Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
Chapter 18: Pāṇḍu seeks heirs; Kuntī bears Yudhiṣṭhira, Bhīma and Arjuna, while Mādrī bears Nakula and Sahadeva by invoking deities.
वैशम्पायन उवाच॥
तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान् । सिद्धचारणसङ्घानां बभूव प्रियदर्शनः ॥BORI: १-१११-१॥
शुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः । स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत ॥BORI: १-१११-२॥
केषाञ्चिदभवद्भ्राता केषाञ्चिदभवत्सखा । ऋषयस्त्वपरे चैनं पुत्रवत्पर्यपालयन् ॥BORI: १-१११-३॥
स तु कालेन महता प्राप्य निष्कल्मषं तपः । ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ ॥BORI: १-१११-४॥
स्वर्गपारं तितीर्षन्स शतशृङ्गादुदङ्मुखः । प्रतस्थे सह पत्नीभ्यामब्रुवंस्तत्र तापसाः । उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः ॥BORI: १-१११-५॥
दृष्टवन्तो गिरेरस्य दुर्गान्देशान्बहून्वयम् । आक्रीडभूतान्देवानां गन्धर्वाप्सरसां तथा ॥BORI: १-१११-६॥
उद्यानानि कुबेरस्य समानि विषमाणि च । महानदीनितम्बांश्च दुर्गांश्च गिरिगह्वरान् ॥BORI: १-१११-७॥
सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः । सन्ति केचिन्महावर्षा दुर्गाः केचिद्दुरासदाः ॥BORI: १-१११-८॥
अतिक्रामेन्न पक्षी यान्कुत एवेतरे मृगाः । वायुरेकोऽतिगाद्यत्र सिद्धाश्च परमर्षयः ॥BORI: १-१११-९॥
गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं त्विमे । न सीदेतामदुःखार्हे मा गमो भरतर्षभ ॥BORI: १-१११-१०॥
पाण्डुरुवाच॥
अप्रजस्य महाभागा न द्वारं परिचक्षते । स्वर्गे तेनाभितप्तोऽहमप्रजस्तद्ब्रवीमि वः ॥BORI: १-१११-११॥
ऋणैश्चतुर्भिः संयुक्ता जायन्ते मनुजा भुवि । पितृदेवर्षिमनुजदेयैः शतसहस्रशः ॥BORI: १-१११-१२॥
एतानि तु यथाकालं यो न बुध्यति मानवः । न तस्य लोकाः सन्तीति धर्मविद्भिः प्रतिष्ठितम् ॥BORI: १-१११-१३॥
यज्ञैश्च देवान्प्रीणाति स्वाध्यायतपसा मुनीन् । पुत्रैः श्राद्धैः पितृंश्चापि आनृशंस्येन मानवान् ॥BORI: १-१११-१४॥
ऋषिदेवमनुष्याणां परिमुक्तोऽस्मि धर्मतः । पित्र्यादृणादनिर्मुक्तस्तेन तप्ये तपोधनाः ॥BORI: १-१११-१५॥
देहनाशे ध्रुवो नाशः पितृणामेष निश्चयः । इह तस्मात्प्रजाहेतोः प्रजायन्ते नरोत्तमाः ॥BORI: १-१११-१६॥
यथैवाहं पितुः क्षेत्रे सृष्टस्तेन महात्मना । तथैवास्मिन्मम क्षेत्रे कथं वै सम्भवेत्प्रजा ॥BORI: १-१११-१७॥
तापसा ऊचुः॥
अस्ति वै तव धर्मात्मन्विद्म देवोपमं शुभम् । अपत्यमनघं राजन्वयं दिव्येन चक्षुषा ॥BORI: १-१११-१८॥
दैवदिष्टं नरव्याघ्र कर्मणेहोपपादय । अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान्नरः ॥BORI: १-१११-१९॥
तस्मिन्दृष्टे फले तात प्रयत्नं कर्तुमर्हसि । अपत्यं गुणसम्पन्नं लब्ध्वा प्रीतिमवाप्स्यसि ॥BORI: १-१११-२०॥
वैशम्पायन उवाच॥
तच्छ्रुत्वा तापसवचः पाण्डुश्चिन्तापरोऽभवत् । आत्मनो मृगशापेन जानन्नुपहतां क्रियाम् ॥BORI: १-१११-२१॥
सोऽब्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम् । अपत्योत्पादने योगमापदि प्रसमर्थयन् ॥BORI: १-१११-२२॥
अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता । इति कुन्ति विदुर्धीराः शाश्वतं धर्ममादितः ॥BORI: १-१११-२३॥
इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठितः । सर्वमेवानपत्यस्य न पावनमिहोच्यते ॥BORI: १-१११-२४॥
सोऽहमेवं विदित्वैतत्प्रपश्यामि शुचिस्मिते । अनपत्यः शुभाँल्लोकान्नावाप्स्यामीति चिन्तयन् ॥BORI: १-१११-२५॥
मृगाभिशापान्नष्टं मे प्रजनं ह्यकृतात्मनः । नृशंसकारिणो भीरु यथैवोपहतं तथा ॥BORI: १-१११-२६॥
इमे वै बन्धुदायादाः षट्पुत्रा धर्मदर्शने । षडेवाबन्धुदायादाः पुत्रास्ताञ्शृणु मे पृथे ॥BORI: १-१११-२७॥
स्वयञ्जातः प्रणीतश्च परिक्रीतश्च यः सुतः । पौनर्भवश्च कानीनः स्वैरिण्यां यश्च जायते ॥BORI: १-१११-२८॥
दत्तः क्रीतः कृत्रिमश्च उपगच्छेत्स्वयं च यः । सहोढो जातरेताश्च हीनयोनिधृतश्च यः ॥BORI: १-१११-२९॥
पूर्वपूर्वतमाभावे मत्वा लिप्सेत वै सुतम् । उत्तमादवराः पुंसः काङ्क्षन्ते पुत्रमापदि ॥BORI: १-१११-३०॥
अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति साधवः । आत्मशुक्रादपि पृथे मनुः स्वायम्भुवोऽब्रवीत् ॥BORI: १-१११-३१॥
तस्मात्प्रहेष्याम्यद्य त्वां हीनः प्रजननात्स्वयम् । सदृशाच्छ्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि ॥BORI: १-१११-३२॥
शृणु कुन्ति कथां चेमां शारदण्डायनीं प्रति । या वीरपत्नी गुरुभिर्नियुक्तापत्यजन्मनि ॥BORI: १-१११-३३॥
पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे । वरयित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम् ॥BORI: १-१११-३४॥
कर्मण्यवसिते तस्मिन्सा तेनैव सहावसत् । तत्र त्रीञ्जनयामास दुर्जयादीन्महारथान् ॥BORI: १-१११-३५॥
तथा त्वमपि कल्याणि ब्राह्मणात्तपसाधिकात् । मन्नियोगाद्यत क्षिप्रमपत्योत्पादनं प्रति ॥BORI: १-१११-३६॥
अमावास्यां तु सहिता ऋषयः संशितव्रताः । ब्रह्माणं द्रष्टुकामास्ते संप्रतस्थुर्महर्षयः ॥KUMB: १-१२५-५; NILA: ०१.१२०.००५॥
संप्रयातानृषीन्दृष्ट्वा पाण्डुर्वचनमब्रवीत् । भवन्तः क्व गमिष्यन्ति ब्रूत मे वदतां वराः ॥KUMB: १-१२५-६; NILA: ०१.१२०.००६॥
समावायो महानद्य ब्रह्मलोके महात्मनाम् । देवानां च ऋषीणां च पितॄणां च महात्मनाम् । वयं तत्र गमिष्यामो द्रष्टुकामाः स्वयंभुवम् ॥KUMB: १-१२५-७; NILA: ०१.१२०.००७॥
पाण्डुरुत्थाय सहसा गन्तुकामो महर्षिभिः ॥KUMB: १-१२५-८; NILA: ०१.१२०.००८॥
विमानशतसंबाधां गीतस्वरनिनादिताम् ॥KUMB: १-१२५-१०; NILA: ०१.१२०.०१०॥
सोऽहमुग्रेण तपसा सभार्यस्त्यक्तजीवितः ॥KUMB: १-१२५-१६॥
अनपत्योऽपि विन्देयं स्वर्गमुग्रेण कर्मणा ॥KUMB: १-१२५-१७॥
इतरेषां त्रयाणां तु नाशे ह्यात्मा विनश्यति ॥KUMB: १-१२६-२०; NILA: ०१.१२०.०२१॥
आचष्ट पुत्रलाभस्य व्युष्टिं सर्वक्रियाधिकाम् ॥KUMB: १-१२६-२३॥
अनुनीय तु ते सम्यङ्महाब्राह्मणसंसदि । ब्राह्मणं गुणवन्तं हि चिन्तयामास धर्मवित् ॥KUMB: १-१२६-२४॥
अनपत्यो हि मरणं कामये नैव जीवितम् ॥KUMB: १-१२६-२९॥
या हि ते भगिनी साध्वी श्रुतसेना यशस्विनी । अवाह तां तु कैकेयः शारदाण्डायनिर्महान् ॥KUMB: १-१२६-३७॥
वैशम्पायन उवाच॥
एवमुक्ता महाराज कुन्ती पाण्डुमभाषत । कुरूणामृषभं वीरं तदा भूमिपतिं पतिम् ॥BORI: १-११२-१॥
न मामर्हसि धर्मज्ञ वक्तुमेवं कथञ्चन । धर्मपत्नीमभिरतां त्वयि राजीवलोचन ॥BORI: १-११२-२॥
त्वमेव तु महाबाहो मय्यपत्यानि भारत । वीर वीर्योपपन्नानि धर्मतो जनयिष्यसि ॥BORI: १-११२-३॥
स्वर्गं मनुजशार्दूल गच्छेयं सहिता त्वया । अपत्याय च मां गच्छ त्वमेव कुरुनन्दन ॥BORI: १-११२-४॥
न ह्यहं मनसाप्यन्यं गच्छेयं त्वदृते नरम् । त्वत्तः प्रतिविशिष्टश्च कोऽन्योऽस्ति भुवि मानवः ॥BORI: १-११२-५॥
इमां च तावद्धर्म्यां त्वं पौराणीं शृणु मे कथाम् । परिश्रुतां विशालाक्ष कीर्तयिष्यामि यामहम् ॥BORI: १-११२-६॥
व्युषिताश्व इति ख्यातो बभूव किल पार्थिवः । पुरा परमधर्मिष्ठः पूरोर्वंशविवर्धनः ॥BORI: १-११२-७॥
तस्मिंश्च यजमाने वै धर्मात्मनि महात्मनि । उपागमंस्ततो देवाः सेन्द्राः सह महर्षिभिः ॥BORI: १-११२-८॥
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः । व्युषिताश्वस्य राजर्षेस्ततो यज्ञे महात्मनः ॥BORI: १-११२-९॥
व्युषिताश्वस्ततो राजन्नति मर्त्यान्व्यरोचत । सर्वभूतान्यति यथा तपनः शिशिरात्यये ॥BORI: १-११२-१०॥
स विजित्य गृहीत्वा च नृपतीन्राजसत्तमः । प्राच्यानुदीच्यान्मध्यांश्च दक्षिणात्यानकालयत् ॥BORI: १-११२-११॥
अश्वमेधे महायज्ञे व्युषिताश्वः प्रतापवान् । बभूव स हि राजेन्द्रो दशनागबलान्वितः ॥BORI: १-११२-१२॥
अप्यत्र गाथां गायन्ति ये पुराणविदो जनाः । व्युषिताश्वः समुद्रान्तां विजित्येमां वसुन्धराम् । अपालयत्सर्ववर्णान्पिता पुत्रानिवौरसान् ॥BORI: १-११२-१३॥
यजमानो महायज्ञैर्ब्राह्मणेभ्यो ददौ धनम् । अनन्तरत्नान्यादाय आजहार महाक्रतून् । सुषाव च बहून्सोमान्सोमसंस्थास्ततान च ॥BORI: १-११२-१४॥
आसीत्काक्षीवती चास्य भार्या परमसंमता । भद्रा नाम मनुष्येन्द्र रूपेणासदृशी भुवि ॥BORI: १-११२-१५॥
कामयामासतुस्तौ तु परस्परमिति श्रुतिः । स तस्यां कामसंमत्तो यक्ष्माणं समपद्यत ॥BORI: १-११२-१६॥
तेनाचिरेण कालेन जगामास्तमिवांशुमान् । तस्मिन्प्रेते मनुष्येन्द्रे भार्यास्य भृशदुःखिता ॥BORI: १-११२-१७॥
अपुत्रा पुरुषव्याघ्र विललापेति नः श्रुतम् । भद्रा परमदुःखार्ता तन्निबोध नराधिप ॥BORI: १-११२-१८॥
नारी परमधर्मज्ञ सर्वा पुत्रविनाकृता । पतिं विना जीवति या न सा जीवति दुःखिता ॥BORI: १-११२-१९॥
पतिं विना मृतं श्रेयो नार्याः क्षत्रियपुङ्गव । त्वद्गतिं गन्तुमिच्छामि प्रसीदस्व नयस्व माम् ॥BORI: १-११२-२०॥
त्वया हीना क्षणमपि नाहं जीवितुमुत्सहे । प्रसादं कुरु मे राजन्नितस्तूर्णं नयस्व माम् ॥BORI: १-११२-२१॥
पृष्ठतोऽनुगमिष्यामि समेषु विषमेषु च । त्वामहं नरशार्दूल गच्छन्तमनिवर्तिनम् ॥BORI: १-११२-२२॥
छायेवानपगा राजन्सततं वशवर्तिनी । भविष्यामि नरव्याघ्र नित्यं प्रियहिते रता ॥BORI: १-११२-२३॥
अद्य प्रभृति मां राजन्कष्टा हृदयशोषणाः । आधयोऽभिभविष्यन्ति त्वदृते पुष्करेक्षण ॥BORI: १-११२-२४॥
अभाग्यया मया नूनं वियुक्ताः सहचारिणः । संयोगा विप्रयुक्ता वा पूर्वदेहेषु पार्थिव ॥BORI: १-११२-२५॥
तदिदं कर्मभिः पापैः पूर्वदेहेषु सञ्चितम् । दुःखं मामनुसम्प्राप्तं राजंस्त्वद्विप्रयोगजम् ॥BORI: १-११२-२६॥
अद्य प्रभृत्यहं राजन्कुशप्रस्तरशायिनी । भविष्याम्यसुखाविष्टा त्वद्दर्शनपरायणा ॥BORI: १-११२-२७॥
दर्शयस्व नरव्याघ्र साधु मामसुखान्विताम् । दीनामनाथां कृपणां विलपन्तीं नरेश्वर ॥BORI: १-११२-२८॥
एवं बहुविधं तस्यां विलपन्त्यां पुनः पुनः । तं शवं सम्परिष्वज्य वाक्किलान्तर्हिताब्रवीत् ॥BORI: १-११२-२९॥
उत्तिष्ठ भद्रे गच्छ त्वं ददानीह वरं तव । जनयिष्याम्यपत्यानि त्वय्यहं चारुहासिनि ॥BORI: १-११२-३०॥
आत्मीये च वरारोहे शयनीये चतुर्दशीम् । अष्टमीं वा ऋतुस्नाता संविशेथा मया सह ॥BORI: १-११२-३१॥
एवमुक्ता तु सा देवी तथा चक्रे पतिव्रता । यथोक्तमेव तद्वाक्यं भद्रा पुत्रार्थिनी तदा ॥BORI: १-११२-३२॥
सा तेन सुषुवे देवी शवेन मनुजाधिप । त्रीञ्शाल्वांश्चतुरो मद्रान्सुतान्भरतसत्तम ॥BORI: १-११२-३३॥
तथा त्वमपि मय्येव मनसा भरतर्षभ । शक्तो जनयितुं पुत्रांस्तपोयोगबलान्वयात् ॥BORI: १-११२-३४॥
देवा ब्रह्मर्षयश्चैव चक्रुः कर्म स्वयं तदा ॥KUMB: १-१२७-१०; NILA: ०१.१२१.०१०॥
व्युषिताश्वे यशोवृद्धे मनुष्येन्द्रे कुरूत्तम ॥KUMB: १-१२७-१४; NILA: ०१.१२१.०१४॥
तेन मे विप्रयोगोऽयमुपपन्नस्त्वया सह ॥KUMB: १-१२७-२७; NILA: ०१.१२१.०२७॥
विप्रयुक्ता तु या पत्या मुहूर्तमपि जीवति । दुःखं जीवति सा पापा नरकस्थेव पार्थिव ॥KUMB: १-१२७-२८; NILA: ०१.१२१.०२८॥
वैशम्पायन उवाच॥
एवमुक्तस्तया राजा तां देवीं पुनरब्रवीत् । धर्मविद्धर्मसंयुक्तमिदं वचनमुत्तमम् ॥BORI: १-११३-१॥
एवमेतत्पुरा कुन्ति व्युषिताश्वश्चकार ह । यथा त्वयोक्तं कल्याणि स ह्यासीदमरोपमः ॥BORI: १-११३-२॥
अथ त्विमं प्रवक्ष्यामि धर्मं त्वेतं निबोध मे । पुराणमृषिभिर्दृष्टं धर्मविद्भिर्महात्मभिः ॥BORI: १-११३-३॥
अनावृताः किल पुरा स्त्रिय आसन्वरानने । कामचारविहारिण्यः स्वतन्त्राश्चारुलोचने ॥BORI: १-११३-४॥
तासां व्युच्चरमाणानां कौमारात्सुभगे पतीन् । नाधर्मोऽभूद्वरारोहे स हि धर्मः पुराभवत् ॥BORI: १-११३-५॥
तं चैव धर्मं पौराणं तिर्यग्योनिगताः प्रजाः । अद्याप्यनुविधीयन्ते कामद्वेषविवर्जिताः । पुराणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः ॥BORI: १-११३-६॥
उत्तरेषु च रम्भोरु कुरुष्वद्यापि वर्तते । स्त्रीणामनुग्रहकरः स हि धर्मः सनातनः ॥BORI: १-११३-७॥
अस्मिंस्तु लोके नचिरान्मर्यादेयं शुचिस्मिते । स्थापिता येन यस्माच्च तन्मे विस्तरतः शृणु ॥BORI: १-११३-८॥
बभूवोद्दालको नाम महर्षिरिति नः श्रुतम् । श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः ॥BORI: १-११३-९॥
मर्यादेयं कृता तेन मानुषेष्विति नः श्रुतम् । कोपात्कमलपत्राक्षि यदर्थं तन्निबोध मे ॥BORI: १-११३-१०॥
श्वेतकेतोः किल पुरा समक्षं मातरं पितुः । जग्राह ब्राह्मणः पाणौ गच्छाव इति चाब्रवीत् ॥BORI: १-११३-११॥
ऋषिपुत्रस्ततः कोपं चकारामर्षितस्तदा । मातरं तां तथा दृष्ट्वा नीयमानां बलादिव ॥BORI: १-११३-१२॥
क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह । मा तात कोपं कार्षीस्त्वमेष धर्मः सनातनः ॥BORI: १-११३-१३॥
अनावृता हि सर्वेषां वर्णानामङ्गना भुवि । यथा गावः स्थितास्तात स्वे स्वे वर्णे तथा प्रजाः ॥BORI: १-११३-१४॥
ऋषिपुत्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे । चकार चैव मर्यादामिमां स्त्रीपुंसयोर्भुवि ॥BORI: १-११३-१५॥
मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु । तदा प्रभृति मर्यादा स्थितेयमिति नः श्रुतम् ॥BORI: १-११३-१६॥
व्युच्चरन्त्याः पतिं नार्या अद्य प्रभृति पातकम् । भ्रूणहत्याकृतं पापं भविष्यत्यसुखावहम् ॥BORI: १-११३-१७॥
भार्यां तथा व्युच्चरतः कौमारीं ब्रह्मचारिणीम् । पतिव्रतामेतदेव भविता पातकं भुवि ॥BORI: १-११३-१८॥
पत्या नियुक्ता या चैव पत्न्यपत्यार्थमेव च । न करिष्यति तस्याश्च भविष्यत्येतदेव हि ॥BORI: १-११३-१९॥
इति तेन पुरा भीरु मर्यादा स्थापिता बलात् । उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना ॥BORI: १-११३-२०॥
सौदासेन च रम्भोरु नियुक्तापत्यजन्मनि । मदयन्ती जगामर्षिं वसिष्ठमिति नः श्रुतम् ॥BORI: १-११३-२१॥
तस्माल्लेभे च सा पुत्रमश्मकं नाम भामिनी । भार्या कल्माषपादस्य भर्तुः प्रियचिकीर्षया ॥BORI: १-११३-२२॥
अस्माकमपि ते जन्म विदितं कमलेक्षणे । कृष्णद्वैपायनाद्भीरु कुरूणां वंशवृद्धये ॥BORI: १-११३-२३॥
अत एतानि सर्वाणि कारणानि समीक्ष्य वै । ममैतद्वचनं धर्म्यं कर्तुमर्हस्यनिन्दिते ॥BORI: १-११३-२४॥
ऋतावृतौ राजपुत्रि स्त्रिया भर्ता यतव्रते । नातिवर्तव्य इत्येवं धर्मं धर्मविदो विदुः ॥BORI: १-११३-२५॥
शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति । धर्ममेतं जनाः सन्तः पुराणं परिचक्षते ॥BORI: १-११३-२६॥
भर्ता भार्यां राजपुत्रि धर्म्यं वाधर्म्यमेव वा । यद्ब्रूयात्तत्तथा कार्यमिति धर्मविदो विदुः ॥BORI: १-११३-२७॥
विशेषतः पुत्रगृद्धी हीनः प्रजननात्स्वयम् । यथाहमनवद्याङ्गि पुत्रदर्शनलालसः ॥BORI: १-११३-२८॥
तथा रक्ताङ्गुलितलः पद्मपत्रनिभः शुभे । प्रसादार्थं मया तेऽयं शिरस्यभ्युद्यतोऽञ्जलिः ॥BORI: १-११३-२९॥
मन्नियोगात्सुकेशान्ते द्विजातेस्तपसाधिकात् । पुत्रान्गुणसमायुक्तानुत्पादयितुमर्हसि । त्वत्कृतेऽहं पृथुश्रोणि गच्छेयं पुत्रिणां गतिम् ॥BORI: १-११३-३०॥
एवमुक्ता ततः कुन्ती पाण्डुं परपुरञ्जयम् । प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता ॥BORI: १-११३-३१॥
पितृवेश्मन्यहं बाला नियुक्तातिथिपूजने । उग्रं पर्यचरं तत्र ब्राह्मणं संशितव्रतम् ॥BORI: १-११३-३२॥
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः । तमहं संशितात्मानं सर्वयत्नैरतोषयम् ॥BORI: १-११३-३३॥
स मेऽभिचारसंयुक्तमाचष्ट भगवान्वरम् । मन्त्रग्रामं च मे प्रादादब्रवीच्चैव मामिदम् ॥BORI: १-११३-३४॥
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि । अकामो वा सकामो वा स ते वशमुपैष्यति ॥BORI: १-११३-३५॥
इत्युक्ताहं तदा तेन पितृवेश्मनि भारत । ब्राह्मणेन वचस्तथ्यं तस्य कालोऽयमागतः ॥BORI: १-११३-३६॥
अनुज्ञाता त्वया देवमाह्वयेयमहं नृप । तेन मन्त्रेण राजर्षे यथा स्यान्नौ प्रजा विभो ॥BORI: १-११३-३७॥
आवाहयामि कं देवं ब्रूहि तत्त्वविदां वर । त्वत्तोऽनुज्ञाप्रतीक्षां मां विद्ध्यस्मिन्कर्मणि स्थिताम् ॥BORI: १-११३-३८॥
पाण्डुरुवाच॥
अद्यैव त्वं वरारोहे प्रयतस्व यथाविधि । धर्ममावाहय शुभे स हि देवेषु पुण्यभाक् ॥BORI: १-११३-३९॥
अधर्मेण न नो धर्मः संयुज्येत कथञ्चन । लोकश्चायं वरारोहे धर्मोऽयमिति मंस्यते ॥BORI: १-११३-४०॥
धार्मिकश्च कुरूणां स भविष्यति न संशयः । दत्तस्यापि च धर्मेण नाधर्मे रंस्यते मनः ॥BORI: १-११३-४१॥
तस्माद्धर्मं पुरस्कृत्य नियता त्वं शुचिस्मिते । उपचाराभिचाराभ्यां धर्ममाराधयस्व वै ॥BORI: १-११३-४२॥
वैशम्पायन उवाच॥
सा तथोक्ता तथेत्युक्त्वा तेन भर्त्रा वराङ्गना । अभिवाद्याभ्यनुज्ञाता प्रदक्षिणमवर्तत ॥BORI: १-११३-४३॥
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः । नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥KUMB: १-१२८-८॥
एवं तृष्णा तु नारीणां पुरुषं पुरुषं प्रति । अगम्यागमनं स्त्रीणां नास्ति नित्यं शुचिस्मिते ॥KUMB: १-१२८-९॥
पुत्रं वा किल पौत्रं वा कासांचिद्धातरं तथा । रहसीह नरं दृष्ट्वा योनिरुत्क्लिद्यते तदा ॥KUMB: १-१२८-१०॥
एतत्स्वाभाविकं स्त्रीणां न निमित्तकृतं शुभे ॥KUMB: १-१२८-११॥
श्वेतकेतोः पिता देवि तप उग्रं समास्थितः । ग्रीष्मे पञ्चतपा भूत्वा वर्षास्वाकाशगोऽभवत् ॥KUMB: १-१२८-१५॥
शिशइरे सलिलस्थायी सह पत्न्या महातपाः । उद्दालकं तपस्यन्तं नियमेन समाहितम् ॥KUMB: १-१२८-१६॥
तस्य पुत्रः श्वेतकेतुः परिचर्यां चकार ह । अभ्यागच्छद्द्विजः कश्चिद्वलीपलितसंततः ॥KUMB: १-१२८-१७॥
तं दृष्ट्वैव मुनिः प्रीतः पूजयामास शास्त्रतः । स्वागतेन च पाद्येन मृदुवाक्यैश्च भारत ॥KUMB: १-१२८-१८॥
शाकमूलफलाद्यैश्च वन्यैरन्यैरपूजयत् । क्षुत्पिपासाश्रमेंणार्तः पूजितश्च महर्षिणा ॥KUMB: १-१२८-१९॥
विश्रान्तो मुनिमासाद्य पर्यपृच्छद्द्विजस्तदा । उद्दालक महर्षे त्वं सत्यं मे ब्रूहि माऽनृतम् ॥KUMB: १-१२८-२०॥
ऋषिपुत्रः कुमारोऽयं दर्शनीयो विशेषतः । तव पुत्रमिमं मन्ये कृतकृत्योऽसि तद्वद ॥KUMB: १-१२८-२१॥
मम पत्नी महाप्राज्ञ कुशिकस्य सुता मता । मामेवानुगता पत्नी मम नित्यमनुव्रता ॥KUMB: १-१२८-२२॥
अरुन्धतीव पत्नीनां तपसा कर्शितस्तनी । अस्यां जातः श्वेतकेतुर्मम पुत्रो महातपाः ॥KUMB: १-१२८-२३॥
वेदवेदाङ्गविद्विप्र मच्छासनपरायणः । लोकज्ञः सर्वलोकेषु विश्रुतः सत्यवाग्घृणी ॥KUMB: १-१२८-२४॥
अपुत्री भार्यया चार्थी वृद्धोऽहं मन्दचाक्षुषः । पित्र्यादृणादनिर्मुक्तः पूर्वमेवाकृतस्त्रियः ॥KUMB: १-१२८-२५॥
प्रजारणिस्तु पत्नी ते कुलशीलसमन्विता । सदृशी मम गोत्रेण वहाम्येनां क्षमस्व मे ॥KUMB: १-१२८-२६॥
इत्युक्त्वा मृगशावाक्षीं चीरकृष्णाजिनाम्बराम् । यष्ट्याधारः स्रस्तगात्रो मन्दचक्षुरबुद्धिमान् ॥KUMB: १-१२८-२७॥
स्वव्यापाराक्षमां श्रेष्ठमचित्तामात्मनि द्विजः ॥KUMB: १-१२८-२८॥
तपसा दीप्तवीर्यो हि श्वेतकेतुर्न चक्षमे ॥KUMB: १-१२८-३०॥
संगृह्य मातरं हस्ते श्वेतकेतुरभाषत । दुर्ब्राह्मण विमुञ्च त्वं मातरं मे पतिव्रताम् ॥KUMB: १-१२८-३१॥
स्वयं पिता मे ब्रह्मर्षिः क्षमावान्ब्रह्मवित्तमः । शापानुग्रहयोः शक्तः तूष्णींभूतो महाव्रतः ॥KUMB: १-१२८-३२॥
तस्य पत्नी दमोपेता मम माता विशेषतः । पतिव्रतां तपोवृद्धां साध्वाचारैरलङ्कृताम् ॥KUMB: १-१२८-३३॥
अप्रमादेन ते ब्रह्मन्मातृभूतां विमुञ्च वै ॥KUMB: १-१२८-३४॥
एवमुक्त्वा तु याचन्तं विमुञ्चेति मुहुर्मुहुः । प्रत्यवोचद्द्विजो राजन्नप्रगल्भमिदं वचः ॥KUMB: १-१२८-३५॥
अपत्यार्थी श्वेतकेतो वृद्धोऽहं मन्दचाक्षुषः । पिता ते ऋणनिर्मुक्तस्त्वया पुत्रेण काश्यप ॥KUMB: १-१२८-३६॥
ऋणादहमनिर्मुक्तो वृद्धोऽहं विगतस्पृहः । मम को दास्यति सुतां कन्यां संप्राप्तयौवनाम् ॥KUMB: १-१२८-३७॥
प्रजारणिमिमां पत्नीं विमुञ्च त्वं महातपः । एकया प्रजया प्रीतो मातरं ते ददाम्यहम् ॥KUMB: १-१२८-३८॥
एवमुक्तः श्वेतकेतुर्लज्जया क्रोधमेयिवान् ॥KUMB: १-१२८-३९॥
तथैव च कुटुम्बेषु न प्रमाद्यन्ति कर्हिचित् ॥KUMB: १-१२८-४१॥
ऋतुकाले तु संप्राप्ते भर्तारं न जहुस्तदा ॥KUMB: १-१२८-४२॥
एवं कृतवती सापि भर्तुः प्रियचिकीर्षया ॥KUMB: १-१२८-५१; NILA: ०१.१२२.०२३॥
अधर्मः सुमहानेषु स्त्रीणां भरतसत्तम । यत्प्रसादयते भर्ता प्रसाद्यः क्षत्रियर्षभ । शृणु चेदं महाबाहो मम प्रीतिकरं चः ।। ॥KUMB: १-१२८-६१॥
तस्य तस्य प्रसादात्ते राज्ञि पुत्रो भविष्यति ॥KUMB: १-१२८-६६; NILA: ०१.१२२.०३७॥
यां मे विद्यां महाराज अददात्स महायशाः । तयाऽऽहूतः सुरः पुत्रं प्रदास्यति सुरोपमम् । अनपत्यकृतं यस्ते शोकं वीर विनेष्यति ।। ॥KUMB: १-१२८-६८॥
अपत्यकाम एवं स्यान्ममापत्यं भवेदिति । विप्रं वा गुणसंपन्नं सर्वभूतहिते रतम् ॥KUMB: १-१२९-१॥
अनुजानीहि भद्रं ते दैवतं हि पतिः स्त्रियः । यं त्वं वक्ष्यसि धर्मज्ञ देवं ब्राह्मणमेव च ॥KUMB: १-१२९-२॥
यथोद्दिष्टं त्वया वीर तत्कर्तास्मि महाभुज । देवात्पुत्रफलं सद्यो विप्रात्कालान्तरे भवेत् ॥KUMB: १-१२९-३॥
धन्योऽञस्म्यनुगृहीतोऽस्मि त्वं नो धात्री कुलस्य हि । नमो महर्षये तस्मै येन दत्तो वरस्तव ॥KUMB: १-१२९-५॥
तस्मात्त्वं पुत्रलाभाय सन्तानाय ममैव च ॥KUMB: १-१२९-६॥
पाण्डुना समनुज्ञाता भारतेन यशस्विना । मतिं चक्रे महाराज धर्मस्यावाहने तदा ॥KUMB: १-१२९-७क्ष्॥
धर्मादिकं हि धर्मज्ञे धर्मान्तं धर्ममध्यमम् ॥KUMB: १-१२९-९॥
अपत्यमिष्टं लोकेषु यशःकीर्तिविवर्धनम् ॥KUMB: १-१२९-१०॥
वैशम्पायन उवाच॥
संवत्सराहिते गर्भे गान्धार्या जनमेजय । आह्वयामास वै कुन्ती गर्भार्थं धर्ममच्युतम् ॥BORI: १-११४-१॥
सा बलिं त्वरिता देवी धर्मायोपजहार ह । जजाप जप्यं विधिवद्दत्तं दुर्वाससा पुरा ॥BORI: १-११४-२॥
सङ्गम्य सा तु धर्मेण योगमूर्तिधरेण वै । लेभे पुत्रं वरारोहा सर्वप्राणभृतां वरम् ॥BORI: १-११४-३॥
ऐन्द्रे चन्द्रसमायुक्ते मुहूर्तेऽभिजितेऽष्टमे । दिवा मध्यगते सूर्ये तिथौ पुण्येऽभिपूजिते ॥BORI: १-११४-४॥
समृद्धयशसं कुन्ती सुषाव समये सुतम् । जातमात्रे सुते तस्मिन्वागुवाचाशरीरिणी ॥BORI: १-११४-५॥
एष धर्मभृतां श्रेष्ठो भविष्यति न संशयः । युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः ॥BORI: १-११४-६॥
भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः । यशसा तेजसा चैव वृत्तेन च समन्वितः ॥BORI: १-११४-७॥
धार्मिकं तं सुतं लब्ध्वा पाण्डुस्तां पुनरब्रवीत् । प्राहुः क्षत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु ॥BORI: १-११४-८॥
ततस्तथोक्ता पत्या तु वायुमेवाजुहाव सा । तस्माज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः ॥BORI: १-११४-९॥
तमप्यतिबलं जातं वागभ्यवददच्युतम् । सर्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत ॥BORI: १-११४-१०॥
इदमत्यद्भुतं चासीज्जातमात्रे वृकोदरे । यदङ्कात्पतितो मातुः शिलां गात्रैरचूर्णयत् ॥BORI: १-११४-११॥
कुन्ती व्याघ्रभयोद्विग्ना सहसोत्पतिता किल । नान्वबुध्यत संसुप्तमुत्सङ्गे स्वे वृकोदरम् ॥BORI: १-११४-१२॥
ततः स वज्रसङ्घातः कुमारोऽभ्यपतद्गिरौ । पतता तेन शतधा शिला गात्रैर्विचूर्णिता । तां शिलां चूर्णितां दृष्ट्वा पाण्डुर्विस्मयमागमत् ॥BORI: १-११४-१३॥
यस्मिन्नहनि भीमस्तु जज्ञे भरतसत्तम । दुर्योधनोऽपि तत्रैव प्रजज्ञे वसुधाधिप ॥BORI: १-११४-१४॥
जाते वृकोदरे पाण्डुरिदं भूयोऽन्वचिन्तयत् । कथं नु मे वरः पुत्रो लोकश्रेष्ठो भवेदिति ॥BORI: १-११४-१५॥
दैवे पुरुषकारे च लोकोऽयं हि प्रतिष्ठितः । तत्र दैवं तु विधिना कालयुक्तेन लभ्यते ॥BORI: १-११४-१६॥
इन्द्रो हि राजा देवानां प्रधान इति नः श्रुतम् ॥BORI: १-११४-१७A॥
अप्रमेयबलोत्साहो वीर्यवानमितद्युतिः ॥BORI: १-११४-१७B॥
तं तोषयित्वा तपसा पुत्रं लप्स्ये महाबलम् । यं दास्यति स मे पुत्रं स वरीयान्भविष्यति । कर्मणा मनसा वाचा तस्मात्तप्स्ये महत्तपः ॥BORI: १-११४-१८॥
ततः पाण्डुर्महातेजा मन्त्रयित्वा महर्षिभिः । दिदेश कुन्त्याः कौरव्यो व्रतं सांवत्सरं शुभम् ॥BORI: १-११४-१९॥
आत्मना च महाबाहुरेकपादस्थितोऽभवत् । उग्रं स तप आतस्थे परमेण समाधिना ॥BORI: १-११४-२०॥
आरिराधयिषुर्देवं त्रिदशानां तमीश्वरम् । सूर्येण सह धर्मात्मा पर्यवर्तत भारत ॥BORI: १-११४-२१॥
तं तु कालेन महता वासवः प्रत्यभाषत । पुत्रं तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम् ॥BORI: १-११४-२२॥
देवानां ब्राह्मणानां च सुहृदां चार्थसाधकम् । सुतं तेऽग्र्यं प्रदास्यामि सर्वामित्रविनाशनम् ॥BORI: १-११४-२३॥
इत्युक्तः कौरवो राजा वासवेन महात्मना । उवाच कुन्तीं धर्मात्मा देवराजवचः स्मरन् ॥BORI: १-११४-२४॥
नीतिमन्तं महात्मानमादित्यसमतेजसम् । दुराधर्षं क्रियावन्तमतीवाद्भुतदर्शनम् ॥BORI: १-११४-२५॥
पुत्रं जनय सुश्रोणि धाम क्षत्रियतेजसाम् ॥BORI: १-११४-२६A॥
लब्धः प्रसादो देवेन्द्रात्तमाह्वय शुचिस्मिते ॥BORI: १-११४-२६B॥
एवमुक्ता ततः शक्रमाजुहाव यशस्विनी । अथाजगाम देवेन्द्रो जनयामास चार्जुनम् ॥BORI: १-११४-२७॥
जातमात्रे कुमारे तु वागुवाचाशरीरिणी । महागम्भीरनिर्घोषा नभो नादयती तदा ॥BORI: १-११४-२८॥
कार्तवीर्यसमः कुन्ति शिबितुल्यपराक्रमः । एष शक्र इवाजेयो यशस्ते प्रथयिष्यति ॥BORI: १-११४-२९॥
अदित्या विष्णुना प्रीतिर्यथाभूदभिवर्धिता । तथा विष्णुसमः प्रीतिं वर्धयिष्यति तेऽर्जुनः ॥BORI: १-११४-३०॥
एष मद्रान्वशे कृत्वा कुरूंश्च सह केकयैः । चेदिकाशिकरूषांश्च कुरुलक्ष्म सुधास्यति ॥BORI: १-११४-३१॥
एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः । मेदसा सर्वभूतानां तृप्तिं यास्यति वै पराम् ॥BORI: १-११४-३२॥
ग्रामणीश्च महीपालानेष जित्वा महाबलः ॥BORI: १-११४-३३A॥
भ्रातृभिः सहितो वीरस्त्रीन्मेधानाहरिष्यति ॥BORI: १-११४-३३B॥
जामदग्न्यसमः कुन्ति विष्णुतुल्यपराक्रमः । एष वीर्यवतां श्रेष्ठो भविष्यत्यपराजितः ॥BORI: १-११४-३४॥
तथा दिव्यानि चास्त्राणि निखिलान्याहरिष्यति ॥BORI: १-११४-३५A॥
विप्रनष्टां श्रियं चायमाहर्ता पुरुषर्षभः ॥BORI: १-११४-३५B॥
एतामत्यद्भुतां वाचं कुन्तीपुत्रस्य सूतके । उक्तवान्वायुराकाशे कुन्ती शुश्राव चास्य ताम् ॥BORI: १-११४-३६॥
वाचमुच्चारितामुच्चैस्तां निशम्य तपस्विनाम् । बभूव परमो हर्षः शतशृङ्गनिवासिनाम् ॥BORI: १-११४-३७॥
तथा देवऋषीणां च सेन्द्राणां च दिवौकसाम् । आकाशे दुन्दुभीनां च बभूव तुमुलः स्वनः ॥BORI: १-११४-३८॥
उदतिष्ठन्महाघोषः पुष्पवृष्टिभिरावृतः । समवेत्य च देवानां गणाः पार्थमपूजयन् ॥BORI: १-११४-३९॥
काद्रवेया वैनतेया गन्धर्वाप्सरसस्तथा । प्रजानां पतयः सर्वे सप्त चैव महर्षयः ॥BORI: १-११४-४०॥
भरद्वाजः कश्यपो गौतमश्च; विश्वामित्रो जमदग्निर्वसिष्ठः । यश्चोदितो भास्करेऽभूत्प्रनष्टे; सोऽप्यत्रात्रिर्भगवानाजगाम ॥BORI: १-११४-४१॥
मरीचिरङ्गिराश्चैव पुलस्त्यः पुलहः क्रतुः । दक्षः प्रजापतिश्चैव गन्धर्वाप्सरसस्तथा ॥BORI: १-११४-४२॥
दिव्यमाल्याम्बरधराः सर्वालङ्कारभूषिताः । उपगायन्ति बीभत्सुमुपनृत्यन्ति चाप्सराः । गन्धर्वैः सहितः श्रीमान्प्रागायत च तुम्बुरुः ॥BORI: १-११४-४३॥
भीमसेनोग्रसेनौ च ऊर्णायुरनघस्तथा । गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः ॥BORI: १-११४-४४॥
युगपस्तृणपः कार्ष्णिर्नन्दिश्चित्ररथस्तथा । त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः ॥BORI: १-११४-४५॥
कलिः पञ्चदशश्चात्र नारदश्चैव षोडशः । सद्वा बृहद्वा बृहकः करालश्च महायशाः ॥BORI: १-११४-४६॥
ब्रह्मचारी बहुगुणः सुपर्णश्चेति विश्रुतः । विश्वावसुर्भुमन्युश्च सुचन्द्रो दशमस्तथा ॥BORI: १-११४-४७॥
गीतमाधुर्यसम्पन्नौ विख्यातौ च हहाहुहू । इत्येते देवगन्धर्वा जगुस्तत्र नरर्षभम् ॥BORI: १-११४-४८॥
तथैवाप्सरसो हृष्टाः सर्वालङ्कारभूषिताः । ननृतुर्वै महाभागा जगुश्चायतलोचनाः ॥BORI: १-११४-४९॥
अनूना चानवद्या च प्रियमुख्या गुणावरा । अद्रिका च तथा साची मिश्रकेशी अलम्बुसा ॥BORI: १-११४-५०॥
मरीचिः शिचुका चैव विद्युत्पर्णा तिलोत्तमा । अग्निका लक्षणा क्षेमा देवी रम्भा मनोरमा ॥BORI: १-११४-५१॥
असिता च सुबाहुश्च सुप्रिया सुवपुस्तथा । पुण्डरीका सुगन्धा च सुरथा च प्रमाथिनी ॥BORI: १-११४-५२॥
काम्या शारद्वती चैव ननृतुस्तत्र सङ्घशः । मेनका सहजन्या च पर्णिका पुञ्जिकस्थला ॥BORI: १-११४-५३॥
क्रतुस्थला घृताची च विश्वाची पूर्वचित्त्यपि । उम्लोचेत्यभिविख्याता प्रम्लोचेति च ता दश । उर्वश्येकादशीत्येता जगुरायतलोचनाः ॥BORI: १-११४-५४॥
धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा । इन्द्रो विवस्वान्पूषा च त्वष्टा च सविता तथा ॥BORI: १-११४-५५॥
पर्जन्यश्चैव विष्णुश्च आदित्याः पावकार्चिषः । महिमानं पाण्डवस्य वर्धयन्तोऽम्बरे स्थिताः ॥BORI: १-११४-५६॥
मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः । अजैकपादहिर्बुध्न्यः पिनाकी च परन्तपः ॥BORI: १-११४-५७॥
दहनोऽथेश्वरश्चैव कपाली च विशां पते । स्थाणुर्भवश्च भगवान्रुद्रास्तत्रावतस्थिरे ॥BORI: १-११४-५८॥
अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः । विश्वेदेवास्तथा साध्यास्तत्रासन्परिसंस्थिताः ॥BORI: १-११४-५९॥
कर्कोटकोऽथ शेषश्च वासुकिश्च भुजङ्गमः । कच्छपश्चापकुण्डश्च तक्षकश्च महोरगः ॥BORI: १-११४-६०॥
आययुस्तेजसा युक्ता महाक्रोधा महाबलाः । एते चान्ये च बहवस्तत्र नागा व्यवस्थिताः ॥BORI: १-११४-६१॥
तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्चासितध्वजः । अरुणश्चारुणिश्चैव वैनतेया व्यवस्थिताः ॥BORI: १-११४-६२॥
तद्दृष्ट्वा महदाश्चर्यं विस्मिता मुनिसत्तमाः । अधिकां स्म ततो वृत्तिमवर्तन्पाण्डवान्प्रति ॥BORI: १-११४-६३॥
पाण्डुस्तु पुनरेवैनां पुत्रलोभान्महायशाः । प्राहिणोद्दर्शनीयाङ्गीं कुन्ती त्वेनमथाब्रवीत् ॥BORI: १-११४-६४॥
नातश्चतुर्थं प्रसवमापत्स्वपि वदन्त्युत । अतः परं चारिणी स्यात्पञ्चमे बन्धकी भवेत् ॥BORI: १-११४-६५॥
स त्वं विद्वन्धर्ममिमं बुद्धिगम्यं कथं नु माम् । अपत्यार्थं समुत्क्रम्य प्रमादादिव भाषसे ॥BORI: १-११४-६६॥
आजगाम ततो देवो धर्मो मन्त्रबलात्ततः । विमाने सूर्यसङ्काशे कुन्ती यत्र उपस्थिता ॥KUMB: १-१२९-१६; NILA: ०१.१२३.००३॥
विहस्य तां ततो ब्रूयाः कुन्ति किं ते ददाम्यहम् । सा तं विहस्यमानापि पुत्रं देह्यब्रवीदिदम् ॥KUMB: १-१२९-१७; NILA: ०१.१२३.००४॥
विक्रान्तः सत्यवाक्चैव राजा पृथ्व्यां भविष्यति ॥KUMB: १-१२९-२३; NILA: ०१.१२३.००८॥
ततस्तामागतो वायुर्मृगारूढो महाबलः । किं ते कुन्ति ददाम्यद्य ब्रूहि यत्ते हृदि स्थितम् ॥NILA: ०१.१२३.०१२॥
सा सलज्जा वहस्याह पुत्रं देहि सुरोत्तम । बलवन्तं महाकायं सर्वदर्पप्रभञ्जनम् ॥NILA: ०१.१२३.०१३॥
अमानुषान्मानुषांश्च सङ्ग्रामे स हनिष्यति ॥KUMB: १-१३२-५; NILA: ०१.१२३.०२४॥
दुर्हृदां शोकजननं सर्वबान्धवनन्दनम् ॥KUMB: १-१३२-१०; NILA: ०१.१२३.०२९॥
उदर्कस्तव कल्याणि तुष्टो देवगणेश्वरः ॥KUMB: १-१३२-१२; NILA: ०१.१२३.०३१॥
दातुमिच्छति ते पुत्रं यथा सङ्कल्पितं त्वया । अतिमानुषकर्माणं यशस्विनमरिन्दमम् ॥KUMB: १-१३२-१३; NILA: ०१.१२३.०३२॥
शृण्वतां सर्वभूतानां तेषां चाश्रमवासिनाम् । कुन्तीमाभाष्य विस्पष्टमुवाचेदं शुचिस्मिताम् ॥KUMB: १-१३२-१९; NILA: ०१.१२३.०३७॥
एष युद्धे महादेवं तोषयिष्यति शङ्करम् । अस्त्रं पाशुपतं नाम तस्मात्तुष्टादवाप्स्यति ॥KUMB: १-१३२-२६; NILA: ०१.१२३.०४४॥
निवातकवचा नाम दैत्या विबुधविद्विषः । शक्राज्ञया महाबाहुस्तान्वधिष्यति ते सुतः ॥KUMB: १-१३२-२७; NILA: ०१.१२३.०४५॥
तथा महर्षयश्चापि जेपुस्तत्र समन्ततः ॥KUMB: १-१३२-३६; NILA: ०१.१२३.०५४॥
तांश्च देवगणान्सर्वांस्तपःसिद्धा महर्षयः । विमानगिर्यग्रगतान्ददृशुर्नेतरे जनाः ॥KUMB: १-१३२-५७; NILA: ०१.१२३.०७४॥
जानन्ती धर्ममग्र्यं वै धर्मं वशमुपानयत् । आहूतो नियमात्कुन्त्या सर्वभूतनमस्कृतः ॥KUMB: १-१२९-१५॥
ददृशे भगवान्धर्मः सन्तानार्थाय पाण्डवे ॥KUMB: १-१२९-१७॥
तस्मिन्बहुमृगेऽरण्ये शतशृङ्गे नगोत्तमे । पाण्डोरर्थे महाभागा कुन्ती धर्ममुपागमत् ॥KUMB: १-१२९-१८॥
ऋतुकाले शुचिः स्नाता शुक्लवस्त्रा यशस्विनी । शय्यां जग्राह सुश्रोणी सह धर्मेण सुव्रता ॥KUMB: १-१२९-१९॥
ततः कुन्तीमभिक्रम्य शशासातीव भारत । वायुमावाहयस्वेति स देवो बलवत्तरः ॥KUMB: १-१२९-४५॥
अश्वमेधः क्रतुश्रेष्ठो ज्योतिःश्रेष्ठो दिवाकरः । ब्राह्मणो द्विपदां श्रेष्ठो देवश्रेष्ठश्च मारुतः ॥KUMB: १-१२९-४६॥
मारुतं मरुतां श्रेष्ठं सर्वप्राणिभिरीडितम् । आवाहय त्वं नियमात्पुत्रार्थं वरवर्णिनि ॥KUMB: १-१२९-४७॥
स नो यं दास्यति सुतं स प्राणबलवान्नृषु । भविष्यति वरारोहे बलज्येष्ठा हि भूमिपाः ॥KUMB: १-१२९-४८॥
द्वितीयेनोपहारेण तेनोक्तविधिना पुनः ॥KUMB: १-१२९-४९॥
तैरेव नियमैः स्थित्वा मन्त्रग्राममुदैरयत् । आजगाम ततो वायुः किं करोमीति चाब्रवीत् ॥KUMB: १-१२९-५०॥
लज्जान्विता ततः कुन्ती पुत्रमैच्छन्महाबलम् । तथास्त्विति च तां वायुः समालभ्य दिवं गतः ॥KUMB: १-१२९-५१॥
जातमात्रे कुमारे तु सर्वलोकस्य पार्थिवाः । मूत्रं प्रसुस्रुवुः सर्वे व्यथां चापि प्रपेदिरे । वाहनानि व्यशीर्यन्त व्यमुञ्चन्नश्रुबिन्दवः ॥KUMB: १-१२९-५३; KUMB: १-१२९-५४॥
यथाऽनिलः समुद्भूतः समर्थः कम्पने भुवः । तथा ह्युपचिताङ्गो वै भीमो भीमपराक्रमः ॥KUMB: १-१२९-५५॥
कुन्ती तु सह पुत्रेण याता सुरुचिरं सरः । स्नात्वा च सुतमादाय दशमेऽहनि यादवी ॥KUMB: १-१२९-५७॥
दैवतान्यर्चयिष्यन्ती निर्जगामाश्रमात्पृथा । शैलाभ्याशेन गच्छन्त्यास्तदा भरतसत्तम ॥KUMB: १-१२९-५८॥
निश्चक्राम महाव्याघ्रो जिघांसुर्गिरिगह्वरात् । तमापतन्तं शार्दूलं विकृष्य धनुरुत्तमम् ॥KUMB: १-१२९-५९॥
निर्बिभेद शरैः पाण्डुस्त्रिभिस्तिरदशविक्रमः । नादेन महता तां तु पूरयन्तं गिरेर्गुहाम् ॥KUMB: १-१२९-६०॥
दृष्ट्वा शैलमुपारोढुमैच्छत्कुन्ती भयात्तदा । त्रासात्तस्याः सुतस्त्वङ्कात्पपात भरतर्षभ ॥KUMB: १-१२९-६१॥
पर्वतस्योपरिस्थायामधस्तादपतच्छिशुः । स शिलां चूर्णयामास वज्रवद्वज्रिचोदितः ॥KUMB: १-१२९-६२॥
पुत्रस्नेहात्ततः पाण्डुरभ्यधावद्गिरेस्तटम् ॥KUMB: १-१२९-६३॥
स तु जन्मनि भीमस्य विनदन्तं विनादितम् । ददर्श गिरिशृङ्गस्थं व्याघ्रं व्याघ्रपराक्रमः ॥KUMB: १-१२९-६४; KUMB: १-१२९-६५॥
दारसंरक्षणार्थाय पुत्रसंरक्षणाय च । सदा बाणधनुष्पाणिरभवत्कुरुनन्दनः ॥KUMB: १-१२९-६५; KUMB: १-१२९-६६॥
मघे चन्द्रमसा युक्ते सिंहे चाभ्युदिते गुरौ । दिवा मध्यगते सूर्ये तिथौ पुण्ये त्रयोदशे । पित्र्ये मुहूर्ते सा कुन्ती सुषुवे भीममच्युतम् ॥KUMB: १-१२९-६६; KUMB: १-१२९-६७॥
उत्तराभ्यां तु पूर्वाभ्यां फल्गुनीभ्यां ततो दिवा । जातस्तु फाल्गुने मासि तेनासौ फल्गुनःस्मृतः ॥KUMB: १-१३२-१७॥
सर्वभूतप्रहर्षिणी । सूतके वर्तमानां तां ॥KUMB: १-१३२-१८॥
पाण्डुः प्रीतेन मनसा देवतादीनपूजयत् । पाण्डुना पूजिता देवाः प्रत्यूचुर्नरसत्तमम् ॥KUMB: १-१३२-५९॥
प्रादुर्बूतो ह्ययं धर्मो देवतानां प्रसादतः । मातरिश्वा ह्ययं भीमो बलवानरिमर्दनः ॥KUMB: १-१३२-६०॥
साक्षादिन्द्रः स्वयं जातः प्रसादाच्च शतक्रतोः । पितृत्वाद्देवतानां हि नास्ति पुण्यतरस्त्वया ॥KUMB: १-१३२-६१॥
पितॄणामृणनिर्मुक्तः स्वर्गं प्राप्स्यसि पुण्यभाक् । इत्युक्त्वा देवताः सर्वा विप्रजग्मुर्यथागतम् ॥KUMB: १-१३२-६२॥
वैशम्पायन उवाच॥
कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च ॥BORI: १-११५-१A॥
मद्रराजसुता पाण्डुं रहो वचनमब्रवीत् ॥BORI: १-११५-१B॥
न मेऽस्ति त्वयि सन्तापो विगुणेऽपि परन्तप । नावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा ॥BORI: १-११५-२॥
गान्धार्याश्चैव नृपते जातं पुत्रशतं तथा । श्रुत्वा न मे तथा दुःखमभवत्कुरुनन्दन ॥BORI: १-११५-३॥
इदं तु मे महद्दुःखं तुल्यतायामपुत्रता । दिष्ट्या त्विदानीं भर्तुर्मे कुन्त्यामप्यस्ति सन्ततिः ॥BORI: १-११५-४॥
यदि त्वपत्यसन्तानं कुन्तिराजसुता मयि । कुर्यादनुग्रहो मे स्यात्तव चापि हितं भवेत् ॥BORI: १-११५-५॥
स्तम्भो हि मे सपत्नीत्वाद्वक्तुं कुन्तिसुतां प्रति । यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय ॥BORI: १-११५-६॥
पाण्डुरुवाच॥
ममाप्येष सदा माद्रि हृद्यर्थः परिवर्तते । न तु त्वां प्रसहे वक्तुमिष्टानिष्टविवक्षया ॥BORI: १-११५-७॥
तव त्विदं मतं ज्ञात्वा प्रयतिष्याम्यतः परम् । मन्ये ध्रुवं मयोक्ता सा वचो मे प्रतिपत्स्यते ॥BORI: १-११५-८॥
वैशम्पायन उवाच॥
ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत् । कुलस्य मम सन्तानं लोकस्य च कुरु प्रियम् ॥BORI: १-११५-९॥
मम चापिण्डनाशाय पूर्वेषामपि चात्मनः । मत्प्रियार्थं च कल्याणि कुरु कल्याणमुत्तमम् ॥BORI: १-११५-१०॥
यशसोऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम् । प्राप्याधिपत्यमिन्द्रेण यज्ञैरिष्टं यशोर्थिना ॥BORI: १-११५-११॥
तथा मन्त्रविदो विप्रास्तपस्तप्त्वा सुदुष्करम् । गुरूनभ्युपगच्छन्ति यशसोऽर्थाय भामिनि ॥BORI: १-११५-१२॥
तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाः । चक्रुरुच्चावचं कर्म यशसोऽर्थाय दुष्करम् ॥BORI: १-११५-१३॥
सा त्वं माद्रीं प्लवेनेव तारयेमामनिन्दिते । अपत्यसंविभागेन परां कीर्तिमवाप्नुहि ॥BORI: १-११५-१४॥
एवमुक्ताब्रवीन्माद्रीं सकृच्चिन्तय दैवतम् । तस्मात्ते भवितापत्यमनुरूपमसंशयम् ॥BORI: १-११५-१५॥
ततो माद्री विचार्यैव जगाम मनसाश्विनौ । तावागम्य सुतौ तस्यां जनयामासतुर्यमौ ॥BORI: १-११५-१६॥
नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि । तथैव तावपि यमौ वागुवाचाशरीरिणी ॥BORI: १-११५-१७॥
रूपसत्त्वगुणोपेतावेतावन्याञ्जनानति । भासतस्तेजसात्यर्थं रूपद्रविणसम्पदा ॥BORI: १-११५-१८॥
नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः । भक्त्या च कर्मणा चैव तथाशीर्भिर्विशां पते ॥BORI: १-११५-१९॥
ज्येष्ठं युधिष्ठिरेत्याहुर्भीमसेनेति मध्यमम् । अर्जुनेति तृतीयं च कुन्तीपुत्रानकल्पयन् ॥BORI: १-११५-२०॥
पूर्वजं नकुलेत्येवं सहदेवेति चापरम् । माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाः । अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः ॥BORI: १-११५-२१॥
कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत् । तमुवाच पृथा राजन्रहस्युक्ता सती सदा ॥BORI: १-११५-२२॥
उक्ता सकृद्द्वन्द्वमेषा लेभे तेनास्मि वञ्चिता ॥BORI: १-११५-२३A॥
बिभेम्यस्याः परिभवान्नारीणां गतिरीदृशी ॥BORI: १-११५-२३B॥
नाज्ञासिषमहं मूढा द्वन्द्वाह्वाने फलद्वयम् ॥BORI: १-११५-२४A॥
तस्मान्नाहं नियोक्तव्या त्वयैषोऽस्तु वरो मम ॥BORI: १-११५-२४B॥
एवं पाण्डोः सुताः पञ्च देवदत्ता महाबलाः । सम्भूताः कीर्तिमन्तस्ते कुरुवंशविवर्धनाः ॥BORI: १-११५-२५॥
शुभलक्षणसम्पन्नाः सोमवत्प्रियदर्शनाः । सिंहदर्पा महेष्वासाः सिंहविक्रान्तगामिनः । सिंहग्रीवा मनुष्येन्द्रा ववृधुर्देवविक्रमाः ॥BORI: १-११५-२६॥
विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ । विस्मयं जनयामासुर्महर्षीणां समेयुषाम् ॥BORI: १-११५-२७॥