Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.001 Variances
समालोचनात्मकसंस्करणगताः पाठभेदाः
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः । यस्यास्यकमलकोशे वाङ्मयममृतं पिबति लोकः ॥
धर्मदृढबद्धमूलो वेदस्कन्धः पुराणशाखाढ्यः । क्रतुकुसुमो मोक्षफलो जयति कल्पद्रुमो विष्णुः ॥
पितामहाद्यं प्रवदन्ति षष्ठं महर्षिमक्षय्यविभूतियुक्तम् । नारायणस्यांशजमेकपुत्रं द्वैपायनं वेदनिधिं नमामि ॥
पाराशर्यवचस्सरोजममलं गीतार्थगन्धोत्कटं नानाख्यानककेसरं हरिकथासंबोधनाबोधितम् । लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा भूयाद्भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे ॥
यः श्वेतत्वमुपागतः कृतयुगे त्रेतायुगे रक्ततां युग्मे यः कपिलः कलौ च भगवान् कृष्णत्वमायाग [अस्पष्ट]। [अस्पष्ट]दन्ति मुनयो यो योगिभिर्गीयते स ब्रह्मा यदि वा हरो यदि शिवो यः कोऽपि तस्मै नमः ॥
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् । पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥
अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः । अभाललोचनः शम्भुर्भगवान् बादरायणः ॥
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे । नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः ।
साक्षाल्लोकान्पावयमानः कविमुख्यः पाराशर्यः पर्वसु रूपं विवृणोतु ॥
अशुभानि निराचष्टे तनोति शुभसन्ततिम् । स्मृतमात्रेण यः पुंसां ब्रह्म तन्मङ्गलं विदुः ॥
धर्मो विवर्धति युधिष्ठिरकीर्तनेन पापं प्रणश्यति वृकोदरकीर्तनेन ।
शत्रुर्विनश्यति धनञ्जयकीर्तनेन माद्रीसुतौ कथयतां न भवन्ति रोगाः ॥
सरस्वतीपदं वन्दे श्रियः पतिमुमापतिम् । त्विषां पतिं गणपतिं बृहस्पतिमुखानृषीन् ॥
नारायणं सुरगुरुं जगदेकनाथं भक्तप्रियं सकललोकनमस्कृतं च ।
त्रैगुण्यवर्जितमजं विभुमाद्यमीशं वन्दे भवघ्नमसुरासुरसिद्धवन्द्यम् ॥
उवाच तानृषीन् सर्वान् धन्यो वोऽस्म्यद्य दर्शनात् । वेद वैयासिकीः सर्वाः कथा धर्मार्थसंहिताः । वक्ष्यामि वो द्विजश्रेष्ठाः शृण्वन्त्वद्य तपोधनाः । तस्य तद्वचनं श्रुत्वा नैमिषारण्यवासिनः ।
एवं पृष्टोऽब्रवीत्सम्यग्यथावल्लोमहर्षणिः । वाक्यं वचनसंपन्नस्तेषां तु चरिताश्रयम् । तस्मिन्सदसि विस्तीर्णे मुनीनां भावितात्मनाम् ।
श्रुतं मे भारताख्यानं धर्मकामार्थमोक्षदम् । जनमेजयेन पृष्टः सन्वैशंपायन उक्तवान् । ऋषीणामग्रतस्तत्र धर्मिष्ठानां महात्मनाम् । व्यासदेवाज्ञया तत्र यद्वैशंपायनस्तदा । श्रुतं वै भारताख्यानं वेदार्थैश्चोपबृंहितम् । तत्र मे विदितं सर्वं भारताख्यानमादितः ॥
नमो भगवते तस्मै व्यासायामिततेजसे । यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम् । सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम् । न तथा फलदं सूते नारायणकथा यथा । नास्ति नारायणसमं न भूतं न भविष्यति । एतेन सत्यवाक्येन सर्वार्थान्साधयाम्यहम् ॥
पुण्ये हिमवतः पादे मेध्ये गिरिगुहालये । विशोध्य देहं धर्मात्मा दर्भसंस्तरमाश्रितः । शुचिः सनियमो व्यासः शान्तात्मा तपसि स्थितः । भारतस्येतिहासस्य धर्मेणान्वीक्ष्य तां गतिम् । प्रविश्य योगं ज्ञानेन सोऽपश्यत्सर्वमन्ततः ॥
एवं वै संग्रहाध्यायः पूर्वमेव महर्षिणा । क्रमणप्रस्तरैर्युक्तः कथंचिदप्यतीव हि । एतदर्थं च विहितः संग्रहोऽयं यथाश्रुतः । तच्छ्रुत्वा सर्वमाख्यातं लोके ज्ञास्यन्ति मानवाः ॥
इदं शतसहस्राख्यं श्लोकानां पुण्यकर्मणाम् । उपाख्यानैः सह ज्ञेयं श्राव्यं भारतमुत्तमम् ॥
षष्टिं शतसहस्राणि चकारान्यां स संहिताम् । त्रिंशच्छतसहस्रं च देवलोके प्रतिष्ठितम् । पित्र्ये पञ्चदश प्रोक्तं रक्षोयक्षे चतुर्दश । एकं शतसहस्रं तु मानुषेषु प्रतिष्ठितम् ॥
अस्मिंस्तु मानुषे लोके वैशंपायन उक्तवान् । शिष्यो व्यासस्य धर्मात्मा सर्ववेदविदां वरः । एकं शतसहस्रं तु मयोक्तं वै निबोधत ॥
वैशंपायनविप्रर्षिः श्रावयामास पार्थिवम् । पारिक्षितं महाबाहुं नृपं तु जनमेजयम् ॥
ततो धर्मोपनिषदं श्रुत्वा भर्तुः प्रिया पृथा । धर्मानिलेन्द्रांस्ताभिः साजुहाव सुतवाञ्छया । तदस्तोपनिषन्माद्री चाश्विनावाजुहाव च । जाताः पार्थास्ततः सर्वे कुन्त्या माद्र्याश्च मन्त्रतः ॥
तेषु जातेषु सर्वेषु पाण्डवेषु महात्मसु । माद्र्या तु सह संगम्य ऋषिशापप्रभावतः । मृतः पाण्डुर्महापुण्ये शतशृङ्गे महागिरौ ॥
विचित्राणि च वासांसि प्रावारावरणानि च । कम्बलाजिनरत्नानि राङ्कवास्तरणानि च ॥
यदाश्रौषं जातुषाद्वेश्मनस्तान् मुक्तान्पार्थान्पञ्च कुन्त्या समेतान् । युक्तं चैषां विदुरं स्वार्थसिद्ध्यै तदा नाशंसे विजयाय संजय ॥
यदाश्रौषं द्रौपदीं रङ्गमध्ये लक्ष्यं भित्त्वा निर्जितामर्जुनेन । शूरान्पाञ्चालान्पाण्डवेयांश्च युक्तान् तदा नाशंसे विजयाय संजय ॥
यदाश्रौषं मागधानां वरिष्ठं जरासन्धं क्षत्रमध्ये ज्वलन्तम् । दोर्भ्यां हतं भीमसेनेन गत्वा तदा नाशंसे विजयाय संजय ॥
यदाश्रौषं दिग्जये पाण्डुपुत्रैर् वशीकृतान्भूमिपालान्प्रसह्य । महाक्रतुं राजसूयं कृतं च तदा नाशंसे विजयाय संजय ॥
यदाश्रौषं सर्वविश्वस्य सारं श्रिया राज्ञे निर्मितां तां मयेन । गदां चैव भीमसेनाय दत्तां तदा नाशंसे विजयाय संजय ॥
यदाश्रौषं वाससां तत्र राशिं समाक्षिपत्कितवो मन्दबुद्धिः । दुःशासनो गतवान्नैव चान्तं तदा नाशंसे विजयाय संजय ॥
यदाश्रौषं द्रौपदीं तां ब्रुवाणां प्रव्रज्यायामश्रुकण्ठीं रुदन्तीम् । पत्यौ युक्तां नात्र वस्तुं हि धर्मस् तदा नाशंसे विजयाय संजय ॥
यदाश्रौषं वनवासेन पार्थान् समागतान्महर्षिभिः पुराणैः । उपास्यमानान्सगणैर्जातसख्यान् तदा नाशंसे विजयाय संजय ॥
यदाश्रौषं कालकेयास्ततस्ते पौलोमानो वरदानाच्च दृप्ताः । देवैरजेया निर्जिताश्चार्जुनेन तदा नाशंसे विजयाय संजय ॥
यदाश्रौषमसुराणां वधार्थे किरीटिनं यान्तममित्रकर्शनम् । कृतार्थं चाप्यागतं शक्रलोकात् तदा नाशंसे विजयाय संजय ॥
यदाश्रौषं तीर्थयात्राप्रवृत्तं पाण्डोः सुतं सहितं रोमशेन । तस्माच्छ्रुतं चार्जुनस्यास्त्रलाभं तदा नाशंसे विजयाय संजय ॥
यदाश्रौषं द्रौपदीं सैन्धवेन नानीतां मोक्षितां चार्जुनेन । जयद्रथं मोक्षितं जीवशेषं तदा नाशंसे विजयाय संजय ॥
यदाश्रौषं न विदुर्मामकास्तान् प्रच्छन्नरूपान्वसतः पाण्डवेयान् । विराटराष्ट्रे सह कृष्णया च तदा नाशंसे विजयाय संजय ॥
यदाश्रौषं तानथाज्ञातवासे त्वपश्यमानान्विविधैरूपायैः। दक्षान्पार्थान्मे सुतैरग्निकल्पांस्तदा नाशंसे विजयाय संजय ॥
यदाश्रौषं कीचकानां वरिष्ठं निषूदितं भ्रातृशतेन सार्धम् । द्रौपद्यर्थे भीमसेनेन सङ्ख्ये तदा नाशंसे विजयाय संजय ॥
यदाश्रौषं वसतः पाण्डुपुत्रान् अदृश्यमानान्विविधैरुपायैः । दक्षान्पार्थान्भीमसेनेन संख्ये तदा नाशंसे विजयाय संजय ॥
यदाश्रौषं भीमसेनेन पीतं रक्तं भ्रातुर्युधि दुःशासनस्य । निवारितं नान्यतमेन भीमं तदा नाशंसे विजयाय संजय ॥
यदाश्रौषं भीमकर्माणमुग्रं रणे भीमं शोणितं पीतवन्तम् । भित्त्वा वक्षो युवराजस्य सूत तदा नाशंसे विजयाय संजय ॥
सञ्जीवयामीति हरेः प्रतिज्ञां तदा नाशंसे विजयाय संजय ॥
बुद्ध्वा चाहं बुद्धिहीनोऽद्य सूत संतप्येऽहं पुत्रपौत्रैश्च हीनः । सञ्चिन्तयन्नध्य विहीनबुद्धिः कर्तव्यतां नाभिजानामि सूत ॥
कालाभिपन्ना समितिर्महात्मनां निषूदिता हेतुरासीत्सुतो मे​ ।
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ।
संजय उवाच ।
अतीतानागतत्वं च वर्तमानेऽस्त्यथा बुधाः । नानुशोचन्ति राजेन्द्र कालो हि जगदन्तकः ॥
एवमुक्त्वा च राजानं संजयो विरराम ह । धृतराष्ट्रोऽपि तच्छ्रुत्वा धृतिमेव समाश्रयत् । द्वैपायनमतमिति मत्वा स प्राज्ञसत्तमः ॥
भारतं भानुमानिन्दुर्न यदि न स्युरमी त्रयः । अज्ञानतिमिरान्धस्य कावस्था जगतो भवेत् ॥
मतिमन्थानमाविध्य येन वेदमहार्णवात् । जगद्धिताय जनितो महाभारतचन्द्रमाः ॥
चतुर्भ्यः सरहस्येभ्यो वेदेभ्यो ह्यधिकं यदा । तदा प्रभृति लोकेऽस्मिन् महाभारतमुच्यते ।
कुम्भघोणसंस्करणे अतिरिक्तश्लोकाः:
नारायणं सुरगुरुं जगदेकनाथं' भक्तप्रियं सकललोकनमस्कृतं च। त्रैगुण्यवर्जितमजं विभुमाद्यमीशं वन्दे भवघ्नममरासुरसिद्धवन्द्यम्'॥ १-१-२
नमो धर्माय महते नमः कृष्णाय वेधसे। ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान्'॥ १-१-३
वेद वैयासिकीः सर्वाः कथा धर्मार्यैसंहिताः। वक्ष्यामि वो द्विजश्रेष्ठाः शृण्वन्त्वद्य तपोधनाः १-१-८
एवं पृष्टोऽब्रवीत्सम्यग्यथावद्रौमहर्षणिः। वाक्यं वचनसंपन्नस्तेषां च चरिताश्रयम्॥ १-१-१४
तस्मिन्सदसि विस्तीर्णे मुनीनां भावितात्मनाम्। १-१-१५
नमो भगवते तस्मै व्यासायामिततेजसे। यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम्॥ १-१-३२
सर्वाश्रमाभिशमनं सर्वतीर्थावगाहनम्। न तथा फलद सूते नारायणकथा यथा॥ १-१-३३
नास्ति नारायणसमं न भूतं न भविष्यति। एतेन सत्यवाक्येन सर्वार्थान्साधयाम्यहम्'॥ १-१-३४
पुण्ये हिमवतः पादे मेध्ये गिरिगुहालये। विशोध्य देहं धर्मात्मा दर्भसंस्तरमाश्रितः॥ १-१-३९
शुचिः सनियमो व्यासः शान्तात्मातपसि स्थितः भारतस्येतिहासस्य धर्मेणान्वीक्ष्य तां गतिम्॥ १-१-४०
प्रविश्य योगं ज्ञानेन सोऽपश्यत्सर्वमन्ततः॥ १-१-४१
इदं शतसहस्रं तु श्लोकानां पुण्यकर्मणाम्। उपाख्यानैः सह ज्ञेयं श्राव्यं भारतमुत्तमम्॥ १-१-७७
तस्याख्यानवरिष्ठस्य कृत्वा द्वैपायनः प्रभुः। कथमध्यापयानीह शिष्यानित्यन्वचिन्तयत्॥ १-१-८०
तस्य तच्चिन्तितं ज्ञात्वा ऋषेर्द्वैपायनस्य च। तत्राजगाम भगवान्ब्रह्मा लोकगुरुः स्वयम्॥ १-१-८१
प्रीत्यर्थं तस्य चैवर्षेर्लोकानां हितकाम्यया। तं दृष्ट्वा विस्मितो भूत्वा प्राञ्जलिः प्रणतः स्थितः॥ १-१-८२
आसनं कल्पयामास सर्वैर्मुनिगणैर्वृतः॥ १-१-८३
हिरण्यमर्भमासीनं तस्मिंस्तु परमासने। परिवृत्यासनभ्याशे वासवेयः स्थितोऽभवत्॥ १-१-८४
अनुज्ञातोऽथ कृष्णस्तु ब्रह्मणा परमेष्ठिना। निषसादासनाभ्याशे प्रीयमाणः शुचिस्मितः॥ १-१-८५
उवाच स महातेजा ब्रह्माणं परमेष्ठिनम्। कृतं मयेदं भगवन्काव्यं परमपूजितम्॥ १-१-८६
ब्रह्मन्वेदरहस्य च यच्चान्यत्स्थापितं मया। साङ्गोपनिषदां चैव वेदानां विस्तरक्रिया॥ १-१-८७
इतिहासपुरापानामुन्मेषं निमिषं च यत्। भूतं भव्यं भविष्यच्च त्रिविधं कालसंज्ञितम्॥ १-१-८८
जरामृत्युभयव्याधिभावाभावविनिश्चयः। विविधस्य च धर्मस्य ह्याश्रमाणां च लक्षणम्॥ १-१-८९
चातुर्वर्ण्यविधानं च पुराणानां च कृत्स्नशः। तपसो ब्रह्मचर्यस्य पृथिव्याश्चन्द्रसूर्ययोः॥ १-१-९०
ग्रहनक्षत्रताराणां प्रमाणं च युगैः सह। ऋचो यजूषि सामानि वेदाध्यात्मं तथैव च॥ १-१-९१
न्यायशिक्षा चिकित्सा च दानं पाशुपतं तथा। इति नैकाश्रयं जन्म दिव्यमानुषसंज्ञितम्॥ १-१-९२
तीर्थानां चैव पुण्यानां देशानां चैव कीर्तनम्। नदीनां पर्वतानां च वनानां सागरस्य च॥ १-१-९३
पुराणां चैव दिव्यानां कल्पानां युद्धकौशलम्। वाक्यजातिविशेषाश्च लोकयात्राक्रमश्च यः॥ १-१-९४
यच्चापि सर्वगं वस्तु तच्चैव प्रतिपादितम्। परं न लेखकः कश्चिदेतस्य भुवि विद्यते॥ १-१-९५
ब्रह्मोवाच। १-१-९६x
तपोविशिष्टदपि वै वसिष्ठान्मुनिपुंगवात्। मन्ये श्रेष्ठव्यं त्वां वै रहस्यज्ञानवेदनात्॥ १-१-९६
जन्मप्रभृति सत्यां ते वेद्मि गां ब्रह्मवादिनीम्। त्वयाच काव्यमित्युक्तं तस्मात्काव्यं भविष्यति॥ १-१-९७
अस्य काव्यस्य कवयो न समर्था विशेषणे। विशेषणे गृहस्थस्य शेषास्त्रय इवाश्रमाः॥ १-१-९८
जडान्धबधिरोन्मत्तं तमोभूतं जगद्भवेत्। यदि ज्ञानहुताशेन त्वया नोज्ज्वलियं भवेत्॥ १-१-९९
तमसान्धस्य लोकस्य वेष्टितस्य स्वकर्मभिः। ज्ञानाञ्जनशलाकाभिर्बुद्धिनेत्रोत्सवः कृतः'॥ १-१-१००
धर्मार्थकाममोक्षार्थैः समासव्यासकीर्तनैः। त्वया भारतसूर्येण नृणां विनिहतं तमः॥ १-१-१०१
पुराणपूर्णचन्द्रेण श्रुतिज्योत्स्नाप्रकाशिना। नृणां कुमुदसौम्यानां कृतं बुद्धिप्रसादनम्॥ १-१-१०२
इतिहासप्रदीपेन मोहावरणघातिना। लोकगर्भगृहं कृत्स्नं यथावत्संप्रकाशितम्॥ १-१-१०३
संग्रहाध्यायबीजो वै पौलोमास्तीकमूलवान्। संभवस्कन्धविस्तारः सभापर्वविटङ्कवान्॥ १-१-१०४
आरण्यपर्वरूपाढ्यो विराटोद्योगसारवान्। भीष्मपर्वमहाशाखो द्रोणपर्वपलाशवान्॥ १-१-१०५
कर्णपर्वसितैः पुष्पैः शल्यपर्वसुगन्धिभिः। स्त्रीपर्वैषीकविश्रामः शान्तिपर्वमहाफलः॥ १-१-१०६
अश्वमेधामृतसस्त्वाश्रमस्थानसंश्रयः। मौसलश्रुतिसंक्षेपः शिष्टद्विजनिषेवितः॥ १-१-१०७
सर्वेषां कविमुख्यानामुपजीव्यो भविष्यति। पर्जन्यइव भूतानामक्षयो भारद्रुमः॥ १-१-१०८
काव्यस्य लेखनार्थाय गणेशः स्मर्यतां मुने। १-१-१०९
सौतिरुवाच। १-१-११०x
एवमाभाष्य तं ब्रह्मा जगाम स्वं निवेशनम्। भगवान्स जगत्स्रष्टा ऋषिदेवगणैः सह॥ १-१-११०
ततः सस्मार हेरम्बं व्यासः सत्यवतीसुतः॥ १-१-१११
स्मृतमात्रो गणेशानो भक्तचिन्तितपूरकः। तत्राजगाम विघ्नेशो वेदव्यासो यतः स्थितः॥ १-१-११२
पूजितश्चोपविष्टश्च व्यासेनोक्तस्तदानघ। लेखको भारतस्यास्य भव त्वं गणनायक॥
मयैव प्रोच्यमानस्य मनसा कल्पितस्य च॥ १-१-११३
श्रुत्वैतत्प्राह विघ्नेशो यदि मे लेखनी क्षणम्। लिखतो नावतिष्ठेत तदा स्यां लेखको ह्यहम्॥ १-१-११४
व्यासोऽप्युवाच तं देवमबुद्ध्वा मा लिख क्वचित्। ओमित्युक्त्वा गणेशोपि बभूव किल लेखकः॥ १-१-११५
ग्रन्थग्रन्थिं तदा चक्रे मुनिर्गूढं कुतूहलात्। यस्मिन्प्रतिज्ञया प्राह मुनिर्द्वैपायनस्त्विदम्॥ १-१-११६
अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च। अहं वेद्मि शुको वेत्ति संजयो वेत्ति वा न वा॥ १-१-११७
तच्छ्लोककूटमद्यापि ग्रथितं सुदृढं मुने। भेत्तुं न शक्यतेऽर्थस्यं गूढत्वात्प्रश्रितस्य च॥ १-१-११८
सर्वज्ञोपि गणेशो यत्क्षणमास्ते विचारयन्। तावच्चकार व्यासोपि श्लोकानन्यान्बहूनपि॥ १-१-११९
तस्य वृक्षस्य वक्ष्यामि शाखापुष्पफलोदयम्। स्वादुमेध्यरसोपेतमच्छेद्यममरैरपि॥ १-१-१२०
पित्र्ये पञ्चदश प्रोक्तं रक्षोयक्षे चतुर्दश। एकं शतसहस्रं तु मानुषेषु प्रतिष्ठितम्॥ १-१-१२३
वैशम्पायनविप्रर्षिः श्रावयामास पार्थिवम्। पारिक्षितं महात्मानं नाम्ना तु जनमेजयम्'॥ १-१-१२५
अस्मिंस्तु मानुषे लोके वैशम्पायन उक्तवान्। शिष्यो व्यासस्य धर्मात्मा सर्ववेदविदां वरः॥ १-१-१२६
एकं शतसहस्रं तु मयोक्तं वै निबोधत॥ १-१-१२७
युधिष्ठिरे धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः। माद्रीसुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च॥ १-१-१२९
पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च। अरण्ये मृगयाशीलो न्यवसत्सजनस्तथा॥ १-१-१३०
मृगव्यवायनिधनात्कृच्छ्रां प्राप स आपदम्। जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः॥ १-१-१३१
ततो धर्मोपनिषदं भूत्वा भर्तुः प्रिया पृथा। धर्मानिलेन्द्रांस्ताभिः साऽऽजुहाव सुतवाञ्छया॥ १-१-१३३
माद्र्या तु सह संगम्य ऋषिशापप्रभावतः। मृतः पाण्डुर्महापुण्ये शतशृङ्गे महागिरौ॥' १-१-१३६
विचित्राणि च वासांसि प्रावारावरणानि च। कम्बलाजिनरत्नानि राङ्कवास्तरणानि च॥ १-१-१५४
यदाऽश्रौषं जातुषाद्वेश्मनस्ता- न्मुक्तान्पार्थान्पञ्च कुन्त्या समेतान्। युक्तं चैषां विदुरं स्वार्थसिद्ध्यै तदा नाशंसे विजयाय संजय॥ १-१-१७४
यदाऽश्रौषं द्रौपदीं रङ्गमध्ये लक्ष्यं भित्त्वा निर्जितामर्जुनेन। शूरान्पञ्चालान्पाण्डवेयांश्च युक्तां-स्तदा नाशंसे विजयाय संजय॥ १-१-१७५
यदाऽश्रौषं मागधानां वरिष्ठं जरासन्धं क्ष्वमध्ये ज्वलन्तम्। दोर्भ्यां हतं भीमसेनेन गत्वा तदा नाशंसे विजयाय संजय॥ १-१-१७६
यदाऽश्रौषं दिग्जये पाण्डुपुत्रै- र्वशीकृतान्भूमिपालान्प्रसह्य। महाक्रतुं राजसूयं कृतं च तदा नाशंसे विजयाय संजय॥ १-१-१७७
यदाऽश्रौषं वाससां तत्र राशिं समाक्षिपत्कितवो मन्दबुद्धिः। दुःशासनो गतवान्नैवं चान्तं तदा नाशंसे विजयाय संजय॥ १-१-१७९
यदाश्रौषं त्रिदिवस्थं धनंजयं शक्रात्साक्षाद्दिव्यमस्त्रं यथावत्। अधीयानं शंसितं सत्यसन्धं तदा नाशंसे विजयाय संजय॥ १-१-१८५
यदाऽश्रौषमसुराणां वधार्थे किरीटिनं यान्तममित्रकर्शनम्। कृतार्थं चाप्यागतं शक्रलोका- त्तदा नाशंसे विजयाय संजय॥ १-१-१८७
यदाऽश्रौषं तीर्थयात्राप्रवृत्तं पाण्डोः सुतं सहितं लोमशेन। बृहदश्वादक्षहृदयं च प्राप्तं तदा नाशंसे विजयाय संजय॥' १-१-१८८
यदाऽश्रौषं वैश्रवणेन सार्धं समागतं भीमन्यांश्च पार्थान्। तस्मिन्देशे मानुषाणामगम्ये तदा नाशंसि विजयाय संजया॥ १-१-१८९
यदाऽश्रौषं कीचकानां वरिष्ठं निषूदितं भ्रातृशतेन सार्धम्। द्रौपद्यर्थे भीमसेनेन सङ्ख्ये तदा नाशंसे विजयाय संजय॥' १-१-१९३
यदाऽश्रौषं मामकानां वरिष्ठा- न्धनंजयेनैकरथेन भग्नान्। विराटराष्ट्रे वसता महात्मना तदा नाशंसे विजयाय संजय॥ १-१-१९४
यदाऽश्रौषं कर्णदुर्योधनाभ्यां बुद्धिं कृतां निग्रहे केशवस्य। तं चात्मानं बहुधा दर्शयानं तदा नाशंसे विजयाय संजय॥ १-१-२००
यदाऽश्रौषं भीष्ममत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम्। शिखण्डिनं पुरतः स्थापयित्वा तदा नाशंसे विजयाय संजय॥ १-१-२०८
यदाऽश्रौषं कर्णमत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम्। तस्मिन्भ्रातृणां विग्रहे देवगुह्ये तदा नाशंसे विजयाय संजय॥ १-१-२२९
धृतराष्ट्रोऽपि तच्छ्रुत्वा धृतिमेव समाश्रयत्। दिष्ट्येदमागतमिति मत्त्वा स प्राज्ञसत्तमः॥ १-१-२७८
लोकानां च हितार्थाय कारुण्यान्मुनिसत्तमः। अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत्॥ १-१-२७९
कुम्भघोणसंस्करणे पाठान्तरश्लोकाः
तमाश्रममनुप्राप्य नैमिशारण्यवासिनः। `उवाच तानृषीन्सर्वान्धन्यो वोऽस्म्यद्यदर्शनात् १-१-७
तस्य तद्वचनं श्रुत्वा नैमिशारण्यवासिनः। चित्रा श्रोतुं कथास्तत्र परिव्रुस्तपस्विनः॥ १-१-९
नीतिर्भरतवंशस्य विस्तारश्चैव सर्वशः। इतिहासाः सहव्याख्या विविधाश्रुतयोऽपि च॥ १-१-६३
इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम्। `संक्षेपेणेतिहासस्य ततो वक्ष्यति विस्तरम्॥' १-१-६४
ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभु षष्टिं शतसहस्राणि चकारान्यां स संहिताम्। त्रिंशच्छतसहस्रं च देवलोके प्रतिष्ठितम्॥ १-१-१२२
तद्दत्तोपनिषन्माद्री चाश्विनावाजुहाव च। जाताः पार्थास्ततः सर्वे कुन्त्या माद्र्याश्च मन्त्रतः।' तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः॥ १-१-१३४
द्वैपायनः केशवो द्रोणपुत्रं परस्पेरणाभिशापैः शशाप। बुद्ध्वा चाहं बुद्धिहीनोऽद्य सूत संतप्ये वै पुत्रपौत्रैश्च हीनः॥ १-१-२४०
शोच्या गान्धारी पुत्रपौत्रैर्विहीना तथा वध्वा पितृभिर्भ्रातृभिश्च। कृतं कार्यं दुष्करं पाण्डवेयैः प्राप्तं राज्यमसपत्नं पुनस्तैः॥ १-१-२४१
गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत्। १-१-२४७
ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम्। `चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा॥ १-१-२५४
अतीतानागता भावा ये च वर्तन्ति सांप्रतम्। तान्कालनिर्मितान्बुद्ध्वा न संज्ञां हातुमर्हसि॥ १-१-२७६
विद्वद्भिः कथ्यते लोके पुराणे कविसत्तमैः। भारताध्ययनं पुण्यमपि पादमधीयतः। श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः॥ १-१-२८०
आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा। ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम्॥ १-१-२९१
पुरा किल सुरैः सर्वैः समेत्य तुलया धृतम्। चतुर्भ्यः सरहस्येभ्यो वेदेभ्यो ह्यधिकं यदा॥ १-१-२९८
तदाप्रभृति लोकेऽस्मिन्महाभारतमुच्यते। महत्त्वे च गुरुत्वे च ध्रियमाणं यतोऽधिकम्॥ १-१-२९९
एम्. एन्. दत्त-संस्करणस्य अतिरिक्तांशाः
एवं पृष्टोऽब्रवीत्सम्यग्यथावद्रौमहर्षणिः। वाक्यं वचनसंपन्नस्तेषां च चरिताश्रयम्॥ ८॥
कथमध्यापयानीह शिष्यानित्यन्वचिन्तयत्। तस्य तच्चिन्तितं ज्ञात्वा ऋषेर्द्वैपायनस्य च॥ ५६॥
तत्राजगाम भगवान्ब्रह्मा लोकगुरुः स्वयम्। प्रीत्यर्थं तस्य चैवर्षेर्लोकानां हितकाम्यया॥ ५७॥
तं दृष्ट्वा विस्मितो भूत्वा प्राञ्जलिः प्रणतः स्थितः। आसनं कल्पयामास सर्वैर्मुनिगणैर्वृतः॥ ५८॥
हिरण्यमर्भमासीनं तस्मिंस्तु परमासने। परिवृत्यासनभ्याशे वासवेयः स्थितोऽभवत्॥ ५९॥
अनुज्ञातोऽथ कृष्णस्तु ब्रह्मणा परमेष्ठिना। निषसादासनाभ्याशे प्रीयमाणः शुचिस्मितः॥ ६०॥
उवाच स महातेजा ब्रह्माणं परमेष्ठिनम्। कृतं मयेदं भगवन्काव्यं परमपूजितम्॥ ६१॥
ब्रह्मन्वेदरहस्य च यच्चान्यत्स्थापितं मया। साङ्गोपनिषदां चैव वेदानां विस्तरक्रिया॥ ६२॥
इतिहासपुरापानामुन्मेषं निमिषं च यत्। भूतं भव्यं भविष्यच्च त्रिविधं कालसंज्ञितम्॥ ६३॥
जरामृत्युभयव्याधिभावाभावविनिश्चयः। विविधस्य च धर्मस्य ह्याश्रमाणां च लक्षणम्॥ ६४॥
चातुर्वर्ण्यविधानं च पुराणानां च कृत्स्नशः। तपसो ब्रह्मचर्यस्य पृथिव्याश्चन्द्रसूर्ययोः॥ ६५॥
ग्रहनक्षत्रताराणां प्रमाणं च युगैः सह। ऋचो यजूषि सामानि वेदाध्यात्मं तथैव च॥ ६६॥
न्यायशिक्षा चिकित्सा च दानं पाशुपतं तथा। हेतुनैव समं जन्म दिव्यमानुषसंज्ञितम्॥ ६७॥
तीर्थानां चैव पुण्यानां देशानां चैव कीर्तनम्। नदीनां पर्वतानां च वनानां सागरस्य च॥ ६८॥
पुराणां चैव दिव्यानां कल्पानां युद्धकौशलम्। वाक्यजातिविशेषाश्च लोकयात्राक्रमश्च यः॥ ६९॥
यच्चापि सर्वगं वस्तु तच्चैव प्रतिपादितम्। परं न लेखकः कश्चिदेतस्य भुवि विद्यते॥ ७०॥
तपोविशिष्टादपि वै विशिष्टान्मुनिसञ्चयात्। मन्ये श्रेष्ठतरं त्वां वै रहस्यज्ञानवेदनात्॥ ७१॥
जन्मप्रभृति सत्यां ते वेद्मि गां ब्रह्मवादिनीम्। त्वयाच काव्यमित्युक्तं तस्मात्काव्यं भविष्यति॥ ७२॥
अस्य काव्यस्य कवयो न समर्था विशेषणे। विशेषणे गृहस्थस्य शेषास्त्रय इवाश्रमाः॥ ७३॥
काव्यस्य लेखनार्थाय गणेशः स्मर्यतां मुने। एवमाभाष्य तं ब्रह्मा जगाम स्वं निवेशनम्॥ ७४॥
ततः सस्मार हेरम्बं व्यासः सत्यवतीसुतः। स्मृतमात्रो गणेशानो भक्तचिन्तितपूरकः॥ ७५॥
तत्राजगाम विघ्नेशो वेदव्यासो यतः स्थितः। पूजितश्चोपविष्टश्च व्यासेनोक्तस्तदाऽनघ॥ ७६॥
लेखको भारतस्यास्य भव त्वं गणनायक। मयैव प्रोच्यमानस्य मनसा कल्पितस्य च॥ ७७॥
श्रुत्वैतत्प्राह विघ्नेशो यदि मे लेखनी क्षणम्। लिखतो नावतिष्ठेत तदा स्यां लेखको ह्यहम्॥ ७८॥
व्यासोऽप्युवाच तं देवमबुद्ध्वा मा लिख क्वचित्। ओमित्युक्त्वा गणेशोपि बभूव किल लेखकः॥ ७९॥
ग्रन्थग्रन्थिं तदा चक्रे मुनिर्गूढं कुतूहलात्। यस्मिन्प्रतिज्ञया प्राह मुनिर्द्वैपायनस्त्विदम्॥ ८०॥
अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च। अहं वेद्मि शुको वेत्ति संजयो वेत्ति वा न वा॥ ८१॥
तच्छ्लोककूटमद्यापि ग्रथितं सुदृढं मुने। भेत्तुं न शक्यतेऽर्थस्यं गूढत्वात्प्रश्रितस्य च॥ ८२॥
सर्वज्ञोऽपि गणेशो यत्क्षणमास्ते विचारयन्। तावच्चकार व्यासोऽपि श्लोकानन्यान्बहूनपि॥ ८३॥
अज्ञानतिमिरान्धस्य लोकस्य तु विचेष्टतः। ज्ञानाञ्जनशलाकाभिर्नेत्रोन्मीलनकारकम्॥ ८४॥
धर्मार्थकाममोक्षार्थैः समासव्यासकीर्तनैः। त्वया भारतसूर्येण नृणां विनिहतं तमः॥ ८५॥
पुराणपूर्णचन्द्रेण श्रुतिज्योत्स्नाः प्रकाशिताः। नृबुद्धिकैरवाणां च कृतमेतत्प्रकाशनम्॥ ८६॥
इतिहासप्रदीपेन मोहावरणघातिना। लोकगर्भगृहं कृत्स्नं यथावत्संप्रकाशितम्॥ ८७॥
संग्रहाध्यायबीजो वै पौलोमास्तीकमूलवान्। संभवस्कन्धविस्तारः सभापर्वविटङ्कवान्॥ ८८॥
आरण्यपर्वरूपाढ्यो विराटोद्योगसारवान्। भीष्मपर्वमहाशाखो द्रोणपर्वपलाशवान्॥ ८९॥
कर्णपर्वसितैः पुष्पैः शल्यपर्वसुगन्धिभिः। स्त्रीपर्वैषीकविश्रामः शान्तिपर्वमहाफलः॥ ९०॥
अश्वमेधामृतसस्त्वाश्रमस्थानसंश्रयः। मौसलश्रुतिसंक्षेपः शिष्टद्विजनिषेवितः॥ ९१॥
सर्वेषां कविमुख्यानामुपजीव्यो भविष्यति। पर्जन्यइव भूतानामक्षयो भारद्रुमः॥ ९२॥
तस्य वृक्षस्य वक्ष्यामि शाश्वत्पुष्पफलोदयम्। स्वादुमेध्यरसोपेतमच्छेद्यममरैरपि॥ ९३॥
त्रिंशच्छतसहस्रं च देवलोके प्रतिष्ठितम्। पित्र्ये पञ्चदश प्रोक्तं गन्धर्वेषु चतुर्दशः॥ १०५॥
युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः। माद्रीसुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च॥ १०९॥
पाण्डुर्जित्वा बहून्देशान् बुद्ध्या विक्रमणेन च। अरण्ये मृगयाशीलो न्यवसन्मुनिभिः सह॥ ११०॥
मृगव्यवायनिधनात्कृच्छ्रां प्राप स आपदम्। जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः॥ १११॥
विचित्राणि च वासांसि प्रावारावरणानि च। कम्बलाजिनरत्नानि राङ्कवास्तरणानि च॥ १३१॥
यदाऽश्रौषं जातुषाद्वेश्मनस्तान्मुक्तान्पार्थान्पञ्च कुन्त्या समेतान्। युक्तं चैषां विदुरं स्वार्थसिद्ध्यै तदा नाशंसे विजयाय संजय॥ १५१॥
यदाऽश्रौषं द्रौपदीं रङ्गमध्ये लक्ष्यं भित्त्वा निर्जितामर्जुनेन। शूरान्पञ्चालान्पाण्डवेयांश्च युक्तांस्तदा नाशंसे विजयाय संजय॥ १५२॥
यदाऽश्रौषं मागधानां वरिष्ठं जरासन्धं क्ष्वध्ये ज्वलन्तम्। दोर्भ्यां हतं भीमसेनेन गत्वा तदा नाशंसे विजयाय संजय॥ १५३॥
यदाऽश्रौषं दिग्जये पाण्डुपुत्रैर्वशीकृतान्भूमिपालान्प्रसह्य। महाक्रतुं राजसूयं कृतं च तदा नाशंसे विजयाय संजय॥ १५४॥
यदाऽश्रौषं वाससां तत्र राशिं समाक्षिपत्कितवो मन्दबुद्धिः। दुःशासनो गतवान्नैवं चान्तं तदा नाशंसे विजयाय संजय॥ १५६॥
यदाऽश्रोषं कालकेयास्ततस्ते पौलोमानो वरदानाच्च दृप्ताः। देवैरजेया निर्जिताश्चार्जुनेन तदा नाशंसे विजयाय संजय॥ १६२॥
यदाऽश्रौषमसुराणां वधार्थे किरीटिनं यान्तममित्रकर्शनम्। कृतार्थं चाप्यागतं शक्रलोकात्तदा नाशंसे विजयाय संजय॥ १६३॥
यदाऽश्रौषं न विदुर्मामकास्तान् प्रच्छन्नरूपान्वसतः पाण्डवेयान्। विराटराष्ट्रे सह कृष्णया च तदा नाशंसे विजयाय संजय॥ १६७॥
यदाऽश्रौषं लोकहिताय कृष्णं शमार्थिनमुपयातं कुरूणाम्। शमं कुर्वाणमकृतार्थं च यातं तदा नाशंसे विजयाय संजय॥ १७३॥
यदाऽश्रौषं चापगेयेन सङ्ख्ये स्वयं मृत्युं विहितं धार्मिकेण। तच्चाकार्षुः पाण्डवेयाः प्रहृष्टास्तदा नाशंसे विजयाय संजय॥ १८१॥
यदाऽश्रौषं भीमसेनेन पीतं रक्तं भ्रातुर्युधि दुःशासनस्य। निवारितं नान्यतमेन भीमं तदा नाशंसे विजयाय संजय॥ २०२॥
इत्येवं पुत्रशोकार्तं धृतराष्ट्रं जनेश्वरम्। आश्वास्य स्वस्थमकरोत्सूतो गावल्गणिस्तदा॥ २५०॥
एम्. एन्. दत्त-संस्करणस्य पाठभेदाः
पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः। तदाख्यानवरिष्ठं स कृत्वा द्वैपायनः प्रभुः॥ ५५॥
क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत्। वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम्। दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः। इदं शतसहस्रं तु श्लोकानां पुण्यकर्मणाम्॥ १००॥
उपाख्यानैः सह ज्ञेयमाद्यं भारतमुत्तमम्। चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम्॥ १०१॥
ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ विभुः। षष्टिं शतसहस्राणि चकारान्यां स संहिताम्॥ १०४॥
एकं शतसहस्रं तु मानुषेषु प्रतिष्ठितम्। नारदोऽश्रावयद्देवानसितो देवलः पितॄन्॥ १०६॥
गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः। अस्मिंस्तु मानुषे लोके वैशम्पायन उक्तवान्। शिष्यो व्यासस्य धर्मात्मा सर्ववेदविदां वरः। एकं शतसहस्रं तु मयोक्तं वै निबोधत॥ १०७॥
तं तथा वादिनं दीनं विलपन्तं महीपतिम्। निःश्वसन्तं यथा नागं मुह्यमानं पुनः पुनः॥ २१९॥
रामं दाशरथिं चैव शशबिन्दुं भगीरथम्। कृतवीर्यं महाभागं तथैव जनमेजयम्॥ २२६॥
आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा। ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम्॥ २६३॥
पुरा किल सुरैः सर्वैः समेत्य तुलया धृतम्। चतुर्भ्यः सरहस्येभ्यो वेदेभ्यो ह्यधिकं यदा॥ २७०॥
तदाप्रभृति लोकेऽस्मिन्महाभारतमुच्यते। महत्त्वे च गुरुत्वे च ध्रियमाणं यतोऽधिकम्॥ २७०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.