Chapter 9: Pāṇḍu becomes king; Gāndhārī marries Dhṛtarāṣṭra, and Kuntī and Mādrī marry Pāṇḍu.
धृतराष्ट्रश्च पाण्डुश्च विदुरश्च महामतिः । जन्मप्रभृति भीष्मेण पुत्रवत्परिपालिताः ॥BORI: १-१०२-१५॥
संस्कारैः संस्कृतास्ते तु व्रताध्ययनसंयुताः । श्रमव्यायामकुशलाः समपद्यन्त यौवनम् ॥BORI: १-१०२-१६॥
धनुर्वेदेऽश्वपृष्ठे च गदायुद्धेऽसिचर्मणि । तथैव गजशिक्षायां नीतिशास्त्रे च पारगाः ॥BORI: १-१०२-१७॥
इतिहासपुराणेषु नानाशिक्षासु चाभिभो । वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्रमाः ॥BORI: १-१०२-१८॥
पाण्डुर्धनुषि विक्रान्तो नरेभ्योऽभ्यधिकोऽभवत् । अत्यन्यान्बलवानासीद्धृतराष्ट्रो महीपतिः ॥BORI: १-१०२-१९॥
त्रिषु लोकेषु न त्वासीत्कश्चिद्विदुरसंमितः । धर्मनित्यस्ततो राजन्धर्मे च परमं गतः ॥BORI: १-१०२-२०॥
धृतराष्ट्रस्त्वचक्षुष्ट्वाद्राज्यं न प्रत्यपद्यत । करणत्वाच्च विदुरः पाण्डुरासीन्महीपतिः ॥BORI: १-१०२-२३॥
कदाचिदथ गाङ्गेयः सर्वनीतिमतां वरः । विदुरं धर्मतत्त्वज्ञं वाक्यमाह यथोचितम् ॥KUMB: १-११८-३३; NILA: ०१.१०९.०२६॥
भीष्म उवाच॥
गुणैः समुदितं सम्यगिदं नः प्रथितं कुलम् । अत्यन्यान्पृथिवीपालान्पृथिव्यामधिराज्यभाक् ॥BORI: १-१०३-१॥
रक्षितं राजभिः पूर्वैर्धर्मविद्भिर्महात्मभिः । नोत्सादमगमच्चेदं कदाचिदिह नः कुलम् ॥BORI: १-१०३-२॥
मया च सत्यवत्या च कृष्णेन च महात्मना । समवस्थापितं भूयो युष्मासु कुलतन्तुषु ॥BORI: १-१०३-३॥
वर्धते तदिदं पुत्र कुलं सागरवद्यथा । तथा मया विधातव्यं त्वया चैव विशेषतः ॥BORI: १-१०३-४॥
श्रूयते यादवी कन्या अनुरूपा कुलस्य नः । सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च ॥BORI: १-१०३-५॥
कुलीना रूपवत्यश्च नाथवत्यश्च सर्वशः । उचिताश्चैव सम्बन्धे तेऽस्माकं क्षत्रियर्षभाः ॥BORI: १-१०३-६॥
मन्ये वरयितव्यास्ता इत्यहं धीमतां वर । सन्तानार्थं कुलस्यास्य यद्वा विदुर मन्यसे ॥BORI: १-१०३-७॥
विदुर उवाच॥
भवान्पिता भवान्माता भवान्नः परमो गुरुः । तस्मात्स्वयं कुलस्यास्य विचार्य कुरु यद्धितम् ॥BORI: १-१०३-८॥
वैशम्पायन उवाच॥
अथ शुश्राव विप्रेभ्यो गान्धारीं सुबलात्मजाम् ॥BORI: १-१०३-९A॥
इति श्रुत्वा च तत्त्वेन भीष्मः कुरुपितामहः । ततो गान्धारराजस्य प्रेषयामास भारत ॥BORI: १-१०३-१०॥
अचक्षुरिति तत्रासीत्सुबलस्य विचारणा । कुलं ख्यातिं च वृत्तं च बुद्ध्या तु प्रसमीक्ष्य सः । ददौ तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम् ॥BORI: १-१०३-११॥
गान्धारी त्वपि शुश्राव धृतराष्ट्रमचक्षुषम् । आत्मानं दित्सितं चास्मै पित्रा मात्रा च भारत ॥BORI: १-१०३-१२॥
ततः सा पट्टमादाय कृत्वा बहुगुणं शुभा । बबन्ध नेत्रे स्वे राजन्पतिव्रतपरायणा । नात्यश्नीयां पतिमहमित्येवं कृतनिश्चया ॥BORI: १-१०३-१३॥
ततो गान्धारराजस्य पुत्रः शकुनिरभ्ययात् । स्वसारं परया लक्ष्म्या युक्तामादाय कौरवान् ॥BORI: १-१०३-१४॥
दत्त्वा स भगिनीं वीरो यथार्हं च परिच्छदम् । पुनरायात्स्वनगरं भीष्मेण प्रतिपूजितः ॥BORI: १-१०३-१५॥
वैशम्पायन उवाच॥
रूपसत्त्वगुणोपेता धर्मारामा महाव्रता । दुहिता कुन्तिभोजस्य कृते पित्रा स्वयंवरे ॥BORI: १-१०५-१॥
तां तु तेजस्विनीं कन्यां रूपयौवनशालिनीम् । व्यावृण्वन्पार्थिवाः केचिदतीव स्त्रीगुणैर्युताम् ॥KUMB: १-१२१-२; NILA: ०१.११२.००२॥
ततः सा कुन्तिभोजेन राज्ञाहूय नराधिपान् । पित्रा स्वयंवरे दत्ता दुहिता राजसत्तम ॥KUMB: १-१२१-३; NILA: ०१.११२.००३॥
ततः सा रङ्गमध्यस्थं तेषां राज्ञां मनस्विनी । ददर्श राजशार्दूलं पाण्डुं भरतसत्तमम् ॥KUMB: १-१२१-४; NILA: ०१.११२.००४॥
तिष्ठन्तं राजसमितौ पुरन्दरमिवापरम् । तं दृष्ट्वा साऽनवद्याङ्गी कुन्तिभोजसुता शुभा ॥KUMB: १-१२१-६; NILA: ०१.११२.००६॥
पाण्डुं नरवरं रङ्गे हृदयेनाकुलाऽभवत् । ततः कामपरीताङ्गी सकृत्प्रचलमानसा ॥KUMB: १-१२१-७; NILA: ०१.११२.००७॥
व्रीडमान स्रजं कुन्ती राज्ञः स्कन्धे समासजत् । तं निशम्य वृतं पाण्डुं कुन्त्या सर्वे नराधिपाः ॥KUMB: १-१२१-८; NILA: ०१.११२.००८॥
यथागतं समाजग्मुर्गजैरश्वै रथैस्तथा । ततस्तस्याः पिता राजन्विवाहमकरोत्प्रभुः ॥KUMB: १-१२१-९; NILA: ०१.११२.००९॥
कुन्त्याः पाण्डोश्च राजेन्द्र कुन्तिभोजो महीपतिः । कृत्वोद्वाहं तदा तं तु नानावसुभिरर्चितम् । स्वपुरं प्रेषयामास स राजा कुरुसत्तम ॥KUMB: १-१२१-११; NILA: ०१.११२.०११॥
स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः । युयुजेऽमितसौभाग्यः पौलोम्या मघवानिव ॥BORI: १-१०५-३॥
ततो बलेन महता नानाध्वजपताकिना । स्तूयमानः स चाशीर्भिर्ब्राह्मणैश्च महर्षिभिः ॥KUMB: १-१२१-१२; NILA: ०१.११२.०१२॥
संप्राप्य नगरं राजा पाण्डुः कौरवनन्दनः । न्यवेशत तां भार्यां कुन्तीं स्वभवने प्रभुः ॥KUMB: १-१२१-१३; NILA: ०१.११२.०१३॥
ततः शान्तनवो भीष्मो राज्ञः पाण्डोर्यशस्विनः । विवाहस्यापरस्यार्थे चकार मतिमान्मतिम् ॥KUMB: १-१२२-१; NILA: ०१.११३.००१॥
यात्वा देवव्रतेनापि मद्राणां पुटभेदनम् । विश्रुता त्रिषु लोकेषु माद्री मद्रपतेः सुता ॥BORI: १-१०५-४॥
सर्वराजसु विख्याता रूपेणासदृशी भुवि ॥BORI: १-१०५-५A॥
सोऽमात्यैः स्थविरैः सार्धं ब्राह्मणैश्च महर्षिभिः । बलेन चतुरङ्गेण ययौ मद्रपतेः पुरम् ॥KUMB: १-१२२-२; NILA: ०१.११३.००२॥
तमागतमभिश्रुत्य भीष्मं वाहीकपुङ्गवः । प्रत्युद्गम्यार्चयित्वा च पुरं प्रावेशयन्नृपः ॥KUMB: १-१२२-३; NILA: ०१.११३.००३॥
दत्त्वा तस्यासनं शुभ्रं पाद्यमर्घ्यं तथैव च । मधुपर्कं च मद्रेशः पप्रच्छागमनेऽर्थिताम् ॥KUMB: १-१२२-४; NILA: ०१.११३.००४॥
तं भीष्मः प्रत्युवाचेदं मद्रराजं कुरूद्वहः । आगतं मां विजानीहि कन्यार्थिनमरिन्दम ॥KUMB: १-१२२-५; NILA: ०१.११३.००५॥
श्रूयते भवतः साध्वी स्वसा माद्री यशस्विनी । तामहं वरयिष्यामि पाण्डोरर्थे यशस्विनीम् ॥KUMB: १-१२२-६; NILA: ०१.११३.००६॥
युक्तरूपो हि संबन्धे त्वं नो राजन्वयं तव । एतत्संचिन्त्य मद्रेश गृहाणास्मान्यथाविधि ॥KUMB: १-१२२-७; NILA: ०१.११३.००७॥
तमेवंवादिनं भीष्मं प्रत्यभाषत मद्रपः । न हि मेऽन्यो वरस्त्वत्तः श्रेयानिति मतिर्मम ॥KUMB: १-१२२-८; NILA: ०१.११३.००८॥
पूर्वैः प्रवर्तितं किंचित्कुलेऽस्मिन्नृपसत्तमैः । साधु वा यदि वाऽसाधु तन्नातिक्रान्तुमुत्सहे ॥KUMB: १-१२२-९; NILA: ०१.११३.००९॥
व्यक्तं तद्भवतश्चापि विदितं नात्र संशयः । न च युक्तं तथा वक्तुं भवान्देहीति सत्तम ॥KUMB: १-१२२-१०; NILA: ०१.११३.०१०॥
कुलधर्मः स नो वीर प्रमाणं परमं च तत् । तेन त्वां न ब्रवीम्येतदसंदिग्धं वचोऽरिहन् ॥KUMB: १-१२२-११; NILA: ०१.११३.०११॥
तं भीष्मः प्रत्युवाचेदं मद्रराजं जनाधिपः । धर्म एष परो राजन्स्वयमुक्तः स्वयंभुवा ॥KUMB: १-१२२-१२; NILA: ०१.११३.०१२॥
नात्र कश्चन दोषोऽस्ति पूर्वैर्विधिरयं कृतः । विदितेयं च ते शल्य मर्यादा साधुसंमता ॥KUMB: १-१२२-१३; NILA: ०१.११३.०१३॥
पाण्डोरर्थे परिक्रीता धनेन महता तदा । विवाहं कारयामास भीष्मः पाण्डोर्महात्मनः ॥BORI: १-१०५-५B॥
स ताभ्यां व्यचरत्सार्धं भार्याभ्यां राजसत्तमः । कुन्त्या माद्र्या च राजेन्द्रो यथाकामं यथासुखम् ॥KUMB: १-१२२-२०; NILA: ०१.११३.०२०॥