Chapter 10: Pāṇḍu’s conquests, forest retreat, and curse by Kindama.
ततः स कौरवो राजा विहृत्य त्रिदशा निशाः ॥KUMB: १-१२२-२१; NILA: ०१.११३.०२१॥
स भीष्मप्रमुखान्वृद्धानभिवाद्य प्रणम्य च । धृतराष्ट्रं च कौरव्यं तथान्यान्कुरुसत्तमान् । आमन्त्र्य प्रययौ राजा तैश्चैवाप्यनुमोजितः ॥KUMB: १-१२२-२२; NILA: ०१.११३.०२२॥
कृतोद्वाहस्ततः पाण्डुर्बलोत्साहसमन्वितः । जिगीषमाणो वसुधां ययौ शत्रूननेकशः ॥BORI: १-१०५-७॥
मङ्गलाचारयुक्ताभिराशीर्भिरभिनन्दितः । गजवाजिरथौघेन बलेन महताऽगमत् ॥KUMB: १-१२२-२३; NILA: ०१.११३.०२३॥
पूर्वमागस्कृतो गत्वा दशार्णाः समरे जिताः । पाण्डुना नरसिंहेन कौरवाणां यशोभृता ॥BORI: १-१०५-८॥
ततः सेनामुपादाय पाण्डुर्नानाविधध्वजाम् । प्रभूतहस्त्यश्वरथां पदातिगणसङ्कुलाम् ॥BORI: १-१०५-९॥
आगस्कृत्सर्ववीराणां वैरी सर्वमहीभृताम् । गोप्ता मगधराष्ट्रस्य दार्वो राजगृहे हतः ॥BORI: १-१०५-१०॥
ततः कोशं समादाय वाहनानि बलानि च । पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः ॥BORI: १-१०५-११॥
तथा काशिषु सुह्मेषु पुण्ड्रेषु भरतर्षभ । स्वबाहुबलवीर्येण कुरूणामकरोद्यशः ॥BORI: १-१०५-१२॥
तं शरौघमहाज्वालमस्त्रार्चिषमरिंदमम् । पाण्डुपावकमासाद्य व्यदह्यन्त नराधिपाः ॥BORI: १-१०५-१३॥
ते ससेनाः ससेनेन विध्वंसितबला नृपाः । पाण्डुना वशगाः कृत्वा करकर्मसु योजिताः ॥BORI: १-१०५-१४॥
तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः । तमेकं मेनिरे शूरं देवेष्विव पुरंदरम् ॥BORI: १-१०५-१५॥
तं कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः । उपाजग्मुर्धनं गृह्य रत्नानि विविधानि च ॥BORI: १-१०५-१६॥
मणिमुक्ताप्रवालं च सुवर्णं रजतं तथा । गोरत्नान्यश्वरत्नानि रथरत्नानि कुञ्जरान् ॥BORI: १-१०५-१७॥
खरोष्ट्रमहिषांश्चैव यच्च किञ्चिदजाविकम् । तत्सर्वं प्रतिजग्राह राजा नागपुराधिपः ॥BORI: १-१०५-१८॥
तदादाय ययौ पाण्डुः पुनर्मुदितवाहनः । हर्षयिष्यन्स्वराष्ट्राणि पुरं च गजसाह्वयम् ॥BORI: १-१०५-१९॥
शन्तनो राजसिंहस्य भरतस्य च धीमतः । प्रनष्टः कीर्तिजः शब्दः पाण्डुना पुनरुद्धृतः ॥BORI: १-१०५-२०॥
ये पुरा कुरुराष्ट्राणि जह्रुः कुरुधनानि च । ते नागपुरसिंहेन पाण्डुना करदाः कृताः ॥BORI: १-१०५-२१॥
इत्यभाषन्त राजानो राजामात्याश्च सङ्गताः । प्रतीतमनसो हृष्टाः पौरजानपदैः सह ॥BORI: १-१०५-२२॥
प्रत्युद्ययुस्तं सम्प्राप्तं सर्वे भीष्मपुरोगमाः । ते न दूरमिवाध्वानं गत्वा नागपुरालयाः । आवृतं ददृशुर्लोकं हृष्टा बहुविधैर्जनैः ॥BORI: १-१०५-२३॥
सोऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः । यथार्हं मानयामास पौरजानपदानपि ॥BORI: १-१०५-२५॥
प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम् । पुत्रमासाद्य भीष्मस्तु हर्षादश्रूण्यवर्तयत् ॥BORI: १-१०५-२६॥
स तूर्यशतसङ्घानां भेरीणां च महास्वनैः । हर्षयन्सर्वशः पौरान्विवेश गजसाह्वयम् ॥BORI: १-१०५-२७॥
वैशम्पायन उवाच॥
धृतराष्ट्राभ्यनुज्ञातः स्वबाहुविजितं धनम् । भीष्माय सत्यवत्यै च मात्रे चोपजहार सः ॥BORI: १-१०६-१॥
विदुराय च वै पाण्डुः प्रेषयामास तद्धनम् । सुहृदश्चापि धर्मात्मा धनेन समतर्पयत् ॥BORI: १-१०६-२॥
ततः सत्यवतीं भीष्मः कौसल्यां च यशस्विनीम् । शुभैः पाण्डुजितै रत्नैस्तोषयामास भारत ॥BORI: १-१०६-३॥
ननन्द माता कौसल्या तमप्रतिमतेजसम् । जयन्तमिव पौलोमी परिष्वज्य नरर्षभम् ॥BORI: १-१०६-४॥
सम्प्रयुक्तश्च कुन्त्या च माद्र्या च भरतर्षभ । जिततन्द्रीस्तदा पाण्डुर्बभूव वनगोचरः ॥BORI: १-१०६-६॥
हित्वा प्रासादनिलयं शुभानि शयनानि च । अरण्यनित्यः सततं बभूव मृगयापरः ॥BORI: १-१०६-७॥
स चरन्दक्षिणं पार्श्वं रम्यं हिमवतो गिरेः । उवास गिरिपृष्ठेषु महाशालवनेषु च ॥BORI: १-१०६-८॥
वैशम्पायन उवाच॥
राजा पाण्डुर्महारण्ये मृगव्यालनिषेविते । वने मैथुनकालस्थं ददर्श मृगयूथपम् ॥BORI: १-१०९-५॥
ततस्तां च मृगीं तं च रुक्मपुङ्खैः सुपत्रिभिः । निर्बिभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः ॥BORI: १-१०९-६॥
स च राजन्महातेजा ऋषिपुत्रस्तपोधनः । भार्यया सह तेजस्वी मृगरूपेण सङ्गतः ॥BORI: १-१०९-७॥
संसक्तस्तु तया मृग्या मानुषीमीरयन्गिरम् । क्षणेन पतितो भूमौ विललापाकुलेन्द्रियः ॥BORI: १-१०९-८॥
मृग उवाच॥
काममन्युपरीतापि बुद्ध्यङ्गरहितापि च । वर्जयन्ति नृशंसानि पापेष्वभिरता नराः ॥BORI: १-१०९-९॥
न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः । विधिपर्यागतानर्थान्प्रज्ञा न प्रतिपद्यते ॥BORI: १-१०९-१०॥
शश्वद्धर्मात्मनां मुख्ये कुले जातस्य भारत । कामलोभाभिभूतस्य कथं ते चलिता मतिः ॥BORI: १-१०९-११॥
पाण्डुरुवाच॥
शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता । राज्ञां मृग न मां मोहात्त्वं गर्हयितुमर्हसि ॥BORI: १-१०९-१२॥
अच्छद्मनामायया च मृगाणां वध इष्यते । स एव धर्मो राज्ञां तु तद्विद्वान्किं नु गर्हसे ॥BORI: १-१०९-१३॥
अगस्त्यः सत्रमासीनश्चचार मृगयामृषिः । आरण्यान्सर्वदैवत्यान्मृगान्प्रोक्ष्य महावने ॥BORI: १-१०९-१४॥
प्रमाणदृष्टधर्मेण कथमस्मान्विगर्हसे । अगस्त्यस्याभिचारेण युष्माकं वै वपा हुता ॥BORI: १-१०९-१५॥
मृग उवाच॥
न रिपून्वै समुद्दिश्य विमुञ्चन्ति पुरा शरान् । रन्ध्र एषां विशेषेण वधकालः प्रशस्यते ॥BORI: १-१०९-१६॥
पाण्डुरुवाच॥
प्रमत्तमप्रमत्तं वा विवृतं घ्नन्ति चौजसा । उपायैरिषुभिस्तीक्ष्णैः कस्मान्मृग विगर्हसे ॥BORI: १-१०९-१७॥
मृग उवाच॥
नाहं घ्नन्तं मृगान्राजन्विगर्हे आत्मकारणात् । मैथुनं तु प्रतीक्ष्यं मे स्यात्त्वयेहानृशंसतः ॥BORI: १-१०९-१८॥
सर्वभूतहिते काले सर्वभूतेप्सिते तथा । को हि विद्वान्मृगं हन्याच्चरन्तं मैथुनं वने । पुरुषार्थफलं कान्तं यत्त्वया वितथं कृतम् ॥BORI: १-१०९-१९॥
पौरवाणामृषीणां च तेषामक्लिष्टकर्मणाम् । वंशे जातस्य कौरव्य नानुरूपमिदं तव ॥BORI: १-१०९-२०॥
स्त्रीभोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित् । नार्हस्त्वं सुरसङ्काश कर्तुमस्वर्ग्यमीदृशम् ॥BORI: १-१०९-२२॥
त्वया नृशंसकर्तारः पापाचाराश्च मानवाः । निग्राह्याः पार्थिवश्रेष्ठ त्रिवर्गपरिवर्जिताः ॥BORI: १-१०९-२३॥
किं कृतं ते नरश्रेष्ठ निघ्नतो मामनागसम् । मुनिं मूलफलाहारं मृगवेषधरं नृप । वसमानमरण्येषु नित्यं शमपरायणम् ॥BORI: १-१०९-२४॥
त्वयाहं हिंसितो यस्मात्तस्मात्त्वामप्यसंशयम् । द्वयोर्नृशंसकर्तारमवशं काममोहितम् । जीवितान्तकरो भाव एवमेवागमिष्यति ॥BORI: १-१०९-२५॥
अहं हि किंदमो नाम तपसाप्रतिमो मुनिः । व्यपत्रपन्मनुष्याणां मृग्यां मैथुनमाचरम् ॥BORI: १-१०९-२६॥
मृगो भूत्वा मृगैः सार्धं चरामि गहने वने । न तु ते ब्रह्महत्येयं भविष्यत्यविजानतः । मृगरूपधरं हत्वा मामेवं काममोहितम् ॥BORI: १-१०९-२७॥
अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशमेव हि । प्रियया सह संवासं प्राप्य कामविमोहितः । त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि ॥BORI: १-१०९-२८॥
अन्तकाले च संवासं यया गन्तासि कान्तया । प्रेतराजवशं प्राप्तं सर्वभूतदुरत्ययम् । भक्त्या मतिमतां श्रेष्ठ सैव त्वामनुयास्यति ॥BORI: १-१०९-२९॥
वर्तमानः सुखे दुःखं यथाहं प्रापितस्त्वया । तथा सुखं त्वां सम्प्राप्तं दुःखमभ्यागमिष्यति ॥BORI: १-१०९-३०॥
वैशम्पायन उवाच॥
एवमुक्त्वा सुदुःखार्तो जीवितात्स व्ययुज्यत । मृगः पाण्डुश्च शोकार्तः क्षणेन समपद्यत ॥BORI: १-१०९-३१॥
जनमेजय उवाच॥
कथं च शप्तस्य सतः पाण्डोस्तेन महात्मना । समुत्पन्ना दैवतेभ्यः पञ्च पुत्रा महारथाः ॥BORI: १-१०७-५॥