Chapter 13: Śantanu’s sons; Citrāṅgada’s death, Vicitravīrya’s accession, Bhīṣma’s seizure of the Kāśī princesses, Ambā’s release, and Vicitravīrya’s death.
ततो विवाहे निर्वृत्ते स राजा शन्तनुर्नृपः। तां कन्यां रूपसम्पन्नां स्वगृहे संन्यवेशयत् ॥BORI: १-०९५-१॥
ततः शान्तनवो धीमान्सत्यवत्यामजायत। वीरश्चित्राङ्गदो नाम वीर्येण मनुजानति ॥BORI: १-०९५-२॥
अथापरं महेष्वासं सत्यवत्यां पुनः प्रभुः। विचित्रवीर्यं राजानं जनयामास वीर्यवान् ॥BORI: १-०९५-३॥
अप्राप्तवति तस्मिंश्च यौवनं भरतर्षभ। स राजा शन्तनुर्धीमान्कालधर्ममुपेयिवान् ॥BORI: १-०९५-४॥
स्वर्गते शन्तनौ भीष्मश्चित्राङ्गदमरिंदमम्। स्थापयामास वै राज्ये सत्यवत्या मते स्थितः ॥BORI: १-०९५-५॥
स तु चित्राङ्गदः शौर्यात्सर्वांश्चिक्षेप पार्थिवान्। मनुष्यं न हि मेने स कञ्चित्सदृशमात्मनः ॥BORI: १-०९५-६॥
त्वं वै सदृशनामासि युद्धं देहि नृपात्मज । नाम वाऽन्यत्प्रगृह्णीष्व यदि युद्धं न दास्यसि ॥KUMB: १-१०८-९॥
त्वयाहं युद्धमिच्छामि त्वत्सकाशं तु नामतः । आगतोस्मि वृथाऽऽभाष्य न गच्छेन्नाम ते मम ॥KUMB: १-१०८-१०॥
इत्युक्त्वा गर्जमानौ तौ हिरण्वत्यास्तटं गतौ ॥KUMB: १-१०८-११॥
तं क्षिपन्तं सुरांश्चैव मनुष्यानसुरांस्तथा। गन्धर्वराजो बलवांस्तुल्यनामाभ्ययात्तदा। तेनास्य सुमहद्युद्धं कुरुक्षेत्रे बभूव ह ॥BORI: १-०९५-७॥
तयोर्बलवतोस्तत्र गन्धर्वकुरुमुख्ययोः। नद्यास्तीरे हिरण्वत्याः समास्तिस्रोऽभवद्रणः ॥BORI: १-०९५-८॥
तस्मिन्विमर्दे तुमुले शस्त्रवृष्टिसमाकुले। मायाधिकोऽवधीद्वीरं गन्धर्वः कुरुसत्तमम् ॥BORI: १-०९५-९॥
चित्राङ्गदं कुरुश्रेष्ठं विचित्रशरकार्मुकम्। अन्ताय कृत्वा गन्धर्वो दिवमाचक्रमे ततः ॥BORI: १-०९५-१०॥
तस्मिन्नृपतिशार्दूले निहते भूरिवर्चसि। भीष्मः शान्तनवो राजन्प्रेतकार्याण्यकारयत् ॥BORI: १-०९५-११॥
विचित्रवीर्यं च तदा बालमप्राप्तयौवनम्। कुरुराज्ये महाबाहुरभ्यषिञ्चदनन्तरम् ॥BORI: १-०९५-१२॥
विचित्रवीर्यस्तु तदा भीष्मस्य वचने स्थितः। अन्वशासन्महाराज पितृपैतामहं पदम् ॥BORI: १-०९५-१३॥
स धर्मशास्त्रकुशलो भीष्मं शान्तनवं नृपः। पूजयामास धर्मेण स चैनं प्रत्यपालयत् ॥BORI: १-०९५-१४॥
चेदिराजसुतां ज्ञात्वा दाशराजेन वर्धिताम् । विवाहं कारयामास शास्त्रदृष्टेन कर्मणा ॥KUMB: १-१०८-१॥
हते चित्राङ्गदे भीष्मो बाले भ्रातरि चानघ । पालयामास तद्राज्यं सत्यवत्या मते स्थितः ॥BORI: १-०९६-१॥
सम्प्राप्तयौवनं पश्यन्भ्रातरं धीमतां वरम् । भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम् ॥BORI: १-०९६-२॥
अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरःसमाः । शुश्राव सहिता राजन्वृण्वतीर्वै स्वयं वरम् ॥BORI: १-०९६-३॥
ततः स रथिनां श्रेष्ठो रथेनैकेन वर्मभृत् । जगामानुमते मातुः पुरीं वाराणसीं प्रति ॥BORI: १-०९६-४॥
तत्र राज्ञः समुदितान्सर्वतः समुपागतान् । ददर्श कन्यास्ताश्चैव भीष्मः शन्तनुनन्दनः ॥BORI: १-०९६-५॥
कीर्त्यमानेषु राज्ञां तु नामस्वथ सहस्रशः । भीष्मः स्वयं तदा राजन्वरयामास ताः प्रभुः ॥BORI: १-०९६-६॥
उवाच च महीपालान्राजञ्जलदनिःस्वनः । रथमारोप्य ताः कन्या भीष्मः प्रहरतां वरः ॥BORI: १-०९६-७॥
आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः । अलङ्कृत्य यथाशक्ति प्रदाय च धनान्यपि ॥BORI: १-०९६-८॥
प्रयच्छन्त्यपरे कन्यां मिथुनेन गवामपि । वित्तेन कथितेनान्ये बलेनान्येऽनुमान्य च ॥BORI: १-०९६-९॥
प्रमत्तामुपयान्त्यन्ये स्वयमन्ये च विन्दते । अष्टमं तमथो वित्त विवाहं कविभिः स्मृतम् ॥BORI: १-०९६-१०॥
स्वयंवरं तु राजन्याः प्रशंसन्त्युपयान्ति च । प्रमथ्य तु हृतामाहुर्ज्यायसीं धर्मवादिनः ॥BORI: १-०९६-११॥
ता इमाः पृथिवीपाला जिहीर्षामि बलादितः । ते यतध्वं परं शक्त्या विजयायेतराय वा । स्थितोऽहं पृथिवीपाला युद्धाय कृतनिश्चयः ॥BORI: १-०९६-१२॥
एवमुक्त्वा महीपालान्काशिराजं च वीर्यवान् । सर्वाः कन्याः स कौरव्यो रथमारोपयत्स्वकम् । आमन्त्र्य च स तान्प्रायाच्छीघ्रं कन्याः प्रगृह्य ताः ॥BORI: १-०९६-१३॥
ततस्ते पार्थिवाः सर्वे समुत्पेतुरमर्षिताः । संस्पृशन्तः स्वकान्बाहून्दशन्तो दशनच्छदान् ॥BORI: १-०९६-१४॥
तेषामाभरणान्याशु त्वरितानां विमुञ्चताम् । आमुञ्चतां च वर्माणि सम्भ्रमः सुमहानभूत् ॥BORI: १-०९६-१५॥
ताराणामिव सम्पातो बभूव जनमेजय । भूषणानां च शुभ्राणां कवचानां च सर्वशः ॥BORI: १-०९६-१६॥
सवर्मभिर्भूषणैस्ते द्राग्भ्राजद्भिरितस्ततः । सक्रोधामर्षजिह्मभ्रूसकषायदृशस्तथा ॥BORI: १-०९६-१७॥
सूतोपकॢप्तान्रुचिरान्सदश्वोद्यतधूर्गतान् । रथानास्थाय ते वीराः सर्वप्रहरणान्विताः । प्रयान्तमेकं कौरव्यमनुसस्रुरुदायुधाः ॥BORI: १-०९६-१८॥
ततः समभवद्युद्धं तेषां तस्य च भारत । एकस्य च बहूनां च तुमुलं लोमहर्षणम् ॥BORI: १-०९६-१९॥
ते त्विषून्दशसाहस्रांस्तस्मै युगपदाक्षिपन् । अप्राप्तांश्चैव तानाशु भीष्मः सर्वांस्तदाच्छिनत् ॥BORI: १-०९६-२०॥
ततस्ते पार्थिवाः सर्वे सर्वतः परिवारयन् । ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ॥BORI: १-०९६-२१॥
स तद्बाणमयं वर्षं शरैरावार्य सर्वतः । ततः सर्वान्महीपालान्प्रत्यविध्यत्त्रिभिस्त्रिभिः ॥BORI: १-०९६-२२॥
तस्याति पुरुषानन्याँल्लाघवं रथचारिणः । रक्षणं चात्मनः सङ्ख्ये शत्रवोऽप्यभ्यपूजयन् ॥BORI: १-०९६-२३॥
तान्विनिर्जित्य तु रणे सर्वशस्त्रविशारदः । कन्याभिः सहितः प्रायाद्भारतो भारतान्प्रति ॥BORI: १-०९६-२४॥
ततस्तं पृष्ठतो राजञ्शाल्वराजो महारथः । अभ्याहनदमेयात्मा भीष्मं शान्तनवं रणे ॥BORI: १-०९६-२५॥
वारणं जघने निघ्नन्दन्ताभ्यामपरो यथा । वाशितामनुसम्प्राप्तो यूथपो बलिनां वरः ॥BORI: १-०९६-२६॥
स्त्रीकाम तिष्ठ तिष्ठेति भीष्ममाह स पार्थिवः । शाल्वराजो महाबाहुरमर्षेणाभिचोदितः ॥BORI: १-०९६-२७॥
ततः स पुरुषव्याघ्रो भीष्मः परबलार्दनः । तद्वाक्याकुलितः क्रोधाद्विधूमोऽग्निरिव ज्वलन् ॥BORI: १-०९६-२८॥
क्षत्रधर्मं समास्थाय व्यपेतभयसम्भ्रमः । निवर्तयामास रथं शाल्वं प्रति महारथः ॥BORI: १-०९६-२९॥
निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते । प्रेक्षकाः समपद्यन्त भीष्मशाल्वसमागमे ॥BORI: १-०९६-३०॥
तौ वृषाविव नर्दन्तौ बलिनौ वाशितान्तरे । अन्योन्यमभिवर्तेतां बलविक्रमशालिनौ ॥BORI: १-०९६-३१॥
ततो भीष्मं शान्तनवं शरैः शतसहस्रशः । शाल्वराजो नरश्रेष्ठः समवाकिरदाशुगैः ॥BORI: १-०९६-३२॥
पूर्वमभ्यर्दितं दृष्ट्वा भीष्मं शाल्वेन ते नृपाः । विस्मिताः समपद्यन्त साधु साध्विति चाब्रुवन् ॥BORI: १-०९६-३३॥
लाघवं तस्य ते दृष्ट्वा संयुगे सर्वपार्थिवाः । अपूजयन्त संहृष्टा वाग्भिः शाल्वं नराधिपाः ॥BORI: १-०९६-३४॥
क्षत्रियाणां तदा वाचः श्रुत्वा परपुरञ्जयः । क्रुद्धः शान्तनवो भीष्मस्तिष्ठ तिष्ठेत्यभाषत ॥BORI: १-०९६-३५॥
सारथिं चाब्रवीत्क्रुद्धो याहि यत्रैष पार्थिवः । यावदेनं निहन्म्यद्य भुजङ्गमिव पक्षिराट् ॥BORI: १-०९६-३६॥
ततोऽस्त्रं वारुणं सम्यग्योजयामास कौरवः । तेनाश्वांश्चतुरोऽमृद्नाच्छाल्वराज्ञो नराधिप ॥BORI: १-०९६-३७॥
अस्त्रैरस्त्राणि संवार्य शाल्वराज्ञः स कौरवः । भीष्मो नृपतिशार्दूल न्यवधीत्तस्य सारथिम् । अस्त्रेण चाप्यथैकेन न्यवधीत्तुरगोत्तमान् ॥BORI: १-०९६-३८॥
कन्याहेतोर्नरश्रेष्ठ भीष्मः शान्तनवस्तदा । जित्वा विसर्जयामास जीवन्तं नृपसत्तमम् । ततः शाल्वः स्वनगरं प्रययौ भरतर्षभ ॥BORI: १-०९६-३९॥
राजानो ये च तत्रासन्स्वयंवरदिदृक्षवः । स्वान्येव तेऽपि राष्ट्राणि जग्मुः परपुरञ्जय ॥BORI: १-०९६-४०॥
एवं विजित्य ताः कन्या भीष्मः प्रहरतां वरः । प्रययौ हास्तिनपुरं यत्र राजा स कौरवः ॥BORI: १-०९६-४१॥
सोऽचिरेणैव कालेन अत्यक्रामन्नराधिप । वनानि सरितश्चैव शैलांश्च विविधद्रुमान् ॥BORI: १-०९६-४२॥
अक्षतः क्षपयित्वारीन्सङ्ख्येऽसङ्ख्येयविक्रमः । आनयामास काश्यस्य सुताः सागरगासुतः ॥BORI: १-०९६-४३॥
स्नुषा इव स धर्मात्मा भगिन्य इव चानुजाः । यथा दुहितरश्चैव प्रतिगृह्य ययौ कुरून् ॥BORI: १-०९६-४४॥
ताः सर्वा गुणसम्पन्ना भ्राता भ्रात्रे यवीयसे । भीष्मो विचित्रवीर्याय प्रददौ विक्रमाहृताः ॥BORI: १-०९६-४५॥
सतां धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम् । भ्रातुर्विचित्रवीर्यस्य विवाहायोपचक्रमे । सत्यवत्या सह मिथः कृत्वा निश्चयमात्मवान् ॥BORI: १-०९६-४६॥
विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुताः । ज्येष्ठा तासामिदं वाक्यमब्रवीद्ध सती तदा ॥BORI: १-०९६-४७॥
मया सौभपतिः पूर्वं मनसाभिवृतः पतिः । तेन चास्मि वृता पूर्वमेष कामश्च मे पितुः ॥BORI: १-०९६-४८॥
मया वरयितव्योऽभूच्छाल्वस्तस्मिन्स्वयंवरे । एतद्विज्ञाय धर्मज्ञ ततस्त्वं धर्ममाचर ॥BORI: १-०९६-४९॥
एवमुक्तस्तया भीष्मः कन्यया विप्रसंसदि । चिन्तामभ्यगमद्वीरो युक्तां तस्यैव कर्मणः ॥BORI: १-०९६-५०॥
स विनिश्चित्य धर्मज्ञो ब्राह्मणैर्वेदपारगैः । अनुजज्ञे तदा ज्येष्टामम्बां काशिपतेः सुताम् ॥BORI: १-०९६-५१॥
अम्बिकाम्बालिके भार्ये प्रादाद्भ्रात्रे यवीयसे । भीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा ॥BORI: १-०९६-५२॥
तयोः पाणिं गृहीत्वा स रूपयौवनदर्पितः । विचित्रवीर्यो धर्मात्मा कामात्मा समपद्यत ॥BORI: १-०९६-५३॥
ते चापि बृहती श्यामे नीलकुञ्चितमूर्धजे । रक्ततुङ्गनखोपेते पीनश्रोणिपयोधरे ॥BORI: १-०९६-५४॥
आत्मनः प्रतिरूपोऽसौ लब्धः पतिरिति स्थिते । विचित्रवीर्यं कल्याणं पूजयामासतुस्तु ते ॥BORI: १-०९६-५५॥
स चाश्विरूपसदृशो देवसत्त्वपराक्रमः । सर्वासामेव नारीणां चित्तप्रमथनोऽभवत् ॥BORI: १-०९६-५६॥
ताभ्यां सह समाः सप्त विहरन्पृथिवीपतिः । विचित्रवीर्यस्तरुणो यक्ष्माणं समपद्यत ॥BORI: १-०९६-५७॥
सुहृदां यतमानानामाप्तैः सह चिकित्सकैः । जगामास्तमिवादित्यः कौरव्यो यमसादनम् ॥BORI: १-०९६-५८॥
प्रेतकार्याणि सर्वाणि तस्य सम्यगकारयत् । राज्ञो विचित्रवीर्यस्य सत्यवत्या मते स्थितः । ऋत्विग्भिः सहितो भीष्मः सर्वैश्च कुरुपुङ्गवैः ॥BORI: १-०९६-५९॥
तथा विचित्रवीर्यं तु वर्तमानं सुखेऽतुले । संप्राप्तयौवनं दृष्ट्वा भ्रातरं धीमतां वरः । भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम् ॥KUMB: १-१०९-२॥
तासां कामेन संमत्ताः सहिताः काशिकोसलाः । वङ्गाः पुण्ड्राः कलिङ्गाश्च ते जग्मुस्तां पुरीं प्रति ॥KUMB: १-१०९-६॥
कीर्त्यमानेषु राज्ञां तु तदा नामसु सर्वशः । एकाकिनं तदा भीष्मं वृद्धं शान्तनुनन्दनम् ॥KUMB: १-१०९-७; NILA: ०१.१०२.००६॥
सोद्वेगा इव तं दृष्ट्वा कन्याः परमशोभनाः । अपाक्रामन्त ताः सर्वा वृद्ध इत्येव चिन्तया ॥KUMB: १-१०९-८; NILA: ०१.१०२.००७॥
वृद्धः परमधर्मात्मा वलीपलितधारणः । किकारणमिहायातो निर्लज्जो भरतर्षभः ॥KUMB: १-१०९-९; NILA: ०१.१०२.००८॥
मिथ्याप्रतिज्ञो लोकेषु किं वदिष्यति भारत । ब्रह्मचारीति भीष्मो हि वृथैव प्रथितो भुवि ॥KUMB: १-१०९-१०; NILA: ०१.१०२.००९॥
इत्येवं प्रबुवन्तस्ते हसन्ति स्म नृपाधमाः । वैशम्पायन उवाच । क्षत्रियाणां वचः श्रुत्वा भीष्मश्चुक्रोध भारत ॥KUMB: १-१०९-११; KUMB: १-१०९-११क्ष्; NILA: ०१.१०२.०१०॥
आर्षं विधिं पुरस्कृत्य दारान्विन्दन्ति चापरे । अष्टमं तमथो वित्त विवाहं कविभिर्वृतम् ॥KUMB: १-१०९-१६; NILA: ०१.१०२.०१५॥
अच्छिनच्छरवर्षेण महता लोमवाहिना । ततस्ते पार्थिवाः सर्वे सर्वतः परिवार्य तम् ॥KUMB: १-१०९-२८; NILA: ०१.१०२.०२७॥
ततः सर्वान्महीपालान्पर्यविध्यत्त्रिभिस्त्रिभिः । एकैकस्तु ततो भीष्मं राजन्विव्याध पञ्चभिः ॥KUMB: १-१०९-३०; NILA: ०१.१०२.०२९॥
स च तान्प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमन् । तद्युद्धमासीत्तुमुलं घोरं देवासुरोपमम् ॥KUMB: १-१०९-३१; NILA: ०१.१०२.०३०॥
पश्यतां लोकवीराणां शरशक्तिसमाकुलम् । स धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि ॥KUMB: १-१०९-३२; NILA: ०१.१०२.०३१॥
चिच्छेद समरे भीष्मः शतशोथ सहस्रशः । तस्यातिपुरुषं कर्म लाघवं रथचारिणः ॥KUMB: १-१०९-३३; NILA: ०१.१०२.०३२॥
तद्वाक्याकुलितः क्रोधाद्विधूमोग्निरिव ज्वलन् । विततेषुधनुष्पाणिर्विकुञ्चितललाटभृत् ॥KUMB: १-१०९-४०; NILA: ०१.१०२.०३८॥
स्वराज्यमन्वशाच्चैव धर्मेण नृपतिस्तदा । राजानो ये च तत्रासन्स्वयंवरदिदृक्षवः ॥KUMB: १-१०९-५३; NILA: ०१.१०२.०५१॥
प्रययौ हास्तिनपुरं यत्र राजा स कौरवः । विचित्रवीर्यो धर्मात्मा प्रशास्ति वसुधामिमाम् ॥KUMB: १-१०९-५५; NILA: ०१.१०२.०५३॥
यथा पितास्य कौरव्यः शान्तनुर्नृपसत्तमः । सोऽचिरेणैव कालेन अत्यक्रामन्नराधिप ॥KUMB: १-१०९-५६; NILA: ०१.१०२.०५४॥
यथा दुहितश्चैव परिगृह्य ययौ कुरून् । आनिन्ये स महाबाहुर्भ्रातुः प्रियचिकीर्षया ॥KUMB: १-१०९-५९; NILA: ०१.१०२.०५७॥
अन्यसक्ता त्वियं कन्या ज्येष्ठा त्वम्बा मया जिता । वाचा दत्ता मनोदत्ता कृतमङ्गलवाचना ॥KUMB: १-१०९-६६॥
निर्दिष्टा तु परस्यैव सा त्याज्या परचिन्तिनी । इत्युक्त्वा चानुमान्यैव भ्रातरं स्ववशानुगम् ॥KUMB: १-१०९-६७॥
तयोः पाणी गृहीत्वा तु रूपयौवनदर्पितः । विचित्रवीर्यो धर्मात्मा नाम्बामैच्छत्कथंचन ॥KUMB: १-१०९-७०॥
अम्बामन्यस्य कीर्त्यन्तीमब्रवीच्चारुदर्शनाम् । विचित्रवीर्य उवाच । पापस्य फलमेवैष कामोऽसाधुर्निरर्थकः । परतन्त्रोपभोगो मामार्य नाऽऽयोक्तुमर्हसि ॥KUMB: १-१०९-७१; KUMB: १-१०९-७१क्ष्॥
प्रातिष्ठच्छान्तनोर्वंशस्तात यस्य त्वमन्वयः । अकामवृत्तो धर्मात्मन्साधु मन्ये मतं तव ॥KUMB: १-१०९-७२॥
इत्युक्त्वाम्बां समालोक्य विधिवद्वाक्यमब्रवीत् । विसृष्टा ह्यसि गच्छ त्वं यथाकाममनिन्दिते ॥KUMB: १-१०९-७३॥
नानियोज्ये समर्थोऽहं नियोक्तुं भ्रातरं प्रियम् । अन्यबावगतां चापि को नारीं वासयेद्गृहे ॥KUMB: १-१०९-७४॥
अतस्त्वां न नियोक्ष्यामि अन्यकामासि गम्यताम् । अहमप्यूर्ध्वरेता वै निवृत्तो दारकर्मणि ॥KUMB: १-१०९-७५॥
न संबन्धस्तदावाभ्यां भविता वै कथंचन । वैशम्पायन उवाच । इत्युक्ता सा गता तत्र सखीभिः परिवारिता ॥KUMB: १-१०९-७६; KUMB: १-१०९-७६क्ष्॥
निर्दिष्टा हि शनै राजन्साल्वराजपुरं प्रति । अथाम्बा साल्वंमागम्य साऽब्रवीत्प्रतिपूज्य तं ॥KUMB: १-१०९-७७॥
पुरा निर्दिष्टभावा त्वामागतास्मि वरानन । देवव्रतं समुत्सृज्य सानुजं भरतर्षभम् ॥KUMB: १-१०९-७८॥
प्रतिगृह्णीष्व भद्रं ते विधिवन्मां समुद्यताम् ॥KUMB: १-१०९-७९॥
तयैवमुक्तः साल्वोपि प्रहसन्निदमब्रवीत् । निर्जिताऽसीह भीष्मेण मां विनिर्जित्य राजसु ॥KUMB: १-१०९-८०॥
अन्येन निर्जितां भद्रे विसृष्टां तेन चालयात् । न गृह्णामि वरारोहे तत्र चैव तु गम्यताम् ॥KUMB: १-१०९-८१॥
इत्युक्ता सा समागम्य कुरुराज्यमनुत्तमम् । अम्बाब्रवीत्ततो भीष्मं त्वयाऽहं सहसा हृता ॥KUMB: १-१०९-८२॥
क्षत्रधर्ममवेक्षस्व त्वं भर्ता मम धर्मतः । यां यः स्वयंवरे कन्यां निर्जयेच्छौर्यसंपदा ॥KUMB: १-१०९-८३॥
राज्ञः सर्वान्विनिर्जित्य स तामुद्वाहयेद्ध्रुवम् । अतस्त्वमेव भर्ता मे त्वयाऽहं निर्जिता यतः ॥KUMB: १-१०९-८४॥
तस्माद्वहस्व मां भीष्म निर्जितां संसदि त्वया । ऊर्ध्वरेता ह्यहमिति प्रत्युवाच पुनःपुनः ॥KUMB: १-१०९-८५॥
भीष्मं सा चाब्रवीदम्बा यथाजैषीस्तथा कुरु । एवमन्वगमद्भीष्मं षट्समाः पुष्करेक्षणा ॥KUMB: १-१०९-८६॥
ऊर्ध्वरेतास्त्वहं भद्रे विवाहविमुखोऽभवम् । तमेव साल्वं गच्छ त्वं यः पुरा मनसा वृतः ॥KUMB: १-१०९-८७॥
अन्यसक्तं किमर्थं त्वमात्मानमवदः पुरा । अन्यसक्तां वधूं कन्यां वासयेत्स्वगृहे न हि ॥KUMB: १-१०९-८८॥
नाहमुद्वाहयिष्ये त्वां मम भ्रात्रे यवीयसे । विचित्रवीर्याय शुभे यथेष्टं गम्यतामिति ॥KUMB: १-१०९-८९॥
भूयः साल्वं समभ्येत्य राजन्गृह्णीष्व मामिति । नाहं गृह्णाम्यन्यजितामिति साल्वनिराकृता ॥KUMB: १-१०९-९०॥
ऊर्ध्वरेतास्त्वहमिति भीष्मेण च निराकृता । अम्बा भीष्मं पुनः साल्वं भीष्मं साल्वं पुनः पुनः ॥KUMB: १-१०९-९१॥
गमनागमनेनैवमनैषीत्षट् समा नृप । अश्रुभिर्भूमिमुक्षन्ती शोचन्ती सा मनस्विनी ॥KUMB: १-१०९-९२॥
पीनोन्नतकुचद्वन्द्वा विशालजघनेक्षणा । श्रोणीभरालसगमा राकाचन्द्रनिभानना ॥KUMB: १-१०९-९३॥
वर्षत्कादम्बिनीमूर्ध्नि स्फुरन्ती चञ्चलेव सा । सा ततो द्वादश समा बाहुदामभितो नदीम् । पार्श्वे हिमवतो रम्ये तपो घोरं समाददे ॥KUMB: १-१०९-९४॥
संक्षिप्तकरणा तत्र तप आस्थाय सुव्रता । पादाङ्गुष्ठेन साऽतिष्ठदकम्पन्त ततः सुराः ॥KUMB: १-१०९-९५॥
तस्यास्तत्तु तपो दृष्ट्वा सुराणां क्षोभकारकम् । विस्मितश्चैव हृष्टश्च तस्यानुग्रहबुद्धिमान् ॥KUMB: १-१०९-९६॥
अनन्तसेनो भगवान्कुमारो वरदः प्रभुः । मानयन्राजपुत्रीं तां ददौ तस्यै शुभां स्रजम् ॥KUMB: १-१०९-९७॥
एषा पुष्करिणी दिव्या यथावत्समुपस्थिता । अम्बे त्वच्छोकशमनी माला भुवि भविष्यति ॥KUMB: १-१०९-९८॥
एतां चैव मया दत्तां मालां यो धारयिष्यति । सोऽस्य भीष्मस्य निधने कारणं वै भविष्यति । ॥KUMB: १-१०९-९९॥
अन्यपूर्वेति मां साल्वो नाभिनन्दति बालिशः । साहं धर्माच्च कामाच्च विहीना शोकधारिणी ॥KUMB: १-११०-१॥
अपतिः क्षत्रियान्सर्वानाक्रन्दामि समन्ततः । इयं वः क्षत्रिया माला या भीष्मं निहनिष्यति ॥KUMB: १-११०-२॥
अहं च भार्या तस्य स्यां यो भीष्मं घातयिष्यति । तस्याश्चङ्क्रम्यमाणायाः समाः पञ्च गताः पराः ॥KUMB: १-११०-३॥
नाभवच्छरणं कश्चित्क्षत्रियो भीष्मजाद्भयात् । अगच्छत्सोमकं साऽम्बा पाञ्चालेषु यशस्विनम् ॥KUMB: १-११०-४॥
सत्यसन्धं महेष्वासं सत्यधर्मपरायणम् । सा सभाद्वारमागम्य पाञ्चालैरभिरक्षितम् ॥KUMB: १-११०-५॥
पाञ्चालराजमाक्रन्दत्प्रगृह्य सुभुजा भुजौ । भीष्मेण हन्यमानां मां मज्जन्तीमिव च ह्रदे ॥KUMB: १-११०-६॥
यज्ञसेनाभिधावेह पाणिमालम्ब्य चोद्धर । तेन मे सर्वधर्माश्च रतिभोगाश्च केवलाः ॥KUMB: १-११०-७॥
उभौ च लोकौ कीर्तिश्च समूलौ सफलौ हृतौ । ***न्त्येवं न विन्दामि राजन्यं शरणं क्वचित् ॥KUMB: १-११०-८॥
किं नु निःक्षत्रियो लोको यत्रानाथोऽवसीदति । समागम्य तु राजानो मयोक्ता राजसत्तमाः ॥KUMB: १-११०-९॥
शृण्वन्तु सर्वे राजानो मयोक्तं राजसत्तमाः । इक्ष्वाकूणां तु ये वृद्धाः पाञ्चालानां च ये वराः ॥KUMB: १-११०-१०॥
त्वत्प्रसादाद्विवाहेऽस्मिन्मा धर्मो मा पराजयेत् । प्रसीद यज्ञसेनेह गतिर्मे भव सोमक ॥KUMB: १-११०-११॥
जानामि त्वां बोधयामि राजपुत्रि विशेषतः । यथाशक्ति यथाधर्मं बलं संधारयाम्यहम् ॥KUMB: १-११०-१२॥
अन्यस्मात्पार्थिवाद्यत्ते भयं स्यात्पार्थिवात्मजे । तस्यापनयने हेतुं संविधातुमहं प्रभुः ॥KUMB: १-११०-१३॥
नहि शान्तनवस्याहं महास्त्रस्य प्रहारिणः । ईश्वरः क्षत्रियाणां हि बलं धर्मोऽनुवर्तते ॥KUMB: १-११०-१४॥
सा साधु व्रज कल्याणि न मां भीष्मो दहेद्बलात् । न प्रत्यगृह्णंस्ते सर्वे किमित्येव न वेद्म्यहम् ॥KUMB: १-११०-१५॥
न हि भीष्मादहं धर्मं शक्तो दातुं कथंचन । वैशम्पायन उवाच । इत्युक्ता स्रजमासज्य द्वारि राज्ञो व्यपाद्रवत् ॥KUMB: १-११०-१६; KUMB: १-११०-१६क्ष्॥
व्युदस्तां सर्वलोकेषु तपसा संशितव्रताम् । तामन्वगच्छद्द्रुपदः सान्त्वं जल्पन्पुनः पुनः ॥KUMB: १-११०-१७॥
स्रजं गृहाण कल्याणि न नो वैरं प्रसञ्जय ॥KUMB: १-११०-१८॥
एवमेव त्वया कार्यमिति स्म प्रतिकाङ्क्षते । न तु तस्यान्यथा भावो दैवमेतदमानुषम् ॥KUMB: १-११०-१९॥
यश्चैनां स्रजमादाय स्वयं वै प्रतिमोक्षते । स भीष्मं समरे हन्ता मम धर्मप्रणाशनम् ॥KUMB: १-११०-२०॥
तां स्रजं द्रुपदो राजा कंचित्कालं ररक्ष सः । ततो विस्रम्भमास्थाय तूष्णीमेतामुपैक्षत ॥KUMB: १-११०-२१॥
तां शिखण्डिन्यबध्नात्तु बाला पितुरवज्ञया । तां पिता त्वत्यजच्छीघ्रं त्रस्तो भीष्मस्य किल्बिषात् ॥KUMB: १-११०-२२॥
इषीकं ब्राह्मणं भीता साभ्यगच्छत्तपस्विनम् । गङ्गाद्वारि तपस्यन्तं तुष्टिहेतोस्तपस्विनी ॥KUMB: १-११०-२३॥
उपचाराभितुष्टस्तामब्रवीदृषिसत्तमः । गङ्गाद्वारे विभजनं भविता नचिरादिव ॥KUMB: १-११०-२४॥
तत्र गन्धर्वराजानं तुम्बुरुं प्रियदर्शनम् । आराधयितुमीहस्व सम्यक्परिचरस्व तम् ॥KUMB: १-११०-२५॥
अहमप्यत्र साचिव्यं कर्तास्मि तव शोभने । तं तदाचर भद्रं ते स ते श्रेयो विधास्यति ॥KUMB: १-११०-२६॥
ततो विभजनं तत्र गन्धर्वाणामवर्तत । तत्र द्वाववशिष्येतां गन्धर्वावमितौ जसौ ॥KUMB: १-११०-२७॥
तयोरेकः समीक्ष्यैनां स्त्रीबुभूषुरुवाच ह । इदं गृह्णीष्व पुंलिङ्गं वृणे स्त्रीलिङ्गमेव ते ॥KUMB: १-११०-२८॥
नियमं चक्रतुस्तत्र स्त्री पुमांश्चैव तावुभौ । ततः पुमान्समभवच्छिखण्डी परवीरहा ॥KUMB: १-११०-२९॥
स्त्री भूत्वा ह्यपचक्राम स गन्धर्वो मुदान्वितः । लब्ध्वा तु महतीं प्रीतिं याज्ञसेनिर्महायशाः ॥KUMB: १-११०-३०॥
ततो बुद्बुदकं गत्वा पुनरस्त्राणि सोऽकरोत् । तत्र चास्त्राणि दिव्यानि कृत्वा स सुमहाद्युतिः ॥KUMB: १-११०-३१॥
स्वदेशमभिसंपदे पाञ्चालं कुरुनन्दन । सोऽभिवाद्य पितुः पादौ महेष्वासः कृताञ्जलिः ॥KUMB: १-११०-३२॥
उवाच भवता भीष्मान्न भेतव्यं कथंचन । ॥KUMB: १-११०-३३॥
अम्बायां निर्गतायां तु भीष्मः शान्तनवस्तदा । न्यायेन कारयामास राज्ञो वैवाहिकीं क्रियाम् ॥KUMB: १-१११-१॥
अम्बिकाम्बालिके चैव परिणीयाग्निसंनिधौ । तयोः पाणी गृहीत्वा तु कौरव्यो रूपदर्पितः । विचित्रवीर्यो धर्मात्मा कामात्मा समपद्यत ॥KUMB: १-१११-२॥
अन्योन्यं प्रति सक्ते च एकभावे इव स्थिते । स चाश्विरूपसदृशो देवतुल्यपराक्रमः । सर्वासामेव नारीणां चित्तप्रमथनो रहः ॥KUMB: १-१११-५॥
धर्मात्मा स तु गाङ्गेयः चिन्ताशोकपरायणः । प्रेतकार्याणि सर्वाणि तस्य सम्यगकारयत् ॥KUMB: १-१११-८; NILA: ०१.१०२.०७२॥