Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
Chapter 10: Janamejaya asks for the lineage of Pūru, and Vaiśampāyana traces successive rulers through Bharata, Bhumanyu, Ajamīḍha, Saṃvaraṇa and Kuru to Pratīpa and Śantanu. The chapter also contains supplementary genealogical variants and increasingly expansive accounts of royal sacrifices, prosperity and gifts.
भगवञ्श्रोतुमिच्छामि पूरोर्वंशकरान्नृपान्। यद्वीर्या यादृशाश्चैव यावन्तो यत्पराक्रमाः ॥BORI: ०१-८९-१॥
न ह्यस्मिञ्शीलहीनो वा निर्वीर्यो वा नराधिपः। प्रजाविरहितो वापि भूतपूर्वः कदाचन ॥BORI: ०१-८९-२॥
तेषां प्रथितवृत्तानां राज्ञां विज्ञानशालिनाम्। चरितं श्रोतुमिच्छामि विस्तरेण तपोधन ॥BORI: ०१-८९-३॥
हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि। पूरोर्वंशधरान्वीराञ्शक्रप्रतिमतेजसः ॥BORI: ०१-८९-४॥
प्रवीरेश्वररौद्राश्वास्त्रयः पुत्रा महारथाः। पूरोः पौष्ट्यामजायन्त प्रवीरस्तत्र वंशकृत् ॥BORI: ०१-८९-५॥
मनस्युरभवत्तस्माच्छूरः श्येनीसुतः प्रभुः। पृथिव्याश्चतुरन्ताया गोप्ता राजीवलोचनः ॥BORI: ०१-८९-६॥
सुभ्रूः संहननो वाग्मी सौवीरीतनयास्त्रयः। मनस्योरभवन्पुत्राः शूराः सर्वे महारथाः ॥BORI: ०१-८९-७॥
रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः। यज्वानो जज्ञिरे शूराः प्रजावन्तो बहुश्रुताः । सर्वे सर्वास्त्रविद्वांसः सर्वे धर्मपरायणाः ॥BORI: ०१-८९-८॥
ऋचेपुरथ कक्षेपुः कृकणेपुश्च वीर्यवान्। स्थण्डिलेपुर्वनेपुश्च स्थलेपुश्च महारथः ॥BORI: ०१-८९-९॥
तेजेपुर्बलवान्धीमान्सत्येपुश्चेन्द्रविक्रमः। धर्मेपुः संनतेपुश्च दशमो देवविक्रमः । अनाधृष्टिसुतास्तात राजसूयाश्वमेधिनः ॥BORI: ०१-८९-१०॥
मतिनारस्ततो राजा विद्वांश्चर्चेपुतोऽभवत्। मतिनारसुता राजंश्चत्वारोऽमितविक्रमाः । तंसुर्महानतिरथो द्रुह्युश्चाप्रतिमद्युतिः ॥BORI: ०१-८९-११॥
तेषां तंसुर्महावीर्यः पौरवं वंशमुद्वहन्। आजहार यशो दीप्तं जिगाय च वसुन्धराम् ॥BORI: ०१-८९-१२॥
इलिनं तु सुतं तंसुर्जनयामास वीर्यवान्। सोऽपि कृत्स्नामिमां भूमिं विजिग्ये जयतां वरः ॥BORI: ०१-८९-१३॥
रथन्तर्यां सुतान्पञ्च पञ्चभूतोपमांस्ततः। इलिनो जनयामास दुःषन्तप्रभृतीन्नृप ॥BORI: ०१-८९-१४॥
दुःषन्तं शूरभीमौ च प्रपूर्वं वसुमेव च। तेषां ज्येष्ठोऽभवद्राजा दुःषन्तो जनमेजय ॥BORI: ०१-८९-१५॥
दुःषन्ताद्भरतो जज्ञे विद्वाञ्शाकुन्तलो नृपः। तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः ॥BORI: ०१-८९-१६॥
भरतस्तिसृषु स्त्रीषु नव पुत्रानजीजनत्। नाभ्यनन्दन्त तान्राजा नानुरूपा ममेत्युत ॥BORI: ०१-८९-१७॥
ततो महद्भिः क्रतुभिरीजानो भरतस्तदा। लेभे पुत्रं भरद्वाजाद्भुमन्युं नाम भारत ॥BORI: ०१-८९-१८॥
ततः पुत्रिणमात्मानं ज्ञात्वा पौरवनन्दनः। भुमन्युं भरतश्रेष्ठ यौवराज्येऽभ्यषेचयत् ॥BORI: ०१-८९-१९॥
ततस्तस्य महीन्द्रस्य वितथः पुत्रकोऽभवत्। ततः स वितथो नाम भुमन्योरभवत्सुतः ॥BORI: ०१-८९-२०॥
सुहोत्रश्च सुहोता च सुहविः सुयजुस्तथा। पुष्करिण्यामृचीकस्य भुमन्योरभवन्सुताः ॥BORI: ०१-८९-२१॥
तेषां ज्येष्ठः सुहोत्रस्तु राज्यमाप महीक्षिताम्। राजसूयाश्वमेधाद्यैः सोऽयजद्बहुभिः सवैः ॥BORI: ०१-८९-२२॥
सुहोत्रः पृथिवीं सर्वां बुभुजे सागराम्बराम्। पूर्णां हस्तिगवाश्वस्य बहुरत्नसमाकुलाम् ॥BORI: ०१-८९-२३॥
ममज्जेव मही तस्य भूरिभारावपीडिता। हस्त्यश्वरथसम्पूर्णा मनुष्यकलिला भृशम् ॥BORI: ०१-८९-२४॥
सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः। चैत्ययूपाङ्किता चासीद्भूमिः शतसहस्रशः । प्रवृद्धजनसस्या च सहदेवा व्यरोचत ॥BORI: ०१-८९-२५॥
ऐक्ष्वाकी जनयामास सुहोत्रात्पृथिवीपतेः। अजमीढं सुमीढं च पुरुमीढं च भारत ॥BORI: ०१-८९-२६॥
अजमीढो वरस्तेषां तस्मिन्वंशः प्रतिष्ठितः। षट्पुत्रान्सोऽप्यजनयत्तिसृषु स्त्रीषु भारत ॥BORI: ०१-८९-२७॥
ऋक्षं धूमिन्यथो नीली दुःषन्तपरमेष्ठिनौ। केशिन्यजनयज्जह्नुमुभौ च जनरूपिणौ ॥BORI: ०१-८९-२८॥
तथेमे सर्वपाञ्चाला दुःषन्तपरमेष्ठिनोः। अन्वयाः कुशिका राजञ्जह्नोरमिततेजसः ॥BORI: ०१-८९-२९॥
जनरूपिणयोर्ज्येष्ठमृक्षमाहुर्जनाधिपम्। ऋक्षात्संवरणो जज्ञे राजन्वंशकरस्तव ॥BORI: ०१-८९-३०॥
आर्क्षे संवरणे राजन्प्रशासति वसुन्धराम्। सङ्क्षयः सुमहानासीत्प्रजानामिति शुश्रुमः ॥BORI: ०१-८९-३१॥
व्यशीर्यत ततो राष्ट्रं क्षयैर्नानाविधैस्तथा। क्षुन्मृत्युभ्यामनावृष्ट्या व्याधिभिश्च समाहतम् । अभ्यघ्नन्भारतांश्चैव सपत्नानां बलानि च ॥BORI: ०१-८९-३२॥
चालयन्वसुधां चैव बलेन चतुरङ्गिणा। अभ्ययात्तं च पाञ्चाल्यो विजित्य तरसा महीम् । अक्षौहिणीभिर्दशभिः स एनं समरेऽजयत् ॥BORI: ०१-८९-३३॥
ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः। राजा संवरणस्तस्मात्पलायत महाभयात् ॥BORI: ०१-८९-३४॥
सिन्धोर्नदस्य महतो निकुञ्जे न्यवसत्तदा। नदीविषयपर्यन्ते पर्वतस्य समीपतः । तत्रावसन्बहून्कालान्भारता दुर्गमाश्रिताः ॥BORI: ०१-८९-३५॥
तेषां निवसतां तत्र सहस्रं परिवत्सरान्। अथाभ्यगच्छद्भरतान्वसिष्ठो भगवानृषिः ॥BORI: ०१-८९-३६॥
तमागतं प्रयत्नेन प्रत्युद्गम्याभिवाद्य च। अर्घ्यमभ्याहरंस्तस्मै ते सर्वे भारतास्तदा । निवेद्य सर्वमृषये सत्कारेण सुवर्चसे ॥BORI: ०१-८९-३७॥
तं समामष्टमीमुष्टं राजा वव्रे स्वयं तदा। पुरोहितो भवान्नोऽस्तु राज्याय प्रयतामहे । ओमित्येवं वसिष्ठोऽपि भारतान्प्रत्यपद्यत ॥BORI: ०१-८९-३८॥
अथाभ्यषिञ्चत्साम्राज्ये सर्वक्षत्रस्य पौरवम्। विषाणभूतं सर्वस्यां पृथिव्यामिति नः श्रुतम् ॥BORI: ०१-८९-३९॥
भरताध्युषितं पूर्वं सोऽध्यतिष्ठत्पुरोत्तमम्। पुनर्बलिभृतश्चैव चक्रे सर्वमहीक्षितः ॥BORI: ०१-८९-४०॥
ततः स पृथिवीं प्राप्य पुनरीजे महाबलः। आजमीढो महायज्ञैर्बहुभिर्भूरिदक्षिणैः ॥BORI: ०१-८९-४१॥
ततः संवरणात्सौरी सुषुवे तपती कुरुम्। राजत्वे तं प्रजाः सर्वा धर्मज्ञ इति वव्रिरे ॥BORI: ०१-८९-४२॥
तस्य नाम्नाभिविख्यातं पृथिव्यां कुरुजाङ्गलम्। कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः ॥BORI: ०१-८९-४३॥
अश्ववन्तमभिष्वन्तं तथा चित्ररथं मुनिम्। जनमेजयं च विख्यातं पुत्रांश्चास्यानुशुश्रुमः । पञ्चैतान्वाहिनी पुत्रान्व्यजायत मनस्विनी ॥BORI: ०१-८९-४४॥
अभिष्वतः परिक्षित्तु शबलाश्वश्च वीर्यवान्। अभिराजो विराजश्च शल्मलश्च महाबलः ॥BORI: ०१-८९-४५॥
उच्चैःश्रवा भद्रकारो जितारिश्चाष्टमः स्मृतः। एतेषामन्ववाये तु ख्यातास्ते कर्मजैर्गुणैः ॥BORI: ०१-८९-४६॥
जनमेजयादयः सप्त तथैवान्ये महाबलाः। परिक्षितोऽभवन्पुत्राः सर्वे धर्मार्थकोविदाः ॥BORI: ०१-८९-४७॥
कक्षसेनोग्रसेनौ च चित्रसेनश्च वीर्यवान्। इन्द्रसेनः सुषेणश्च भीमसेनश्च नामतः ॥BORI: ०१-८९-४८॥
जनमेजयस्य तनया भुवि ख्याता महाबलाः। धृतराष्ट्रः प्रथमजः पाण्डुर्बाह्लीक एव च ॥BORI: ०१-८९-४९॥
निषधश्च महातेजास्तथा जाम्बूनदो बली। कुण्डोदरः पदातिश्च वसातिश्चाष्टमः स्मृतः । सर्वे धर्मार्थकुशलाः सर्वे भूतहिते रताः ॥BORI: ०१-८९-५०॥
धृतराष्ट्रोऽथ राजासीत्तस्य पुत्रोऽथ कुण्डिकः। हस्ती वितर्कः क्राथश्च कुण्डलश्चापि पञ्चमः । हविःश्रवास्तथेन्द्राभः सुमन्युश्चापराजितः ॥BORI: ०१-८९-५१॥
प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ। देवापिः शन्तनुश्चैव बाह्लीकश्च महारथः ॥BORI: ०१-८९-५२॥
देवापिस्तु प्रवव्राज तेषां धर्मपरीप्सया। शन्तनुश्च महीं लेभे बाह्लीकश्च महारथः ॥BORI: ०१-८९-५३॥
भरतस्यान्वये जाताः सत्त्ववन्तो महारथाः। देवर्षिकल्पा नृपते बहवो राजसत्तमाः ॥BORI: ०१-८९-५४॥
एवंविधाश्चाप्यपरे देवकल्पा महारथाः। जाता मनोरन्ववाये ऐलवंशविवर्धनाः ॥BORI: ०१-८९-५५॥
हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि । पुरोर्वंशधरान्वीराञ्च्छक्रप्रतिमतेजसः । भूरिद्रविणविक्रान्तान्सर्वलक्षणपूजितान् ॥NILA: ०१.०९४.००४॥
अन्वग्भानुप्रभृतयो मिश्रकेश्यां मनस्विनः । रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः ॥KUMB: १-८८-७; NILA: ०१.०९४.००८॥
अनाधृष्टिरभूत्तेषां विद्वान्भुवि तथैकराट् । ऋचेयुरथ विक्रान्तो देवानामिव वासवः ॥KUMB: १-८८-११; NILA: ०१.०९४.०१२॥
दुष्यन्ताल्लक्षणायां तु जज्ञे वै जनमेजयः । शकुन्तलायां भरतो दौष्यन्तिरभवत्सुतः ॥KUMB: १-८८-१८॥
सोऽश्वमेधशतैरीजे यमुनामनु तीरगः । त्रिशतैश्च सरस्वत्यां गङ्गामनु चतुःशतैः ॥KUMB: १-१०१-६॥
दौष्यन्तिर्भरतो यज्ञैरीजे शाकुन्तलो नृपः । तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः ॥KUMB: १-१०१-७॥
ततस्तान्मातरः क्रुद्धाः पुत्रान्निन्युर्यमक्षयम् । ततस्तस्य नरेन्द्रस्य वितथं पुत्रजन्म तत् ॥KUMB: १-१०१-९; NILA: ०१.०९४.०२१॥
विदुः संवरणं वीरमृक्षाद्राथन्तरीसुतम् । तथेमे सर्वपञ्चाला दुष्यन्तपरमेष्ठिनोः । अन्वयाः कुशिका राजञ्जन्होरमिततेजसः ॥KUMB: १-१०१-२१॥
ते प्रतीचीं पराभूताः प्रपन्ना भारता दिशम् । सिन्धोर्नदस्य महतो निकुञ्जे न्यवसंस्तदा । नदीविपयपर्यन्ते पर्वतस्य समीपतः ॥KUMB: १-१०१-२८॥
राजत्वे तं प्रजाः सर्वा धर्मज्ञ इति वव्रिरे । महिम्ना तस्य कुरवो लेभिरे प्रत्ययं भृशम् । तस्य नाम्नाऽभिविख्यातं पृथिव्यां कुरुजाङ्गलं ॥KUMB: १-१०१-३७॥
हविश्रवास्तथेन्द्राभो भुमन्युश्चापराजितः । धृतराष्ट्रसुतानां तु त्रीनेतान्प्रथितान्भुवि ॥KUMB: १-१०१-४७; NILA: ०१.०९४.०५९॥
प्रतीपं धर्मनेत्रं च सुनेत्रं चापि भारत । प्रतीपः प्रथितस्तेषां बभूवाप्रतिमो भुवि ॥KUMB: १-१०१-४८; NILA: ०१.०९४.०६०॥
गङ्गातीरं समागम्य दीक्षितो जनमेजय । अश्वमेधसहस्राणि वाजपेयशतानि च ॥KUMB: १-१०१-५३॥
पुनरीजे महायज्ञैः समाप्तवरदक्षिणैः । अग्निष्टोमातिरात्राणामुक्थानां सोमवत्पुनः ॥KUMB: १-१०१-५४॥
वाजपेयेष्टिसत्राणां सहस्रैश्च सुसंभृतैः । दृष्ट्वा शाकुन्तलो राजा तर्पयित्वा द्विजान्धनैः ॥KUMB: १-१०१-५५॥
पुनः सहस्रं पद्मानां कण्वाय भरतो ददौ । जम्बूनदस्य शुद्धस्य कनकस्य महायशाः ॥KUMB: १-१०१-५६॥
यस्य यूपाः शतव्यामाः परिणाहेऽथ काञ्चनाः । सहस्रव्याममुद्वृद्धाः सेन्द्रैर्देवैः समुच्छ्रिताः ॥KUMB: १-१०१-५७॥
स्वलङ्कृता भ्राजमानाः सर्वरत्नैर्मनोरमैः । हिरण्यं द्विरदानश्वान्महिषोष्ट्रगजाविकम् ॥KUMB: १-१०१-५८॥
दासीदासं धनं धान्यं गाः सुशीलाः सवत्सकाः । भूमिं यूपसहस्राङ्कां कण्वाय बहुदक्षिणाम् ॥KUMB: १-१०१-५९॥
बहूनां ब्रह्मकल्पानां धनं दत्त्वा क्रतून्बहून् । ग्रामान्गृहाणि शुभ्राणि कोटिशोथाददत्तदा ॥KUMB: १-१०१-६०॥
श्रुतस्त्वत्तो मया विप्र पूर्वेषां सम्भवो महान्।उदाराश्चापि वंशेऽस्मिन्राजानो मे परिश्रुताः ॥BORI: ०१-९०-१॥
किं तु लघ्वर्थसंयुक्तं प्रियाख्यानं न मामति।प्रीणात्यतो भवान्भूयो विस्तरेण ब्रवीतु मे ॥BORI: ०१-९०-२॥
एतामेव कथां दिव्यामा प्रजापतितो मनोः।तेषामाजननं पुण्यं कस्य न प्रीतिमावहेत् ॥BORI: ०१-९०-३॥
सद्धर्मगुणमाहात्म्यैरभिवर्धितमुत्तमम्।विष्टभ्य लोकांस्त्रीनेषां यशः स्फीतमवस्थितम् ॥BORI: ०१-९०-४॥
गुणप्रभाववीर्यौजःसत्त्वोत्साहवतामहम्।न तृप्यामि कथां शृण्वन्नमृतास्वादसंमिताम् ॥BORI: ०१-९०-५॥
शृणु राजन् पुरा सम्यङ् मया द्वैपायनात् श्रुतम्। प्रोच्यमानम् इदं कृत्स्नं स्ववंशजननं शुभम् ॥BORI: ०१-९०-६॥
दक्षस्यादितिः।अदितेर्विवस्वान्।विवस्वतो मनुः।मनोरिला।इलायाः पुरूरवाः।पुरूरवस आयुः।आयुषो नहुषः।नहुषस्य ययातिः ॥BORI: ०१-९०-००७॥
ययातेर्द्वे भार्ये बभूवतुः।उशनसो दुहिता देवयानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम।अत्रानुवंशो भवति ॥BORI: ०१-९०-००८॥
यदुं च तुर्वसुं चैव देवयानी व्यजायत।द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥BORI: ०१-९०-९॥
तत्र यदोर्यादवाः।पूरोः पौरवाः ॥BORI: ०१-९०-०१०॥
पूरोर्भार्या कौसल्या नाम।तस्यामस्य जज्ञे जनमेजयो नाम।यस्त्रीनश्वमेधानाजहार।विश्वजिता चेष्ट्वा वनं प्रविवेश ॥BORI: ०१-९०-०११॥
जनमेजयः खल्वनन्तां नामोपयेमे माधवीम्।तस्यामस्य जज्ञे प्राचिन्वान्।यः प्राचीं दिशं जिगाय यावत्सूर्योदयात्।ततस्तस्य प्राचिन्वत्वम् ॥BORI: ०१-९०-०१२॥
प्राचिन्वान्खल्वश्मकीमुपयेमे।तस्यामस्य जज्ञे संयातिः ॥BORI: ०१-९०-०१३॥
संयातिः खलु दृषद्वतो दुहितरं वराङ्गीं नामोपयेमे।तस्यामस्य जज्ञे अहम्पातिः ॥BORI: ०१-९०-०१४॥
अहम्पातिस्तु खलु कृतवीर्यदुहितरमुपयेमे भानुमतीं नाम।तस्यामस्य जज्ञे सार्वभौमः ॥BORI: ०१-९०-०१५॥
सार्वभौमः खलु जित्वाजहार कैकेयीं सुनन्दां नाम।तस्यामस्य जज्ञे जयत्सेनः ॥BORI: ०१-९०-०१६॥
जयत्सेनः खलु वैदर्भीमुपयेमे सुषुवां नाम।तस्यामस्य जज्ञे अराचीनः ॥BORI: ०१-९०-०१७॥
अराचीनोऽपि वैदर्भीमेवापरामुपयेमे मर्यादां नाम।तस्यामस्य जज्ञे महाभौमः ॥BORI: ०१-९०-०१८॥
महाभौमः खलु प्रासेनजितीमुपयेमे सुयज्ञां नाम।तस्यामस्य जज्ञे अयुतनायी।यः पुरुषमेधानामयुतमानयत्।तदस्यायुतनायित्वम् ॥BORI: ०१-९०-०१९॥
अयुतनायी खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम।तस्यामस्य जज्ञे अक्रोधनः ॥BORI: ०१-९०-०२०॥
अक्रोधनः खलु कालिङ्गीं करण्डुं नामोपयेमे।तस्यामस्य जज्ञे देवातिथिः ॥BORI: ०१-९०-०२१॥
देवातिथिः खलु वैदेहीमुपयेमे मर्यादां नाम।तस्यामस्य जज्ञे ऋचः ॥BORI: ०१-९०-०२२॥
ऋचः खल्वाङ्गेयीमुपयेमे सुदेवां नाम।तस्यां पुत्रमजनयदृक्षम् ॥BORI: ०१-९०-०२३॥
ऋक्षः खलु तक्षकदुहितरमुपयेमे ज्वालां नाम।तस्यां पुत्रं मतिनारं नामोत्पादयामास ॥BORI: ०१-९०-०२४॥
मतिनारः खलु सरस्वत्यां द्वादशवार्षिकं सत्रमाजहार ॥BORI: ०१-९०-०२५॥
निवृत्ते च सत्रे सरस्वत्यभिगम्य तं भर्तारं वरयामास।तस्यां पुत्रमजनयत्तंसुं नाम ॥BORI: ०१-९०-०२६॥
अत्रानुवंशो भवति ॥BORI: ०१-९०-०२७॥
तंसुं सरस्वती पुत्रं मतिनारादजीजनत्।इलिनं जनयामास कालिन्द्यां तंसुरात्मजम् ॥BORI: ०१-९०-२८॥
इलिनस्तु रथन्तर्यां दुःषन्ताद्यान्पञ्च पुत्रानजनयत् ॥BORI: ०१-९०-०२९॥
दुःषन्तः खलु विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे।तस्यामस्य जज्ञे भरतः।तत्र श्लोकौ भवतः ॥BORI: ०१-९०-०३०॥
माता भस्त्रा पितुः पुत्रो येन जातः स एव सः।भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् ॥BORI: ०१-९०-३१॥
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात्।त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥BORI: ०१-९०-३२॥
ततोऽस्य भरतत्वम् ॥BORI: ०१-९०-०३३॥
भरतः खलु काशेयीमुपयेमे सार्वसेनीं सुनन्दां नाम।तस्यामस्य जज्ञे भुमन्युः ॥BORI: ०१-९०-०३४॥
भुमन्युः खलु दाशार्हीमुपयेमे जयां नाम।तस्यामस्य जज्ञे सुहोत्रः ॥BORI: ०१-९०-०३५॥
सुहोत्रः खल्विक्ष्वाकुकन्यामुपयेमे सुवर्णां नाम।तस्यामस्य जज्ञे हस्ती।य इदं हास्तिनपुरं मापयामास।एतदस्य हास्तिनपुरत्वम् ॥BORI: ०१-९०-०३६॥
हस्ती खलु त्रैगर्तीमुपयेमे यशोधरां नाम।तस्यामस्य जज्ञे विकुण्ठनः ॥BORI: ०१-९०-०३७॥
विकुण्ठनः खलु दाशार्हीमुपयेमे सुदेवां नाम।तस्यामस्य जज्ञेऽजमीढः ॥BORI: ०१-९०-०३८॥
अजमीढस्य चतुर्विंशं पुत्रशतं बभूव कैकेय्यां नागायां गान्धार्यां विमलायामृक्षायां चेति।पृथक्पृथग्वंशकरा नृपतयः।तत्र वंशकरः संवरणः ॥BORI: ०१-९०-०३९॥
संवरणः खलु वैवस्वतीं तपतीं नामोपयेमे।तस्यामस्य जज्ञे कुरुः ॥BORI: ०१-९०-०४०॥
कुरुः खलु दाशार्हीमुपयेमे शुभाङ्गीं नाम।तस्यामस्य जज्ञे विडूरथः ॥BORI: ०१-९०-०४१॥
विडूरथस्तु मागधीमुपयेमे सम्प्रियां नाम।तस्यामस्य जज्ञेऽरुग्वान्नाम ॥BORI: ०१-९०-०४२॥
अरुग्वान्खलु मागधीमुपयेमेऽमृतां नाम।तस्यामस्य जज्ञे परिक्षित् ॥BORI: ०१-९०-०४३॥
परिक्षित्खलु बाहुदामुपयेमे सुयशां नाम।तस्यामस्य जज्ञे भीमसेनः ॥BORI: ०१-९०-०४४॥
भीमसेनः खलु कैकेयीमुपयेमे सुकुमारीं नाम।तस्यामस्य जज्ञे पर्यश्रवाः। यमाहुः प्रतीपं नाम ॥BORI: ०१-९०-०४५॥
प्रतीपः खलु शैब्यामुपयेमे सुनन्दां नाम।तस्यां पुत्रानुत्पादयामास देवापिं शन्तनुं बाह्लीकं चेति ॥BORI: ०१-९०-०४६॥
देवापिः खलु बाल एवारण्यं प्रविवेश।शन्तनुस्तु महीपालोऽभवत्।अत्रानुवंशो भवति ॥BORI: ०१-९०-०४७॥
यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते।पुनर्युवा च भवति तस्मात्तं शन्तनुं विदुः ॥BORI: ०१-९०-४८॥
तदस्य शन्तनुत्वम् ॥BORI: ०१-९०-०४९॥
शन्तनुः खलु गङ्गां भागीरथीमुपयेमे।तस्यामस्य जज्ञे देवव्रतः।यमाहुर्भीष्म इति ॥BORI: ०१-९०-०५०॥
भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीमुदवहन्मातरम्।यामाहुर्गन्धकालीति ॥BORI: ०१-९०-०५१॥
तस्यां कानीनो गर्भः पराशराद्द्वैपायनः।तस्यामेव शन्तनोर्द्वौ पुत्रौ बभूवतुः।चित्राङ्गदो विचित्रवीर्यश्च ॥BORI: ०१-९०-०५२॥
तयोरप्राप्तयौवन एव चित्राङ्गदो गन्धर्वेण हतः।विचित्रवीर्यस्तु राजा समभवत् ॥BORI: ०१-९०-०५३॥
विचित्रवीर्यः खलु कौसल्यात्मजेऽम्बिकाम्बालिके काशिराजदुहितरावुपयेमे ॥BORI: ०१-९०-०५४॥
विचित्रवीर्यस्त्वनपत्य एव विदेहत्वं प्राप्तः ॥BORI: ०१-९०-०५५॥
ततः सत्यवती चिन्तयामास।दौःषन्तो वंश उच्छिद्यते इति ॥BORI: ०१-९०-०५६॥
सा द्वैपायनमृषिं चिन्तयामास ॥BORI: ०१-९०-०५७॥
स तस्याः पुरतः स्थितः किं करवाणीति ॥BORI: ०१-९०-०५८॥
सा तमुवाच।भ्राता तवानपत्य एव स्वर्यातो विचित्रवीर्यः।साध्वपत्यं तस्योत्पादयेति ॥BORI: ०१-९०-०५९॥
स परमित्युक्त्वा त्रीन्पुत्रानुत्पादयामास धृतराष्ट्रं पाण्डुं विदुरं चेति ॥BORI: ०१-९०-०६०॥
तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद्द्वैपायनस्य ॥BORI: ०१-९०-०६१॥
तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः प्रधाना बभूवुर्दुर्योधनो दुःशासनो विकर्णश्चित्रसेन इति ॥BORI: ०१-९०-०६२॥
पाण्डोस्तु द्वे भार्ये बभूवतुः कुन्ती माद्री चेत्युभे स्त्रीरत्ने ॥BORI: ०१-९०-०६३॥
अथ पाण्डुर्मृगयां चरन्मैथुनगतमृषिमपश्यन्मृग्यां वर्तमानम्। तथैवाप्लुतमनासादितकामरसमतृप्तं बाणेनाभिजघान ॥BORI: ०१-९०-०६४॥
स बाणविद्ध उवाच पाण्डुम्।चरता धर्ममिमं येन त्वयाभिज्ञेन कामरसस्याहमनवाप्तकामरसोऽभिहतस्तस्मात्त्वमप्येतामवस्थामासाद्यानवाप्तकामरसः पञ्चत्वमाप्स्यसि क्षिप्रमेवेति ॥BORI: ०१-९०-०६५॥
स विवर्णरूपः पाण्डुः शापं परिहरमाणो नोपासर्पत भार्ये ॥BORI: ०१-९०-०६६॥
वाक्यं चोवाच।स्वचापल्यादिदं प्राप्तवानहम्।शृणोमि च नानपत्यस्य लोका सन्तीति ॥BORI: ०१-९०-०६७॥
सा त्वं मदर्थे पुत्रानुत्पादयेति कुन्तीमुवाच ॥BORI: ०१-९०-०६८॥
सा तत्र पुत्रानुत्पादयामास धर्माद्युधिष्ठिरं मारुताद्भीमसेनं शक्रादर्जुनमिति ॥BORI: ०१-९०-०६९॥
स तां हृष्टरूपः पाण्डुरुवाच।इयं ते सपत्न्यनपत्या।साध्वस्यामपत्यमुत्पाद्यतामिति ॥BORI: ०१-९०-०७०॥
स एवमस्त्वित्युक्तः कुन्त्या ॥BORI: ०१-९०-०७१॥
ततो माद्र्यामश्विभ्यां नकुलसहदेवावुत्पादितौ ॥BORI: ०१-९०-०७२॥
माद्रीं खल्वलङ्कृतां दृष्ट्वा पाण्डुर्भावं चक्रे ॥BORI: ०१-९०-०७३॥
स तां स्पृष्ट्वैव विदेहत्वं प्राप्तः ॥BORI: ०१-९०-०७४॥
तत्रैनं चितास्थं माद्री समन्वारुरोह ॥BORI: ०१-९०-०७५॥
उवाच कुन्तीम्।यमयोरार्ययाप्रमत्तया भवितव्यमिति ॥BORI: ०१-९०-०७६॥
ततस्ते पञ्च पाण्डवाः कुन्त्या सहिता हास्तिनपुरमानीय तापसैर्भीष्मस्य विदुरस्य च निवेदिताः ॥BORI: ०१-९०-०७७॥
तत्रापि जतुगृहे दग्धुं समारब्धा न शकिता विदुरमन्त्रितेन ॥BORI: ०१-९०-०७८॥
ततश्च हिडिम्बमन्तरा हत्वा एकचक्रां गताः ॥BORI: ०१-९०-०७९॥
तस्यामप्येकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चालनगरमभिगताः ॥BORI: ०१-९०-०८०॥
तस्माद्द्रौपदीं भार्यामविन्दन्स्वविषयं चाजग्मुः कुशलिनः ॥BORI: ०१-९०-०८१॥
पुत्रांश्चोत्पादयामासुः।प्रतिविन्ध्यं युधिष्ठिरः।सुतसोमं वृकोदरः।श्रुतकीर्तिमर्जुनः।शतानीकं नकुलः।श्रुतकर्माणं सहदेव इति ॥BORI: ०१-९०-०८२॥
युधिष्ठिरस्तु गोवासनस्य शैब्यस्य देविकां नाम कन्यां स्वयंवरे लेभे।तस्यां पुत्रं जनयामास यौधेयं नाम ॥BORI: ०१-९०-०८३॥
भीमसेनोऽपि काश्यां बलधरां नामोपयेमे वीर्यशुल्काम्।तस्यां पुत्रं सर्वगं नामोत्पादयामास ॥BORI: ०१-९०-०८४॥
अर्जुनः खलु द्वारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां नाम भार्यामुदवहत्।तस्यां पुत्रमभिमन्युं नाम जनयामास ॥BORI: ०१-९०-०८५॥
नकुलस्तु चैद्यां करेणुवतीं नाम भार्यामुदवहत्।तस्यां पुत्रं निरमित्रं नामाजनयत् ॥BORI: ०१-९०-०८६॥
सहदेवोऽपि माद्रीमेव स्वयंवरे विजयां नामोपयेमे।तस्यां पुत्रमजनयत्सुहोत्रं नाम ॥BORI: ०१-९०-०८७॥
भीमसेनस्तु पूर्वमेव हिडिम्बायां राक्षस्यां घटोत्कचं नाम पुत्रं जनयामास ॥BORI: ०१-९०-०८८॥
इत्येते एकादश पाण्डवानां पुत्राः ॥BORI: ०१-९०-०८९॥
विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपयेमे।तस्यामस्य परासुर्गर्भोऽजायत ॥BORI: ०१-९०-०९०॥
तमुत्सङ्गेन प्रतिजग्राह पृथा नियोगात्पुरुषोत्तमस्य वासुदेवस्य।षाण्मासिकं गर्भमहमेनं जीवयिष्यामीति ॥BORI: ०१-९०-०९१॥
सञ्जीवयित्वा चैनमुवाच।परिक्षीणे कुले जातो भवत्वयं परिक्षिन्नामेति ॥BORI: ०१-९०-०९२॥
परिक्षित्तु खलु माद्रवतीं नामोपयेमे।तस्यामस्य जनमेजयः ॥BORI: ०१-९०-०९३॥
जनमेजयात्तु वपुष्टमायां द्वौ पुत्रौ शतानीकः शङ्कुश्च ॥BORI: ०१-९०-०९४॥
शतानीकस्तु खलु वैदेहीमुपयेमे।तस्यामस्य जज्ञे पुत्रोऽश्वमेधदत्तः ॥BORI: ०१-९०-०९५॥
इत्येष पूरोर्वंशस्तु पाण्डवानां च कीर्तितः।पूरोर्वंशमिमं श्रुत्वा सर्वपापैः प्रमुच्यते ॥BORI: ०१-९०-९६॥
पूरोर्वंशमहं धन्यं राज्ञाममिततेजसाम् । प्रवक्ष्यामि पितॄणां ते तेषां नामानि मे शृमु ॥KUMB: १-६३-१॥
अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः । तस्मान्मरीचिः संजज्ञे दक्षश्चैव प्रजापतिः ॥KUMB: १-६३-२॥
अङ्गुष्ठाद्दक्षमसृजच्चक्षुर्भ्यां च मरीचिनम् । मरीचेः कश्यपः पुत्रो दक्षस्य दुहिताऽऽदितिः ॥KUMB: १-६३-३॥
अवाचीनोऽपि वैदर्भीमपरामेवोपयेमे मर्यादां नाम तस्यामस्य जज्ञे अरिहः ॥KUMB: १-६३-१७; NILA: ०१.०९५.०१८॥
अरिहः खल्वाङ्गीमुपयेमे तस्यामस्य जज्ञे महाभौमः ॥KUMB: १-६३-१८; NILA: ०१.०९५.०१९॥
दुष्यन्तस्तु लाक्षीं नाम भागीरथीमुपयेमे तस्यामस्य जज्ञे जनमेजयः ॥KUMB: १-६३-३०॥
तत्र भीष्माय धृतराष्ट्रविदुरयोः पाण्डोः स्वर्गगमनं याथातथ्यं निवेदयन्तिस्म तपस्विनः ॥KUMB: १-६३-७०॥
तच्च वाक्यमुपश्रुत्य भगवतामन्तरिक्षात्पुष्पवृष्टिः पपात देवदुन्दुभयश्च प्रणेदुः ॥NILA: ०१.०९५.०६७॥
प्रतिगृहीताश्च पाण्डवाः पितुर्निधनमावेदयन्तस्तस्यौर्ध्वदेहिकं न्यायतश्च कृतवन्तस्तांस्तत्र निवसतः पाण्डवान्बाल्यात्प्रभृति दुर्योधनो नामर्षयत् ॥NILA: ०१.०९५.०६८॥
पापाचारो राक्षसीं बुद्धिमाश्रितोऽनेकैरुपायैरुद्धर्तुं च व्यवसितो भावित्वाच्चार्थस्य न शकितास्ते समुद्धर्तुम् ॥NILA: ०१.०९५.०६९॥
ततश्च धृतराष्ट्रेण व्याजेन वारणावतमनुप्रेषिता गमनमरोचयन् ॥NILA: ०१.०९५.०७०॥
ततो मणलूरुपतिकन्यायां चित्राङ्गदायामर्जुनः पुत्रमुत्पादयामास बभ्रुवाहनं नाम । एते त्रयोदश पुत्राः पाण्डवानाम् ॥KUMB: १-६३-८१॥
इतिहासमिमं पुण्यमशेषतः श्रावयिष्यन्ति ये नराः श्रोष्यन्ति वा नियतात्मनो विमत्सरा मैत्रा वेदपरास्तेपि स्वर्गजितः पुण्यलोका भवान्ति सततं देवब्राह्मणमनुष्याणां मान्याः सम्पूज्याश्च ॥NILA: ०१.०९५.०८८॥
परं हीदं भारतं भगवता व्यासेन प्रोक्तं पावनं ये ब्राह्मणादयो वर्णाः श्रद्दधाना अमत्सरा मैत्रा वेदसम्पन्नाः श्रोष्यन्ति तेऽपि स्वर्गजितः सुकृतिनोऽशोच्याः कृताकृते भवन्ति ॥NILA: ०१.०९५.०८९॥
भवति चात्र श्लोकः। इदं हि वेदैः समितं पवित्रमपि चोत्तमम्। धन्यं यशस्यमायुष्यं श्रोतव्यं नियतात्मभिः ॥NILA: ०१.०९५.०९०॥