Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
Chapter 19: Gāndhārī’s hard mass is divided by Vyāsa into 101 embryos; jealousy underlies both Gāndhārī’s anguish and Dhṛtarāṣṭra’s dynastic anxiety.
वैशम्पायन उवाच॥
ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय । धृतराष्ट्रस्य वैश्यायामेकश्चापि शतात्परः ॥BORI: १-१०७-१॥
जनमेजय उवाच॥
कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम । कियता चैव कालेन तेषामायुश्च किं परम् ॥BORI: १-१०७-३॥
कथं चैकः स वैश्यायां धृतराष्ट्रसुतोऽभवत् । कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम् । आनुकूल्ये वर्तमानां धृतराष्ट्रोऽत्यवर्तत ॥BORI: १-१०७-४॥
एतद्विद्वन्यथावृत्तं विस्तरेण तपोधन । कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु ॥BORI: १-१०७-६॥
वैशम्पायन उवाच॥
क्षुच्छ्रमाभिपरिग्लानं द्वैपायनमुपस्थितम् । तोषयामास गान्धारी व्यासस्तस्यै वरं ददौ ॥BORI: १-१०७-७॥
सा वव्रे सदृशं भर्तुः पुत्राणां शतमात्मनः ॥BORI: १-१०७-८A॥
ततः कालेन सा गर्भं धृतराष्ट्रादथाग्रहीत् ॥BORI: १-१०७-८B॥
संवत्सरद्वयं तं तु गान्धारी गर्भमाहितम् । अप्रजा धारयामास ततस्तां दुःखमाविशत् ॥BORI: १-१०७-९॥
श्रुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम् । उदरस्यात्मनः स्थैर्यमुपलभ्यान्वचिन्तयत् ॥BORI: १-१०७-१०॥
अज्ञातं धृतराष्ट्रस्य यत्नेन महता ततः । सोदरं पातयामास गान्धारी दुःखमूर्च्छिता ॥BORI: १-१०७-११॥
ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता । द्विवर्षसम्भृतां कुक्षौ तामुत्स्रष्टुं प्रचक्रमे ॥BORI: १-१०७-१२॥
अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत् । तां स मांसमयीं पेशीं ददर्श जपतां वरः ॥BORI: १-१०७-१३॥
ततोऽब्रवीत्सौबलेयीं किमिदं ते चिकीर्षितम् । सा चात्मनो मतं सत्यं शशंस परमर्षये ॥BORI: १-१०७-१४॥
ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम् । दुःखेन परमेणेदमुदरं पातितं मया ॥BORI: १-१०७-१५॥
शतं च किल पुत्राणां वितीर्णं मे त्वया पुरा । इयं च मे मांसपेशी जाता पुत्रशताय वै ॥BORI: १-१०७-१६॥
व्यास उवाच॥
एवमेतत्सौबलेयि नैतज्जात्वन्यथा भवेत् । वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा ॥BORI: १-१०७-१७॥
घृतपूर्णं कुण्डशतं क्षिप्रमेव विधीयताम् । शीताभिरद्भिरष्ठीलामिमां च परिषिञ्चत ॥BORI: १-१०७-१८॥
वैशम्पायन उवाच॥
सा सिच्यमाना अष्ठीला अभवच्छतधा तदा । अङ्गुष्ठपर्वमात्राणां गर्भाणां पृथगेव तु ॥BORI: १-१०७-१९॥
एकाधिकशतं पूर्णं यथायोगं विशां पते । मांसपेश्यास्तदा राजन्क्रमशः कालपर्ययात् ॥BORI: १-१०७-२०॥
ततस्तांस्तेषु कुण्डेषु गर्भानवदधे तदा । स्वनुगुप्तेषु देशेषु रक्षां च व्यदधात्ततः ॥BORI: १-१०७-२१॥
शशास चैव भगवान्कालेनैतावता पुनः । विघट्टनीयान्येतानि कुण्डानीति स्म सौबलीम् ॥BORI: १-१०७-२२॥
इत्युक्त्वा भगवान्व्यासस्तथा प्रतिविधाय च । जगाम तपसे धीमान्हिमवन्तं शिलोच्चयम् ॥BORI: १-१०७-२३॥
जज्ञे क्रमेण चैतेन तेषां दुर्योधनो नृपः । जन्मतस्तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः ॥BORI: १-१०७-२४॥
जातमात्रे सुते तस्मिन्धृतराष्ट्रोऽब्रवीदिदम् । समानीय बहून्विप्रान्भीष्मं विदुरमेव च ॥BORI: १-१०७-२५॥
युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः । प्राप्तः स्वगुणतो राज्यं न तस्मिन्वाच्यमस्ति नः ॥BORI: १-१०७-२६॥
अयं त्वनन्तरस्तस्मादपि राजा भविष्यति । एतद्धि ब्रूत मे सत्यं यदत्र भविता ध्रुवम् ॥BORI: १-१०७-२७॥
वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत । क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिवशंसिनः ॥BORI: १-१०७-२८॥
लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः । तेऽब्रुवन्ब्राह्मणा राजन्विदुरश्च महामतिः ॥BORI: १-१०७-२९॥
व्यक्तं कुलान्तकरणो भवितैष सुतस्तव । तस्य शान्तिः परित्यागे पुष्ट्या त्वपनयो महान् ॥BORI: १-१०७-३०॥
शतमेकोनमप्यस्तु पुत्राणां ते महीपते । एकेन कुरु वै क्षेमं लोकस्य च कुलस्य च ॥BORI: १-१०७-३१॥
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥BORI: १-१०७-३२॥
स तथा विदुरेणोक्तस्तैश्च सर्वैर्द्विजोत्तमैः । न चकार तथा राजा पुत्रस्नेहसमन्वितः ॥BORI: १-१०७-३३॥
ततः पुत्रशतं सर्वं धृतराष्ट्रस्य पार्थिव । मासमात्रेण सञ्जज्ञे कन्या चैका शताधिका ॥BORI: १-१०७-३४॥
गान्धार्यां क्लिश्यमानायामुदरेण विवर्धता । धृतराष्ट्रं महाबाहुं वैश्या पर्यचरत्किल ॥BORI: १-१०७-३५॥
तस्मिन्संवत्सरे राजन्धृतराष्ट्रान्महायशाः । जज्ञे धीमांस्ततस्तस्यां युयुत्सुः करणो नृप ॥BORI: १-१०७-३६॥
एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः । महारथानां वीराणां कन्या चैकाथ दुःशला ॥BORI: १-१०७-३७॥
ततः कुण्डशतं तत्र आनाय्य तु महानृषिः ॥KUMB: १-१२९-३७॥
उवाच चैनां भगवान्कालेनैतावता पुनः । स्फुटमानेषु कुण्डेषु जाताञ्जानीहि शोभने ॥KUMB: १-१२९-४०॥
अह्नोत्तराः कुमारस्ते कुण्डेभ्यस्तु समुत्थिताः । तेनैवैषां क्रमेणासीज्ज्येष्ठानुज्येष्ठता तदा ॥KUMB: १-१२९-४२; KUMB: १-१२९-४३॥
तदाख्यातं तु भीष्माय विदुराय च धीमते ॥NILA: ०१.११५.०२६॥
स जातमात्र एवाथ धृतराष्ट्रसुतो नृप । रासभारावसदृशं रुराव च ननाद च ॥KUMB: १-१२९-६९; NILA: ०१.११५.०२७; NILA: ०१.११५.०२८॥
तं खराः प्रत्यभाषन्त गृध्रगोमायुवायसाः ॥KUMB: १-१२९-७०; NILA: ०१.११५.०२८॥
वाताश्च प्रववुश्चापि दिग्दाहश्चाभवत्तदा । ततस्तु भीतवद्राजा धृतराष्ट्रोऽब्रवीदिदम् ॥KUMB: १-१२९-७१; NILA: ०१.११५.०२९॥
अन्यांश्च सुहृदो राजन्कुरून्सर्वांस्तथैव च ॥KUMB: १-१२९-७२; NILA: ०१.११५.०३०॥
अस्मिञ्जाते निमित्तानि शंसन्ती हाशिवं महत् । अतो ब्रवीमि विदुर द्रुतं मां भयमाविशत् ॥KUMB: १-१२९-७५॥
यथेमानि निमित्तानि घोराणि मनुजाधिप । उत्थितानि सुते जाते ज्येष्ठे ते पुरुषर्षभ ॥KUMB: १-१२९-७८; NILA: ०१.११५.०३५॥
एष दुर्योधनो राजा मधुपिङ्गललोचनः । न केवलं कुलस्यान्तं क्षत्रियान्तं करिष्यति ॥KUMB: १-१२९-८०॥
तया समभवद्राजा धृतराष्ट्रो यदृच्छया ॥KUMB: १-१२९-८६॥
युयुत्सुश्च महातेजा वैश्यापुत्रः प्रतापवान् ॥KUMB: १-१२९-८८; NILA: ०१.११५.०४४॥
जनमेजय उवाच॥
ज्येष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभो । धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय ॥BORI: १-१०८-१॥
वैशम्पायन उवाच॥
दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा । दुःसहो दुःशलश्चैव जलसन्धः समः सहः ॥BORI: १-१०८-२॥
विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः । दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च ॥BORI: १-१०८-३॥
विविंशतिर्विकर्णश्च जलसन्धः सुलोचनः । चित्रोपचित्रौ चित्राक्षश्चारुचित्रः शरासनः ॥BORI: १-१०८-४॥
दुर्मदो दुष्प्रगाहश्च विवित्सुर्विकटः समः । ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ ॥BORI: १-१०८-५॥
सेनापतिः सुषेणश्च कुण्डोदरमहोदरौ । चित्रबाणश्चित्रवर्मा सुवर्मा दुर्विमोचनः ॥BORI: १-१०८-६॥
अयोबाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः । भीमवेगो भीमबलो बलाकी बलवर्धनः ॥BORI: १-१०८-७॥
उग्रायुधो भीमकर्मा कनकायुर्दृढायुधः । दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः ॥BORI: १-१०८-८॥
दृढसन्धो जरासन्धः सत्यसन्धः सदःसुवाक् । उग्रश्रवा अश्वसेनः सेनानीर्दुष्पराजयः ॥BORI: १-१०८-९॥
अपराजितः पण्डितको विशालाक्षो दुरावरः । दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ ॥BORI: १-१०८-१०॥
आदित्यकेतुर्बह्वाशी नागदन्तोग्रयायिनौ । कवची निषङ्गी पाशी च दण्डधारो धनुर्ग्रहः ॥BORI: १-१०८-११॥
उग्रो भीमरथो वीरो वीरबाहुरलोलुपः । अभयो रौद्रकर्मा च तथा दृढरथस्त्रयः ॥BORI: १-१०८-१२॥
अनाधृष्यः कुण्डभेदी विरावी दीर्घलोचनः । दीर्घबाहुर्महाबाहुर्व्यूढोरुः कनकध्वजः ॥BORI: १-१०८-१३॥
कुण्डाशी विरजाश्चैव दुःशला च शताधिका । एतदेकशतं राजन्कन्या चैका प्रकीर्तिता ॥BORI: १-१०८-१४॥
नामधेयानुपूर्व्येण विद्धि जन्मक्रमं नृप । सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः ॥BORI: १-१०८-१५॥
ते च पञ्च शतं चैव कुरुवंशविवर्धनाः । सर्वे ववृधुरल्पेन कालेनाप्स्विव नीरजाः ॥BORI: १-११५-२८॥
सर्वे वेदविदश्चैव राजशास्त्रेषु कोविदाः । सर्वे संसर्गविद्यासु विद्याभिजनशोभिनः ॥BORI: १-१०८-१६॥
सर्वेषामनुरूपाश्च कृता दारा महीपते । धृतराष्ट्रेण समये समीक्ष्य विधिवत्तदा ॥BORI: १-१०८-१७॥
दुःशलां समये राजा सिन्धुराजाय भारत । जयद्रथाय प्रददौ सौबलानुमते तदा ॥BORI: १-१०८-१८॥
प्रमथश्च प्रमाथी च दीर्घरोमश्च वीर्यवान् ॥KUMB: १-१३१-१३; NILA: ०१.११७.०१३॥
इति पुत्रशतं राजन्युयुत्सुश्च शताधिकः । कन्यका दुःशला चैव यथावत्कीर्तितं मया ॥KUMB: १-१३१-१९॥
अनुगृह्णीष्व कल्याणि मद्रराजसुतामपि ॥KUMB: १-१३३-९॥
धर्मं वै धर्मशास्त्रोक्तं यथा वदसि तत्तथा । तस्मादनुग्रहं तस्याः करोमि कुरुनन्दन ॥KUMB: १-१३३-१५॥
ततो मन्त्रे कृते तस्मिन्विधिदृष्टेन कर्मणा । ततो राजसुता स्नाता शयने संविवेश ह ॥KUMB: १-१३३-१७॥
धर्मतो भक्तितश्चैव शीलतो विनयैस्तथा ॥KUMB: १-१३३-१९॥
पाण्डुपुत्रा व्यराजन्त पञ्च संवत्सरा इव ॥KUMB: १-१३३-२४; NILA: ०१.१२४.०२२॥
महासत्त्वा महावीर्या महाबलपराक्रमाः । पाण्डुर्दृष्ट्वा सुतांस्तांस्तु देवरूपान्महौजसः ॥KUMB: १-१३३-२५; NILA: ०१.१२४.०२३॥
मुदं परमिकां लेभे ननन्द च नराधिपः । ऋषीणामपि सर्वेषां शतशृङ्गनिवासिनाम् ॥KUMB: १-१३३-२६; NILA: ०१.१२४.०२४॥
प्रिया बभूवुस्तासां च तथैव मुनियोषिताम् ॥KUMB: १-१३३-२७; NILA: ०१.१२४.०२५॥
जातमात्रानुपादाय शतशृङ्गनिवासिनः । पाण्डोः पुत्रानमन्यन्त तापसाः स्वानिवात्मजान् ॥KUMB: १-१३३-३४॥
ततस्तु वृष्णयः सर्वे वसुदेवपुरोगमाः ॥KUMB: १-१३३-३५॥
पाण्डुः शापभयाद्भीतः शतशृङ्गमुपेयिवान् । तत्रैव मुनिभिः सार्धं तापसोऽभूत्तपस्विभिः ॥KUMB: १-१३३-३६॥
शाकमूलफलाहारस्तपस्वी नियतेन्द्रियः । योगध्यानपरो राजा बभूवेति च वादकाः ॥KUMB: १-१३३-३७॥
प्रबुवन्ति स्म बहवस्तच्छ्रुत्वा शोककर्शिताः । पाण्डोः प्रीतिसमायुक्ताः कदा श्रोष्याम संकथाः ॥KUMB: १-१३३-३८॥
इत्येवं कथयन्तस्ते वृष्णयः सह बान्धवैः । पाण्डोः पुत्रागमं श्रुत्वा सर्वे हर्षसमन्विताः ॥KUMB: १-१३३-३९॥
सभाजयन्तस्तेऽन्योन्यं वसुदेवं वचोऽब्रुवन् । न भवेरन्क्रियाहीनाः पाण्डुपुत्रा महाबलाः ॥KUMB: १-१३३-४०॥
पाण्डोः प्रियहितान्वेषी प्रेषय त्वं पुरोहितम् । वसुदेवस्तथेत्युक्त्वा विससर्ज पुरोहितम् ॥KUMB: १-१३३-४१॥
युक्तानि च कुमाराणां पारबर्हाण्यनेकशः । कुन्तीं माद्रीं च संदिश्य दासीदासपरिच्छदम् ॥KUMB: १-१३३-४२॥
गावो हिरण्यं रौप्यं च प्रेषयामास भारत । तानि सर्वाणि संगृह्य प्रययौ स पुरोहितः ॥KUMB: १-१३३-४३॥
तमागतं द्विजश्रेष्ठं काश्यपं वै पुरोहितम् । पूजयामास विधिवत्पाण्डुः परपुरञ्जयः ॥KUMB: १-१३३-४४॥
पृथा माद्री च संहृष्टे वसुदेवं प्रशंसताम् । ततः पाण्डुः क्रियाः सर्वाः पाण्डवानामकारयत् ॥KUMB: १-१३३-४५॥
गर्भाधानादिकृत्यानि चौलोपनयनानि च । काश्यपः कृतवान्सर्वमुपाकर्म च भारत ॥KUMB: १-१३३-४६॥
चौलोपनयनादूर्ध्वमृषभाक्षा यशस्विनः । वैदिकाध्ययने सर्वे समपद्यन्त पारगाः ॥KUMB: १-१३३-४७॥
शर्यातेः प्रथमः पुत्रः शुक्रो नाम परन्तपः । येन सागरपर्यन्ता धुषा निर्जिता मही ॥KUMB: १-१३३-४८॥
अश्वमेधशतैरिष्ट्वा स महात्मा महामखैः । आराध्य देवताः सर्वाः पितॄनपि महामतिः ॥KUMB: १-१३३-४९॥
शतशृह्गे तपस्तेपे शाकमूलफलाशनः । तेनोपकरणश्रेष्ठैः शिक्षया चोपबृंहिताः ॥KUMB: १-१३३-५०॥
तत्प्रसादाद्धनुर्वेदे समपद्यन्त पारगाः । गदायां पारगो भीमस्तोमरेषु युधिष्ठिरः ॥KUMB: १-१३३-५१॥
असिचर्मणि निष्णातौ यमौ सत्त्ववतां वरौ । धनुर्वेदे गतः पारं सव्यसाची परन्तपः ॥KUMB: १-१३३-५२॥
शुक्रेण समनुज्ञातो मत्समोऽयमिति प्रभो । अनुज्ञाय ततो राजा शक्तिं खङ्गं ततः शरान् ॥KUMB: १-१३३-५३॥
धनुश्च दमतां श्रेष्ठस्तालमात्रं महाप्रभम् । विपाठक्षुरनाराचान्गृध्रपक्षैरलङ्कृतान् ॥KUMB: १-१३३-५४॥
ददौ पार्थाय संहृष्टो महोरगसमप्रभान् । अवाप्य सर्वशस्त्राणि मुदितो वासवात्मजः ॥KUMB: १-१३३-५५॥
मेने सर्वान्महीपालानपर्याप्तान्स्वतेजसः ॥KUMB: १-१३३-५६॥
एकवर्षान्तरास्त्वेवं परस्परमरिन्दमाः । अन्ववर्तन्त पार्थाश्च माद्रीपुत्रौ तथैव च ॥KUMB: १-१३३-५७॥
कस्मिन्वयसि संप्राप्ताः पाण्डवा गजसाह्वयम् । समपद्यन्त देवेभ्यस्तेषामायुश्च किं परम् ॥KUMB: १-१३४-१॥
पाण्डवानामिहायुष्यं शृणु कौरवनन्दन । जगाम हास्तिनपुरं षोडशाब्दो युधिष्ठिरः ॥KUMB: १-१३४-२॥
भीमसेनः पञ्चदशो बीभत्सुर्वै चतुर्दशः । त्रयोदशाब्दौ च यमौ जग्मतुर्नागसाह्वयम् ॥KUMB: १-१३४-३॥
तत्र त्रयोदशाब्दानि धार्तराष्ट्रैः सहोषिताः । षण्मासाञ्जातुषगृहान्मुक्ता जातो घटोत्कचः ॥KUMB: १-१३४-४॥
षण्मासानेकचक्रायां वर्षं पाञ्चालके गृहे । धार्तराष्ट्रैः सहोषित्वा पञ्च वर्षाणि भारत ॥KUMB: १-१३४-५॥
इन्द्रप्रस्थे वसन्तस्ते त्रीणि वर्षाणि विंशतिम् । द्वादशाब्दानथैकं च बभूवुर्द्यूतनिर्जिताः ॥KUMB: १-१३४-६॥
भुक्त्वा षट्त्रिंशतं राजन्सागरान्तां वसुन्धराम् । मासैः षड्भिर्महात्मानः सर्वे कृष्णपरायणाः ॥KUMB: १-१३४-७॥
राज्ये परीक्षितं स्थाप्य दिष्टां गतिमवाप्नुवन् । एवं युधिष्ठिरस्यासीदायुरष्टोत्तरं शतम् ॥KUMB: १-१३४-८॥
अर्जुनात्केशवो ज्येष्ठस्त्रिभिर्मासैर्महाद्युतिः । कृष्णात्संकर्षणो ज्येष्ठस्त्रिभिर्मासैर्महाबलः ॥KUMB: १-१३४-९॥