Chapter 23: The princes’ martial exhibition; Bhīma and Duryodhana’s prowess, Arjuna’s acclaimed skill, Karṇa’s challenge, and his alliance with Duryodhana.
वैशम्पायन उवाच॥
कृतास्त्रान्धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत। दृष्ट्वा द्रोणोऽब्रवीद्राजन्धृतराष्ट्रं जनेश्वरम् ॥BORI: १-१२४-१॥
कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः। गाङ्गेयस्य च सांनिध्ये व्यासस्य विदुरस्य च ॥BORI: १-१२४-२॥
राजन्सम्प्राप्तविद्यास्ते कुमराः कुरुसत्तम। ते दर्शयेयुः स्वां शिक्षां राजन्ननुमते तव ॥BORI: १-१२४-३॥
ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मना। भारद्वाज महत्कर्म कृतं ते द्विजसत्तम ॥BORI: १-१२४-४॥
यदा तु मन्यसे कालं यस्मिन्देशे यथा यथा। तथा तथा विधानाय स्वयमाज्ञापयस्व माम् ॥BORI: १-१२४-५॥
स्पृहयाम्यद्य निर्वेदात्पुरुषाणां सचक्षुषाम्। अस्त्रहेतोः पराक्रान्तान्ये मे द्रक्ष्यन्ति पुत्रकान् ॥BORI: १-१२४-६॥
क्षत्तर्यद्गुरुराचार्यो ब्रवीति कुरु तत्तथा। न हीदृशं प्रियं मन्ये भविता धर्मवत्सल ॥BORI: १-१२४-७॥
ततो राजानमामन्त्र्य विदुरानुगतो बहिः। भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम्। समामवृक्षां निर्गुल्मामुदक्प्रवणसंस्थिताम् ॥BORI: १-१२४-८॥
तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते। अवघुष्टं पुरे चापि तदर्थं वदतां वर ॥BORI: १-१२४-९॥
रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि। प्रेक्षागारं सुविहितं चक्रुस्तत्र च शिल्पिनः। राज्ञः सर्वायुधोपेतं स्त्रीणां चैव नरर्षभ ॥BORI: १-१२४-१०॥
मञ्चांश्च कारयामासुस्तत्र जानपदा जनाः । विपुलानुच्छ्रयोपेताञ्शिबिकाश्च महाधनाः ॥BORI: १-१२४-११॥
तस्मिंस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा । भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम् ॥BORI: १-१२४-१२॥
मुक्ताजालपरिक्षिप्तं वैडूर्यमणिभूषितम् । शातकुम्भमयं दिव्यं प्रेक्षागारमुपागमत् ॥BORI: १-१२४-१३॥
गान्धारी च महाभागा कुन्ती च जयतां वर । स्त्रियश्च सर्वा या राज्ञः सप्रेष्याः सपरिच्छदाः । हर्षादारुरुहुर्मञ्चान्मेरुं देवस्त्रियो यथा ॥BORI: १-१२४-१४॥
ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद्द्रुतम् । दर्शनेप्सु समभ्यागात्कुमाराणां कृतास्त्रताम् ॥BORI: १-१२४-१५॥
प्रवादितैश्च वादित्रैर्जनकौतूहलेन च । महार्णव इव क्षुब्धः समाजः सोऽभवत्तदा ॥BORI: १-१२४-१६॥
ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान् । शुक्लकेशः सितश्मश्रुः शुक्लमाल्यानुलेपनः ॥BORI: १-१२४-१७॥
रङ्गमध्यं तदाचार्यः सपुत्रः प्रविवेश ह । नभो जलधरैर्हीनं साङ्गारक इवांशुमान् ॥BORI: १-१२४-१८॥
स यथासमयं चक्रे बलिं बलवतां वरः । ब्राह्मणांश्चात्र मन्त्रज्ञान्वाचयामास मङ्गलम् ॥BORI: १-१२४-१९॥
अथ पुण्याहघोषस्य पुण्यस्य तदनन्तरम् । विविशुर्विविधं गृह्य शस्त्रोपकरणं नराः ॥BORI: १-१२४-२०॥
ततो बद्धतनुत्राणा बद्धकक्ष्या महाबलाः । बद्धतूणाः सधनुषो विविशुर्भरतर्षभाः ॥BORI: १-१२४-२१॥
अनुज्येष्ठं च ते तत्र युधिष्ठिरपुरोगमाः । चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम् ॥BORI: १-१२४-२२॥
केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे । मनुजा धृष्टमपरे वीक्षां चक्रुः सविस्मयाः ॥BORI: १-१२४-२३॥
ते स्म लक्ष्याणि विविधुर्बाणैर्नामाङ्कशोभितैः । विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्द्रुतम् ॥BORI: १-१२४-२४॥
तत्कुमारबलं तत्र गृहीतशरकार्मुकम् । गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन् ॥BORI: १-१२४-२५॥
सहसा चुक्रुशुस्तत्र नराः शतसहस्रशः । विस्मयोत्फुल्लनयनाः साधु साध्विति भारत ॥BORI: १-१२४-२६॥
कृत्वा धनुषि ते मार्गान्रथचर्यासु चासकृत् । गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलाः ॥BORI: १-१२४-२७॥
गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः । त्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु ॥BORI: १-१२४-२८॥
लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम् । ददृशुस्तत्र सर्वेषां प्रयोगे खड्गचर्मणाम् ॥BORI: १-१२४-२९॥
अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ । अवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ ॥BORI: १-१२४-३०॥
बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौ । बृंहन्तौ वाशिताहेतोः समदाविव कुञ्जरौ ॥BORI: १-१२४-३१॥
तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ । चेरतुर्निर्मलगदौ समदाविव गोवृषौ ॥BORI: १-१२४-३२॥
विदुरो धृतराष्ट्राय गान्धार्यै पाण्डवारणिः । न्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम् ॥BORI: १-१२४-३३॥
सान्तःपुरः सहामात्यो व्यासस्यानुमते तदा ॥KUMB: १-१४४-१३॥
बाह्लीकं सोमदत्तं च भूरिश्रवसमेव च । कुरूनन्यांश्च सचिवानादाय नगराद्बहिः ॥KUMB: १-१४४-१४॥
रङ्गभूमिं समासाद्य ब्राह्मणैः सहितो नृपः ॥KUMB: १-१४४-१५॥
क्षणेनैकस्थतां तत्र दर्शनेप्सुर्जगाम ह ॥KUMB: १-१४४-१९; NILA: ०१.१३४.०१७॥
सुवर्णमणिरत्नानि वस्त्राणि विविधानि च । प्रददौ दक्षिणां राजा द्रोणाय च कृपाय च ॥KUMB: १-१४४-२४॥
रङ्गमध्ये स्थितं द्रोणमभिवाद्य नरर्षभाः । चक्रुः पूजां यथान्यायं द्रोणस्य च कृपस्य च ॥KUMB: १-१४४-२७॥
आशीर्भिश्च प्रयुक्ताभिः सर्वे संहृष्टमानसाः । अभिवाद्य पुनः शस्त्रान्बलिपुष्पैः समर्चितान् ॥KUMB: १-१४४-२८॥
रक्तचन्दनसंमिश्रैः स्वयमर्चन्ति कौरवाः । रक्तचन्दनदिग्धाश्च रक्तमाल्यानुधारिणः ॥KUMB: १-१४४-२९॥
सर्वे रक्तपताकाश्च सर्वे रक्तान्तलोचनाः । द्रोणेन समनुज्ञाता गृह्य शस्त्रं परन्तपाः ॥KUMB: १-१४४-३०॥
धनूंषि पूर्व संगृह्य तप्तकाञ्चनभूषिताः । सज्यानि विविधाकाराः शरैः सन्धाय कौरवा ॥KUMB: १-१४४-३१॥
ज्याघोषं तलघोषं च कृत्वा भूतान्यमोहयन् ॥KUMB: १-१४४-३२॥
केषांचित्तत्र माल्येषु शरा निपतिता नृप । केषांचित्पुष्पमुकुटे निपतन्ति स्म सायकाः ॥KUMB: १-१४४-३४॥
केचिल्लक्ष्याणि विविधैर्बाणैराहितलक्षणैः । बिभिदुर्लाघवोत्सृष्टैर्गुरूणि च लघूनि च ॥KUMB: १-१४४-३५॥
वैशम्पायन उवाच॥
कुरुराजे च रङ्गस्थे भीमे च बलिनां वरे । पक्षपातकृतस्नेहः स द्विधेवाभवज्जनः ॥BORI: १-१२५-१॥
हा वीर कुरुराजेति हा भीमेति च नर्दताम् । पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः ॥BORI: १-१२५-२॥
ततः क्षुब्धार्णवनिभं रङ्गमालोक्य बुद्धिमान् । भारद्वाजः प्रियं पुत्रमश्वत्थामानमब्रवीत् ॥BORI: १-१२५-३॥
वारयैतौ महावीर्यौ कृतयोग्यावुभावपि । मा भूद्रङ्गप्रकोपोऽयं भीमदुर्योधनोद्भवः ॥BORI: १-१२५-४॥
ततस्तावुद्यतगदौ गुरुपुत्रेण वारितौ । युगान्तानिलसङ्क्षुब्धौ महावेगाविवार्णवौ ॥BORI: १-१२५-५॥
ततो रङ्गाङ्गणगतो द्रोणो वचनमब्रवीत् । निवार्य वादित्रगणं महामेघनिभस्वनम् ॥BORI: १-१२५-६॥
यो मे पुत्रात्प्रियतरः सर्वास्त्रविदुषां वरः । ऐन्द्रिरिन्द्रानुजसमः स पार्थो दृश्यतामिति ॥BORI: १-१२५-७॥
आचार्यवचनेनाथ कृतस्वस्त्ययनो युवा । बद्धगोधाङ्गुलित्राणः पूर्णतूणः सकार्मुकः ॥BORI: १-१२५-८॥
काञ्चनं कवचं बिभ्रत्प्रत्यदृश्यत फल्गुनः । सार्कः सेन्द्रायुधतडित्ससन्ध्य इव तोयदः ॥BORI: १-१२५-९॥
ततः सर्वस्य रङ्गस्य समुत्पिञ्जोऽभवन्महान् । प्रावाद्यन्त च वाद्यानि सशङ्खानि समन्ततः ॥BORI: १-१२५-१०॥
एष कुन्तीसुतः श्रीमानेष पाण्डवमध्यमः । एष पुत्रो महेन्द्रस्य कुरूणामेष रक्षिता ॥BORI: १-१२५-११॥
एषोऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः । एष शीलवतां चापि शीलज्ञाननिधिः परः ॥BORI: १-१२५-१२॥
इत्येवमतुला वाचः शृण्वन्त्याः प्रेक्षकेरिताः । कुन्त्याः प्रस्नवसंमिश्रैरस्रैः क्लिन्नमुरोऽभवत् ॥BORI: १-१२५-१३॥
तेन शब्देन महता पूर्णश्रुतिरथाब्रवीत् । धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः ॥BORI: १-१२५-१४॥
क्षत्तः क्षुब्धार्णवनिभः किमेष सुमहास्वनः । सहसैवोत्थितो रङ्गे भिन्दन्निव नभस्तलम् ॥BORI: १-१२५-१५॥
विदुर उवाच॥
एष पार्थो महाराज फल्गुनः पाण्डुनन्दनः । अवतीर्णः सकवचस्तत्रैष सुमहास्वनः ॥BORI: १-१२५-१६॥
धृतराष्ट्र उवाच॥
धन्योऽस्म्यनुगृहीतोऽस्मि रक्षितोऽस्मि महामते । पृथारणिसमुद्भूतैस्त्रिभिः पाण्डववह्निभिः ॥BORI: १-१२५-१७॥
वैशम्पायन उवाच॥
तस्मिन्समुदिते रङ्गे कथञ्चित्पर्यवस्थिते । दर्शयामास बीभत्सुराचार्यादस्त्रलाघवम् ॥BORI: १-१२५-१८॥
आग्नेयेनासृजद्वह्निं वारुणेनासृजत्पयः । वायव्येनासृजद्वायुं पार्जन्येनासृजद्घनान् ॥BORI: १-१२५-१९॥
भौमेन प्राविशद्भूमिं पार्वतेनासृजद्गिरीन् । अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत् ॥BORI: १-१२५-२०॥
क्षणात्प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः । क्षणेन रथमध्यस्थः क्षणेनावापतन्महीम् ॥BORI: १-१२५-२१॥
सुकुमारं च सूक्ष्मं च गुरुं चापि गुरुप्रियः । सौष्ठवेनाभिसंयुक्तः सोऽविध्यद्विविधैः शरैः ॥BORI: १-१२५-२२॥
भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम् । पञ्च बाणानसंसक्तान्स मुमोचैकबाणवत् ॥BORI: १-१२५-२३॥
गव्ये विषाणकोशे च चले रज्ज्ववलम्बिते । निचखान महावीर्यः सायकानेकविंशतिम् ॥BORI: १-१२५-२४॥
इत्येवमादि सुमहत्खड्गे धनुषि चाभवत् । गदायां शस्त्रकुशलो दर्शनानि व्यदर्शयत् ॥BORI: १-१२५-२५॥
ततः समाप्त-भूयिष्ठे तस्मिन् कर्मणि भारत । मन्दीभूते समाजे च वादित्रस्य च निस्वने ॥BORI: १-१२५-२६॥
द्वारदेशात्समुद्भूतो माहात्म्य बलसूचकः । वज्रनिष्पेषसदृशः शुश्रुवे भुजनिस्वनः ॥BORI: १-१२५-२७॥
दीर्यन्ते किं नु गिरयः किं स्विद्भूमिर्विदीर्यते । किं स्विदापूर्यते व्योम जलभारघनैर्घनैः ॥BORI: १-१२५-२८॥
रङ्गस्यैवं मतिरभूत्क्षणेन वसुधाधिप । द्वारं चाभिमुखाः सर्वे बभूवुः प्रेक्षकास्तदा ॥BORI: १-१२५-२९॥
पञ्चभिर्भ्रातृभिः पार्थैर्द्रोणः परिवृतो बभौ । पञ्चतारेण संयुक्तः सावित्रेणेव चन्द्रमाः ॥BORI: १-१२५-३०॥
अश्वत्थाम्ना च सहितं भ्रातृणां शतमूर्जितम् । दुर्योधनममित्रघ्नमुत्थितं पर्यवारयत् ॥BORI: १-१२५-३१॥
स तैस्तदा भ्रातृभिरुद्यतायुधै; र्वृतो गदापाणिरवस्थितैः स्थितः । बभौ यथा दानवसङ्क्षये पुरा; पुरंदरो देवगणैः समावृतः ॥BORI: १-१२५-३२॥
तत उत्थाय वेगेन अश्वत्थामा न्यवारयत् । गुरोराज्ञा भीम इति गान्धारे गुरुशासनम् । अलं शिक्षाकृतं वेगमलं साहसमित्युत ॥KUMB: १-१४५-५॥
वैशम्पायन उवाच॥
दत्तेऽवकाशे पुरुषैर्विस्मयोत्फुल्ललोचनैः। विवेश रङ्गं विस्तीर्णं कर्णः परपुरञ्जयः ॥BORI: १-१२६-१॥
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः। सधनुर्बद्धनिस्त्रिंशः पादचारीव पर्वतः ॥BORI: १-१२६-२॥
कन्यागर्भः पृथुयशाः पृथायाः पृथुलोचनः। तीक्ष्णांशोर्भास्करस्यांशः कर्णोऽरिगणसूदनः ॥BORI: १-१२६-३॥
सिंहर्षभगजेन्द्राणां तुल्यवीर्यपराक्रमः। दीप्तिकान्तिद्युतिगुणैः सूर्येन्दुज्वलनोपमः ॥BORI: १-१२६-४॥
प्रांशुः कनकतालाभः सिंहसंहननो युवा। असङ्ख्येयगुणः श्रीमान्भास्करस्यात्मसम्भवः ॥BORI: १-१२६-५॥
स निरीक्ष्य महाबाहुः सर्वतो रङ्गमण्डलम्। प्रणामं द्रोणकृपयोर्नात्यादृतमिवाकरोत् ॥BORI: १-१२६-६॥
स सामाजजनः सर्वो निश्चलः स्थिरलोचनः। कोऽयमित्यागतक्षोभः कौतूहलपरोऽभवत् ॥BORI: १-१२६-७॥
सोऽब्रवीन्मेघधीरेण स्वरेण वदतां वरः। भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम् ॥BORI: १-१२६-८॥
पार्थ यत्ते कृतं कर्म विशेषवदहं ततः। करिष्ये पश्यतां नृणां मात्मना विस्मयं गमः ॥BORI: १-१२६-९॥
असमाप्ते ततस्तस्य वचने वदतां वर। यन्त्रोत्क्षिप्त इव क्षिप्रमुत्तस्थौ सर्वतो जनः ॥BORI: १-१२६-१०॥
प्रीतिश्च पुरुषव्याघ्र दुर्योधनमथास्पृशत् । ह्रीश्च क्रोधश्च बीभत्सुं क्षणेनान्वविशच्च ह ॥BORI: १-१२६-११॥
ततो द्रोणाभ्यनुज्ञातः कर्णः प्रियरणः सदा । यत्कृतं तत्र पार्थेन तच्चकार महाबलः ॥BORI: १-१२६-१२॥
अथ दुर्योधनस्तत्र भ्रातृभिः सह भारत । कर्णं परिष्वज्य मुदा ततो वचनमब्रवीत् ॥BORI: १-१२६-१३॥
स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मानद । अहं च कुरुराज्यं च यथेष्टमुपभुज्यताम् ॥BORI: १-१२६-१४॥
कर्ण उवाच॥
कृतं सर्वेण मेऽन्येन सखित्वं च त्वया वृणे । द्वन्द्वयुद्धं च पार्थेन कर्तुमिच्छामि भारत ॥BORI: १-१२६-१५॥
दुर्योधन उवाच॥
भुङ्क्ष्व भोगान्मया सार्धं बन्धूनां प्रियकृद्भव । दुर्हृदां कुरु सर्वेषां मूर्ध्नि पादमरिंदम ॥BORI: १-१२६-१६॥
वैशम्पायन उवाच॥
ततः क्षिप्तमिवात्मानं मत्वा पार्थोऽभ्यभाषत । कर्णं भ्रातृसमूहस्य मध्येऽचलमिव स्थितम् ॥BORI: १-१२६-१७॥
अनाहूतोपसृप्तानामनाहूतोपजल्पिनाम् । ये लोकास्तान्हतः कर्ण मया त्वं प्रतिपत्स्यसे ॥BORI: १-१२६-१८॥
कर्ण उवाच॥
रङ्गोऽयं सर्वसामान्यः किमत्र तव फल्गुन । वीर्यश्रेष्ठाश्च राजन्या बलं धर्मोऽनुवर्तते ॥BORI: १-१२६-१९॥
किं क्षेपैर्दुर्बलाश्वासैः शरैः कथय भारत । गुरोः समक्षं यावत्ते हराम्यद्य शिरः शरैः ॥BORI: १-१२६-२०॥
वैशम्पायन उवाच॥
ततो द्रोणाभ्यनुज्ञातः पार्थः परपुरञ्जयः । भ्रातृभिस्त्वरयाश्लिष्टो रणायोपजगाम तम् ॥BORI: १-१२६-२१॥
ततो दुर्योधनेनापि सभ्रात्रा समरोद्यतः । परिष्वक्तः स्थितः कर्णः प्रगृह्य सशरं धनुः ॥BORI: १-१२६-२२॥
ततः सविद्युत्स्तनितैः सेन्द्रायुधपुरोजवैः । आवृतं गगनं मेघैर्बलाकापङ्क्तिहासिभिः ॥BORI: १-१२६-२३॥
ततः स्नेहाद्धरिहयं दृष्ट्वा रङ्गावलोकिनम् । भास्करोऽप्यनयन्नाशं समीपोपगतान्घनान् ॥BORI: १-१२६-२४॥
मेघच्छायोपगूढस्तु ततोऽदृश्यत पाण्डवः । सूर्यातपपरिक्षिप्तः कर्णोऽपि समदृश्यत ॥BORI: १-१२६-२५॥
धार्तराष्ट्रा यतः कर्णस्तस्मिन्देशे व्यवस्थिताः । भारद्वाजः कृपो भीष्मो यतः पार्थस्ततोऽभवन् ॥BORI: १-१२६-२६॥
द्विधा रङ्गः समभवत्स्त्रीणां द्वैधमजायत । कुन्तिभोजसुता मोहं विज्ञातार्था जगाम ह ॥BORI: १-१२६-२७॥
तां तथा मोहसम्पन्नां विदुरः सर्वधर्मवित् । कुन्तीमाश्वासयामास प्रोक्ष्याद्भिश्चन्दनोक्षितैः ॥BORI: १-१२६-२८॥
ततः प्रत्यागतप्राणा तावुभावपि दंशितौ । पुत्रौ दृष्ट्वा सुसन्तप्ता नान्वपद्यत किञ्चन ॥BORI: १-१२६-२९॥
तावुद्यतमहाचापौ कृपः शारद्वतोऽब्रवीत् । द्वन्द्वयुद्धसमाचारे कुशलः सर्वधर्मवित् ॥BORI: १-१२६-३०॥
अयं पृथायास्तनयः कनीयान्पाण्डुनन्दनः । कौरवो भवता सार्धं द्वन्द्वयुद्धं करिष्यति ॥BORI: १-१२६-३१॥
त्वमप्येवं महाबाहो मातरं पितरं कुलम् । कथयस्व नरेन्द्राणां येषां त्वं कुलवर्धनः । ततो विदित्वा पार्थस्त्वां प्रतियोत्स्यति वा न वा ॥BORI: १-१२६-३२॥
एवमुक्तस्य कर्णस्य व्रीडावनतमाननम् । बभौ वर्षाम्बुभिः क्लिन्नं पद्ममागलितं यथा ॥BORI: १-१२६-३३॥
दुर्योधन उवाच॥
आचार्य त्रिविधा योनी राज्ञां शास्त्रविनिश्चये । तत्कुलीनश्च शूरश्च सेनां यश्च प्रकर्षति ॥BORI: १-१२६-३४॥
यद्ययं फल्गुनो युद्धे नाराज्ञा योद्धुमिच्छति । तस्मादेषोऽङ्गविषये मया राज्येऽभिषिच्यते ॥BORI: १-१२६-३५॥
वैशम्पायन उवाच॥
ततस्तस्मिन्क्षणे कर्णः सलाजकुसुमैर्घटैः । काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर्महारथः । अभिषिक्तोऽङ्गराज्ये स श्रिया युक्तो महाबलः ॥BORI: १-१२६-३६॥
सच्छत्रवालव्यजनो जयशब्दान्तरेण च । उवाच कौरवं राजा राजानं तं वृषस्तदा ॥BORI: १-१२६-३७॥
अस्य राज्यप्रदानस्य सदृशं किं ददानि ते । प्रब्रूहि राजशार्दूल कर्ता ह्यस्मि तथा नृप । अत्यन्तं सख्यमिच्छामीत्याह तं स सुयोधनः ॥BORI: १-१२६-३८॥
एवमुक्तस्ततः कर्णस्तथेति प्रत्यभाषत । हर्षाच्चोभौ समाश्लिष्य परां मुदमवापतुः ॥BORI: १-१२६-३९॥
एतस्मिन्नेव काले तु तस्मिञ्जनसमागमे ॥KUMB: १-१४६-१॥
एवमुक्तस्तु कर्णेन राजन्दुर्योधनस्तदा । कर्णं दीर्घाञ्चितभुजं परिष्वज्येदमब्रवीत् ॥KUMB: १-१४६-१६॥
वृथाकुलसमाचारैर्न युध्यन्ते नृपात्मजाः ॥KUMB: १-१४६-३४; NILA: ०१.१३६.०३३॥
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् । तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥KUMB: १-१४६-३७॥
ततो राजानमामन्त्र्य गाङ्गेयं च पितामहम् । अभिषेकस्य संभारान्समानीय द्विजातिभिः ॥KUMB: १-१४६-३९॥
गोसहस्रायुतं दत्त्वा युक्तानां पुण्यकर्मणाम् । अर्होऽयमङ्गराज्यस्य इति वाच्य द्विजातिभिः ॥KUMB: १-१४६-४०॥
स मौलिहारकेयूरः सहस्ताभरणाङ्गदः । राजलिङ्गैस्तथाऽन्यैश्च भूषितो भूषणैः शुभैः ॥KUMB: १-१४६-४२; KUMB: १-१४६-४३॥
वैशम्पायन उवाच॥
ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथुः । विवेशाधिरथो रङ्गं यष्टिप्राणो ह्वयन्निव ॥BORI: १-१२७-१॥
तमालोक्य धनुस्त्यक्त्वा पितृगौरवयन्त्रितः । कर्णोऽभिषेकार्द्रशिराः शिरसा समवन्दत ॥BORI: १-१२७-२॥
ततः पादाववच्छाद्य पटान्तेन ससम्भ्रमः । पुत्रेति परिपूर्णार्थमब्रवीद्रथसारथिः ॥BORI: १-१२७-३॥
परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः । अङ्गराज्याभिषेकार्द्रमश्रुभिः सिषिचे पुनः ॥BORI: १-१२७-४॥
तं दृष्ट्वा सूतपुत्रोऽयमिति निश्चित्य पाण्डवः । भीमसेनस्तदा वाक्यमब्रवीत्प्रहसन्निव ॥BORI: १-१२७-५॥
न त्वमर्हसि पार्थेन सूतपुत्र रणे वधम् । कुलस्य सदृशस्तूर्णं प्रतोदो गृह्यतां त्वया ॥BORI: १-१२७-६॥
अङ्गराज्यं च नार्हस्त्वमुपभोक्तुं नराधम । श्वा हुताशसमीपस्थं पुरोडाशमिवाध्वरे ॥BORI: १-१२७-७॥
एवमुक्तस्ततः कर्णः किञ्चित्प्रस्फुरिताधरः । गगनस्थं विनिःश्वस्य दिवाकरमुदैक्षत ॥BORI: १-१२७-८॥
ततो दुर्योधनः कोपादुत्पपात महाबलः । भ्रातृपद्मवनात्तस्मान्मदोत्कट इव द्विपः ॥BORI: १-१२७-९॥
सोऽब्रवीद्भीमकर्माणं भीमसेनमवस्थितम् । वृकोदर न युक्तं ते वचनं वक्तुमीदृशम् ॥BORI: १-१२७-१०॥
क्षत्रियाणां बलं ज्येष्ठं योद्धव्यं क्षत्रबन्धुना । शूराणां च नदीनां च प्रभवा दुर्विदाः किल ॥BORI: १-१२७-११॥
सलिलादुत्थितो वह्निर्येन व्याप्तं चराचरम् । दधीचस्यास्थितो वज्रं कृतं दानवसूदनम् ॥BORI: १-१२७-१२॥
आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्यपि । श्रूयते भगवान्देवः सर्वगुह्यमयो गुहः ॥BORI: १-१२७-१३॥
क्षत्रियाभ्यश्च ये जाता ब्राह्मणास्ते च विश्रुताः । आचार्यः कलशाज्जातः शरस्तम्बाद्गुरुः कृपः । भवतां च यथा जन्म तदप्यागमितं नृपैः ॥BORI: १-१२७-१४॥
सकुण्डलं सकवचं दिव्यलक्षणलक्षितम् । कथमादित्यसङ्काशं मृगी व्याघ्रं जनिष्यति ॥BORI: १-१२७-१५॥
पृथिवीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरः । अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना ॥BORI: १-१२७-१६॥
यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम् । रथमारुह्य पद्भ्यां वा विनामयतु कार्मुकम् ॥BORI: १-१२७-१७॥
ततः सर्वस्य रङ्गस्य हाहाकारो महानभूत् । साधुवादानुसम्बद्धः सूर्यश्चास्तमुपागमत् ॥BORI: १-१२७-१८॥
ततो दुर्योधनः कर्णमालम्ब्याथ करे नृप । दीपिकाग्निकृतालोकस्तस्माद्रङ्गाद्विनिर्ययौ ॥BORI: १-१२७-१९॥
पाण्डवाश्च सहद्रोणाः सकृपाश्च विशां पते । भीष्मेण सहिताः सर्वे ययुः स्वं स्वं निवेशनम् ॥BORI: १-१२७-२०॥
अर्जुनेति जनः कश्चित्कश्चित्कर्णेति भारत । कश्चिद्दुर्योधनेत्येवं ब्रुवन्तः प्रस्थितास्तदा ॥BORI: १-१२७-२१॥
कुन्त्याश्च प्रत्यभिज्ञाय दिव्यलक्षणसूचितम् । पुत्रमङ्गेश्वरं स्नेहाच्छन्ना प्रीतिरवर्धत ॥BORI: १-१२७-२२॥
दुर्योधनस्यापि तदा कर्णमासाद्य पार्थिव । भयमर्जुनसाञ्जातं क्षिप्रमन्तरधीयत ॥BORI: १-१२७-२३॥
स चापि वीरः कृतशस्त्रनिश्रमः; परेण साम्नाभ्यवदत्सुयोधनम् । युधिष्ठिरस्याप्यभवत्तदा मति; र्न कर्णतुल्योऽस्ति धनुर्धरः क्षितौ ॥BORI: १-१२७-२४॥
विश्वामित्रप्रभृतयः प्राप्ता ब्रह्मत्वमव्ययम् ॥KUMB: १-१४७-१४; NILA: ०१.१३७.०१४॥
गौतमस्यान्ववाये च शरस्तम्बाच्च गौतमः ॥KUMB: १-१४७-१५; NILA: ०१.१३७.०१५॥