०१५॥
तस्यास्तीरे भगवतः काश्यपस्य महात्मनः । आश्रमप्रवरं रम्यं महर्षिगणसेवितम् ॥KUMB: १-९१-२९; NILA: ०१.०७०.०२७॥
विस्मयोत्फुल्लनयनो राजा प्रीतो बभूवह ॥KUMB: १-९१-३९॥
मधुरैः सामगीतैश्च ऋषिभिर्नियतव्रतैः ॥KUMB: १-९१-४०; NILA: ०१.०७०.०३८॥
भारुण्डसामगीताभिरथर्वशिरसोद्गतैः ॥KUMB: १-९१-४१; NILA: ०१.०७०.०३९॥
शब्दच्छन्दोनिरुक्तज्ञैः कालज्ञानविशारदैः ॥KUMB: १-९१-४६; NILA: ०१.०७०.०४४॥
द्रव्यकर्मगुणज्ञैश्च कार्यकारणवेदिभिः । पक्षिवानररुतज्ञैश्च व्यासग्रन्थसमाश्रितैः ॥KUMB: १-९१-४७; NILA: ०१.०७०.०४५॥
नानाशास्त्रेषु मुख्यैश्च शुश्राव स्वनमीरितम् ॥KUMB: १-९१-४८; NILA: ०१.०७०.०४६॥
ततो गच्छन्महाबाहुरेकोऽमात्यान्विसृज्य तान्। नापश्यदाश्रमे तस्मिंस्तमृषिं संशितव्रतम् ॥BORI: १-६५-१॥
सोऽपश्यमानस्तमृषिं शून्यं दृष्ट्वा तमाश्रमम्। उवाच क इहेत्युच्चैर्वनं संनादयन्निव ॥BORI: १-६५-२॥
श्रुत्वाथ तस्य तं शब्दं कन्या श्रीरिव रूपिणी। निश्चक्रामाश्रमात्तस्मात्तापसीवेषधारिणी ॥BORI: १-६५-३॥
सा तं दृष्ट्वैव राजानं दुःषन्तमसितेक्षणा। स्वागतं त इति क्षिप्रमुवाच प्रतिपूज्य च ॥BORI: १-६५-४॥
आसनेनार्चयित्वा च पाद्येनार्घ्येण चैव हि। पप्रच्छानामयं राजन्कुशलं च नराधिपम् ॥BORI: १-६५-५॥
यथावदर्चयित्वा सा पृष्ट्वा चानामयं तदा। उवाच स्मयमानेव किं कार्यं क्रियतामिति ॥BORI: १-६५-६॥
तामब्रवीत्ततो राजा कन्यां मधुरभाषिणीम्। दृष्ट्वा सर्वानवद्याङ्गीं यथावत्प्रतिपूजितः ॥BORI: १-६५-७॥
आगतोऽहं महाभागमृषिं कण्वमुपासितुम्। क्व गतो भगवान्भद्रे तन्ममाचक्ष्व शोभने ॥BORI: १-६५-८॥
गतः पिता मे भगवान्फलान्याहर्तुमाश्रमात्। मुहूर्तं सम्प्रतीक्षस्व द्रक्ष्यस्येनमिहागतम् ॥BORI: १-६५-९॥
अपश्यमानस्तमृषिं तया चोक्तस्तथा नृपः। तां च दृष्ट्वा वरारोहां श्रीमतीं चारुहासिनीम् ॥BORI: १-६५-१०॥
विभ्राजमानां वपुषा तपसा च दमेन च। रूपयौवनसम्पन्नामित्युवाच महीपतिः ॥BORI: १-६५-११॥
कासि कस्यासि सुश्रोणि किमर्थं चागता वनम्। एवंरूपगुणोपेता कुतस्त्वमसि शोभने ॥BORI: १-६५-१२॥
दर्शनादेव हि शुभे त्वया मेऽपहृतं मनः। इच्छामि त्वामहं ज्ञातुं तन्ममाचक्ष्व शोभने ॥BORI: १-६५-१३॥
एवमुक्ता तदा कन्या तेन राज्ञा तदाश्रमे। उवाच हसती वाक्यमिदं सुमधुराक्षरम् ॥BORI: १-६५-१४॥
कण्वष्याहं भगवतो दुःषन्त दुहिता मता। तपस्विनो धृतिमतो धर्मज्ञस्य यशस्विनः ॥BORI: १-६५-१५॥
ऊर्ध्वरेता महाभागो भगवाँल्लोकपूजितः। चलेद्धि वृत्ताद्धर्मोऽपि न चलेत्संशितव्रतः ॥BORI: १-६५-१६॥
कथं त्वं तस्य दुहिता सम्भूता वरवर्णिनी। संशयो मे महानत्र तं मे छेत्तुमिहार्हसि ॥BORI: १-६५-१७॥
यथायमागमो मह्यं यथा चेदमभूत्पुरा। शृणु राजन्यथातत्त्वं यथास्मि दुहिता मुनेः ॥BORI: १-६५-१८॥
ऋषिः कश्चिदिहागम्य मम जन्माभ्यचोदयत्। तस्मै प्रोवाच भगवान्यथा तच्छृणु पार्थिव ॥BORI: १-६५-१९॥
तप्यमानः किल पुरा विश्वामित्रो महत्तपः। सुभृशं तापयामास शक्रं सुरगणेश्वरम् ॥BORI: १-६५-२०॥
तपसा दीप्तवीर्योऽयं स्थानान्मां च्यावयेदिति। भीतः पुरंदरस्तस्मान्मेनकामिदमब्रवीत् ॥BORI: १-६५-२१॥
गुणैर्दिव्यैरप्सरसां मेनके त्वं विशिष्यसे। श्रेयो मे कुरु कल्याणि यत्त्वां वक्ष्यामि तच्छृणु ॥BORI: १-६५-२२॥
असावादित्यसङ्काशो विश्वामित्रो महातपाः। तप्यमानस्तपो घोरं मम कम्पयते मनः ॥BORI: १-६५-२३॥
मेनके तव भारोऽयं विश्वामित्रः सुमध्यमे। संशितात्मा सुदुर्धर्ष उग्रे तपसि वर्तते ॥BORI: १-६५-२४॥
स मां न च्यावयेत्स्थानात्तं वै गत्वा प्रलोभय। चर तस्य तपोविघ्नं कुरु मे प्रियमुत्तमम् ॥BORI: १-६५-२५॥
रूपयौवनमाधुर्यचेष्टितस्मितभाषितैः। लोभयित्वा वरारोहे तपसः संनिवर्तय ॥BORI: १-६५-२६॥
महातेजाः स भगवान्सदैव च महातपाः। कोपनश्च तथा ह्येनं जानाति भगवानपि ॥BORI: १-६५-२७॥
तेजसस्तपसश्चैव कोपस्य च महात्मनः। त्वमप्युद्विजसे यस्य नोद्विजेयमहं कथम् ॥BORI: १-६५-२८॥
महाभागं वसिष्ठं यः पुत्रैरिष्टैर्व्ययोजयत्। क्षत्रे जातश्च यः पूर्वमभवद्ब्राह्मणो बलात् ॥BORI: १-६५-२९॥
शौचार्थं यो नदीं चक्रे दुर्गमां बहुभिर्जलैः। यां तां पुण्यतमां लोके कौशिकीति विदुर्जनाः ॥BORI: १-६५-३०॥
बभार यत्रास्य पुरा काले दुर्गे महात्मनः। दारान्मतङ्गो धर्मात्मा राजर्षिर्व्याधतां गतः ॥BORI: १-६५-३१॥
अतीतकाले दुर्भिक्षे यत्रैत्य पुनराश्रमम्। मुनिः पारेति नद्या वै नाम चक्रे तदा प्रभुः ॥BORI: १-६५-३२॥
मतङ्गं याजयां चक्रे यत्र प्रीतमनाः स्वयम्। त्वं च सोमं भयाद्यस्य गतः पातुं शुरेश्वर ॥BORI: १-६५-३३॥
अति नक्षत्रवंशांश्च क्रुद्धो नक्षत्रसम्पदा। प्रति श्रवणपूर्वाणि नक्षत्राणि ससर्ज यः ॥BORI: १-६५-३४॥
एतानि यस्य कर्माणि तस्याहं भृशमुद्विजे। यथा मां न दहेत्क्रुद्धस्तथाज्ञापय मां विभो ॥BORI: १-६५-३५॥
तेजसा निर्दहेल्लोकान्कम्पयेद्धरणीं पदा। सङ्क्षिपेच्च महामेरुं तूर्णमावर्तयेत्तथा ॥BORI: १-६५-३६॥
तादृशं तपसा युक्तं प्रदीप्तमिव पावकम्। कथमस्मद्विधा बाला जितेन्द्रियमभिस्पृशेत् ॥BORI: १-६५-३७॥
हुताशनमुखं दीप्तं सूर्यचन्द्राक्षितारकम्। कालजिह्वं सुरश्रेष्ठ कथमस्मद्विधा स्पृशेत् ॥BORI: १-६५-३८॥
यमश्च सोमश्च महर्षयश्च; साध्या विश्वे वालखिल्याश्च सर्वे। एतेऽपि यस्योद्विजन्ते प्रभावा; त्कस्मात्तस्मान्मादृशी नोद्विजेत ॥BORI: १-६५-३९॥
त्वयैवमुक्ता च कथं समीप; मृषेर्न गच्छेयमहं सुरेन्द्र। रक्षां तु मे चिन्तय देवराज; यथा त्वदर्थं रक्षिताहं चरेयम् ॥BORI: १-६५-४०॥
कामं तु मे मारुतस्तत्र वासः; प्रक्रीडिताया विवृणोतु देव। भवेच्च मे मन्मथस्तत्र कार्ये; सहायभूतस्तव देवप्रसादात् ॥BORI: १-६५-४१॥
वनाच्च वायुः सुरभिः प्रवाये; त्तस्मिन्काले तमृषिं लोभयन्त्याः। तथेत्युक्त्वा विहिते चैव तस्मिं; स्ततो ययौ साश्रमं कौशिकस्य ॥BORI: १-६५-४२॥
सुप्रीताऽभ्यागतं तं तु पूज्यं प्राप्तमथेश्वरम् ॥KUMB: १-९२-४॥
रूपयौवनसंपन्ना शीलाचारवती शुभा । सा तमायतपद्माक्षं व्यूढोरस्कं महाभुजम् ॥KUMB: १-९२-५॥
सिंहस्कन्धं दीर्घबाहुं सर्वलक्षणपूजितम् । स्पृष्टं मधुरया वाचा साऽब्रवीज्जनमेजया ॥KUMB: १-९२-६॥
आश्रमस्याभिगमने किं त्वं कार्यं चिकीर्षसि ॥KUMB: १-९२-९॥
कस्त्वमद्येह संप्राप्तो महर्षेराश्रमं शुभम् ॥KUMB: १-९२-१०॥
राजर्षेस्तस्य पुत्रोऽहमिलिनस्य महात्मनः ॥KUMB: १-९२-११॥
दुष्यन्त इति मे नाम सत्यं पुष्करलोचने ॥KUMB: १-९२-१२॥
स्थितोस्म्यमितसौभाग्ये विवक्षुश्चास्मि किंचन । शृणु मे नागनासोरु वचनं मत्तकाशिनि ॥KUMB: १-९२-१८॥
राजर्षेरन्वये जातः पूरोरस्मि विशेषतः । वृण्वे त्वामद्य सुश्रोणि दुष्यन्तो वरवर्णिनि ॥KUMB: १-९२-१९॥
न मेऽन्यत्र क्षत्रियाया मनो जातु प्रवर्तते । ऋषिपुत्रीषु चान्यासु नावरासु परासु च ॥KUMB: १-९२-२०॥
तस्मात्प्रणिहितात्मानं विद्दि मां कलभाषिणि । यस्यां मे त्वयि भावोऽस्ति क्षत्रिया ह्यसि का वदा ॥KUMB: १-९२-२१॥
न हि मे भीरु विप्रायां मनः प्रसहते गतिम् । भजे त्वामायतापाङ्गे भक्तं भजितुमर्हसि । भुङ्क्ष राज्यं विशालाक्षि बुद्धिं मात्वन्यथा कृथाः ॥KUMB: १-९२-२२॥
अस्वतन्त्रास्मि राजेन्द्र काश्यपो मे गुरुः पिता । तमेव प्रार्थय स्वार्थं नायुक्तं कर्तुमर्हसि ॥KUMB: १-९२-२५॥
अन्यथा सन्तमात्मानमन्यथा सत्सु भाषते ॥KUMB: १-९२-२८॥
स पापेनावृतो मूर्खस्तेन आत्मापहारकः ॥KUMB: १-९२-२९॥
ऊर्ध्वरेता यथासि त्वं कुतस्त्वेयं शकुन्तला ॥KUMB: १-९२-३०॥
पुत्री त्वत्तः कथं जाता तत्त्वं मे ब्रूहि काश्यप ॥KUMB: १-९२-३१॥
गुरुशापहतस्यापि त्रिशङ्कोः शरणं ददौ ॥KUMB: १-९२-४६; NILA: ०१.०७१.०३४॥
ब्रह्मर्षिशापं राजर्षिः कथं मोक्ष्यति कौशिकः । अवमत्य तदा देवैर्यज्ञाङ्गं तद्विनाशितम् ॥KUMB: १-९२-४७॥
अन्यानि च महातेजा यज्ञाङ्गान्यसृजत्प्रभुः । निनाय च तदा स्वर्गं त्रिशङ्कुं स महातपाः ॥KUMB: १-९२-४८॥
एवमुक्तस्तया शक्रः संदिदेश सदागतिम्। प्रातिष्ठत तदा काले मेनका वायुना सह ॥BORI: १-६६-१॥
अथापश्यद्वरारोहा तपसा दग्धकिल्बिषम्। विश्वामित्रं तपस्यन्तं मेनका भीरुराश्रमे ॥BORI: १-६६-२॥
अभिवाद्य ततः सा तं प्राक्रीडदृषिसंनिधौ। अपोवाह च वासोऽस्या मारुतः शशिसंनिभम् ॥BORI: १-६६-३॥
सागच्छत्त्वरिता भूमिं वासस्तदभिलिङ्गती। उत्स्मयन्तीव सव्रीडं मारुतं वरवर्णिनी ॥BORI: १-६६-४॥
गृद्धां वाससि सम्भ्रान्तां मेनकां मुनिसत्तमः। अनिर्देश्यवयोरूपामपश्यद्विवृतां तदा ॥BORI: १-६६-५॥
तस्या रूपगुणं दृष्ट्वा स तु विप्रर्षभस्तदा। चकार भावं संसर्गे तया कामवशं गतः ॥BORI: १-६६-६॥
न्यमन्त्रयत चाप्येनां सा चाप्यैच्छदनिन्दिता। तौ तत्र सुचिरं कालं वने व्यहरतामुभौ । रममाणौ यथाकामं यथैकदिवसं तथा ॥BORI: १-६६-७॥
जनयामास स मुनिर्मेनकायां शकुन्तलाम्। प्रस्थे हिमवतो रम्ये मालिनीमभितो नदीम् ॥BORI: १-६६-८॥
जातमुत्सृज्य तं गर्भं मेनका मालिनीमनु। कृतकार्या ततस्तूर्णमगच्छच्छक्रसंसदम् ॥BORI: १-६६-९॥
तं वने विजने गर्भं सिंहव्याघ्रसमाकुले। दृष्ट्वा शयानं शकुनाः समन्तात्पर्यवारयन् ॥BORI: १-६६-१०॥
नेमां हिंस्युर्वने बालां क्रव्यादा मांसगृद्धिनः। पर्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम् ॥BORI: १-६६-११॥
उपस्प्रष्टुं गतश्चाहमपश्यं शयितामिमाम्। निर्जने विपिनेऽरण्ये शकुन्तैः परिवारिताम् । आनयित्वा ततश्चैनां दुहितृत्वे न्ययोजयम् ॥BORI: १-६६-१२॥
शरीरकृत्प्राणदाता यस्य चान्नानि भुञ्जते। क्रमेण ते त्रयोऽप्युक्ताः पितरो धर्मनिश्चये ॥BORI: १-६६-१३॥
निर्जने च वने यस्माच्छकुन्तैः परिरक्षिता। शकुन्तलेति नामास्याः कृतं चापि ततो मया ॥BORI: १-६६-१४॥
एवं दुहितरं विद्धि मम सौम्य शकुन्तलाम्। शकुन्तला च पितरं मन्यते मामनिन्दिता ॥BORI: १-६६-१५॥
एतदाचष्ट पृष्टः सन्मम जन्म महर्षये। सुतां कण्वस्य मामेवं विद्धि त्वं मनुजाधिप ॥BORI: १-६६-१६॥
कण्वं हि पितरं मन्ये पितरं स्वमजानती। इति ते कथितं राजन्यथावृत्तं श्रुतं मया ॥BORI: १-६६-१७॥
पश्यतस्तस्य राजर्षेरप्यग्निसमतेजसः । विश्वामित्रस्ततस्तां तु विषमस्थामनिन्दिताम् ॥KUMB: १-९३-५; NILA: ०१.०७२.००५॥
एवं वर्षसहस्राणामतीतं नान्वचिन्तयत् ॥KUMB: १-९३-९॥
कामक्रोधावजितवान्मुनिर्नित्यं समाहितः । चिरार्जितस्य तपसः क्षयं स कृतवान्मुनिः ॥KUMB: १-९३-१०॥
तपसः संक्षयादेव मुनिर्मोहं समाविशत् । मोहाभिभूतः क्रोधात्मा ग्रसन्मूलफलान्मुनिः ॥KUMB: १-९३-११॥
पादैर्जलरवं कृत्वा अन्तर्द्वीपे कुटीं गतः । मेनका गन्तुकामा तु शुश्राव जलनिस्वनम् ॥KUMB: १-९३-१२॥
तपसा दीप्तवीर्योऽसावाकाशादेति याति च । अद्य संज्ञां विजानामि ययाऽद्य तपसः क्षयः ॥KUMB: १-९३-१३॥
गन्तुं न युक्तमित्युक्त्वा ऋतुस्नाताथ मेनका । कामरागाभिभूतस्य मुनेः पार्स्वं जगाम ह ॥KUMB: १-९३-१४॥
देवगर्भोपमां बालां सर्वाभरणभूषिताम् । शयानां शयने रम्ये मेनका वाक्यमब्रवीत् ॥KUMB: १-९३-१६॥
महर्षेरुग्रतपसस्तेजस्त्वमसि भामिनि । तस्मात्स्वर्गं गमिष्यामि देवकार्यार्थमागता ॥KUMB: १-९३-१७॥
मां दृष्ट्वैवाभ्यपद्यन्त पादयोः पतिता द्विजाः । अब्रुञ्शकुनाः सर्वे कलं मधुरभाषिणः ॥KUMB: १-९३-२१॥
विश्वामित्रसुतां ब्रह्मन्न्यासभूतां भरस्व वै । कामक्रोधावजितवान्सखा ते कौशिकीं गतः ॥KUMB: १-९३-२२॥
तस्मात्पोषय तत्पुत्रीं दयावानिति तेऽब्रुवन् । सर्वभूतरुतज्ञोऽहं दयावान्सर्वजन्तुषु ॥KUMB: १-९३-२३॥
सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे। भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते ॥BORI: १-६७-१॥
सुवर्णमाला वासांसि कुण्डले परिहाटके। नानापत्तनजे शुभ्रे मणिरत्ने च शोभने ॥BORI: १-६७-२॥
आहरामि तवाद्याहं निष्कादीन्यजिनानि च। सर्वं राज्यं तवाद्यास्तु भार्या मे भव शोभने ॥BORI: १-६७-३॥
गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि। विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते ॥BORI: १-६७-४॥
फलाहारो गतो राजन्पिता मे इत आश्रमात्। तं मुहूर्तं प्रतीक्षस्व स मां तुभ्यं प्रदास्यति ॥BORI: १-६७-५॥
इच्छामि त्वां वरारोहे भजमानामनिन्दिते। त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम ॥BORI: १-६७-६॥
आत्मनो बन्धुरात्मैव गतिरात्मैव चात्मनः। आत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः ॥BORI: १-६७-७॥
अष्टावेव समासेन विवाहा धर्मतः स्मृताः। ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ॥BORI: १-६७-८॥
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः। तेषां धर्मान्यथापूर्वं मनुः स्वायम्भुवोऽब्रवीत् ॥BORI: १-६७-९॥
प्रशस्तांश्चतुरः पूर्वान्ब्राह्मणस्योपधारय। षडानुपूर्व्या क्षत्रस्य विद्धि धर्म्याननिन्दिते ॥BORI: १-६७-१०॥
राज्ञां तु राक्षसोऽप्युक्तो विट्शूद्रेष्वासुरः स्मृतः। पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह ॥BORI: १-६७-११॥
पैशाचश्चासुरश्चैव न कर्तव्यौ कथञ्चन। अनेन विधिना कार्यो धर्मस्यैषा गतिः स्मृता ॥BORI: १-६७-१२॥
गान्धर्वराक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्किथाः। पृथग्वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः ॥BORI: १-६७-१३॥
सा त्वं मम सकामस्य सकामा वरवर्णिनि। गान्धर्वेण विवाहेन भार्या भवितुमर्हसि ॥BORI: १-६७-१४॥
यदि धर्मपथस्त्वेष यदि चात्मा प्रभुर्मम। प्रदाने पौरवश्रेष्ठ शृणु मे समयं प्रभो ॥BORI: १-६७-१५॥
सत्यं मे प्रतिजानीहि यत्त्वां वक्ष्याम्यहं रहः। मम जायेत यः पुत्रः स भवेत्त्वदनन्तरम् ॥BORI: १-६७-१६॥
युवराजो महाराज सत्यमेतद्ब्रवीहि मे। यद्येतदेवं दुःषन्त अस्तु मे सङ्गमस्त्वया ॥BORI: १-६७-१७॥
एवमस्त्विति तां राजा प्रत्युवाचाविचारयन्। अपि च त्वां नयिष्यामि नगरं स्वं शुचिस्मिते । यथा त्वमर्हा सुश्रोणि सत्यमेतद्ब्रवीमि ते ॥BORI: १-६७-१८॥
एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम्। जग्राह विधिवत्पाणावुवास च तया सह ॥BORI: १-६७-१९॥
विश्वास्य चैनां स प्रायादब्रवीच्च पुनः पुनः। प्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम् । तया त्वामानयिष्यामि निवासं स्वं शुचिस्मिते ॥BORI: १-६७-२०॥
इति तस्याः प्रतिश्रुत्य स नृपो जनमेजय। मनसा चिन्तयन्प्रायात्काश्यपं प्रति पार्थिवः ॥BORI: १-६७-२१॥
भगवांस्तपसा युक्तः श्रुत्वा किं नु करिष्यति। एवं सञ्चिन्तयन्नेव प्रविवेश स्वकं पुरम् ॥BORI: १-६७-२२॥
मुहूर्तयाते तस्मिंस्तु कण्वोऽप्याश्रममागमत्। शकुन्तला च पितरं ह्रिया नोपजगाम तम् ॥BORI: १-६७-२३॥
विज्ञायाथ च तां कण्वो दिव्यज्ञानो महातपाः। उवाच भगवान्प्रीतः पश्यन्दिव्येन चक्षुषा ॥BORI: १-६७-२४॥
त्वयाद्य राजान्वयया मामनादृत्य यत्कृतः। पुंसा सह समायोगो न स धर्मोपघातकः ॥BORI: १-६७-२५॥
क्षत्रियस्य हि गान्धर्वो विवाहः श्रेष्ठ उच्यते। सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः ॥BORI: १-६७-२६॥
धर्मात्मा च महात्मा च दुःषन्तः पुरुषोत्तमः। अभ्यगच्छः पतिं यं त्वं भजमानं शकुन्तले ॥BORI: १-६७-२७॥
महात्मा जनिता लोके पुत्रस्तव महाबलः। य इमां सागरापाङ्गां कृत्स्नां भोक्ष्यति मेदिनीम् ॥BORI: १-६७-२८॥
परं चाभिप्रयातस्य चक्रं तस्य महात्मनः। भविष्यत्यप्रतिहतं सततं चक्रवर्तिनः ॥BORI: १-६७-२९॥
ततः प्रक्षाल्य पादौ सा विश्रान्तं मुनिमब्रवीत्। विनिधाय ततो भारं संनिधाय फलानि च ॥BORI: १-६७-३०॥
मया पतिर्वृतो योऽसौ दुःषन्तः पुरुषोत्तमः। तस्मै ससचिवाय त्वं प्रसादं कर्तुमर्हसि ॥BORI: १-६७-३१॥
प्रसन्न एव तस्याहं त्वत्कृते वरवर्णिनि। गृहाण च वरं मत्तस्तत्कृते यदभीप्सितम् ॥BORI: १-६७-३२॥
ततो धर्मिष्ठतां वव्रे राज्याच्चास्खलनं तथा। शकुन्तला पौरवाणां दुःषन्तहितकाम्यया ॥BORI: १-६७-३३॥
पिता हि मे प्रभुर्नित्यं दैवतं परमं मम । यस्मै मां दास्यति पिता स मे भर्ता भविष्यति ॥KUMB: १-९४-६॥
पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥KUMB: १-९४-७॥
समन्यमाना राजेन्द्र पितरं मे तपस्विनम् । अधर्मेण हि धर्मिष्ठ कथं वरमुपास्महे ॥KUMB: १-९४-८॥
मामैवं वद कल्याणि तपोराशिं दमात्मकम् ॥KUMB: १-९४-९॥
मन्युप्रहरणा विप्रा न विप्राः शस्त्रपाणयः ॥KUMB: १-९४-९क्ष्॥
मन्युना घ्नन्ति ते शत्रून्वज्रेणेन्द्र इवासुरान् । अग्निर्दहति तेजोभिः सूर्यो दहति रश्मिभिः ॥KUMB: १-९४-१०॥
राजा दहति दण्डेन ब्राह्मणो मन्युना दहेत् । क्रोधिता मन्युना घ्नन्ति वज्रपाणिरिवासुरान् ॥KUMB: १-९४-११॥
जाने भद्रे महर्षिं तं तस्य मन्युर्न विद्यते ॥KUMB: १-९४-१२॥
तस्यास्तु सर्वं संश्रुत्य यथोक्तं स विशांपतिः । दुष्यन्तः पुनरेवाह यद्यदिच्छसि तद्वद ॥KUMB: १-९४-२४॥
ख्यातो लोकप्रवादोयं विवाह इति शास्त्रतः । वैवाहिकीं क्रियां सन्तः प्रशंसन्ति प्रजाहिताम् ॥KUMB: १-९४-२५॥
लोकप्रवादशान्त्यर्थं विवाहं विधिना कुरु । सन्त्यत्र यज्ञपात्राणि दर्भाः सुमनसोऽक्षताः ॥KUMB: १-९४-२६॥
यथा युक्तो विवाहः स्यात्तथा युक्ता प्रजा भवेत् । तस्मादाज्यं हविर्लाजाः सिकता ब्राह्मणास्तव ॥KUMB: १-९४-२७॥
वैवाहिकानि चान्यानि समस्तानीह पार्थिव । दुरुक्तमपि राजेन्द्र क्षन्तव्यं धर्मकारणात् ॥KUMB: १-९४-२८॥
पुरोहितं समाहूय वचनं युक्तमब्रवीत् । राजपुत्र्या यदुक्तं वै न वृथा कर्तुमुत्सहे ॥KUMB: १-९४-३१॥
क्रियाहीनो हि न भवेन्मम पुत्रो महाद्युतिः । तथा कुरुष्व शास्त्रोक्तं विवाहं मा चिरंकुरु ॥KUMB: १-९४-३२॥
एवमुक्तो नृपतिना द्विजः परमयन्त्रितः । शोभनं राजराजेति विधिना कृतवान्द्विजः ॥KUMB: १-९४-३३॥
शासनाद्विप्रमुख्यस्य कृतकौतुकमङ्गलः ॥KUMB: १-९४-३४॥
त्रैविद्यवृद्धैः सहितां नानाराजजनैः सह । शिबिकासहस्रैः सहिता वयमायान्ति बान्धवाः ॥KUMB: १-९४-३६॥
मूकाश्चैव किराताश्च कुब्जा वामनकैः सह । सहिताः कञ्चुकिवरैर्वाहिनी सूतमागधैः ॥KUMB: १-९४-३७॥
शङ्खदुन्दुभिनिर्घोषैर्वनं च समुपैष्यति ॥KUMB: १-९४-३८॥
अन्यथा त्वां न नेष्यामि स्वनिवेशमसत्कृताम् । सर्वमङ्गलसत्कारैः सुभ्रु सत्यं करोमि ते ॥KUMB: १-९४-३९॥
परिष्वज्य च बाहुभ्यां स्मितपूर्वमुदैक्षत ॥KUMB: १-९४-४०॥
प्रदक्षिणीकृतां देवीं पुनस्तां परिषस्वजे । शकुन्तला सा सुमुखी पपात नृपपादयोः ॥KUMB: १-९४-४१॥
तां देवीं पुनरुत्थाप्य मा शुचेति पुनः पुनः । शपेयं सुकृतेनैव प्रापयिष्ये नृपात्मजे ॥KUMB: १-९४-४२॥
तं न प्रसाद्यागतोऽहं प्रसीदेति द्विजोत्तमम् ॥KUMB: १-९४-४४॥
शङ्कितेव च विप्रर्षिमुपचक्राम सा शनैः । ततोऽस्य भारं जग्राह आसनं चाप्यकल्पयत् ॥KUMB: १-९४-४६॥
प्राक्षालयच्च सा पादौ काश्यपस्य महात्मनः । न चैनं लज्जयाऽशक्नोदक्षिभ्यामभिवीक्षितुम् ॥KUMB: १-९४-४७॥
शकुन्तला च सव्रीडा तमृषिं नाभ्यभाषत । तस्मात्स्वधर्मात्स्खलिता भीता सा भरतर्षभ ॥KUMB: १-९४-४८॥
अभवद्दोषदर्शित्वाद्ब्रह्मचारिण्ययन्त्रिता । स तदा व्रीडितां दृष्ट्वा ऋषिस्तां प्रत्यभाषत ॥KUMB: १-९४-४९॥
सव्रीडैव च दीर्घायुः पुरेव भविता न च । वृत्तं कथय रम्भोरु मा त्रासं च प्रकल्पय ॥KUMB: १-९४-५०॥
निधाय कामं तस्यर्षेः कन्दानि च फलानि च ॥KUMB: १-९४-५१॥
ततः संवाह्य पादौ सा विश्रान्तं वेदिमध्यमा ॥KUMB: १-९४-५२॥
ततः कृच्छ्रादतिशुभा सव्रीडा श्रमती तदा । सगद्गदमुवाचेदं काश्यपं सा शुचिस्मिता ॥KUMB: १-९४-५३॥
राजा ताताजगामेह दुष्यन्त इलिलात्मजः । मया पतिर्वृतो योऽसौ दैवयोगादिहागतः ॥KUMB: १-९४-५४॥
तस्य तात प्रसीद त्वं भर्ता मे सुमहायशाः । अतः सर्वं तु यद्वृत्तं दिव्यज्ञानेन पश्यसि ॥KUMB: १-९४-५५॥
अभयं क्षत्रियकुले प्रसादं कर्तुमर्हसि ॥KUMB: १-९४-५६॥
चक्षुषा स तु दिव्येन सर्वं विज्ञाय काश्यपः ॥KUMB: १-९४-५६क्ष्॥
ततो धर्मिष्ठतां मत्वा धर्मे चास्खलितं मनः । उवाच भगवान्प्रीतस्तद्वृत्तं सुमहातपाः ॥KUMB: १-९४-५७॥
न भयं विद्यते भद्रे मा शुचः सुकृतं कृतम् ॥KUMB: १-९४-५९॥
किं पुनर्विधिवत्कृत्वा सुप्रजस्त्वमवाप्स्यसि ॥KUMB: १-९४-६१॥
ऋतवो बहवस्ते वै गता व्यर्थाः शुचिस्मिते । सार्थकं सांप्रतं ह्येतन्न च पाप्मास्ति तेऽनघे ॥KUMB: १-९४-६५॥
मम चैव पतिर्दृष्टो देवतानां समक्षतः ॥KUMB: १-९४-६६॥
इत्येवमुक्त्वा मनसा प्रणिधाय मनस्विनी ॥KUMB: १-९४-६७॥
एवमस्त्विति तां प्राह कण्वो धर्मभृतां वरः ॥KUMB: १-९४-६८॥
पस्पर्श चापि पाणिभ्यां सुतां श्रीमिवरूपिणीम् ॥KUMB: १-९४-६९॥
अद्यप्रभृति देवी त्वं दुष्यन्तस्य महात्मनः । पतिव्रतानां या वृत्तिस्तां वृत्तिमनुपालय ॥KUMB: १-९४-७०॥
इत्येवमुक्त्वा धर्मात्मा तां विशुद्ध्यर्थमस्पृशत् । स्पृष्टमात्रे शरीरे तु परं हर्षमवाप सा ॥KUMB: १-९४-७१॥
प्रतिज्ञाय तु दुःषन्ते प्रतियाते शकुन्तला। गर्भं सुषाव वामोरुः कुमारममितौजसम् ॥BORI: १-६८-१॥
त्रिषु वर्षेषु पूर्णेषु दिप्तानलसमद्युतिम्। रूपौदार्यगुणोपेतं दौःषन्तिं जनमेजय ॥BORI: १-६८-२॥
जातकर्मादिसंस्कारं कण्वः पुण्यकृतां वरः। तस्याथ कारयामास वर्धमानस्य धीमतः ॥BORI: १-६८-३॥
दन्तैः शुक्लैः शिखरिभिः सिंहसंहननो युवा। चक्राङ्कितकरः श्रीमान्महामूर्धा महाबलः । कुमारो देवगर्भाभः स तत्राशु व्यवर्धत ॥BORI: १-६८-४॥
षड्वर्ष एव बालः स कण्वाश्रमपदं प्रति। व्याघ्रान्सिंहान्वराहांश्च गजांश्च महिषांस्तथा ॥BORI: १-६८-५॥
बद्ध्वा वृक्षेषु बलवानाश्रमस्य समन्ततः। आरोहन्दमयंश्चैव क्रीडंश्च परिधावति ॥BORI: १-६८-६॥
ततोऽस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः। अस्त्वयं सर्वदमनः सर्वं हि दमयत्ययम् ॥BORI: १-६८-७॥
स सर्वदमनो नाम कुमारः समपद्यत। विक्रमेणौजसा चैव बलेन च समन्वितः ॥BORI: १-६८-८॥
तं कुमारमृषिर्दृष्ट्वा कर्म चास्यातिमानुषम्। समयो यौवराज्यायेत्यब्रवीच्च शकुन्तलाम् ॥BORI: १-६८-९॥
तस्य तद्बलमाज्ञाय कण्वः शिष्यानुवाच ह। शकुन्तलामिमां शीघ्रं सहपुत्रामितोऽऽश्रमात् । भर्त्रे प्रापयताद्यैव सर्वलक्षणपूजिताम् ॥BORI: १-६८-१०॥
नारीणां चिरवासो हि बान्धवेषु न रोचते। कीर्तिचारित्रधर्मघ्नस्तस्मान्नयत माचिरम् ॥BORI: १-६८-११॥
तथेत्युक्त्वा तु ते सर्वे प्रातिष्ठन्तामितौजसः। शकुन्तलां पुरस्कृत्य सपुत्रां गजसाह्वयम् ॥BORI: १-६८-१२॥
गृहीत्वामरगर्भाभं पुत्रं कमललोचनम्। आजगाम ततः शुभ्रा दुःषन्तविदिताद्वनात् ॥BORI: १-६८-१३॥
अभिसृत्य च राजानं विदिता सा प्रवेशिता। सह तेनैव पुत्रेण तरुणादित्यवर्चसा ॥BORI: १-६८-१४॥
पूजयित्वा यथान्यायमब्रवीत्तं शकुन्तला। अयं पुत्रस्त्वया राजन्यौवराज्येऽभिषिच्यताम् ॥BORI: १-६८-१५॥
त्वया ह्ययं सुतो राजन्मय्युत्पन्नः सुरोपमः। यथासमयमेतस्मिन्वर्तस्व पुरुषोत्तम ॥BORI: १-६८-१६॥
यथा समागमे पूर्वं कृतः स समयस्त्वया। तं स्मरस्व महाभाग कण्वाश्रमपदं प्रति ॥BORI: १-६८-१७॥
सोऽथ श्रुत्वैव तद्वाक्यं तस्या राजा स्मरन्नपि। अब्रवीन्न स्मरामीति कस्य त्वं दुष्टतापसि ॥BORI: १-६८-१८॥
धर्मकामार्थसम्बन्धं न स्मरामि त्वया सह। गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत्कुरु ॥BORI: १-६८-१९॥
सैवमुक्ता वरारोहा व्रीडितेव मनस्विनी। विसञ्ज्ञेव च दुःखेन तस्थौ स्थाणुरिवाचला ॥BORI: १-६८-२०॥
संरम्भामर्षताम्राक्षी स्फुरमाणोष्ठसम्पुटा। कटाक्षैर्निर्दहन्तीव तिर्यग्राजानमैक्षत ॥BORI: १-६८-२१॥
आकारं गूहमाना च मन्युनाभिसमीरिता। तपसा सम्भृतं तेजो धारयामास वै तदा ॥BORI: १-६८-२२॥
सा मुहूर्तमिव ध्यात्वा दुःखामर्षसमन्विता। भर्तारमभिसम्प्रेक्ष्य क्रुद्धा वचनमब्रवीत् ॥BORI: १-६८-२३॥
जानन्नपि महाराज कस्मादेवं प्रभाषसे। न जानामीति निःसङ्गं यथान्यः प्राकृतस्तथा ॥BORI: १-६८-२४॥
अत्र ते हृदयं वेद सत्यस्यैवानृतस्य च। कल्याण बत साक्षी त्वं मात्मानमवमन्यथाः ॥BORI: १-६८-२५॥
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते। किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥BORI: १-६८-२६॥
एकोऽहमस्मीति च मन्यसे त्वं; न हृच्छयं वेत्सि मुनिं पुराणम्। यो वेदिता कर्मणः पापकस्य; तस्यान्तिके त्वं वृजिनं करोषि ॥BORI: १-६८-२७॥
मन्यते पापकं कृत्वा न कश्चिद्वेत्ति मामिति। विदन्ति चैनं देवाश्च स्वश्चैवान्तरपूरुषः ॥BORI: १-६८-२८॥
आदित्यचन्द्रावनिलानलौ च; द्यौर्भूमिरापो हृदयं यमश्च। अहश्च रात्रिश्च उभे च सन्ध्ये; धर्मश्च जानाति नरस्य वृत्तम् ॥BORI: १-६८-२९॥
यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम्। हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति ॥BORI: १-६८-३०॥
न तु तुष्यति यस्यैष पुरुषस्य दुरात्मनः। तं यमः पापकर्माणं निर्यातयति दुष्कृतम् ॥BORI: १-६८-३१॥
अवमन्यात्मनात्मानमन्यथा प्रतिपद्यते। देवा न तस्य श्रेयांसो यस्यात्मापि न कारणम् ॥BORI: १-६८-३२॥
स्वयं प्राप्तेति मामेवं मावमंस्थाः पतिव्रताम्। अर्घ्यार्हां नार्चयसि मां स्वयं भार्यामुपस्थिताम् ॥BORI: १-६८-३३॥
किमर्थं मां प्राकृतवदुपप्रेक्षसि संसदि। न खल्वहमिदं शून्ये रौमि किं न शृणोषि मे ॥BORI: १-६८-३४॥
यदि मे याचमानाया वचनं न करिष्यसि। दुःषन्त शतधा मूर्धा ततस्तेऽद्य फलिष्यति ॥BORI: १-६८-३५॥
भार्यां पतिः सम्प्रविश्य स यस्माज्जायते पुनः। जायाया इति जायात्वं पुराणाः कवयो विदुः ॥BORI: १-६८-३६॥
यदागमवतः पुंसस्तदपत्यं प्रजायते। तत्तारयति सन्तत्या पूर्वप्रेतान्पितामहान् ॥BORI: १-६८-३७॥
पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः। तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ॥BORI: १-६८-३८॥
सा भार्या या गृहे दक्षा सा भार्या या प्रजावती। सा भार्या या पतिप्राणा सा भार्या या पतिव्रता ॥BORI: १-६८-३९॥
अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा। भार्या मूलं त्रिवर्गस्य भार्या मित्रं मरिष्यतः ॥BORI: १-६८-४०॥
भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः। भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्विताः ॥BORI: १-६८-४१॥
सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः। पितरो धर्मकार्येषु भवन्त्यार्तस्य मातरः ॥BORI: १-६८-४२॥
कान्तारेष्वपि विश्रामो नरस्याध्वनिकस्य वै। यः सदारः स विश्वास्यस्तस्माद्दाराः परा गतिः ॥BORI: १-६८-४३॥
संसरन्तमपि प्रेतं विषमेष्वेकपातिनम्। भार्यैवान्वेति भर्तारं सततं या पतिव्रता ॥BORI: १-६८-४४॥
प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते। पूर्वं मृतं च भर्तारं पश्चात्साध्व्यनुगच्छति ॥BORI: १-६८-४५॥
एतस्मात्कारणाद्राजन्पाणिग्रहणमिष्यते। यदाप्नोति पतिर्भार्यामिह लोके परत्र च ॥BORI: १-६८-४६॥
आत्मात्मनैव जनितः पुत्र इत्युच्यते बुधैः। तस्माद्भार्यां नरः पश्येन्मातृवत्पुत्रमातरम् ॥BORI: १-६८-४७॥
भार्यायां जनितं पुत्रमादर्शे स्वमिवाननम्। ह्लादते जनिता प्रेष्क्य स्वर्गं प्राप्येव पुण्यकृत् ॥BORI: १-६८-४८॥
दह्यमाना मनोदुःखैर्व्याधिभिश्चातुरा नराः। ह्लादन्ते स्वेषु दारेषु घर्मार्ताः सलिलेष्विव ॥BORI: १-६८-४९॥
सुसंरब्धोऽपि रामाणां न ब्रूयादप्रियं बुधः। रतिं प्रीतिं च धर्मं च तास्वायत्तमवेक्ष्य च ॥BORI: १-६८-५०॥
आत्मनो जन्मनः क्षेत्रं पुण्यं रामाः सनातनम्। ऋषीणामपि का शक्तिः स्रष्टुं रामामृते प्रजाः ॥BORI: १-६८-५१॥
परिपत्य यदा सूनुर्धरणीरेणुगुण्ठितः। पितुराश्लिष्यतेऽङ्गानि किमिवास्त्यधिकं ततः ॥BORI: १-६८-५२॥
स त्वं स्वयमनुप्राप्तं साभिलाषमिमं सुतम्। प्रेक्षमाणं च काक्षेण किमर्थमवमन्यसे ॥BORI: १-६८-५३॥
अण्डानि बिभ्रति स्वानि न भिन्दन्ति पिपीलिकाः। न भरेथाः कथं नु त्वं धर्मज्ञः सन्स्वमात्मजम् ॥BORI: १-६८-५४॥
न वाससां न रामाणां नापां स्पर्शस्तथा सुखः। शिशोरालिङ्ग्यमानस्य स्पर्शः सूनोर्यथा सुखः ॥BORI: १-६८-५५॥
ब्राह्मणो द्विपदां श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम्। गुरुर्गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः ॥BORI: १-६८-५६॥
स्पृशतु त्वां समाश्लिष्य पुत्रोऽयं प्रियदर्शनः। पुत्रस्पर्शात्सुखतरः स्पर्शो लोके न विद्यते ॥BORI: १-६८-५७॥
त्रिषु वर्षेषु पूर्णेषु प्रजाताहमरिंदम। इमं कुमारं राजेन्द्र तव शोकप्रणाशनम् ॥BORI: १-६८-५८॥
आहर्ता वाजिमेधस्य शतसङ्ख्यस्य पौरव। इति वागन्तरिक्षे मां सूतकेऽभ्यवदत्पुरा ॥BORI: १-६८-५९॥
ननु नामाङ्कमारोप्य स्नेहाद्ग्रामान्तरं गताः। मूर्ध्नि पुत्रानुपाघ्राय प्रतिनन्दन्ति मानवाः ॥BORI: १-६८-६०॥
वेदेष्वपि वदन्तीमं मन्त्रवादं द्विजातयः। जातकर्मणि पुत्राणां तवापि विदितं तथा ॥BORI: १-६८-६१॥
अङ्गादङ्गात्सम्भवसि हृदयादभिजायसे। आत्मा वै पुत्रनामासि स जीव शरदः शतम् ॥BORI: १-६८-६२॥
पोषो हि त्वदधीनो मे सन्तानमपि चाक्षयम्। तस्मात्त्वं जीव मे वत्स सुसुखी शरदां शतम् ॥BORI: १-६८-६३॥
त्वदङ्गेभ्यः प्रसूतोऽयं पुरुषात्पुरुषोऽपरः। सरसीवामलेऽऽत्मानं द्वितीयं पश्य मे सुतम् ॥BORI: १-६८-६४॥
यथा ह्याहवनीयोऽग्निर्गार्हपत्यात्प्रणीयते। तथा त्वत्तः प्रसूतोऽयं त्वमेकः सन्द्विधा कृतः ॥BORI: १-६८-६५॥
मृगापकृष्टेन हि ते मृगयां परिधावता। अहमासादिता राजन्कुमारी पितुराश्रमे ॥BORI: १-६८-६६॥
उर्वशी पूर्वचित्तिश्च सहजन्या च मेनका। विश्वाची च घृताची च षडेवाप्सरसां वराः ॥BORI: १-६८-६७॥
तासां मां मेनका नाम ब्रह्मयोनिर्वराप्सराः। दिवः सम्प्राप्य जगतीं विश्वामित्रादजीजनत् ॥BORI: १-६८-६८॥
सा मां हिमवतः पृष्ठे सुषुवे मेनकाप्सराः। अवकीर्य च मां याता परात्मजमिवासती ॥BORI: १-६८-६९॥
किं नु कर्माशुभं पूर्वं कृतवत्यस्मि जन्मनि। यदहं बान्धवैस्त्यक्ता बाल्ये सम्प्रति च त्वया ॥BORI: १-६८-७०॥
कामं त्वया परित्यक्ता गमिष्याम्यहमाश्रमम्। इमं तु बालं सन्त्यक्तुं नार्हस्यात्मजमात्मना ॥BORI: १-६८-७१॥
न पुत्रमभिजानामि त्वयि जातं शकुन्तले। असत्यवचना नार्यः कस्ते श्रद्धास्यते वचः ॥BORI: १-६८-७२॥
मेनका निरनुक्रोशा बन्धकी जननी तव। यया हिमवतः पृष्ठे निर्माल्येव प्रवेरिता ॥BORI: १-६८-७३॥
स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव। विश्वामित्रो ब्राह्मणत्वे लुब्धः कामपरायणः ॥BORI: १-६८-७४॥
मेनकाप्सरसां श्रेष्ठा महर्षीणां च ते पिता। तयोरपत्यं कस्मात्त्वं पुंश्चलीवाभिधास्यसि ॥BORI: १-६८-७५॥
अश्रद्धेयमिदं वाक्यं कथयन्ती न लज्जसे। विशेषतो मत्सकाशे दुष्टतापसि गम्यताम् ॥BORI: १-६८-७६॥
क्व महर्षिः सदैवोग्रः साप्सरा क्व च मेनका। क्व च त्वमेवं कृपणा तापसीवेषधारिणी ॥BORI: १-६८-७७॥
अतिकायश्च पुत्रस्ते बालोऽपि बलवानयम्। कथमल्पेन कालेन शालस्कन्ध इवोद्गतः ॥BORI: १-६८-७८॥
सुनिकृष्टा च योनिस्ते पुंश्चली प्रतिभासि मे। यदृच्छया कामरागाज्जाता मेनकया ह्यसि ॥BORI: १-६८-७९॥
सर्वमेतत्परोक्षं मे यत्त्वं वदसि तापसि। नाहं त्वामभिजानामि यथेष्टं गम्यतां त्वया ॥BORI: १-६८-८०॥
प्रतिज्ञाय च दुष्यन्ते प्रतियाते दिने दिने । गर्भश्च ववृधे तस्यां राजपुत्र्यां महात्मनः ॥KUMB: १-९५-१॥
शकुन्तला चिन्तयन्ती राजानं कार्यगौरवात् । दिवारात्रमनिद्रैव स्नानभोजनवर्जिता ॥KUMB: १-९५-२॥
राजप्रेषणिका विप्राश्चतुरङ्गबलान्विताः । अद्य श्वो वा परश्वो वा समायान्तीति निस्चिता ॥KUMB: १-९५-३॥
दिनान्पक्षानृतून्मासानयनानि च सर्वशः । गण्यमानानि वर्षाणि व्यतीयुस्त्रीणि भारत ॥KUMB: १-९५-४॥
त्रिषु वर्षेषु पूर्णेषु ऋषेर्वचनगौरवात् । ऋषिपत्न्यः सुबहुशो हेतुमद्वाक्यमब्रुवन् ॥KUMB: १-९५-५॥
शृणु भद्रे लोकवृत्तं श्रुत्वा यद्रोचते तव । तत्कुरुष्व हितं देवि नावमान्यं गुरोर्वचः ॥KUMB: १-९५-६॥
देवानां दैवतं विष्णुर्विप्राणामग्निर्ब्रह्म च । नारीणां दैवतं भर्ता लोकानां ब्राह्मणो गुरुः ॥KUMB: १-९५-७॥
सूतिकाले प्रसूष्वेति भगवांस्ते पिताऽब्रवीत् । करिष्यामीति कर्तव्यं तदा ते सुकृतं भवेत् ॥KUMB: १-९५-८॥
पत्नीनां वचनं श्रुत्वा साधु साध्वित्यचिन्तयत्। गर्भं सुषाव वामोरूः कुमारममितौजसम् ॥KUMB: १-९५-९॥
जाते तस्मिन्नन्तरिक्षात्पुष्पवृष्टिः पपात ह । देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः ॥KUMB: १-९५-११॥
गायद्भिर्मधुरं तत्र देवैः शक्रोऽभ्युवाच ह । शकुन्तले तव सुतश्चक्रवर्ती भविष्यति ॥KUMB: १-९५-१२॥
बलं तेजश्च रूपं च न समं भुवि केनचित् । आहर्ता वाजिमेधस्य शतसङ्ख्यस्य पौरवः ॥KUMB: १-९५-१३॥
अनेकारपि साहस्रै राजसूयादिभिर्मखैः । स्वार्थं ब्राह्मणसात्कृत्वा दक्षिणाममितां ददत् ॥KUMB: १-९५-१४॥
देवतानां वचः श्रुत्वा कण्वाश्रमनिवासिनः । सभाजयन्तः कण्वस्य सुतां सर्वे महर्षयः ॥KUMB: १-९५-१५॥
शकुन्तला च तच्छ्रुत्वा परं हर्षमवाप सा । द्विजानाहूय मुनिभिः सत्कृत्य च महायशाः ॥KUMB: १-९५-१६॥
यथाविधि यथान्यायं क्रियाः सर्वास्त्वकारयत् । दन्तैः शुक्लैः शिखरिभिःसिंहसंहननोऽभवत् ॥KUMB: १-९५-१८॥
चक्राङ्कितकरः श्रीमान्स्वयं विष्णुरिवापरः । चतुष्किष्कुर्महातेजा महामूर्धा महाबलः ॥KUMB: १-९५-१९॥
कुमारो देवगर्भाभः स तत्राशु व्यवर्धत । ऋषेर्भयात्तु दुष्यन्तः स्मरन्नैवाह्वयत्तदा ॥KUMB: १-९५-२०॥
गते काले तु महति न सस्मार तपोधनाम्। षड्वर्षेषु ततो बालः कण्वाश्रमपदं प्रति ॥KUMB: १-९५-२१॥
व्याघ्रान्सिंहान्वराहांश्च वृकांश्च महिषांस्तथा । ऋक्षांश्चाभ्यहनद्व्यालान्पद्भ्यामाश्रमपीडकान् ॥KUMB: १-९५-२२॥
बलाद्भुजाभ्यां संगृह्य बलवान्संनियम्य च। बद्ध्वा वृक्षेषु दौष्यन्तिराश्रमस्य समन्ततः ॥KUMB: १-९५-२३॥
आरुरोह द्रुमांश्चैव क्रीडन्स्म परिधावति । वनं च लोडयामास सिंहव्याघ्रगणैर्वृतम् ॥KUMB: १-९५-२४॥
ततश्च राक्षसान्सर्वान्पिशाचांश्च रिपून्रणे । मुष्टियुद्धेन तान्हत्वा ऋषीनाराधयत्तदा ॥KUMB: १-९५-२५॥
कश्चिद्दितिसुतस्तं तु हन्तुकामो महाबलः । वध्यमानांस्तु दैतेयानमर्षी तं समभ्ययात् ॥KUMB: १-९५-२६॥
तमागतं प्रहस्यैव बाहुभ्यां परिगृह्य च । दृढं चाबध्य बाहुभ्यां पीडयामास तं तदा ॥KUMB: १-९५-२७॥
मर्दितो न शशाकास्मान्मोचितुं बलवत्तया । प्राक्रोशद्भैरवं तत्र द्वारेभ्यो निःसृतं त्वसृक् ॥KUMB: १-९५-२८॥
तेन शब्देन वित्रस्ता मृगाः सिंहादयो गणाः । सुस्रुवुश्च शकृन्मूत्रमाश्रमस्थाश्च सुस्रुवुः ॥KUMB: १-९५-२९॥
निरसुं जानुभिः कृत्वा विससर्ज च सोऽपतत् । तद्दृष्ट्वा विस्मयं जग्मुः कुमारस्य विचेष्टितम् ॥KUMB: १-९५-३०॥
नित्यकालं वध्यमाना दैतेया राक्षसैः सह । कुमारस्य भयादेव नैव जग्मुस्तदाश्रमम् ॥KUMB: १-९५-३१॥
ततोऽस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः । कण्वेन सहिताः सर्वे दृष्ट्वा कर्मातिमानुषम् ॥KUMB: १-९५-३२॥
विक्रमेणौजसा चैव बलेन च समन्वितः । अप्रेषयति दुष्यन्ते महिष्यास्तनयस्य च ॥KUMB: १-९५-३४॥
पाण्डुभावपरीताङ्गीं चिन्तया समभिप्लुताम् । लम्बालकां कृशां दीनां तथा मलिनवाससम् ॥KUMB: १-९५-३५॥
शकुन्तलां च संप्रेक्ष्य प्रदध्यौ स मुनिस्तदा । शास्त्राणि सर्ववेदाश्च द्वादशाब्दस्य चाभवन् ॥KUMB: १-९५-३६॥
शकुन्तलां समाहूय कण्वो वचनमब्रवीत् ॥KUMB: १-९६-२॥
कण्व उवाच । शृणु भद्रे मम सुते मम वाक्यं शुचिस्मिते ॥KUMB: १-९६-२क्ष्॥
पतिव्रतानां नारीणां विशिष्टमिति चोच्यते । पतिशुश्रूषणं पूर्वं मनोवाक्कायचेष्टितैः ॥KUMB: १-९६-३॥
अनुज्ञाता मया पूर्वं पूजयैतद्व्रतं तव । एतेनैव च वृत्तेन पुण्याँल्लोकानवाप्य च ॥KUMB: १-९६-४॥
तस्यान्ते मानुषे लोके विशिष्टां तप्स्यसे श्रियम् । तस्माद्भद्रेऽद्य यातव्यं समीपं पौरवस्य ह ॥KUMB: १-९६-५॥
स्वयं नायाति मत्वा ते गतं कालं शुचिस्मिते । गत्वाऽऽराधय राजानं दुष्यन्तं हितकाम्यया ॥KUMB: १-९६-६॥
दौष्यन्तिं यौवराज्यस्थं दृष्ट्वा प्रीतिमवाप्स्यसि । देवतानां गुरूणां च क्षत्रियाणां च भामिनि ॥KUMB: १-९६-७॥
भर्तॄणां च विशेषेम हितं संगमनं भवेत् । तस्मात्पुत्रि कुमारेण गन्तव्यं मत्प्रियेप्सया ॥KUMB: १-९६-८॥
प्रतिवाक्यं न दद्यास्त्वं शपिता मम पादयोः ॥KUMB: १-९६-९॥
एवमुक्त्वा सुतां तत्र पौत्रं कण्वोऽभ्यभाषत । परिष्वज्य च बाहुभ्यां मूर्ध्न्युपाघ्राय पौरवम् ॥KUMB: १-९६-१०॥
सोमवंशोद्भवो राजा दुष्यन्त इति विश्रुतः । तस्याग्रमहिषी चैषा तव माता शुचिव्रता ॥KUMB: १-९६-११॥
गन्तुकामा भर्तृपार्श्वं त्वया सह सुमध्यमा । गत्वाऽभिवाद्य राजनं यौवराज्यमवाप्स्यसि ॥KUMB: १-९६-१२॥
स पिता तव राजेन्द्रस्तस्य त्वं वशगो भव । पितृपैतामहं राज्यमातिष्ठस्व स्वभावतः ॥KUMB: १-९६-१३॥
तस्मिन्काले स्वराज्यस्थो मामनुस्मर पौरव ॥KUMB: १-९६-१४॥
अभिवाद्य मुनेः पादौ पौरवो वाक्यमब्रवीत् । त्वं पिता मम विप्रर्षे त्वं माता त्वं गतिश्च मे ॥KUMB: १-९६-१५॥
न चान्यं पितरं मन्ये त्वामृते तु महातपः । तव शुश्रूषणं पुण्यमिह लोके परत्र च ॥KUMB: १-९६-१६॥
शकुन्तला भर्तृकामा स्वयं यातु यथेष्टतः । अहं सुश्रूषणपरः पादमूले वसामि वः ॥KUMB: १-९६-१७॥
क्रीडां व्यालमृगैः सार्धं करिष्ये न पुरा यथा । त्वच्छासनपरो नित्यं स्वाध्यायं च करोम्यहम् ॥KUMB: १-९६-१८॥
एवमुक्त्वा तु संश्लिष्य पादौ कण्वस्य तिष्ठतः । तस्य तद्वचनं श्रुत्वा प्ररुरोद शकुन्तला ॥KUMB: १-९६-१९॥
स्नेहात्पितुश्च पुत्रस्य हर्षशोकसमन्विता । निशाम्य रुदतीमार्तां दौष्यन्तिर्वाक्यमब्रवीत् ॥KUMB: १-९६-२०॥
श्रुत्वा भगवतो वाक्यं किं रोदिषि शकुन्तले । गन्तव्यं काल्य उत्थाय भर्तृप्रीतिस्ववास्ति चेत् ॥KUMB: १-९६-२१॥
एकस्तु कुरुते पापं फलं भुङ्क्ते महाजनः । मया निवारितो नित्यं न करोषि वचो मम ॥KUMB: १-९६-२२॥
निःसृतान्कुञ्जरान्नित्यं बाहुभ्यां संप्रमथ्य वै । वनं च लोडयन्नित्यं सिंहव्याघ्रगणैर्वृतम् ॥KUMB: १-९६-२३॥
एवंविधानि चान्यानि कृत्वा वै पुरुनन्दन । रुषितो भगवांस्तात तस्मादावां विवासितौ ॥KUMB: १-९६-२४॥
नाहं गच्छामि दुष्यन्तं नास्मि पुत्र हितैषिणी । पादमूले वसिष्यामि महर्षेर्भावितात्मनः ॥KUMB: १-९६-२५॥
एवमुक्त्वा तु रुदती पपात मुनिपादयोः । एवं विलपतीं कण्वश्चानुनीय च हेतुभिः । पुनः प्रोवाच भगवानानृशंस्याद्धितं वचः ॥KUMB: १-९६-२६॥
शकुन्तले शृणुष्वेदं हितं पथ्यं च भामिनि । पतिव्रताभावगुणान्हित्वा साध्यं न किंचन ॥KUMB: १-९६-२७॥
प्रतिव्रतानां देवा वै तुष्टाः सर्वरप्रदाः । प्रसादं च करिष्यन्ति आपदो मोक्षयन्ति च ॥KUMB: १-९६-२८॥
पतिप्रसादात्पुण्यं च प्राप्नुवन्ति न चाशुभम् । तस्माद्गत्वा तु राजानमाराधय शुचिस्मिते ॥KUMB: १-९६-२९॥
शकुन्तलां तथोक्त्वा वै शाकुन्तलमथाब्रवीत् । दौहित्रो मम पौत्रस्त्वमिलिलस्य महात्मनः ॥KUMB: १-९६-३०॥
शृणुष्व वचनं सत्यं प्रब्रवीमि तवानघ । मनसा भर्तृकामा वै वाग्भिरुक्त्वा पृथग्विधम् ॥KUMB: १-९६-३१॥
गन्तुं नेच्छति कल्याणी तस्मात्तात वहस्व वै । शक्तस्त्वं प्रतिगन्तुं च मुनिभिः सह पौरव ॥KUMB: १-९६-३२॥
धर्माभिपूजितं पुत्रं काश्यपेन निशाम्य तु । काश्यपात्प्राप्य चानुज्ञां मुमुदे च शकुन्तला ॥KUMB: १-९६-३६॥
कण्वस्य वचनं श्रुत्वा प्रतिगच्छेति चासकृत् । तथेत्युक्त्वा तु कण्वं च मातरं पौरवोऽब्रवीत् । किं चिरायसि मातस्त्वं गमिष्यामो नृपालयम् ॥KUMB: १-९६-३७॥
एवमुक्त्वा तु तां देवीं दुष्यन्तस्य महात्मनः । अभिवाद्य मुनेः पादौ गन्तुमैच्छत्स पौरवः ॥KUMB: १-९६-३८॥
शकुन्तला च पितरमभिवाद्य कृताञ्जलिः । प्रदक्षिणीकृत्य तदा पितरं वाक्यमब्रवीत् ॥KUMB: १-९६-३९॥
अज्ञानान्मे पिता चेति दुरुक्तं वापि चानृतम् । अकार्यं वाप्यनिष्टं वा क्षन्तुमर्हति तद्भवान् ॥KUMB: १-९६-४०॥
एवमुक्तो नतशिरा मुनिर्नोवाच किंचन । मनुष्यभावात्कण्वोऽपि मुनिरश्रूण्यवर्तयत् ॥KUMB: १-९६-४१॥
अब्भक्षान्वायुभक्षांश्च शीर्णपर्णाशनान्मुनीन् । फलमूलाशिनो दान्तान्कृशान्धमनिसंततान् ॥KUMB: १-९६-४२॥
व्रतिनो जटिलान्मुण्डान्वल्कलाजिनसंवृतान् । समाहूय मुनिः कण्वः कारुण्यादिदमब्रवीत् ॥KUMB: १-९६-४३॥
मया तु लालिता नित्यं मम पुत्री यशस्विनी । वने जाता विवृद्धा च न च जानाति किंचन ॥KUMB: १-९६-४४॥
आश्रमात्तु पथा सर्वैर्नीयतां क्षत्रियालयम् । द्वितीययोजने विप्राः प्रतिष्ठानं प्रतिष्ठितम् ॥KUMB: १-९६-४५॥
प्रतिष्ठाने पुरे राजा शाकुन्तलपितामहः । अध्युवास चिरं कालमुर्वश्या सहितः पुरा ॥KUMB: १-९६-४६॥
अनूपजाङ्गलयुतं धनधान्यसमाकुलम् । प्रतिष्ठितं पुरवरं गङ्गायामुनसङ्गमे ॥KUMB: १-९६-४७॥
तत्र सङ्गममासाद्य स्नात्वा हुतहुताशनाः । शाकमूलफलाहारा निवर्तध्वं तपोधनाः । अन्यथा तु भवेद्विप्रा अध्वनो गमने श्रमः ॥KUMB: १-९६-४८॥
शकुन्तलां समादाय मुनयो धर्मवत्सलाः । ते वनानि नदीः शैलान्गिरिप्रस्रवणानि च ॥KUMB: १-९६-५१॥
कन्दराणि नितम्बांश्च राष्ट्राणि नगराणि च । आश्रमाणि च पुण्यानि गत्वा चैव गतश्रमाः ॥KUMB: १-९६-५२॥
शनैर्मध्याह्नवेलायां प्रतिष्ठानं समाययुः । तां पुरीं पुरुहूतेन ऐलस्यार्थे विनिर्मिताम् ॥KUMB: १-९६-५३॥
परिघाट्टालकैर्मुख्यैरुपकल्पशतैरपि । शतघ्नीचक्रयन्त्रैश्च गुप्तामन्यैर्दुरासदाम् ॥KUMB: १-९६-५४॥
हर्म्यप्रसादसंबाधां नानापण्यविभूषिताम् । मण्टपैः ससभै रम्यैः प्रपाभिश्च समावृताम् ॥KUMB: १-९६-५५॥
राजमार्गेण महता सुविभक्तेन शोभिताम् । कैलासशिखराकारैर्गोपुरैः समलङ्कृताम् ॥KUMB: १-९६-५६॥
द्वारतोरणनिर्यूहैर्मङ्गलैरुपशोभिताम् । उद्यानाम्रवणोपेतां महतीं सालमेखलाम् ॥KUMB: १-९६-५७॥
सर्वपुष्करिणीभिश्च उद्यानैश्च समावृताम् । वर्णाश्रमैः स्वधर्मस्थैर्नित्योत्सवसमाहितैः ॥KUMB: १-९६-५८॥
धनधान्यसमृद्धैश्च संतुष्टै रत्नपूजितैः । कृतयज्ञैश्च विद्वद्भिरग्निहोत्रपरैः सदा ॥KUMB: १-९६-५९॥
वर्जिता कार्यकरणैर्दानशीलैर्दयापरैः । अधर्मभीरुभिः सर्वैः स्वर्गलोकजिगीषुभिः ॥KUMB: १-९६-६०॥
एवंविधजनोपेतमिन्द्रलोकमिवापरम् । तस्मिन्नगरमध्ये तु राजवेश्म प्रतिष्ठितम् ॥KUMB: १-९६-६१॥
इन्द्रसद्मप्रतीकाशं संपूर्णं वित्तसंचयैः । तस्य मध्ये सभा दिव्या नानारत्नविभूषिता ॥KUMB: १-९६-६२॥
तस्यां सभायां राजर्षिः सर्वालङ्कारभूषितः । ब्राह्मणैः क्षत्रियैश्चापि मन्त्रिभिश्चापि संवृतः ॥KUMB: १-९६-६३॥
संस्तूयमानो राजेन्द्रः सूतमागधबन्दिभिः । कार्यार्थिषु तदाऽभ्येत्य कृत्वा कार्यं गतेषु सः ॥KUMB: १-९६-६४॥
सुखासीनोऽभवद्राजा तस्मिन्काले महर्षयः । शकुन्तानां स्वनं श्रुत्वा निमित्तज्ञास्त्वलक्षयन् ॥KUMB: १-९६-६५॥
शकुन्तले निमित्तानि शोभनानि भवन्ति नः । कार्यसिद्धिं वदन्त्येते ध्रुवं राज्ञी भविष्यसि । अस्मिंस्तु दिवसे पुत्रो युवराजो भविष्यति ॥KUMB: १-९६-६६॥
वर्धमानपुरद्वारं तूर्यघोषनिनादितम् । शकुन्तलां पुरस्कृत्य विविशुस्ते महर्षयः ॥KUMB: १-९६-६७॥
प्रविशन्तं नृपसुतं प्रशशंसुश्च वीक्षकाः । वर्धमानपुरद्वारं प्रविशन्नेव पौरवः ॥KUMB: १-९६-६८॥
इन्द्रलोकस्थमात्मानं मेने हर्षसमन्वितः ॥KUMB: १-९६-६९॥
ततो वै नागराः सर्वे समाहूय परस्परम् । द्रष्टुकामा नृपसुतं समपद्यन्त भारत ॥KUMB: १-९६-७०॥
देवतेव जनस्याग्रे भ्राजते श्रीरिवागता । जयन्तेनेव पौलोमी इन्द्रलोकादिहागता ॥KUMB: १-९६-७१॥
इति ब्रुवन्तस्ते सर्वे महर्षीनिदमब्रुवन् । अभिवादयन्तः सहिता महर्षीन्देववर्चसः ॥KUMB: १-९६-७२॥
अद्य नः सफलं जन्म कृतार्थाश्च ततो वयम् । एवं ये स्म प्रपश्यामो महर्षीन्सूर्यवर्चसः ॥KUMB: १-९६-७३॥
इत्युक्त्वा सहिताः केचिदन्वगच्छन्त पौरवम् । हैमवत्याः सुतमिव कुमारं पुष्करेक्षणम् ॥KUMB: १-९६-७४॥
ये केचिदब्रुवन्मूढाः शाकुन्तलदिदृक्षवः । कृष्णाजिनेन संछन्नाननिच्छन्तो ह्यवेक्षितुम् ॥KUMB: १-९६-७५॥
पिशाचा इव दृश्यन्ते नागराणां विरूपिणः । विना सन्ध्यां पिशाचास्ते प्रविशन्ति पुरोत्तमम् ॥KUMB: १-९६-७६॥
क्षुत्पिपासार्दितान्दीनान्वल्कलाजिनवाससः । त्वगस्थिभूतान्निर्मांसान्धमनीसन्ततानपि ॥KUMB: १-९६-७७॥
पिङ्गलाक्षान्पिङ्गजटान्दीर्घदन्तान्निरूदरान् । विशीर्षकानूर्ध्वहस्तान्दृष्ट्वा हास्यन्ति नागराः ॥KUMB: १-९६-७८॥
एवमुक्तवतां तेषां गिरं श्रुत्वा महर्षयः । अन्योन्यं ते समाहूय इदं वचनमब्रुवन् ॥KUMB: १-९६-७९॥
उक्तं भगवता वाक्यं न कृतं सत्यवादिना । पुरप्रवेशनं नात्र कर्तव्यमिति शासनम् ॥KUMB: १-९६-८०॥
किं कारणं प्रवेक्ष्यामो नगरं दुर्जनैर्वृतम् । त्यक्तसङ्गस्य च मुनेर्नगरे किं प्रयोजनम् ॥KUMB: १-९६-८१॥
गमिष्यामो वनं तस्माद्गङ्गायामुनसङ्गमम् । एवमुक्त्वा मुनिगणाः प्रतिजग्मुर्यथागतम् ॥KUMB: १-९६-८२॥
गतान्मुनिगणान्दृष्ट्वा पुत्रं संगृह्य पाणिना । मातापितृभ्यां रहिता यथा शोचन्ति दारकाः ॥KUMB: १-९७-१॥
तथा शोकपरीताङ्गी धृतिमालम्ब्य दुःखिता । गतेषु तेषु विप्रेषु राजमार्गेण भामिनी ॥KUMB: १-९७-२॥
पुत्रेणैव सहायेन सा जगाम शनैः शनैः । अदृष्टपूर्वान्पश्यन्वै राजमार्गेण पौरवः ॥KUMB: १-९७-३॥
हर्म्यप्रसादचैत्यांश्च सभा दिव्या विचित्रिताः । कौतूहलसमाविष्टो दृष्ट्वा विस्मयमागतः ॥KUMB: १-९७-४॥
सर्वे ब्रुवन्ति तां दृष्ट्वा पद्महीनामिव श्रियम् । गत्या च संहीसदृशीं कोकिलेन स्वरे समाम् ॥KUMB: १-९७-५॥
मुखेन चन्द्रसदृशीं श्रिया पद्मालयासमाम् । स्मितेन कुन्दसदृशीं पद्मगर्भसमत्वचम् ॥KUMB: १-९७-६॥
पद्मपत्रविशालाक्षीं तप्तजाम्बूनदप्रभाम् । करान्तमितमध्यैषा सुकेशी संहतस्तनी ॥KUMB: १-९७-७॥
जघनं सुविशालं वै ऊरू करिकरोपमौ । रक्ततुङ्गतलौ पादौ धरण्यां सुप्रतिष्ठितौ ॥KUMB: १-९७-८॥
एवं रूपसमायुक्ता स्वर्गलोकादिवागता । इति स्म सर्वेऽमन्यन्त दुष्यन्तनगरे जनाः ॥KUMB: १-९७-९॥
पुनः पुनरवोचंस्ते शाकुन्तलगुणानपि । सिंहेक्षणः सिंहदंष्ट्रः सिंहस्कन्धो महाभुजः ॥KUMB: १-९७-१०॥
सिंहोरस्कः सिंहबलः सिंहविक्रान्तगाम्ययम् । पृथ्वंसः पृथुवक्षाश्च छत्राकारशिरा महान् ॥KUMB: १-९७-११॥
पाणिपादतले रक्तो रक्तास्यो दुन्दुभिस्वनः । राजलक्षणयुक्तश्च राजश्रीश्चास्य लक्ष्यते ॥KUMB: १-९७-१२॥
आकारेण च रूपेण शरीरेणापि तेजसा । दुष्यन्तेन समो ह्येष कस्य पुत्रो भविष्यति ॥KUMB: १-९७-१३॥
एवं ब्रुवन्तस्ते सर्वे प्रशशंसुः सहस्रशः । युक्तिवादानवोचन्त सर्वाः प्राणभृतः स्त्रियः ॥KUMB: १-९७-१४॥
बान्धवा इव सस्नेहा अनुजग्मुः शकुन्तलाम् । पौराणां तद्वचः श्रुत्वा तूष्णींभूता शकुन्तला ॥KUMB: १-९७-१५॥
वेश्मद्वारं समासाद्य विह्वला सा नृपात्मजा । चिन्तयामास सहसा कार्यगौरवकारणात् ॥KUMB: १-९७-१६॥
लज्जया च परीताङ्गी राजन्राजसमक्षतः । अघृणा किं नु वक्ष्यामि दुष्यन्तं मम कारणात् ॥KUMB: १-९७-१७॥
एवमुक्त्वा तु कृपणा चिन्तयन्ती शकुन्तला। अभिसृत्य च राजानं वेदिता सा प्रवेशिता ॥KUMB: १-९७-१८॥
सह तेन कुमारेण तरुणादित्यवर्चसा । सिंहासनस्थं राजानं महेन्द्रसदृशद्युतिम् ॥KUMB: १-९७-१९॥
निवेदयित्वा ते सर्वे आश्रमं पुनरागताः। पूजयित्वा यथान्यायमब्रवीच्च शकुन्तल ॥NILA: ०१.०७४.०१६॥
शकुन्तला नतशिराः परं हर्षमवाप्य च। पूजयित्वा यथान्यायमब्रवीत्तं शकुन्तला ॥KUMB: १-९७-२०॥
अभिवादय राजानं पितरं ते दृढव्रतम् । एवमुक्त्वा सुतं तत्र लज्जानतमुखी स्थिता ॥KUMB: १-९७-२१॥
स्तम्भमालिङ्ग्य राजानं प्रसीदस्वेत्युवाच सा । शाकुन्तलोपि राजानमभिवाद्य कृताञ्जलिः ॥KUMB: १-९७-२२॥
हर्षेणोत्फुल्लनयनो राजानं चान्ववैक्षत । दुष्यन्तो धर्मबुद्ध्या तु चिन्तयन्नेव सोब्रवीत् ॥KUMB: १-९७-२३॥
किमागमनकार्यं ते ब्रूहि त्वं वरवर्णिनि । करिष्यामि न संदेहः सपुत्राया विशेषतः ॥KUMB: १-९७-२४॥
प्रसीदस्व महाराज वक्ष्यामि पुरुषोत्तम । एष पुत्रो हि ते राजन्मय्युत्पन्नः परंतप ॥KUMB: १-९७-२५॥
तस्योपभोगसक्तस्य स्त्रीषु चान्यासु भारत । शकुन्तला सपुत्रा च मनस्यन्तरधीयत ॥KUMB: १-९७-२८॥
स धारयन्मनस्येनां सपुत्रां सस्मितां तदा । तदोपगृह्य मनसा चिरं सुखमवाप सः ॥KUMB: १-९७-२९॥
मैथुनं च वृथा नाहं गच्छेयमिति मे मतिः । नाभिजानामि कल्याणि त्वया सह समागमम् ॥KUMB: १-९७-३१॥
धर्म एव हि साधूनां सर्वेषां हितकारणम् । नित्यं मिथ्याविहीनानां न च दुःखावहो भवेत् ॥KUMB: १-९८-९॥
पुत्रेण लोकाञ्जयन्ति पौत्रेणानन्त्यमश्नुते । अथ पौत्रस्य पुत्रेण मोदन्ते प्रपितामहाः ॥KUMB: १-९८-२१॥
पोषणार्थं शरीरस्य पाथेयं स्वर्गतस्य वै। आत्माऽऽत्मनैव जनितः पुत्र इत्युच्यते बुधैः ॥KUMB: १-९८-३०॥
तस्माद्भार्यां पतिः पश्येन्मातृवत्पुत्रमातरम् । अन्तरात्मैव सर्वस्य पुत्रो नामोच्यते सदा ॥KUMB: १-९८-३१॥
गती रूपं च चेष्टा च आवर्ता लक्षणानि च । पितॄणां यानि दृश्यन्ते पुत्राणां सन्ति तानि च ॥KUMB: १-९८-३२॥
तेषां शीलगुणाचारास्तत्संपर्काच्छुभाशुभात्। भार्यायां जनितं पुत्रमादर्शे स्वमिवाननम् ॥KUMB: १-९८-३३॥
जनिता मोदते प्रेक्ष्य स्वर्गं प्राप्येव पुण्यकृत् । पतिव्रतारूपधराः परबीजस्य संग्रहात् ॥KUMB: १-९८-३४॥
कुलं विनाश्य भर्तॄणां नरकं यान्ति दारुणम् । परेण जनिताः पुत्राः स्वभार्यायां यथेष्टतः ॥KUMB: १-९८-३५॥
मम पुत्रा इति मतास्ते पुत्रा अपि शत्रवः । द्विषन्ति प्रतिकुर्वन्ति न ते वचनंकारिणः ॥KUMB: १-९८-३६॥
द्वेष्टि तांश्च पिता चापि स्वबीजे न तथा नृप । न द्वेष्टि पितरं पुत्रो जनितारमथापि वा ॥KUMB: १-९८-३७॥
न द्वेष्टि जनिता पुत्रं तस्मादात्मा सुतो भवेत्। दह्यमाना मनोदुःखैर्व्याधिभिस्तुमुलैर्जनः ॥KUMB: १-९८-३८॥
ह्लादन्ते स्वेषु दारेषु घर्मार्ताः सलिलेष्विव । विप्रवासकृशा दीना नरा मलिनवाससः ॥KUMB: १-९८-३९॥
तेऽपि स्वदारांस्तुष्यन्ति दरिद्रा धनलाभवत्। अप्रियोक्तोपि दाराणां न ब्रूयादप्रियं बुधः ॥KUMB: १-९८-४०॥
रतिं प्रीतिं च धर्मं च तदायत्तमवेक्ष्य च । आत्मनोऽर्धमिति श्रौतं सा रक्षति धनं प्रजाः ॥KUMB: १-९८-४१॥
शरीरं लोकयात्रां वै धर्मं स्वर्गमृषीन्पितॄन्। आत्मनो जन्मनः क्षेत्रं पुण्या रामाः सनातनाः ॥KUMB: १-९८-४२॥
ऋषीणामपि का शक्तिः स्रष्टुं रामामृते प्रजा-। देवानामपि का शक्तिः कर्तुं संभवमात्मनः ॥KUMB: १-९८-४३॥
पण्डितस्यापि लोकेषु स्त्रीषु सृष्टिः प्रतिष्ठिता । ऋषिभ्यो ह्यृषयः केचिच्चण्डालीष्वपि जज्ञिरे ॥KUMB: १-९८-४४॥
अण्डानि बिभ्रति स्वानि न त्यजन्ति पिपीलिकाः । किं पुनस्त्वं न मन्येथाः सर्वथा पुत्रमीदृशम् ॥KUMB: १-९८-४७॥
न भरेथाः कथं नु त्वं मयि जातं स्वमात्मजम् । ममाण्डानीति वर्ध्ते कोकिलाण्डानि वायसाः ॥KUMB: १-९८-४८॥
किं पुनस्त्वं न मन्येथाः सर्वज्ञः पुत्रमीदृशम् । मलयाच्चन्दनं जातमतिशीतं वदन्ति वै ॥KUMB: १-९८-४९॥
शिशोरालिङ्गनं तस्माच्चन्दनादधिकं भवेत्। न वाससां न रामाणां नापां स्पर्शस्तथाविधः ॥KUMB: १-९८-५०॥
अद्यायं मन्नियोगात्तु तवाह्वानं प्रतीक्षते । कुमारो राजशार्दूल तव शोकप्रणाशनः ॥KUMB: १-९८-५४॥
आहर्ता वाजिमेधस्य शतसङ्ख्यस्य पौरवः । राजसूयादिकानन्यान्क्रतूनमितदक्षिणान् ॥KUMB: १-९८-५५॥
आत्मा वै पुत्रनामासि स जीव शरदः शतम् । उपजिघ्रन्ति पितरो मन्त्रेणानेन मूर्धनि ॥KUMB: १-९८-५९॥
एको भूत्वा द्विधा भूत इति वादः प्रवर्तते । त्वदङ्गेभ्यः प्रसूतोऽयं पुरुषात्पुरुषः परः ॥KUMB: १-९८-६१॥
सरसीवामलेऽऽत्मानं द्वितीयं पश्य ते सुतम् । सरसीवामले सोमं प्रेक्षात्मानं त्वमात्मनि ॥KUMB: १-९८-६२॥
श्रीमानृषिर्धर्मपरो वैश्वानर इवापरः । ब्रह्मयोनिः कुशो नाम विश्वामित्रपितामहः ॥KUMB: १-९८-६७॥
कुशस्य पुत्रो बलवान्कुशनाभश्च धार्मिकः । गाधिस्तस्य सुतो राजन्विश्वामित्रस्तु गाधिजः ॥KUMB: १-९८-६८॥
एवंविधो मम पिता मेनका जननी वरा। सा मां हिमवतः पृष्ठे सुषुवे मेनकाऽप्सराः ॥KUMB: १-९८-६९॥
परित्यज्य च मां याता परात्मजमिवासती । पक्षिणः पुम्यवन्तस्ते सहिता धर्मतस्तदा ॥KUMB: १-९८-७०॥
पक्षैस्तैरभिगुप्ता च तस्मादस्मि शकुन्तला । ततोऽहमृषिणा दृष्टा काश्यपेन महात्मना ॥KUMB: १-९८-७१॥
जलार्थमग्निहोत्रस्य गतं दृष्ट्वा तु पक्षिणः । न्यासभूतामिव मुनेः प्रददुर्मां दयावतः ॥KUMB: १-९८-७२॥
कण्वस्त्वालोक्य मां प्रीतो हसन्तीति हविर्भुजः । स माऽरणिमिवादाय स्वमाश्रममुपागमत् ॥KUMB: १-९८-७३॥
सा वै संभाविता राजन्ननुक्रोशान्महर्षिणा । तेनैव स्वसुतेवाहं राजन्वै वरवर्णिनी ॥KUMB: १-९८-७४॥
विश्वामित्रसुता चाहं वर्धिता मुनिना नृप । यौवने वर्तमानां च दृष्टवानसि मां नृप ॥KUMB: १-९८-७५॥
आश्रमे पर्णशालायां कुमारीं विजने तदा । धात्रा प्रचोदितां शून्ये पित्रा विरहितां मिथः ॥KUMB: १-९८-७६॥
वाग्भिस्त्वं सूनृताभिर्मामपत्यार्थमचूचुदः । अकार्षीस्त्वाश्रमे वासं धर्मकामार्थनिश्चितम् ॥KUMB: १-९८-७७॥
गान्धर्वेण विवाहेन विधिना पाणिमग्रहीः । साऽहं कुलं च शीलं च सत्यवादित्वमात्मनः ॥KUMB: १-९८-७८॥
स्वधर्मं च पुरस्कृत्य त्वामद्य शरणं गता । तस्मान्नर्हसि संश्रुत्य तथेति वितथं वचः ॥KUMB: १-९८-७९॥
स्वधर्मं पृष्ठतः कृत्वा परित्यक्तुमुपस्थिताम् । त्वन्नाथां लोकनाथस्त्वं नार्हसि त्वमनागसम् ॥KUMB: १-९८-८०॥
सर्वमेव परोक्षं मे यत्त्वं वदसि तापसि । सर्वा वामाः स्त्रियो लोके सर्वाः कामपरायणाः ॥KUMB: १-९८-८८॥
सर्वाः स्त्रियः परवशाः सर्वाः क्रोधसमाकुलाः । असत्योक्ताः स्त्रियः सर्वा न कण्वं वक्तुमर्हसि ॥KUMB: १-९८-८९॥
सुषाव सुरनारी मां विश्वामित्राद्यथेष्टतः । अहो जानामि ते जन्म कुत्सितं कुलटे जनैः ॥KUMB: १-९८-९२॥
जातिश्चापि निकृष्टो ते कुलीनेति विजल्पसे । जनयित्वा त्वमुत्सृष्टा कोकिलेन परैर्भृता ॥KUMB: १-९८-९४॥
अरिष्टैरिव दुर्बद्धिः कण्वो वर्धयिता पिता । अश्रद्धेयमिदं वाक्यं यत्त्वं जल्पसि तापसि ॥KUMB: १-९८-९५॥
ब्रुवन्ती राजसान्निध्ये गम्यतां यत्र चेच्छसि । सुवर्णमणिमुक्तानि वस्त्राण्याभरणानि च ॥KUMB: १-९८-९६॥
यदिहेच्छसि भोगार्थं तापसि प्रतिगृह्यताम् । नाहं त्वां द्रष्टुमिच्छामि यथेष्टं गम्यतामितः ॥KUMB: १-९८-९७॥
राजन्सर्षपमात्राणि परच्छिद्राणि पश्यसि। आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि ॥BORI: १-६९-१॥
मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम्। ममैवोद्रिच्यते जन्म दुःषन्त तव जन्मतः ॥BORI: १-६९-२॥
क्षितावटसि राजंस्त्वमन्तरिक्षे चराम्यहम्। आवयोरन्तरं पश्य मेरुसर्षपयोरिव ॥BORI: १-६९-३॥
महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च। भवनान्यनुसंयामि प्रभावं पश्य मे नृप ॥BORI: १-६९-४॥
सत्यश्चापि प्रवादोऽयं यं प्रवक्ष्यामि तेऽनघ। निदर्शनार्थं न द्वेषात्तच्छ्रुत्वा क्षन्तुमर्हसि ॥BORI: १-६९-५॥
विरूपो यावदादर्शे नात्मनः पश्यते मुखम्। मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम् ॥BORI: १-६९-६॥
यदा तु मुखमादर्शे विकृतं सोऽभिवीक्षते। तदेतरं विजानाति आत्मानं नेतरं जनम् ॥BORI: १-६९-७॥
अतीव रूपसम्पन्नो न किञ्चिदवमन्यते। अतीव जल्पन्दुर्वाचो भवतीह विहेठकः ॥BORI: १-६९-८॥
मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः। अशुभं वाक्यमादत्ते पुरीषमिव सूकरः ॥BORI: १-६९-९॥
प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः। गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसः ॥BORI: १-६९-१०॥
अन्यान्परिवदन्साधुर्यथा हि परितप्यते। तथा परिवदन्नन्यांस्तुष्टो भवति दुर्जनः ॥BORI: १-६९-११॥
अभिवाद्य यथा वृद्धान्सन्तो गच्छन्ति निर्वृतिम्। एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः ॥BORI: १-६९-१२॥
सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः। यत्र वाच्याः परैः सन्तः परानाहुस्तथाविधान् ॥BORI: १-६९-१३॥
अतो हास्यतरं लोके किञ्चिदन्यन्न विद्यते। यत्र दुर्जन इत्याह दुर्जनः सज्जनं स्वयम् ॥BORI: १-६९-१४॥
सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव। अनास्तिकोऽप्युद्विजते जनः किं पुनरास्तिकः ॥BORI: १-६९-१५॥
स्वयमुत्पाद्य वै पुत्रं सदृशं योऽवमन्यते। तस्य देवाः श्रियं घ्नन्ति न च लोकानुपाश्नुते ॥BORI: १-६९-१६॥
कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन्। उत्तमं सर्वधर्माणां तस्मात्पुत्रं न सन्त्यजेत् ॥BORI: १-६९-१७॥
स्वपत्नीप्रभवान्पञ्च लब्धान्क्रीतान्विवर्धितान्। कृतानन्यासु चोत्पन्नान्पुत्रान्वै मनुरब्रवीत् ॥BORI: १-६९-१८॥
धर्मकीर्त्यावहा नृणां मनसः प्रीतिवर्धनाः। त्रायन्ते नरकाज्जाताः पुत्रा धर्मप्लवाः पितृन् ॥BORI: १-६९-१९॥
स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुमर्हसि। आत्मानं सत्यधर्मौ च पालयानो महीपते । नरेन्द्रसिंह कपटं न वोढुं त्वमिहार्हसि ॥BORI: १-६९-२०॥
वरं कूपशताद्वापी वरं वापीशतात्क्रतुः। वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् ॥BORI: १-६९-२१॥
अश्वमेधसहस्रं च सत्यं च तुलया धृतम्। अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥BORI: १-६९-२२॥
सर्ववेदाधिगमनं सर्वतीर्थावगाहनम्। सत्यं च वदतो राजन्समं वा स्यान्न वा समम् ॥BORI: १-६९-२३॥
नास्ति सत्यात्परो धर्मो न सत्याद्विद्यते परम्। न हि तीव्रतरं किञ्चिदनृतादिह विद्यते ॥BORI: १-६९-२४॥
राजन्सत्यं परं ब्रह्म सत्यं च समयः परः। मा त्याक्षीः समयं राजन्सत्यं सङ्गतमस्तु ते ॥BORI: १-६९-२५॥
अनृते चेत्प्रसङ्गस्ते श्रद्दधासि न चेत्स्वयम्। आत्मनो हन्त गच्छामि त्वादृशे नास्ति सङ्गतम् ॥BORI: १-६९-२६॥
ऋतेऽपि त्वयि दुःषन्त शैलराजावतंसकाम्। चतुरन्तामिमामुर्वीं पुत्रो मे पालयिष्यति ॥BORI: १-६९-२७॥
एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला। अथान्तरिक्षे दुःषन्तं वागुवाचाशरीरिणी । ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्चावृतं तदा ॥BORI: १-६९-२८॥
भस्त्रा माता पितुः पुत्रो येन जातः स एव सः। भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् ॥BORI: १-६९-२९॥
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात्। त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥BORI: १-६९-३०॥
जाया जनयते पुत्रमात्मनोऽङ्गं द्विधा कृतम्। तस्माद्भरस्व दुःषन्त पुत्रं शाकुन्तलं नृप ॥BORI: १-६९-३१॥
अभूतिरेषा कस्त्यज्याज्जीवञ्जीवन्तमात्मजम्। शाकुन्तलं महात्मानं दौःषन्तिं भर पौरव ॥BORI: १-६९-३२॥
भर्तव्योऽयं त्वया यस्मादस्माकं वचनादपि। तस्माद्भवत्वयं नाम्ना भरतो नाम ते सुतः ॥BORI: १-६९-३३॥
तच्छ्रुत्वा पौरवो राजा व्याहृतं वै दिवौकसाम्। पुरोहितममात्यांश्च सम्प्रहृष्टोऽब्रवीदिदम् ॥BORI: १-६९-३४॥
शृण्वन्त्वेतद्भवन्तोऽस्य देवदूतस्य भाषितम्। अहमप्येवमेवैनं जानामि स्वयमात्मजम् ॥BORI: १-६९-३५॥
यद्यहं वचनादेव गृह्णीयामिममात्मजम्। भवेद्धि शङ्का लोकस्य नैवं शुद्धो भवेदयम् ॥BORI: १-६९-३६॥
तं विशोध्य तदा राजा देवदूतेन भारत। हृष्टः प्रमुदितश्चापि प्रतिजग्राह तं सुतम् ॥BORI: १-६९-३७॥
मूर्ध्नि चैनमुपाघ्राय सस्नेहं परिषस्वजे। सभाज्यमानो विप्रैश्च स्तूयमानश्च बन्दिभिः । स मुदं परमां लेभे पुत्रसंस्पर्शजां नृपः ॥BORI: १-६९-३८॥
तां चैव भार्यां धर्मज्ञः पूजयामास धर्मतः। अब्रवीच्चैव तां राजा सान्त्वपूर्वमिदं वचः ॥BORI: १-६९-३९॥
कृतो लोकपरोक्षोऽयं सम्बन्धो वै त्वया सह। तस्मादेतन्मया देवि त्वच्छुद्ध्यर्थं विचारितम् ॥BORI: १-६९-४०॥
मन्यते चैव लोकस्ते स्त्रीभावान्मयि सङ्गतम्। पुत्रश्चायं वृतो राज्ये मया तस्माद्विचारितम् ॥BORI: १-६९-४१॥
यच्च कोपितयात्यर्थं त्वयोक्तोऽस्म्यप्रियं प्रिये। प्रणयिन्या विशालाक्षि तत्क्षान्तं ते मया शुभे ॥BORI: १-६९-४२॥
तामेवमुक्त्वा राजर्षिर्दुःषन्तो महिषीं प्रियाम्। वासोभिरन्नपानैश्च पूजयामास भारत ॥BORI: १-६९-४३॥
दुःषन्तश्च ततो राजा पुत्रं शाकुन्तलं तदा। भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचयत् ॥BORI: १-६९-४४॥
तस्य तत्प्रथितं चक्रं प्रावर्तत महात्मनः। भास्वरं दिव्यमजितं लोकसंनादनं महत् ॥BORI: १-६९-४५॥
स विजित्य महीपालांश्चकार वशवर्तिनः। चचार च सतां धर्मं प्राप चानुत्तमं यशः ॥BORI: १-६९-४६॥
स राजा चक्रवर्त्यासीत्सार्वभौमः प्रतापवान्। ईजे च बहुभिर्यज्ञैर्यथा शक्रो मरुत्पतिः ॥BORI: १-६९-४७॥
याजयामास तं कण्वो दक्षवद्भूरिदक्षिणम्। श्रीमान्गोविततं नाम वाजिमेधमवाप सः । यस्मिन्सहस्रं पद्मानां कण्वाय भरतो ददौ ॥BORI: १-६९-४८॥
भरताद्भारती कीर्तिर्येनेदं भारतं कुलम्। अपरे ये च पूर्वे च भारता इति विश्रुताः ॥BORI: १-६९-४९॥
भरतस्यान्ववाये हि देवकल्पा महौजसः। बभूवुर्ब्रह्मकल्पाश्च बहवो राजसत्तमाः ॥BORI: १-६९-५०॥
येषामपरिमेयानि नामधेयानि सर्वशः। तेषां तु ते यथामुख्यं कीर्तयिष्यामि भारत । महाभागान्देवकल्पान्सत्यार्जवपरायणान् ॥BORI: १-६९-५१॥
पुरा नरवरः पुत्र उर्वश्यां जनितस्तदा । आयुर्नाम महाराज तव पूर्वपितामहः ॥KUMB: १-९९-५॥
महर्षयश्च बहवः क्षत्रियाश्च परन्तपाः । अप्सरःसु ऋषीणां च मातृदोषो न विद्यते ॥KUMB: १-९९-६॥
पांसुपातेन हृष्यन्ति कुञ्जरा मदशालिनः । तथा परिवदन्नन्यान्हृष्टो भवति दुर्मतिः ॥KUMB: १-९९-११॥
अभव्येऽप्यनृतेऽशुद्धे नास्तिके पापकर्मणि । दुराचारे कलिर्ह्याशु न कलिर्धर्मचारिषु ॥KUMB: १-९९-१४॥
आत्मनो दुष्टभावत्वं जानन्नीचोऽप्रसन्नधीः । परेषामपि जानाति स्वधर्मसदृशान्गुणान् ॥KUMB: १-९९-१७॥
दह्यमानास्तु तीव्रेण नीचाः परयशोग्निना । अशक्तास्तद्गतिं गन्तुं ततो निन्दां प्रकुर्वते ॥KUMB: १-९९-१८॥
अपवादरता मूर्खा भवन्ति हि विशेषतः । नापवादरताः सन्तो भवन्ति स्म विशेषतः ॥KUMB: १-९९-२०॥
दारुणाल्लोकसंक्लेशाद्दुःखमाप्नोत्यसंशयम् । कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन् ॥KUMB: १-९९-२४॥
क्रीतान्कन्यासु चोत्पन्नान्पुत्रान्वै मनुरब्रवीत् । ते च षड्वन्धुदायादाः षडदायादबान्धवाः ॥KUMB: १-९९-२६॥
उभयं पालयस्वैतन्नानृतं वक्तुमर्हसि। आत्मानं सत्यधर्मौ च पालयेथा महीपते । नरेन्द्रसिंह कपटं न हि वोढुं त्वमर्हसि ॥KUMB: १-९९-२९॥
सर्ववेदाधिगमनं सर्वतीर्थावगाहनम् । सत्यस्यैव च राजेन्द्र कलां नार्हति षोडशीम् ॥KUMB: १-९९-३२॥
यः पापो न विजानीयात्कर्म कृत्वा नराधिप । न हि तादृक्परं पापमनृतादिह विद्यते ॥KUMB: १-९९-३५॥
यस्य ते हृदयं वेद सत्यस्यैवानृतस्य च । कल्याणावेक्षणं तस्मात्कर्तुमर्हसि धर्मतः ॥KUMB: १-९९-३६॥
यो न कामान्न च क्रोधान्न द्रोहादतिवर्तते । अमित्रं वापि मित्रं वा स एवोत्तमपूरुषः ॥KUMB: १-९९-३७॥
पुत्रत्वे शङ्कमानस्य त्वं बुद्ध्या निश्चयं कुरु । गतिः स्वरः स्मृतिः सत्वं शीलं विद्या च विक्रमः ॥KUMB: १-९९-३९॥
धृष्णुप्रकृतिभावौ च आवर्ता रोमराजयः । समा यस्य यदा स्युस्ते तस्य पुत्रो न संशयः ॥KUMB: १-९९-४०॥
सादृश्येनोद्धऋतं बिम्बं तव देहाद्विशांपते । तातेति भाषमाणं वै मा स्म राजन्वृथा कृथाः ॥KUMB: १-९९-४१॥
ऋते च गर्दभीक्षीरात्पयः पास्यति मे सुतः। ऋतेपि त्वां च दुष्यन्त शैलराजावतंसिकाम् । चतुरन्तामिमामुर्वीं पुत्रो मे पालयिष्यति ॥KUMB: १-९९-४२॥
शकुन्तले तव सुतश्चक्रवर्ती भविष्यति । एवमुक्तं महेन्द्रेण भविष्यति न चान्यथा ॥KUMB: १-९९-४३॥
साक्षित्वे बहवो ह्युक्ता देवदूतादयो मया । न ब्रुवन्ति तथा सत्यमुताहो नानृतं किल ॥KUMB: १-९९-४४॥
असाक्षिणी मन्दबाग्या गमिष्यामि यथागतम् ॥KUMB: १-९९-४५॥
एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला । तस्याः क्रोधसमुत्थोग्निः सधूमो मूर्ध्न्यदृश्यत ॥KUMB: १-९९-४६॥
संनियम्यात्मनोऽङ्गेषु ततः क्रोधाग्निमात्मजम् । प्रस्थितैवानवद्याङ्गी सह पुत्रेण वै वनम् ॥KUMB: १-९९-४७॥
सर्वेभ्यो ह्यङ्गमङ्गेभ्यः साक्षादुत्पद्यते सुतः । आत्मा चैव सुतो नाम तेनैव तव पौरव ॥KUMB: १-१००-३॥
आहितं ह्यात्मनाऽऽत्मानं परिरक्ष इमं सुतम् । अनन्यां त्वं प्रतीक्षस्व मावमंस्थाः शकुन्तलाम् ॥KUMB: १-१००-४॥
स्त्रियः पवित्रमतुलमेतद्दुष्यन्त धर्मतः । मासि मासि रजो ह्यासां दुरितान्यपकर्षति ॥KUMB: १-१००-५॥
ततः सर्वाणि भूतानि व्याजह्रस्तं समन्ततः ॥KUMB: १-१००-६॥
देवा ऊचुः । आहितस्त्वत्तनोरेष मावमंस्थाः शकुन्तलाम् ॥KUMB: १-१००-६क्ष्॥
पतिर्जायां प्रविशति स तस्यां जायते पुनः । अन्योन्यप्रकृतिर्ह्येषा मावमंस्थाः शकुन्तलाम् ॥KUMB: १-१००-८॥
एवमुक्त्वा ततो देवा ऋषयश्च तपोधनाः । पतिव्रतेति संहृष्टाः पुष्पवृष्टिं ववर्षिरे ॥KUMB: १-१००-१३॥
तच्छ्रुत्वा पौरवो वाक्यं व्याहृतं वे दिवौकसाम् । सिंहासनात्समुत्थाय प्रणम्य च दिवौकसः ॥KUMB: १-१००-१४॥
शृण्वन्तु देवतानां च महर्षीणां च भाषितम् । अहमप्येवमेवैनं जानामि सुतमात्मजम् ॥KUMB: १-१००-१६॥
ततस्तस्य तदा राजा पितृकर्माणि सर्वशः । कारयामास मुदितः प्रीतिमानात्मजस्य ह । मूर्ध्नि चैनं समाघ्राय सस्नेहं परिषस्वजे ॥KUMB: १-१००-१९; NILA: ०१.०७४.११९॥
लोकस्यायं परोक्षस्तु संबन्धो नौ पुराऽभवत् । कृतो लोकसमक्षोऽद्य संबन्धो वै पुनः कृतः ॥KUMB: १-१००-२२॥
तस्मादेतन्मया तस्य तन्निमित्तं प्रभाषितम् ॥KUMB: १-१००-२३॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव पृथग्विधाः । त्वां देवि वूजयिष्यन्ति निर्विशङ्कां पतिव्रताम् ॥KUMB: १-१००-२५॥
अनृतं वाप्यनिष्टं वा दुरुक्तं वातिदुष्कृतम् । त्वयाप्येवं विशालाक्षि क्षन्तव्यं मम दुर्वचः । क्षान्त्या पतिकृते नार्यः पातिव्रत्यं व्रजन्ति ताः ॥KUMB: १-१००-२८॥
एवमुक्त्वा तु राजर्षिस्तामनिन्दितगामिनीम् । अन्तःपुरं प्रवेश्याथ दुष्यन्तो महिषीं प्रियाम् ॥KUMB: १-१००-२९॥
वासोभिरन्नपानैश्च पूजयित्वा तु भारत । स मातरमुपस्थाय रथन्तर्यामभाषत ॥KUMB: १-१००-३०॥
मम पुत्रो वने जातस्तव शोकप्रणशनः । ऋणादद्य विमुक्तोऽहं तव पौत्रेण शोभने ॥KUMB: १-१००-३१॥
विश्वामित्रसुता चेयं कण्वेन च विवर्धिता । स्नुषा तव महाभागे प्रसीदस्व शकुन्तलाम् ॥KUMB: १-१००-३२॥
पुत्रस्य वचनं श्रुत्वा पौत्रं सा परिषस्वजे । पादयोः पतितां तत्र रथन्तर्या शकुन्तलाम् ॥KUMB: १-१००-३३॥
परिष्वज्य च बाहुभ्यां हर्षादश्रुण्यवर्तयत् । उवाच वचनं सत्यं लक्षये लक्षणानि च ॥KUMB: १-१००-३४॥
तव पुत्रो विशालाक्षि चक्रवर्ती भविष्यति । तव भर्ता विशालाक्षि त्रैलोक्यविजयी भवेत् ॥KUMB: १-१००-३५॥
दिव्यान्भोगाननुप्राप्ता भव त्वं वरवर्णिनि । एवमुक्ता रथ्तर्या परं हर्षमवाप सा ॥KUMB: १-१००-३६॥
शकुन्तलां तदा राजा शास्त्रोक्तेनैव कर्मणा । ततोऽग्रमहिषीं कृत्वा सर्वाभरणभूषिताम् ॥KUMB: १-१००-३७॥
ब्राह्मणेभ्यो धनं दत्त्वा सैनिकानां च भूपतिः । दौष्यन्तिं च ततो राजा पुत्रं शाकुन्तलं तदा ॥KUMB: १-१००-३८॥
भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचयत् । भरते भारमावेश्य कृतकृत्योऽभवन्नृपः ॥KUMB: १-१००-३९॥
ततो वर्षशतं पूर्णं राज्यं कृत्वा नराधिपः । गत्वा वनानि दुष्यन्तः स्वर्गलोकमुपेयिवान् ॥KUMB: १-१००-४०॥
दुष्यन्ताद्भरतो राज्यं यथान्यायमवाप सः। तस्य तत्प्रथितं कर्म प्रावर्तत महात्मनः ॥KUMB: १-१०१-१॥
सोऽश्वमेधशतैरीजे यमुनामनु तीरगः । त्रिशतैश्च सरस्वत्यां गङ्गामनु चतुःशतैः ॥KUMB: १-१०१-६॥
दौष्यन्तिर्भरतो यज्ञैरीजे शाकुन्तलो नृपः । तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः ॥KUMB: १-१०१-७॥
भरतस्य वरस्त्रीषु पुत्राः संजज्ञिरे पृथक् । नाभ्यनन्दत्तदा राजा नानुरूपा ममेति तान् ॥KUMB: १-१०१-८॥
ततस्तान्मातरः क्रुद्धाः पुत्रान्निन्युर्यमक्षयम् । ततस्तस्य नरेन्द्रस्य वितथं पुत्रजन्म तत् ॥KUMB: १-१०१-९॥
ततो महद्भिः क्रतुभिरीजानो भरतस्तदा । लेभे पुत्रं भरद्पाजाद्भुमन्युं नाम भारत ॥KUMB: १-१०१-१०॥
ततः पुत्रिणमात्मानं ज्ञात्वा पौरवनन्दनः । भुमन्युं भरतश्रेष्ठ यौवराज्येऽभ्यषेचयत् ॥KUMB: १-१०१-११॥
ततो दिविरथो नाम भुमन्योरभवत्सुतः । सुहोत्रश्च सुहोता च सुहविः सुयजुस्तथा ॥KUMB: १-१०१-१२॥
पुष्करिण्यामृचीकश्च भुमन्योरभवन्सुताः । तेषां ज्येष्ठः सुहोत्रस्तु राज्यमाप महीक्षिताम् ॥KUMB: १-१०१-१३॥
राजसूयाश्वमेधाद्यैः सोऽयजद्बहुभिः सवैः । सुहोत्रः पृथिवीं कृत्स्नां बुभुजे सागराम्बराम् ॥KUMB: १-१०१-१४॥
पूर्णां हस्तिगवाश्वैश्च बहुरत्नसमाकुलाम् । ममज्जेव मही तस्य भूरिभारावपीडिता ॥KUMB: १-१०१-१५॥
हस्त्यश्वरथसंपूर्णा मनुष्यकलिला भृशम् । सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः ॥KUMB: १-१०१-१६॥
चैत्ययूपाङ्किता चासीद्भूमिः शतसहस्रशः । प्रवृद्धजनसस्या च सर्वदैव व्यरोचत ॥KUMB: १-१०१-१७॥
ऐक्ष्वाकी जनयामास सुहोत्रात्पृथिवीपतेः । अजमीढं सुमीढं च पुरुमीढं च भारत ॥KUMB: १-१०१-१८॥
अजमीढो वरस्तेषां तस्मिन्वंशः प्रतिष्ठितः । षट् पुत्रान्सोप्यजनयत्तिसृषु स्त्रीषु भारत ॥KUMB: १-१०१-१९॥
ऋक्षं धूमिन्यथो नीली दुष्यन्तपरमेष्ठइनौ । केशिन्यजनयज्जह्नुं सुतौ च जनरूषिणौ ॥KUMB: १-१०१-२०॥
विदुः संवरणं वीरमृक्षाद्राथन्तरीसुतम् । तथेमे सर्वपञ्चाला दुष्यन्तपरमेष्ठिनोः । अन्वयाः कुशिका राजञ्जन्होरमिततेजसः ॥KUMB: १-१०१-२१॥
जनरूषणयोर्ज्येष्ठमृक्षमाहुर्जनाधिपम् । ऋक्षात्संवरणो जज्ञे राजन्वंशकरस्तव ॥KUMB: १-१०१-२२॥
आर्क्षे संवरणे राजन्प्रशासति वसुन्धराम् । संक्षयः सुमहानासीत्प्रजानामिति नः श्रुतम् ॥KUMB: १-१०१-२३॥
व्यशीर्यत ततो राष्ट्रं क्षयैर्नानाविधैस्तदा । क्षुन्मृत्युभ्यामनावृष्ट्या व्याधिभिश्च समाहतम् ॥KUMB: १-१०१-२४॥
अभ्यघ्नन्भारतांश्चैव सपत्नानां बलानि च । चालयन्वसुधां चेमां बलेन चतुरङ्गिणा ॥KUMB: १-१०१-२५॥
अभ्ययात्तं च पाञ्चल्यो विजित्य तरसा महीम् । अक्षौहिणीभिर्दशभिः स एनं समरेऽजयत् ॥KUMB: १-१०१-२६॥
ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः । राजा संवरणस्तस्मात्पलायत महाभयात् ॥KUMB: १-१०१-२७॥
ते प्रतीचीं पराभूताः प्रपन्ना भारता दिशम् । सिन्धोर्नदस्य महतो निकुञ्जे न्यवसंस्तदा । नदीविपयपर्यन्ते पर्वतस्य समीपतः ॥KUMB: १-१०१-२८॥
तत्रावसन्बहून्कालान्भारता दुर्गमाश्रिताः । तेषां निवसतां तत्र सहस्रं परिवत्सरान् ॥KUMB: १-१०१-२९॥
अथाभ्यगच्छद्भरतान्वसिष्ठो भगवानृषिः । तमागतं प्रयत्नेन प्रत्युद्गम्याभिवाद्य च ॥KUMB: १-१०१-३०॥
अर्घ्यमभ्याहरंस्तस्मै ते सर्वे भारतास्तदा । निवेद्य सर्वमृषये सत्कारेण सुवर्चसे ॥KUMB: १-१०१-३१॥
तमासने चोपविष्टं राजा वव्रे स्वयं तदा । पुरोहितो भवान्नोऽस्तु राज्याय प्रयतेमहि ॥KUMB: १-१०१-३२॥
ओमित्येवं वसिष्ठोऽपि भारतान्प्रत्यपद्यत । अथाभ्यषिञ्चत्साम्राज्ये सर्वक्षत्रस्य पौरवम् ॥KUMB: १-१०१-३३॥
विषाणभूतं सर्वस्यां पृथिव्यामिति नः श्रुतम् । भरताध्युषितं पूर्वं सोऽध्यतिष्ठत्पुरोतोतमम् ॥KUMB: १-१०१-३४॥
पुनर्बलिभृतश्चैव चक्रे सर्वमहीक्षितः । ततः स पृथिवीं प्राप्य पुनरीजे महाबलः ॥KUMB: १-१०१-३५॥
आजमीढो महायज्ञैर्बहुभिर्भूरिदक्षिणैः । ततः संवरणात्सौरी तपती सुषुवे कुरुम् ॥KUMB: १-१०१-३६॥
राजत्वे तं प्रजाः सर्वा धर्मज्ञ इति वव्रिरे । महिम्ना तस्य कुरवो लेभिरे प्रत्ययं भृशम्। तस्य नाम्नाऽभिविख्यातं पृथिव्यां कुरुजाङ्गलं ॥KUMB: १-१०१-३७॥
कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः । अश्ववन्तमभिष्यन्तं तथा चैत्ररथं मुनिम् ॥KUMB: १-१०१-३८॥
जनमेजयं च विख्यातं पुत्रांश्चास्यानुशुश्रुम । पञ्चैतान्वाहिनी पुत्रान्व्यजायत मनस्विनी ॥KUMB: १-१०१-३९॥
अविक्षितः परिक्षित्तु शबलाश्वस्तु वीर्यवान् । आदिराजो विराजश्च शाल्मलिश्च महाबलः ॥KUMB: १-१०१-४०॥
उच्चैःश्रवा भङ्गकारो जितारिश्चाष्टमः स्मृतः । एतेषामन्ववाये तु ख्यातास्ते कर्मजैर्गुणैः । जनमेजयादयः सप्त तथैवान्ये महारथाः ॥KUMB: १-१०१-४१॥
परीक्षितोऽभवन्पुत्राः सर्वे धर्मार्थकोविदाः । कक्षसेनोग्रसेनौ तु चित्रसेनश्च वीर्यवान् ॥KUMB: १-१०१-४२॥
इन्द्रसेनः सुषेणश्च भीमसेनश्च नामतः । जनमेजयस्य तनया भुवि ख्याता महाबलाः ॥KUMB: १-१०१-४३॥
धृतराष्ट्रः प्रथमजः पाण्डुर्बाह्लीक एव च । निषधश्च महातेजास्तथा जाम्बूनदो बली ॥KUMB: १-१०१-४४॥
कुण्डोदरः पदातिश्च वसातिश्चाष्टमः स्मृतः । सर्वे धर्मार्थकुशलाः सर्वभूतहिते रताः ॥KUMB: १-१०१-४५॥
धृतराष्ट्रोऽथ राजासीत्तस्य पुत्रोऽथ कुण्डिकः । हस्ती वितर्कः क्राथश्च कुण्डिनश्चापि पञ्चमः ॥KUMB: १-१०१-४६॥
हविश्रवास्तथेन्द्राभो भुमन्युश्चापराजितः । धृतराष्ट्रसुतानां तु त्रीनेतान्प्रथितान्भुवि ॥KUMB: १-१०१-४७॥
प्रतीपं धर्मनेत्रं च सुनेत्रं चापि भारत । प्रतीपः प्रथितस्तेषां बभूवाप्रतिमो भुवि ॥KUMB: १-१०१-४८॥
प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ । देवापिः शन्तनुश्चैव बाह्लीकश्च महारथः ॥KUMB: १-१०१-४९॥
देवापिस्तु प्रवव्राज तेषां धर्महितेप्सया । शन्तनुश्च महीं लेभे बाह्लीकश्च महारथः ॥KUMB: १-१०१-५०॥
एवंविधा महाभागा देवरूपाः प्रहारिणः । अन्ववाये महाराज ऐलवंशविवर्धनाः ॥KUMB: १-१०१-५२॥
गङ्गातीरं समागम्य दीक्षितो जनमेजय । अश्वमेधसहस्राणि वाजपेयशतानि च ॥KUMB: १-१०१-५३॥
पुनरीजे महायज्ञैः समाप्तवरदक्षिणैः । अग्निष्टोमातिरात्राणामुक्थानां सोमवत्पुनः ॥KUMB: १-१०१-५४॥
वाजपेयेष्टिसत्राणां सहस्रैश्च सुसंभृतैः । दृष्ट्वा शाकुन्तलो राजा तर्पयित्वा द्विजान्धनैः ॥KUMB: १-१०१-५५॥
पुनः सहस्रं पद्मानां कण्वाय भरतो ददौ । जम्बूनदस्य शुद्धस्य कनकस्य महायशाः ॥KUMB: १-१०१-५६॥
यस्य यूपाः शतव्यामाः परिणाहेऽथ काञ्चनाः । सहस्रव्याममुद्वृद्धाः सेन्द्रैर्देवैः समुच्छ्रिताः ॥KUMB: १-१०१-५७॥
स्वलङ्कृता भ्राजमानाः सर्वरत्नैर्मनोरमैः । हिरण्यं द्विरदानश्वान्महिषोष्ट्रगजाविकम् ॥KUMB: १-१०१-५८॥
दासीदासं धनं धान्यं गाः सुशीलाः सवत्सकाः । भूमिं यूपसहस्राङ्कां कण्वाय बहुदक्षिणाम् ॥KUMB: १-१०१-५९॥
बहूनां ब्रह्मकल्पानां धनं दत्त्वा क्रतून्बहून् । ग्रामान्गृहाणि शुभ्राणि कोटिशोथाददत्तदा ॥KUMB: १-१०१-६०॥