Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
Chapter 20: Pāṇḍu’s death and Mādrī’s following him; Kuntī and the Pāṇḍavas return to Hastināpura, funeral rites are performed, and Satyavatī retires to the forest with Ambikā and Ambālikā.
वैशम्पायन उवाच॥
दर्शनीयांस्ततः पुत्रान्पाण्डुः पञ्च महावने । तान्पश्यन्पर्वते रेमे स्वबाहुबलपालितान् ॥BORI: १-११६-१॥
सुपुष्पितवने काले कदाचिन्मधुमाधवे । भूतसंमोहने राजा सभार्यो व्यचरद्वनम् ॥BORI: १-११६-२॥
पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः । अन्यैश्च बहुभिर्वृक्षैः फलपुष्पसमृद्धिभिः ॥BORI: १-११६-३॥
जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितम् । पाण्डोर्वनं तु सम्प्रेक्ष्य प्रजज्ञे हृदि मन्मथः ॥BORI: १-११६-४॥
प्रहृष्टमनसं तत्र विहरन्तं यथामरम् । तं माद्र्यनुजगामैका वसनं बिभ्रती शुभम् ॥BORI: १-११६-५॥
समीक्षमाणः स तु तां वयःस्थां तनुवाससम् । तस्य कामः प्रववृधे गहनेऽग्निरिवोत्थितः ॥BORI: १-११६-६॥
रहस्यात्मसमां दृष्ट्वा राजा राजीवलोचनाम् । न शशाक नियन्तुं तं कामं कामबलात्कृतः ॥BORI: १-११६-७॥
तत एनां बलाद्राजा निजग्राह रहोगताम् । वार्यमाणस्तया देव्या विस्फुरन्त्या यथाबलम् ॥BORI: १-११६-८॥
स तु कामपरीतात्मा तं शापं नान्वबुध्यत । माद्रीं मैथुनधर्मेण गच्छमानो बलादिव ॥BORI: १-११६-९॥
जीवितान्ताय कौरव्यो मन्मथस्य वशं गतः । शापजं भयमुत्सृज्य जगामैव बलात्प्रियाम् ॥BORI: १-११६-१०॥
तस्य कामात्मनो बुद्धिः साक्षात्कालेन मोहिता । सम्प्रमथ्येन्द्रियग्रामं प्रनष्टा सह चेतसा ॥BORI: १-११६-११॥
स तया सह सङ्गम्य भार्यया कुरुनन्दन । पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा ॥BORI: १-११६-१२॥
ततो माद्री समालिङ्ग्य राजानं गतचेतसम् । मुमोच दुःखजं शब्दं पुनः पुनरतीव ह ॥BORI: १-११६-१३॥
सह पुत्रैस्ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ । आजग्मुः सहितास्तत्र यत्र राजा तथागतः ॥BORI: १-११६-१४॥
ततो माद्र्यब्रवीद्राजन्नार्ता कुन्तीमिदं वचः । एकैव त्वमिहागच्छ तिष्ठन्त्वत्रैव दारकाः ॥BORI: १-११६-१५॥
तच्छ्रुत्वा वचनं तस्यास्तत्रैवावार्य दारकान् । हताहमिति विक्रुश्य सहसोपजगाम ह ॥BORI: १-११६-१६॥
दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले । कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता ॥BORI: १-११६-१७॥
रक्ष्यमाणो मया नित्यं वीरः सततमात्मवान् । कथं त्वमभ्यतिक्रान्तः शापं जानन्वनौकसः ॥BORI: १-११६-१८॥
ननु नाम त्वया माद्रि रक्षितव्यो जनाधिपः । सा कथं लोभितवती विजने त्वं नराधिपम् ॥BORI: १-११६-१९॥
कथं दीनस्य सततं त्वामासाद्य रहोगताम् । तं विचिन्तयतः शापं प्रहर्षः समजायत ॥BORI: १-११६-२०॥
धन्या त्वमसि बाह्लीकि मत्तो भाग्यतरा तथा । दृष्टवत्यसि यद्वक्त्रं प्रहृष्टस्य महीपतेः ॥BORI: १-११६-२१॥
माद्र्युवाच॥
विलोभ्यमानेन मया वार्यमाणेन चासकृत् । आत्मा न वारितोऽनेन सत्यं दिष्टं चिकीर्षुणा ॥BORI: १-११६-२२॥
कुन्त्युवाच॥
अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम । अवश्यं भाविनो भावान्मा मां माद्रि निवर्तय ॥BORI: १-११६-२३॥
अन्वेष्यामीह भर्तारमहं प्रेतवशं गतम् । उत्तिष्ठ त्वं विसृज्यैनमिमान्रक्षस्व दारकान् ॥BORI: १-११६-२४॥
माद्र्युवाच॥
अहमेवानुयास्यामि भर्तारमपलायिनम् ॥BORI: १-११६-२५A॥
न हि तृप्तास्मि कामानां तज्ज्येष्ठा अनुमन्यताम् ॥BORI: १-११६-२५B॥
मां चाभिगम्य क्षीणोऽयं कामाद्भरतसत्तमः ॥BORI: १-११६-२६A॥
तमुच्छिन्द्यामस्य कामं कथं नु यमसादने ॥BORI: १-११६-२६B॥
न चाप्यहं वर्तयन्ती निर्विशेषं सुतेषु ते । वृत्तिमार्ये चरिष्यामि स्पृशेदेनस्तथा हि माम् ॥BORI: १-११६-२७॥
तस्मान्मे सुतयोः कुन्ति वर्तितव्यं स्वपुत्रवत् । मां हि कामयमानोऽयं राजा प्रेतवशं गतः ॥BORI: १-११६-२८॥
राज्ञः शरीरेण सह ममापीदं कलेवरम् । दग्धव्यं सुप्रतिच्छन्नमेतदार्ये प्रियं कुरु ॥BORI: १-११६-२९॥
दारकेष्वप्रमत्ता च भवेथाश्च हिता मम । अतोऽन्यन्न प्रपश्यामि संदेष्टव्यं हि किञ्चन ॥BORI: १-११६-३०॥
वैशम्पायन उवाच॥
इत्युक्त्वा तं चिताग्निस्थं धर्मपत्नी नरर्षभम् । मद्रराजात्मजा तूर्णमन्वारोहद्यशस्विनी ॥BORI: १-११६-३१॥
पूर्णे चतुर्दशे वर्षे फल्गुनस्य च धीमतः ॥KUMB: १-१३४-११॥
यस्मिन्नृक्षे समुत्पन्नः पार्थस्तस्य च धीमतः । तस्मिन्नुत्तरफल्गुन्यां प्रवृत्ते स्वस्तिवाचने ॥KUMB: १-१३४-१२॥
रक्षणे विस्मृता कुन्ती व्यग्रा ब्राह्मणभोजने । पुरोहितेन सहितान्ब्राह्मणान्पर्यवेषयत् ॥KUMB: १-१३४-१३॥
अथ सोऽष्टादशे वर्षे ऋतौ माद्रमलङ्कृताम् । आजुहाव ततः पाण्डुः परीतात्मा यशस्विनीम् ॥KUMB: १-१३४-२१॥
तस्यास्तद्वचनं श्रुत्वा कुन्ती शोकाग्निदीपिता । पपात सहसा भूमौ छिन्नमूल इव द्रुमः ॥KUMB: १-१३४-३७॥
निश्चेष्टा पतिता भूमौ मोहेन न चचाल सा । तस्मिन्क्षणे कृतस्नानमहताम्बरसंवृतम् ॥KUMB: १-१३४-३८॥
अलङ्कारकृतं पाण्डुं शयानं शयने शुभे । कुन्तीमुत्थाप्य माद्री तु मोहेनाविष्टचेतनाम् ॥KUMB: १-१३४-३९॥
आर्ये एहीति तां कुन्तीं दर्शयामास कौरव । पादयोः पतिता कुन्ती पुनरुत्थाय भूमिपम् ॥KUMB: १-१३४-४०॥
रक्तचन्दनदिग्धांङ्गं महारजनवाससम् । सस्मितेन च वक्त्रेण वदन्तमिव भारतम् ॥KUMB: १-१३४-४१॥
परिरभ्य ततो मोहाद्विललापाकुलेन्द्रिया । माद्री चापि समालिङ्ग्य राजानं विललाप सा ॥KUMB: १-१३४-४२॥
तं तथा शायिनं पुत्रा ऋषयः सह चारणैः । अभ्येत्य सहिताः सर्वे शोकादश्रूण्यवर्तयन् ॥KUMB: १-१३४-४३॥
अस्तं गतमिवादित्यं संशुष्कमिव सागरम् । दृष्ट्वा पाण्डुं नरव्याघ्रं शोचन्ति स्म महर्षयः ॥KUMB: १-१३४-४४॥
समानशोका ऋषयः पाण्डवाश्च बभूविरे । ते समाश्वासिते विप्रैर्विलेपतुरनिन्दिते ॥KUMB: १-१३४-४५॥
हा राजन्कस्य नो हित्वा गच्छसि त्रिदशालयम् । हा राजन्मम मन्दायाः कथं माद्रीं समेत्य वै ॥KUMB: १-१३४-४६॥
निधनं प्राप्तवान्राजन्मद्भाग्यपरिसंक्षयात् । युधिष्ठिरं भीमसेनमर्जुनं च यमावुभौ ॥KUMB: १-१३४-४७॥
कस्य हित्वा प्रियान्पुत्रान्प्रयातोऽसि विशांपते । नूनं त्वां त्रिदशा देवाः प्रतिनन्दन्ति भारत ॥KUMB: १-१३४-४८॥
यतो हि तप उग्रं वै चरितं ब्रह्मसंसदि । आवाभ्यां सहितो राजन्गमिष्यसि दिवं शुभम् ॥KUMB: १-१३४-४९॥
आजमीढाजमीढानां कर्मणा चरतां गतिम् । ननु नाम सहावाभ्यां गमिष्यामीति यत्त्वया ॥KUMB: १-१३४-५०॥
प्रतिज्ञाता कुरुश्रेष्ठ यदाऽस्मि वनमागता । आवाभ्यां चैव सहितो गमिष्यसि विशांपते । मुहूर्तं क्षम्यतां राजन्द्रक्ष्येऽहं च मुखं तव ॥KUMB: १-१३४-५१॥
विलपित्वा भृशं चैव निःसंज्ञे पतिते भुवि । यथा हते मृगे मृग्यौ लुब्धैर्वनगते तथा ॥KUMB: १-१३४-५२॥
युधिष्ठिरमुखाः सर्वे पाण्डवा वेदपरागाः । तेऽभ्यागत्य पितुर्मूले निःसंज्ञाः पतिता भुवि ॥KUMB: १-१३४-५३॥
पाण्डोः पादौ परिष्वज्य विलपन्ति स्म पाण्डवाः । हा विनष्टाः स्म तातेति हा अनाथा भवामहे ॥KUMB: १-१३४-५४॥
त्वद्विहीना महाप्राज्ञ कथं जीवाम बालकाः । लोकनाथस्य पुत्राः स्मो न सनाथा भवामहे ॥KUMB: १-१३४-५५॥
क्षणेनैव महाराज अहो लोकस्य चित्रता । नास्मद्विधा राजपुत्रा अधन्याः सन्ति भारत ॥KUMB: १-१३४-५६॥
त्वद्विनाशाच्च राजेन्द्र राज्यप्रस्खलनात्तदा । पाण्डवाश्च वयं सर्वे प्राप्ताः स्म व्यसनं महत् ॥KUMB: १-१३४-५७॥
किं करिष्यामहे राजन्कर्तव्यं च प्रसीदताम् । भीमसेन उवाच । हित्वा राज्यं च भोगांश्च शतशृङ्गनिवासिना ॥KUMB: १-१३४-५८; KUMB: १-१३४-५८क्ष्॥
त्वया लब्धाः स्म राजेन्द्र महता तपसा वयम् । हित्वा मानं वनं गत्वा स्वयमाहृत्य भक्षणम् ॥KUMB: १-१३४-५९॥
शाकमूलफलैर्वन्यैर्भरणं वै त्वया कृतम् । पुत्रानुत्पाद्य पितरो यमिच्छ्ति महातम्नः ॥KUMB: १-१३४-६०॥
त्रिवर्गफलमिच्छन्तस्तस्य कालोऽयमागतः । अभुक्त्वैव फलं राजन्गन्तुं नार्हसि भारत ॥KUMB: १-१३४-६१॥
इत्येवमुक्त्वा पितरं भीमोऽपि विललाप ॥KUMB: १-१३४-६२॥
प्रनष्टं भारतं वंशं पाण्डुना पुनरुद्धृतम् । तस्मिंस्तदा वनगते नष्टं राज्यमराजकम् ॥KUMB: १-१३४-६३॥
पुनर्निःसारितं क्षत्रं पाण्डुपुत्रैश्च पञ्चभिः । एतच्छ्रुत्वाऽनुमोदित्वा गन्तुमर्हसि शङ्कर ॥KUMB: १-१३४-६४॥
इत्येवमुक्त्वा पितरं विललाप धनञ्जयः । यमावूचतुः । दुःसहं च तपः कृत्वा लब्ध्वा नो भरतर्षभ ॥KUMB: १-१३४-६५; KUMB: १-१३४-६५क्ष्॥
पुत्रलाभस्य महतः शुश्रूषादिफलं त्वया । न चावाप्तं किंचिदेव पुरा दशरथो यथा ॥KUMB: १-१३४-६६॥
एवमुक्त्वा यमौ चापि विलेपतुरथातुरौ ॥KUMB: १-१३४-६७॥
अवाप्य पुत्रांल्लब्धार्थान्वीरपत्नीत्वमर्थये ॥KUMB: १-१३४-७०॥
मम हतोर्हि राजाऽयं दिवं राजर्पिसत्तमः । न चैव तादृशी बुद्धिर्बान्धवाश्च न तादृशाः ॥KUMB: १-१३४-७३॥
न चोत्सहे धारयितुं प्राणान्भर्त्रा विना कृता । तस्मात्तमनुयास्यामि यान्तं वैवस्वतक्षयम् ॥KUMB: १-१३४-७४॥
ऋषयस्तान्समाश्वास्य पाण्डवान्सत्यविक्रमान् । ऊचुः कुन्तीं च माद्रीं च समाश्वास्य तपस्विनः ॥KUMB: १-१३४-७९॥
सुभगे बालपुत्रा तु न मर्तव्यं तथंचन । पाण्डवांश्चापि नेष्यामः कुरुराष्ट्रं परन्तपान् ॥KUMB: १-१३४-८०॥
अधर्मेष्वर्थजातेषु धृतराष्ट्रश्च लोभवान् । स कदाचिन्न वर्तेत पाण्डवेषु यथाविधि ॥KUMB: १-१३४-८१॥
कुन्त्याश्च वृष्णयो नाथाः कुन्तिभोजस्तथैव च । माद्र्याश्च बलिनांश्रेष्ठः शल्यो भ्राता महारथः ॥KUMB: १-१३४-८२॥
भर्त्रा तु मरणं सार्धं फलवन्नात्र संशयः । युवाभ्यां दुष्करं चैतद्वदन्ति द्विजपुङ्गवाः ॥KUMB: १-१३४-८३॥
मृते भर्तरि साध्वी स्त्री ब्रह्मचर्यव्रते स्थिता । यमैश्च नियमैः पूता मनोवाक्कायजैः शुभा ॥KUMB: १-१३४-८४॥
भर्तारं चिन्तयन्ती सा भर्तारं निस्तरेच्छुभा । तारितश्चापि भर्ता स्यादात्मा पुत्रस्तथैव च ॥KUMB: १-१३४-८५॥
तस्माञ्जीवितमेवैतद्युवयोर्विद्म शोभनम् ॥KUMB: १-१३४-८६॥
यथा पाण्डोस्तु निर्देशस्तथा विप्रगणस्य च । आज्ञा शिरसि निक्षिप्ता करिष्यामि च तत्तथा ॥KUMB: १-१३४-८७॥
यदाद्दुर्भगवन्तोऽपि तन्मन्ये शोभनं परम् । भर्तुश्च मम पुत्राणामात्मनश्च न संशयः ॥KUMB: १-१३४-८८॥
कुन्ती समर्था पुत्राणां योगक्षेमस्य धारणे । अस्या हि न समा बुद्ध्या यद्यपि स्यादरुन्धती ॥KUMB: १-१३४-८९॥
कुन्त्याश्च वृष्णयो नाथाः कुन्तिभोजस्तथैव च । नाहं त्वमिव पुत्राणां समर्था धारणे तथा ॥KUMB: १-१३४-९०॥
साऽहं भर्तारमन्विष्ये संतृप्ता नापि भोगतः । भर्तृलोकस्य तु ज्येष्ठा देवी मामनुमन्यताम् ॥KUMB: १-१३४-९१॥
धर्मज्ञस्य कृतज्ञस्य सत्यसन्धस्य धीमतः । पादौ परिचरिष्यामि तथार्याऽद्यानुमन्यताम् ॥KUMB: १-१३४-९२॥
एवमुक्त्वा तदा राजन्मद्रराजसुता शुभा । ददौ कुन्त्यै यमौ माद्री शिरसाऽभिप्रणम्य च ॥KUMB: १-१३४-९३॥
अभिवाद्य महर्षीन्सा परिष्वज्य च पाण्डवान् । मूर्ध्न्युपाघ्राय बहुशः पार्थानात्मसुतौ तदा ॥KUMB: १-१३४-९४॥
हस्ते युधिष्ठिरं गृह्य माद्री वाक्यमभाषत । कुन्ती माता अहं धात्री युष्माकं तु पिता मृतः ॥KUMB: १-१३४-९५॥
युधिष्ठिरः पिता ज्येष्ठश्चतुर्णां धर्मतः सदा । वृद्धाद्युपासनासक्ताः सत्यधर्मपरायणाः ॥KUMB: १-१३४-९६॥
तादृशा न विनश्यन्ति नैव यान्ति पराभवम् । तस्मात्सर्वे कुरुध्वं वै गुरुवृत्तिमतन्द्रिताः ॥KUMB: १-१३४-९७॥
ऋषीणां च पृथायाश्च नमस्कृत्य पुनःपुनः । आयासकृपणा माद्री प्रत्युवाच पृथां तदा ॥KUMB: १-१३४-९८॥
ऋषीणां संनिधावेषां यथा वागभ्युदीरिता । दिदृक्षमाणायाः स्वर्गं न ममैषा वृथा भवेत् ॥KUMB: १-१३४-९९॥
धन्या त्वमसि वार्ष्णेयि नास्ति स्त्री सदृशी त्वया । वीर्यं तेजश्च योगं च माहात्म्यं च यशस्विनाम् ॥KUMB: १-१३४-१००॥
कुन्ति द्रक्ष्यसि पुत्राणां पञ्चानाममितौजसाम् । आर्या चाप्यभिवाद्या च मम पूज्या च सर्वतः ॥KUMB: १-१३४-१०१॥
ज्येष्ठा वरिष्ठा त्वं देवि भूषिता स्वगुणैः शुभैः । अभ्यनुज्ञातुमिच्छामि त्वया यावनन्दिनि ॥KUMB: १-१३४-१०२॥
धर्मं स्वर्गं च कीर्तिं च त्वत्कृतेऽहमवाप्नुयाम् । यथा तथा विधत्स्वेह मा च कार्षीर्विचारणां ॥KUMB: १-१३४-१०३॥
बाष्पसंदिग्धया वाचा कुन्त्युवाच यशस्विनी । अनुज्ञाताऽसि कल्याणि त्रिदिवे सङ्गमोऽस्तु ते ॥KUMB: १-१३४-१०४॥
भर्त्रा सह विशालिक्षि क्षिप्रमद्यैव भामिनि । संगतास्वर्गलोके त्वं रमेथाः शाश्वतीः समाः ॥KUMB: १-१३४-१०५॥
ततः पुरोहितः स्नात्वा प्रेतकर्मणि पारगः । हिरण्यशकलानाज्यं तिलं दधि च तण्डुलान् ॥KUMB: १-१३४-१०६॥
उदकुम्भांश्च परशुं समानीय तपस्विभिः । अश्वमेधाग्निमाहृत्य यथान्यायं समन्ततः ॥KUMB: १-१३४-१०७॥
काश्यपः कारयामास पाण्डोः प्रेतस्य तां क्रियाम् । पुरोहितोक्तविधिना पाण्डोः पुत्रो युधिष्ठिरः ॥KUMB: १-१३४-१०८॥
तेनाग्निनाऽदहत्पाण्डुं कृत्वा चापि क्रियास्तदा । रुदञ्छोकाभिसंतप्तः पपात भुवि पाण्डवः ॥KUMB: १-१३४-१०९॥
अहताम्बरसंवीतो भ्रातृभिः सहितोऽनघः । उदकं कृतवांस्तत्र पुरोहितमते स्थितः ॥KUMB: १-१३४-११२॥
अर्हतस्तस्य कृत्यानि शतशृङ्गनिवासिनः । तापसा विधिवच्चक्रुश्चारणा ऋषिभिः सह ॥KUMB: १-१३४-११३॥
वैशम्पायन उवाच॥
पाण्डोरवभृथं कृत्वा देवकल्पा महर्षयः । ततो मन्त्रमकुर्वन्त ते समेत्य तपस्विनः ॥BORI: १-११७-१॥
हित्वा राज्यं च राष्ट्रं च स महात्मा महातपाः । अस्मिन्स्थाने तपस्तप्तुं तापसाञ्शरणं गतः ॥BORI: १-११७-२॥
स जातमात्रान्पुत्रांश्च दारांश्च भवतामिह । प्रदायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः ॥BORI: १-११७-३॥
ते परस्परमामन्त्र्य सर्वभूतहिते रताः । पाण्डोः पुत्रान्पुरस्कृत्य नगरं नागसाह्वयम् ॥BORI: १-११७-४॥
उदारमनसः सिद्धा गमने चक्रिरे मनः । भीष्माय पाण्डवान्दातुं धृतराष्ट्राय चैव हि ॥BORI: १-११७-५॥
तस्मिन्नेव क्षणे सर्वे तानादाय प्रतस्थिरे । पाण्डोर्दारांश्च पुत्रांश्च शरीरं चैव तापसाः ॥BORI: १-११७-६॥
सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला । प्रपन्ना दीर्घमध्वानं सङ्क्षिप्तं तदमन्यत ॥BORI: १-११७-७॥
सा नदीर्घेण कालेन सम्प्राप्ता कुरुजाङ्गलम् । वर्धमानपुरद्वारमाससाद यशस्विनी ॥BORI: १-११७-८॥
तं चारणसहस्राणां मुनीनामागमं तदा । श्रुत्वा नागपुरे नृणां विस्मयः समजायत ॥BORI: १-११७-९॥
मुहूर्तोदित आदित्ये सर्वे धर्मपुरस्कृताः । सदारास्तापसान्द्रष्टुं निर्ययुः पुरवासिनः ॥BORI: १-११७-१०॥
स्त्रीसङ्घाः क्षत्रसङ्घाश्च यानसङ्घान्समास्थिताः । ब्राह्मणैः सह निर्जग्मुर्ब्राह्मणानां च योषितः ॥BORI: १-११७-११॥
तथा विट्शूद्रसङ्घानां महान्व्यतिकरोऽभवत् । न कश्चिदकरोदीर्ष्यामभवन्धर्मबुद्धयः ॥BORI: १-११७-१२॥
तथा भीष्मः शान्तनवः सोमदत्तोऽथ बाह्लिकः । प्रज्ञाचक्षुश्च राजर्षिः क्षत्ता च विदुरः स्वयम् ॥BORI: १-११७-१३॥
सा च सत्यवती देवी कौसल्या च यशस्विनी । राजदारैः परिवृता गान्धारी च विनिर्ययौ ॥BORI: १-११७-१४॥
धृतराष्ट्रस्य दायादा दुर्योधनपुरोगमाः । भूषिता भूषणैश्चित्रैः शतसङ्ख्या विनिर्ययुः ॥BORI: १-११७-१५॥
तान्महर्षिगणान्सर्वाञ्शिरोभिरभिवाद्य च । उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः ॥BORI: १-११७-१६॥
तथैव शिरसा भूमावभिवाद्य प्रणम्य च । उपोपविविशुः सर्वे पौरजानपदा अपि ॥BORI: १-११७-१७॥
तमकूजमिवाज्ञाय जनौघं सर्वशस्तदा । भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदयत् ॥BORI: १-११७-१८॥
तेषामथो वृद्धतमः प्रत्युत्थाय जटाजिनी । महर्षिमतमाज्ञाय महर्षिरिदमब्रवीत् ॥BORI: १-११७-१९॥
यः स कौरव्यदायादः पाण्डुर्नाम नराधिपः । कामभोगान्परित्यज्य शतशृङ्गमितो गतः ॥BORI: १-११७-२०॥
ब्रह्मचर्यव्रतस्थस्य तस्य दिव्येन हेतुना । साक्षाद्धर्मादयं पुत्रस्तस्य जातो युधिष्ठिरः ॥BORI: १-११७-२१॥
तथेमं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः । मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम् ॥BORI: १-११७-२२॥
पुरुहूतादयं जज्ञे कुन्त्यां सत्यपराक्रमः । यस्य कीर्तिर्महेष्वासान्सर्वानभिभविष्यति ॥BORI: १-११७-२३॥
यौ तु माद्री महेष्वासावसूत कुरुसत्तमौ । अश्विभ्यां मनुजव्याघ्राविमौ तावपि तिष्ठतः ॥BORI: १-११७-२४॥
चरता धर्मनित्येन वनवासं यशस्विना । एष पैतामहो वंशः पाण्डुना पुनरुद्धृतः ॥BORI: १-११७-२५॥
पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च । पश्यतः सततं पाण्डोः शश्वत्प्रीतिरवर्धत ॥BORI: १-११७-२६॥
वर्तमानः सतां वृत्ते पुत्रलाभमवाप्य च । पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि ॥BORI: १-११७-२७॥
तं चितागतमाज्ञाय वैश्वानरमुखे हुतम् । प्रविष्टा पावकं माद्री हित्वा जीवितमात्मनः ॥BORI: १-११७-२८॥
सा गता सह तेनैव पतिलोकमनुव्रता । तस्यास्तस्य च यत्कार्यं क्रियतां तदनन्तरम् ॥BORI: १-११७-२९॥
इमे तयोः शरीरे द्वे सुताश्चेमे तयोर्वराः । क्रियाभिरनुगृह्यन्तां सह मात्रा परन्तपाः ॥BORI: १-११७-३०॥
प्रेतकार्ये च निर्वृत्ते पितृमेधं महायशाः । लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः ॥BORI: १-११७-३१॥
एवमुक्त्वा कुरून्सर्वान्कुरूणामेव पश्यताम् । क्षणेनान्तर्हिताः सर्वे चारणा गुह्यकैः सह ॥BORI: १-११७-३२॥
गन्धर्वनगराकारं तत्रैवान्तर्हितं पुनः । ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः ॥BORI: १-११७-३३॥
तस्येमानात्मजान्देहं भार्यां च सुमहात्मनः । स्वराष्ट्रं गृह्य गच्छामो धर्म एष हि नः स्मृतः ॥KUMB: १-१३५-४; NILA: ०१.१२६.००४॥
द्वारिणं तापसा ऊचू राजानं च प्रकाशय । ते तु गत्वा क्षणेनैव सभायां विनिवेदिताः ॥KUMB: १-१३५-१०; NILA: ०१.१२६.०१०॥
पूजयित्वा यथान्यायं पाद्येनार्घ्येण च प्रभो ॥KUMB: १-१३५-२०; NILA: ०१.१२६.०२०॥
राजा भोगान्परित्यज्य तपस्वी संबभूव ह । स यथोक्तं तपस्तेपे पत्रमूलफलाशनः ॥KUMB: १-१३५-२३॥
पत्नीभ्यां सह धर्मात्मा संचित्कालमतन्द्रितः । तेन वृत्तसमाचारैस्तपसा च तपस्विनः ॥KUMB: १-१३५-२४॥
तोषितास्तापसास्तत्र शतशृङ्गनिवासिनः । स्वर्गलोकं गन्तुकामं तापसाः संनिवार्य तम् ॥KUMB: १-१३५-२५॥
उद्यन्तं सह पत्नीभ्यां विप्रा वचनमब्रुवन् । अनपत्यस्य राजेन्द्र पुण्या लोका न सन्ति ते ॥KUMB: १-१३५-२६॥
तस्माद्धर्मं च वायुं च महेन्द्रं च तथाऽश्विनौ । आराधयस्व राजेन्द्र पत्नीभ्यां सह देवताः ॥KUMB: १-१३५-२७॥
प्रीताः पुत्रान्प्रदास्यन्ति ऋणमुक्तो भविष्यसि । तपसा दिव्यचक्षुष्ट्वात्पश्यामस्ते तथा सुतान् ॥KUMB: १-१३५-२८॥
अस्माकं वचनं श्रुत्वा देवानाराधयत्तदा ॥KUMB: १-१३५-२९॥
अस्मिञ्जाते महेष्वासे पृथामिन्द्रस्तदाऽब्रवीत् । मत्प्रसादादयं जातः कुन्ति सत्यपराक्रमः ॥KUMB: १-१३५-३२॥
अजेयानपि जेताऽरीन्देवतादीन्न संशयः ॥KUMB: १-१३५-३३॥
युधिष्ठिरो राजसूयं भ्रातृवीर्यादवाप्स्यति । एष जेता मनुष्यांश्च सर्वान्गन्धर्वराक्षसान् ॥KUMB: १-१३५-३४॥
एष दुर्योधनादीनां कौरवाणां च जेष्यति । वीरस्यैतस्य विक्रान्तैर्धर्मपुत्रो युधिष्ठिरः ॥KUMB: १-१३५-३५॥
यक्ष्यते राजसूयाद्यैर्धर्म एव परः सदा ॥KUMB: १-१३५-३६॥
नकुलः सहदेवश्च तावप्यमिततेजसौ ॥KUMB: १-१३५-३७॥
पृथां च शरणं प्राप्तां पाण्डवांश्च यशस्विनः । यथावदनुमन्यन्तां धर्मो ह्येष सनातनः ॥KUMB: १-१३५-४३॥
धृतराष्ट्र उवाच॥
पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय । राजवद्राजसिंहस्य माद्र्याश्चैव विशेषतः ॥BORI: १-११८-१॥
पशून्वासांसि रत्नानि धनानि विविधानि च । पाण्डोः प्रयच्छ माद्र्याश्च येभ्यो यावच्च वाञ्छितम् ॥BORI: १-११८-२॥
यथा च कुन्ती सत्कारं कुर्यान्माद्र्यास्तथा कुरु । यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम् ॥BORI: १-११८-३॥
न शोच्यः पाण्डुरनघः प्रशस्यः स नराधिपः । यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः ॥BORI: १-११८-४॥
वैशम्पायन उवाच॥
विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत । पाण्डुं संस्कारयामास देशे परमसंवृते ॥BORI: १-११८-५॥
ततस्तु नगरात्तूर्णमाज्यहोमपुरस्कृताः । निर्हृताः पावका दीप्ताः पाण्डो राजपुरोहितैः ॥BORI: १-११८-६॥
अथैनमार्तवैर्गन्धैर्माल्यैश्च विविधैर्वरैः । शिबिकां समलञ्चक्रुर्वाससाच्छाद्य सर्वशः ॥BORI: १-११८-७॥
तां तथा शोभितां माल्यैर्वासोभिश्च महाधनैः । अमात्या ज्ञातयश्चैव सुहृदश्चोपतस्थिरे ॥BORI: १-११८-८॥
नृसिंहं नरयुक्तेन परमालङ्कृतेन तम् । अवहन्यानमुख्येन सह माद्र्या सुसंवृतम् ॥BORI: १-११८-९॥
पाण्डुरेणातपत्रेण चामरव्यजनेन च । सर्ववादित्रनादैश्च समलञ्चक्रिरे ततः ॥BORI: १-११८-१०॥
रत्नानि चाप्युपादाय बहूनि शतशो नराः । प्रददुः काङ्क्षमाणेभ्यः पाण्डोस्तत्रौर्ध्वदेहिकम् ॥BORI: १-११८-११॥
अथ छत्राणि शुभ्राणि पाण्डुराणि बृहन्ति च । आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च ॥BORI: १-११८-१२॥
याजकैः शुक्लवासोभिर्हूयमाना हुताशनाः । अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलङ्कृताः ॥BORI: १-११८-१३॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव सहस्रशः । रुदन्तः शोकसन्तप्ता अनुजग्मुर्नराधिपम् ॥BORI: १-११८-१४॥
अयमस्मानपाहाय दुःखे चाधाय शाश्वते । कृत्वानाथान्परो नाथः क्व यास्यति नराधिपः ॥BORI: १-११८-१५॥
क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च । रमणीये वनोद्देशे गङ्गातीरे समे शुभे ॥BORI: १-११८-१६॥
न्यासयामासुरथ तां शिबिकां सत्यवादिनः । सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः ॥BORI: १-११८-१७॥
ततस्तस्य शरीरं तत्सर्वगन्धनिषेवितम् । शुचिकालीयकादिग्धं मुख्यस्नानाधिवासितम् । पर्यषिञ्चज्जलेनाशु शातकुम्भमयैर्घटैः ॥BORI: १-११८-१८॥
चन्दनेन च मुख्येन शुक्लेन समलेपयन् । कालागुरुविमिश्रेण तथा तुङ्गरसेन च ॥BORI: १-११८-१९॥
अथैनं देशजैः शुक्लैर्वासोभिः समयोजयन् । आच्छन्नः स तु वासोभिर्जीवन्निव नरर्षभः । शुशुभे पुरुषव्याघ्रो महार्हशयनोचितः ॥BORI: १-११८-२०॥
याजकैरभ्यनुज्ञातं प्रेतकर्मणि निष्ठितैः । घृतावसिक्तं राजानं सह माद्र्या स्वलङ्कृतम् ॥BORI: १-११८-२१॥
तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना । अन्यैश्च विविधैर्गन्धैरनल्पैः समदाहयन् ॥BORI: १-११८-२२॥
ततस्तयोः शरीरे ते दृष्ट्वा मोहवशं गता । हाहा पुत्रेति कौसल्या पपात सहसा भुवि ॥BORI: १-११८-२३॥
तां प्रेक्ष्य पतितामार्तां पौरजानपदो जनः । रुरोद सस्वनं सर्वो राजभक्त्या कृपान्वितः ॥BORI: १-११८-२४॥
क्लान्तानीवार्तनादेन सर्वाणि च विचुक्रुशुः । मानुषैः सह भूतानि तिर्यग्योनिगतान्यपि ॥BORI: १-११८-२५॥
तथा भीष्मः शान्तनवो विदुरश्च महामतिः । सर्वशः कौरवाश्चैव प्राणदन्भृशदुःखिताः ॥BORI: १-११८-२६॥
ततो भीष्मोऽथ विदुरो राजा च सह बन्धुभिः । उदकं चक्रिरे तस्य सर्वाश्च कुरुयोषितः ॥BORI: १-११८-२७॥
कृतोदकांस्तानादाय पाण्डवाञ्शोककर्शितान् । सर्वाः प्रकृतयो राजञ्शोचन्त्यः पर्यवारयन् ॥BORI: १-११८-२८॥
यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः । तथैव नागरा राजञ्शिश्यिरे ब्राह्मणादयः ॥BORI: १-११८-२९॥
तदनानन्दमस्वस्थमाकुमारमहृष्टवत् । बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः ॥BORI: १-११८-३०॥
बाह्लीकः सोमदत्तश्च तथा भूरिश्रवा नृपः । अन्योन्यं वै समाश्लिष्य अनुजग्मुः सहस्रशः ॥KUMB: १-१३६-१६; KUMB: १-१३६-१७॥
हयमेधाग्निना सर्वे याजकाः सपुरोहिताः । वेदोक्तेन विधानेन क्रियांचक्रुः समन्त्रकम् ॥KUMB: १-१३६-२३॥
सरलं देवदारुं च गुग्गुलं लाक्षया सह । हरिचन्दनकाष्ठैश्च हरिबेरैरुशीरकैः ॥KUMB: १-१३६-२५; KUMB: १-१३६-२६॥
चुक्रुशुः पाण्डवाः सर्वे भीष्मः शान्तनवस्तथा । विदुरो ज्ञातयश्चैव चक्रुश्चाप्युदकक्रियाः ॥KUMB: १-१३६-३२; NILA: ०१.१२७.०२९॥
वैशम्पायन उवाच॥
ततः क्षत्ता च राजा च भीष्मश्च सह बन्धुभिः । ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा ॥BORI: १-११९-१॥
कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः । रत्नौघान्द्विजमुख्येभ्यो दत्त्वा ग्रामवरानपि ॥BORI: १-११९-२॥
कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान् । आदाय विविशुः पौराः पुरं वारणसाह्वयम् ॥BORI: १-११९-३॥
सततं स्मान्वतप्यन्त तमेव भरतर्षभम् । पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम् ॥BORI: १-११९-४॥
श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम् । संमूढां दुःखशोकार्तां व्यासो मातरमब्रवीत् ॥BORI: १-११९-५॥
अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः । श्वः श्वः पापीयदिवसाः पृथिवी गतयौवना ॥BORI: १-११९-६॥
बहुमायासमाकीर्णो नानादोषसमाकुलः । लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति ॥BORI: १-११९-७॥
गच्छ त्वं त्यागमास्थाय युक्ता वस तपोवने । मा द्रक्ष्यसि कुलस्यास्य घोरं सङ्क्षयमात्मनः ॥BORI: १-११९-८॥
तथेति समनुज्ञाय सा प्रविश्याब्रवीत्स्नुषाम् । अम्बिके तव पुत्रस्य दुर्नयात्किल भारताः । सानुबन्धा विनङ्क्ष्यन्ति पौत्राश्चैवेति नः श्रुतम् ॥BORI: १-११९-९॥
तत्कौसल्यामिमामार्तां पुत्रशोकाभिपीडिताम् । वनमादाय भद्रं ते गच्छावो यदि मन्यसे ॥BORI: १-११९-१०॥
तथेत्युक्ते अम्बिकया भीष्ममामन्त्र्य सुव्रता । वनं ययौ सत्यवती स्नुषाभ्यां सह भारत ॥BORI: १-११९-११॥
ताः सुघोरं तपः कृत्वा देव्यो भरतसत्तम । देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा ॥BORI: १-११९-१२॥