01.002
Library:The elaborate index of Mahabharata.
ऋषय ऊचुः॥
समन्तपञ्चकमिति यदुक्तं सूतनन्दन । एतत्सर्वं यथान्यायं श्रोतुमिच्छामहे वयम् ॥१-००२-१॥
सूत उवाच॥
शुश्रूषा यदि वो विप्रा ब्रुवतश्च कथाः शुभाः । समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः ॥१-००२-२॥
त्रेताद्वापरयोः सन्धौ रामः शस्त्रभृतां वरः । असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः ॥१-००२-३॥
स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः । समन्तपञ्चके पञ्च चकार रुधिरह्रदान् ॥१-००२-४॥
स तेषु रुधिराम्भस्सु ह्रदेषु क्रोधमूर्च्छितः । पितृन्सन्तर्पयामास रुधिरेणेति नः श्रुतम् ॥१-००२-५॥
अथर्चीकादयोऽभ्येत्य पितरो ब्राह्मणर्षभम् । तं क्षमस्वेति सिषिधुस्ततः स विरराम ह ॥१-००२-६॥
तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम् । समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम् ॥१-००२-७॥
येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते । तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः ॥१-००२-८॥
अन्तरे चैव सम्प्राप्ते कलिद्वापरयोरभूत् । समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः ॥१-००२-९॥
तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते । अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया ॥१-००२-१०॥
एवं नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः । पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः ॥१-००२-११॥
तदेतत्कथितं सर्वं मया वो मुनिसत्तमाः । यथा देशः स विख्यातस्त्रिषु लोकेषु विश्रुतः ॥१-००२-१२॥
ऋषय ऊचुः॥
अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन । एतदिच्छामहे श्रोतुं सर्वमेव यथातथम् ॥१-००२-१३॥
अक्षौहिण्याः परीमाणं रथाश्वनरदन्तिनाम् । यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव ॥१-००२-१४॥
सूत उवाच॥
एको रथो गजश्चैको नराः पञ्च पदातयः । त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते ॥१-००२-१५॥
पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः । त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते ॥१-००२-१६॥
त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः । स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः ॥१-००२-१७॥
चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनी । अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः ॥१-००२-१८॥
अक्षौहिण्याः प्रसङ्ख्यानं रथानां द्विजसत्तमाः । सङ्ख्यागणिततत्त्वज्ञैः सहस्राण्येकविंशतिः ॥१-००२-१९॥
शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः । गजानां तु परीमाणमेतदेवात्र निर्दिशेत् ॥१-००२-२०॥
ज्ञेयं शतसहस्रं तु सहस्राणि तथा नव । नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः ॥१-००२-२१॥
पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च । दशोत्तराणि षट्प्राहुर्यथावदिह सङ्ख्यया ॥१-००२-२२॥
एतामक्षौहिणीं प्राहुः सङ्ख्यातत्त्वविदो जनाः । यां वः कथितवानस्मि विस्तरेण द्विजोत्तमाः ॥१-००२-२३॥
एतया सङ्ख्यया ह्यासन्कुरुपाण्डवसेनयोः । अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डेनाष्टादशैव ताः ॥१-००२-२४॥
समेतास्तत्र वै देशे तत्रैव निधनं गताः । कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा ॥१-००२-२५॥
अहानि युयुधे भीष्मो दशैव परमास्त्रवित् । अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम् ॥१-००२-२६॥
अहनी युयुधे द्वे तु कर्णः परबलार्दनः । शल्योऽर्धदिवसं त्वासीद्गदायुद्धमतः परम् ॥१-००२-२७॥
तस्यैव तु दिनस्यान्ते हार्दिक्यद्रौणिगौतमाः । प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम् ॥१-००२-२८॥
यत्तु शौनकसत्रे ते भारताख्यानविस्तरम् । आख्यास्ये तत्र पौलोममाख्यानं चादितः परम् ॥१-००२-२९॥
विचित्रार्थपदाख्यानमनेकसमयान्वितम् । अभिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः ॥१-००२-३०॥
आत्मेव वेदितव्येषु प्रियेष्विव च जीवितम् । इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम् ॥१-००२-३१॥
इतिहासोत्तमे ह्यस्मिन्नर्पिता बुद्धिरुत्तमा । स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक् ॥१-००२-३२॥
अस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः । भारतस्येतिहासस्य श्रूयतां पर्वसङ्ग्रहः ॥१-००२-३३॥
पर्वानुक्रमणी पूर्वं द्वितीयं पर्वसङ्ग्रहः । पौष्यं पौलोममास्तीकमादिवंशावतारणम् ॥१-००२-३४॥
ततः सम्भवपर्वोक्तमद्भुतं देवनिर्मितम् । दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते ॥१-००२-३५॥
ततो बकवधः पर्व पर्व चैत्ररथं ततः । ततः स्वयंवरं देव्याः पाञ्चाल्याः पर्व चोच्यते ॥१-००२-३६॥
क्षत्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम् । विदुरागमनं पर्व राज्यलम्भस्तथैव च ॥१-००२-३७॥
अर्जुनस्य वने वासः सुभद्राहरणं ततः । सुभद्राहरणादूर्ध्वं ज्ञेयं हरणहारिकम् ॥१-००२-३८॥
ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम् । सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम् ॥१-००२-३९॥
जरासन्धवधः पर्व पर्व दिग्विजयस्तथा । पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते ॥१-००२-४०॥
ततश्चार्घाभिहरणं शिशुपालवधस्ततः । द्यूतपर्व ततः प्रोक्तमनुद्यूतमतः परम् ॥१-००२-४१॥
तत आरण्यकं पर्व किर्मीरवध एव च । ईश्वरार्जुनयोर्युद्धं पर्व कैरातसञ्ज्ञितम् ॥१-००२-४२॥
इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम् । तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः ॥१-००२-४३॥
जटासुरवधः पर्व यक्षयुद्धमतः परम् । तथैवाजगरं पर्व विज्ञेयं तदनन्तरम् ॥१-००२-४४॥
मार्कण्डेयसमस्या च पर्वोक्तं तदनन्तरम् । संवादश्च ततः पर्व द्रौपदीसत्यभामयोः ॥१-००२-४५॥
घोषयात्रा ततः पर्व मृगस्वप्नभयं ततः । व्रीहिद्रौणिकमाख्यानं ततोऽनन्तरमुच्यते ॥१-००२-४६॥
द्रौपदीहरणं पर्व सैन्धवेन वनात्ततः । कुण्डलाहरणं पर्व ततः परमिहोच्यते ॥१-००२-४७॥
आरणेयं ततः पर्व वैराटं तदनन्तरम् । कीचकानां वधः पर्व पर्व गोग्रहणं ततः ॥१-००२-४८॥
अभिमन्युना च वैराट्याः पर्व वैवाहिकं स्मृतम् । उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम् ॥१-००२-४९॥
ततः सञ्जययानाख्यं पर्व ज्ञेयमतः परम् । प्रजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया ॥१-००२-५०॥
पर्व सानत्सुजातं च गुह्यमध्यात्मदर्शनम् । यानसन्धिस्ततः पर्व भगवद्यानमेव च ॥१-००२-५१॥
ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः । निर्याणं पर्व च ततः कुरुपाण्डवसेनयोः ॥१-००२-५२॥
रथातिरथसङ्ख्या च पर्वोक्तं तदनन्तरम् । उलूकदूतागमनं पर्वामर्षविवर्धनम् ॥१-००२-५३॥
अम्बोपाख्यानमपि च पर्व ज्ञेयमतः परम् । भीष्माभिषेचनं पर्व ज्ञेयमद्भुतकारणम् ॥१-००२-५४॥
जम्बूखण्डविनिर्माणं पर्वोक्तं तदनन्तरम् । भूमिपर्व ततो ज्ञेयं द्वीपविस्तरकीर्तनम् ॥१-००२-५५॥
पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः । द्रोणाभिषेकः पर्वोक्तं संशप्तकवधस्ततः ॥१-००२-५६॥
अभिमन्युवधः पर्व प्रतिज्ञापर्व चोच्यते । जयद्रथवधः पर्व घटोत्कचवधस्ततः ॥१-००२-५७॥
ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम् । मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते ॥१-००२-५८॥
कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम् । ह्रदप्रवेशनं पर्व गदायुद्धमतः परम् ॥१-००२-५९॥
सारस्वतं ततः पर्व तीर्थवंशगुणान्वितम् । अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकमुच्यते ॥१-००२-६०॥
ऐषीकं पर्व निर्दिष्टमत ऊर्ध्वं सुदारुणम् । जलप्रदानिकं पर्व स्त्रीपर्व च ततः परम् ॥१-००२-६१॥
श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदेहिकम् । आभिषेचनिकं पर्व धर्मराजस्य धीमतः ॥१-००२-६२॥
चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः । प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम् ॥१-००२-६३॥
शान्तिपर्व ततो यत्र राजधर्मानुकीर्तनम् । आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम् ॥१-००२-६४॥
ततः पर्व परिज्ञेयमानुशासनिकं परम् । स्वर्गारोहणिकं पर्व ततो भीष्मस्य धीमतः ॥१-००२-६५॥
ततोऽश्वमेधिकं पर्व सर्वपापप्रणाशनम् । अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम् ॥१-००२-६६॥
पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च । नारदागमनं पर्व ततः परमिहोच्यते ॥१-००२-६७॥
मौसलं पर्व च ततो घोरं समनुवर्ण्यते । महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः ॥१-००२-६८॥
हरिवंशस्ततः पर्व पुराणं खिलसञ्ज्ञितम् । भविष्यत्पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत् ॥१-००२-६९॥
एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मना । यथावत्सूतपुत्रेण लोमहर्षणिना पुनः ॥१-००२-७०॥
कथितं नैमिषारण्ये पर्वाण्यष्टादशैव तु । समासो भारतस्यायं तत्रोक्तः पर्वसङ्ग्रहः ॥१-००२-७१॥
पौष्ये पर्वणि माहात्म्यमुत्तङ्कस्योपवर्णितम् । पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः ॥१-००२-७२॥
आस्तीके सर्वनागानां गरुडस्य च सम्भवः । क्षीरोदमथनं चैव जन्मोच्छैःश्रवसस्तथा ॥१-००२-७३॥
यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च । कथेयमभिनिर्वृत्ता भारतानां महात्मनाम् ॥१-००२-७४॥
विविधाः सम्भवा राज्ञामुक्ताः सम्भवपर्वणि । अन्येषां चैव विप्राणामृषेर्द्वैपायनस्य च ॥१-००२-७५॥
अंशावतरणं चात्र देवानां परिकीर्तितम् । दैत्यानां दानवानां च यक्षाणां च महौजसाम् ॥१-००२-७६॥
नागानामथ सर्पाणां गन्धर्वाणां पतत्रिणाम् । अन्येषां चैव भूतानां विविधानां समुद्भवः ॥१-००२-७७॥
वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम् । शन्तनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि ॥१-००२-७८॥
तेजोंशानां च सङ्घाताद्भीष्मस्याप्यत्र सम्भवः । राज्यान्निवर्तनं चैव ब्रह्मचर्यव्रते स्थितिः ॥१-००२-७९॥
प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च । हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः ॥१-००२-८०॥
विचित्रवीर्यस्य तथा राज्ये सम्प्रतिपादनम् । धर्मस्य नृषु सम्भूतिरणीमाण्डव्यशापजा ॥१-००२-८१॥
कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा । धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च सम्भवः ॥१-००२-८२॥
वारणावतयात्रा च मन्त्रो दुर्योधनस्य च । विदुरस्य च वाक्येन सुरुङ्गोपक्रमक्रिया ॥१-००२-८३॥
पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम् । घटोत्कचस्य चोत्पत्तिरत्रैव परिकीर्तिता ॥१-००२-८४॥
अज्ञातचर्या पाण्डूनां वासो ब्राह्मणवेश्मनि । बकस्य निधनं चैव नागराणां च विस्मयः ॥१-००२-८५॥
अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा । भ्रातृभिः सहितः सर्वैः पाञ्चालानभितो ययौ ॥१-००२-८६॥
तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम् । पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते ॥१-००२-८७॥
पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च । द्रौपद्या देवविहितो विवाहश्चाप्यमानुषः ॥१-००२-८८॥
विदुरस्य च सम्प्राप्तिर्दर्शनं केशवस्य च । खाण्डवप्रस्थवासश्च तथा राज्यार्धशासनम् ॥१-००२-८९॥
नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया । सुन्दोपसुन्दयोस्तत्र उपाख्यानं प्रकीर्तितम् ॥१-००२-९०॥
पार्थस्य वनवासश्च उलूप्या पथि सङ्गमः । पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च ॥१-००२-९१॥
द्वारकायां सुभद्रा च कामयानेन कामिनी । वासुदेवस्यानुमते प्राप्ता चैव किरीटिना ॥१-००२-९२॥
हरणं गृह्य सम्प्राप्ते कृष्णे देवकिनन्दने । सम्प्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम् ॥१-००२-९३॥
अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः । मयस्य मोक्षो ज्वलनाद्भुजङ्गस्य च मोक्षणम् ॥ महर्षेर्मन्दपालस्य शार्ङ्ग्यं तनयसम्भवः ॥१-००२-९४॥
इत्येतदाधिपर्वोक्तं प्रथमं बहुविस्तरम् । अध्यायानां शते द्वे तु सङ्ख्याते परमर्षिणा ॥ अष्टादशैव चाध्याया व्यासेनोत्तमतेजसा ॥१-००२-९५॥
सप्त श्लोकसहस्राणि तथा नव शतानि च । श्लोकाश्च चतुराशीतिर्दृष्टो ग्रन्थो महात्मना ॥१-००२-९६॥
द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते । सभाक्रिया पाण्डवानां किङ्कराणां च दर्शनम् ॥१-००२-९७॥
लोकपालसभाख्यानं नारदाद्देवदर्शनात् । राजसूयस्य चारम्भो जरासन्धवधस्तथा ॥१-००२-९८॥
गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम् । राजसूयेऽर्घसंवादे शिशुपालवधस्तथा ॥१-००२-९९॥
यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च । दुर्योधनस्यावहासो भीमेन च सभातले ॥१-००२-१००॥
यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत् । यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत् ॥१-००२-१०१॥
यत्र द्यूतार्णवे मग्नान्द्रौपदी नौरिवार्णवात् । तारयामास तांस्तीर्णाञ्ज्ञात्वा दुर्योधनो नृपः ॥ पुनरेव ततो द्यूते समाह्वयत पाण्डवान् ॥१-००२-१०२॥
एतत्सर्वं सभापर्व समाख्यातं महात्मना । अध्यायाः सप्ततिर्ज्ञेयास्तथा द्वौ चात्र सङ्ख्यया ॥१-००२-१०३॥
श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च । श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्प्रकीर्तिताः ॥१-००२-१०४॥
अतः परं तृतीयं तु ज्ञेयमारण्यकं महत् । पौरानुगमनं चैव धर्मपुत्रस्य धीमतः ॥१-००२-१०५॥
वृष्णीनामागमो यत्र पाञ्चालानां च सर्वशः । यत्र सौभवधाख्यानं किर्मीरवध एव च ॥ अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः ॥१-००२-१०६॥
महादेवेन युद्धं च किरातवपुषा सह । दर्शनं लोकपालानां स्वर्गारोहणमेव च ॥१-००२-१०७॥
दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः । युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम् ॥१-००२-१०८॥
नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम् । दमयन्त्याः स्थितिर्यत्र नलस्य व्यसनागमे ॥१-००२-१०९॥
वनवासगतानां च पाण्डवानां महात्मनाम् । स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै ॥१-००२-११०॥
तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम् । जटासुरस्य तत्रैव वधः समुपवर्ण्यते ॥१-००२-१११॥
नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने । यत्र मन्दारपुष्पार्थं नलिनीं तामधर्षयत् ॥१-००२-११२॥
यत्रास्य सुमहद्युद्धमभवत्सह राक्षसैः । यक्षैश्चापि महावीर्यैर्मणिमत्प्रमुखैस्तथा ॥१-००२-११३॥
आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम् । लोपामुद्राभिगमनमपत्यार्थमृषेरपि ॥१-००२-११४॥
ततः श्येनकपोतीयमुपाख्यानमनन्तरम् । इन्द्रोऽग्निर्यत्र धर्मश्च अजिज्ञासञ्शिबिं नृपम् ॥१-००२-११५॥
ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः । जामदग्न्यस्य रामस्य चरितं भूरितेजसः ॥१-००२-११६॥
कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते । सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः ॥१-००२-११७॥
शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौ । ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः ॥१-००२-११८॥
जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः । पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः ॥१-००२-११९॥
अष्टावक्रीयमत्रैव विवादे यत्र बन्दिनम् । विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः ॥१-००२-१२०॥
अवाप्य दिव्यान्यस्त्राणि गुर्वर्थे सव्यसाचिना । निवातकवचैर्युद्धं हिरण्यपुरवासिभिः ॥१-००२-१२१॥
समागमश्च पार्थस्य भ्रातृभिर्गन्धमादने । घोषयात्रा च गन्धर्वैर्यत्र युद्धं किरीटिनः ॥१-००२-१२२॥
पुनरागमनं चैव तेषां द्वैतवनं सरः । जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात् ॥१-००२-१२३॥
यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे । मार्कण्डेयसमस्यायामुपाख्यानानि भागशः ॥१-००२-१२४॥
संदर्शनं च कृष्णस्य संवादश्चैव सत्यया । व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च ॥१-००२-१२५॥
सावित्र्यौद्दालकीयं च वैन्योपाख्यानमेव च । रामायणमुपाख्यानमत्रैव बहुविस्तरम् ॥१-००२-१२६॥
कर्णस्य परिमोषोऽत्र कुण्डलाभ्यां पुरंदरात् । आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम् ॥ जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम् ॥१-००२-१२७॥
एतदारण्यकं पर्व तृतीयं परिकीर्तितम् । अत्राध्यायशते द्वे तु सङ्ख्याते परमर्षिणा ॥ एकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्तिताः ॥१-००२-१२८॥
एकादश सहस्राणि श्लोकानां षट्शतानि च । चतुःषष्टिस्तथा श्लोकाः पर्वैतत्परिकीर्तितम् ॥१-००२-१२९॥
अतः परं निबोधेदं वैराटं पर्वविस्तरम् । विराटनगरं गत्वा श्मशाने विपुलां शमीम् ॥ दृष्ट्वा संनिदधुस्तत्र पाण्डवा आयुधान्युत ॥१-००२-१३०॥
यत्र प्रविश्य नगरं छद्मभिर्न्यवसन्त ते । दुरात्मनो वधो यत्र कीचकस्य वृकोदरात् ॥१-००२-१३१॥
गोग्रहे यत्र पार्थेन निर्जिताः कुरवो युधि । गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः ॥१-००२-१३२॥
विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः । अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम् ॥१-००२-१३३॥
चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम् । अत्रापि परिसङ्ख्यातमध्यायानां महात्मना ॥१-००२-१३४॥
सप्तषष्टिरथो पूर्णा श्लोकाग्रमपि मे शृणु । श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु ॥ पर्वण्यस्मिन्समाख्याताः सङ्ख्यया परमर्षिणा ॥१-००२-१३५॥
उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम् । उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया ॥ दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ ॥१-००२-१३६॥
साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति । इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः ॥१-००२-१३७॥
अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ । अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्यहम् ॥१-००२-१३८॥
वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः । अयुध्यमानं सचिवं वव्रे कृष्णं धनञ्जयः ॥१-००२-१३९॥
सञ्जयं प्रेषयामास शमार्थं पाण्डवान्प्रति । यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान् ॥१-००२-१४०॥
श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान् । प्रजागरः सम्प्रजज्ञे धृतराष्ट्रस्य चिन्तया ॥१-००२-१४१॥
विदुरो यत्र वाक्यानि विचित्राणि हितानि च । श्रावयामास राजानं धृतराष्ट्रं मनीषिणम् ॥१-००२-१४२॥
तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम् । मनस्तापान्वितो राजा श्रावितः शोकलालसः ॥१-००२-१४३॥
प्रभाते राजसमितौ सञ्जयो यत्र चाभिभोः । ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च ॥१-००२-१४४॥
यत्र कृष्णो दयापन्नः सन्धिमिच्छन्महायशाः । स्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम् ॥१-००२-१४५॥
प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै । शमार्थं याचमानस्य पक्षयोरुभयोर्हितम् ॥१-००२-१४६॥
कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम् । योगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम् ॥१-००२-१४७॥
रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः । उपायपूर्वं शौण्डीर्यात्प्रत्याख्यातश्च तेन सः ॥१-००२-१४८॥
ततश्चाप्यभिनिर्यात्रा रथाश्वनरदन्तिनाम् । नगराद्धास्तिनपुराद्बलसङ्ख्यानमेव च ॥१-००२-१४९॥
यत्र राज्ञा उलूकस्य प्रेषणं पाण्डवान्प्रति । श्वोभाविनि महायुद्धे दूत्येन क्रूरवादिना ॥ रथातिरथसङ्ख्यानमम्बोपाख्यानमेव च ॥१-००२-१५०॥
एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते । उद्योगपर्व निर्दिष्टं सन्धिविग्रहसंश्रितम् ॥१-००२-१५१॥
अध्यायाः सङ्ख्यया त्वत्र षडशीतिशतं स्मृतम् । श्लोकानां षट्सहस्राणि तावन्त्येव शतानि च ॥१-००२-१५२॥
श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना । व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः ॥१-००२-१५३॥
अत ऊर्ध्वं विचित्रार्थं भीष्मपर्व प्रचक्षते । जम्बूखण्डविनिर्माणं यत्रोक्तं सञ्जयेन ह ॥१-००२-१५४॥
यत्र युद्धमभूद्घोरं दशाहान्यतिदारुणम् । यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम् ॥१-००२-१५५॥
कश्मलं यत्र पार्थस्य वासुदेवो महामतिः । मोहजं नाशयामास हेतुभिर्मोक्षदर्शनैः ॥१-००२-१५६॥
शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः । विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत् ॥१-००२-१५७॥
षष्ठमेतन्महापर्व भारते परिकीर्तितम् । अध्यायानां शतं प्रोक्तं सप्तदश तथापरे ॥१-००२-१५८॥
पञ्च श्लोकसहस्राणि सङ्ख्ययाष्टौ शतानि च । श्लोकाश्च चतुराशीतिः पर्वण्यस्मिन्प्रकीर्तिताः ॥ व्यासेन वेदविदुषा सङ्ख्याता भीष्मपर्वणि ॥१-००२-१५९॥
द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते । यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात् ॥१-००२-१६०॥
भगदत्तो महाराजो यत्र शक्रसमो युधि । सुप्रतीकेन नागेन सह शस्तः किरीटिना ॥१-००२-१६१॥
यत्राभिमन्युं बहवो जघ्नुर्लोकमहारथाः । जयद्रथमुखा बालं शूरमप्राप्तयौवनम् ॥१-००२-१६२॥
हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे । अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः ॥ संशप्तकावशेषं च कृतं निःशेषमाहवे ॥१-००२-१६३॥
अलम्बुसः श्रुतायुश्च जलसन्धश्च वीर्यवान् । सौमदत्तिर्विराटश्च द्रुपदश्च महारथः ॥ घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि ॥१-००२-१६४॥
अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते । अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः ॥१-००२-१६५॥
सप्तमं भारते पर्व महदेतदुदाहृतम् । अत्र ते पृथिवीपालाः प्रायशो निधनं गताः ॥ द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः ॥१-००२-१६६॥
अध्यायानां शतं प्रोक्तमध्यायाः सप्ततिस्तथा । अष्टौ श्लोकसहस्राणि तथा नव शतानि च ॥१-००२-१६७॥
श्लोका नव तथैवात्र सङ्ख्यातास्तत्त्वदर्शिना । पाराशर्येण मुनिना सञ्चिन्त्य द्रोणपर्वणि ॥१-००२-१६८॥
अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम् । सारथ्ये विनियोगश्च मद्रराजस्य धीमतः ॥ आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम् ॥१-००२-१६९॥
प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः । हंसकाकीयमाख्यानमत्रैवाक्षेपसंहितम् ॥१-००२-१७०॥
अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः । द्वैरथे यत्र पार्थेन हतः कर्णो महारथः ॥१-००२-१७१॥
अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः । एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि ॥ चत्वार्येव सहस्राणि नव श्लोकशतानि च ॥१-००२-१७२॥
अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम् । हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत् ॥१-००२-१७३॥
वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः । विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते ॥१-००२-१७४॥
शल्यस्य निधनं चात्र धर्मराजान्महारथात् । गदायुद्धं तु तुमुलमत्रैव परिकीर्तितम् ॥ सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता ॥१-००२-१७५॥
नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत् । एकोनषष्टिरध्यायास्तत्र सङ्ख्याविशारदैः ॥१-००२-१७६॥
सङ्ख्याता बहुवृत्तान्ताः श्लोकाग्रं चात्र शस्यते । त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा ॥ मुनिना सम्प्रणीतानि कौरवाणां यशोभृताम् ॥१-००२-१७७॥
अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम् । भग्नोरुं यत्र राजानं दुर्योधनममर्षणम् ॥१-००२-१७८॥
व्यपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः । कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षिताः ॥१-००२-१७९॥
प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः । अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान् ॥ पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनम् ॥१-००२-१८०॥
प्रसुप्तान्निशि विश्वस्तान्यत्र ते पुरुषर्षभाः । पाञ्चालान्सपरीवाराञ्जघ्नुर्द्रौणिपुरोगमाः ॥१-००२-१८१॥
यत्रामुच्यन्त पार्थास्ते पञ्च कृष्णबलाश्रयात् । सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः ॥१-००२-१८२॥
द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता । कृतानशनसङ्कल्पा यत्र भर्तृनुपाविशत् ॥१-००२-१८३॥
द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः । अन्वधावत सङ्क्रुद्धो भारद्वाजं गुरोः सुतम् ॥१-००२-१८४॥
भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः । अपाण्डवायेति रुषा द्रौणिरस्त्रमवासृजत् ॥१-००२-१८५॥
मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः । यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः ॥१-००२-१८६॥
द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः । तोयकर्मणि सर्वेषां राज्ञामुदकदानिके ॥१-००२-१८७॥
गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः । सुतस्यैतदिह प्रोक्तं दशमं पर्व सौप्तिकम् ॥१-००२-१८८॥
अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता महात्मना । श्लोकाग्रमत्र कथितं शतान्यष्टौ तथैव च ॥१-००२-१८९॥
श्लोकाश्च सप्ततिः प्रोक्ता यथावदभिसङ्ख्यया । सौप्तिकैषीकसम्बन्धे पर्वण्यमितबुद्धिना ॥१-००२-१९०॥
अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम् । विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः ॥ क्रोधावेशः प्रसादश्च गान्धारीधृतराष्ट्रयोः ॥१-००२-१९१॥
यत्र तान्क्षत्रियाञ्शूरान्दिष्टान्ताननिवर्तिनः । पुत्रान्भ्रातृन्पितृंश्चैव ददृशुर्निहतान्रणे ॥१-००२-१९२॥
यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः । राज्ञां तानि शरीराणि दाहयामास शास्त्रतः ॥१-००२-१९३॥
एतदेकादशं प्रोक्तं पर्वातिकरुणं महत् । सप्तविंशतिरध्यायाः पर्वण्यस्मिन्नुदाहृताः ॥१-००२-१९४॥
श्लोकाः सप्तशतं चात्र पञ्चसप्ततिरुच्यते । सङ्ख्यया भारताख्यानं कर्त्रा ह्यत्र महात्मना ॥ प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम् ॥१-००२-१९५॥
अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम् । यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः ॥ घातयित्वा पितृन्भ्रातृन्पुत्रान्सम्बन्धिबान्धवान् ॥१-००२-१९६॥
शान्तिपर्वणि धर्माश्च व्याख्याताः शरतल्पिकाः । राजभिर्वेदितव्या ये सम्यङ्नयबुभुत्सुभिः ॥१-००२-१९७॥
आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शकाः । यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात् ॥ मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः ॥१-००२-१९८॥
द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम् । पर्वण्यत्र परिज्ञेयमध्यायानां शतत्रयम् ॥ त्रिंशच्चैव तथाध्याया नव चैव तपोधनाः ॥१-००२-१९९॥
श्लोकानां तु सहस्राणि कीर्तितानि चतुर्दश । पञ्च चैव शतान्याहुः पञ्चविंशतिसङ्ख्यया ॥१-००२-२००॥
अत ऊर्ध्वं तु विज्ञेयमानुशासनमुत्तमम् । यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम् ॥ भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः ॥१-००२-२०१॥
व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थीयो निदर्शितः । विविधानां च दानानां फलयोगाः पृथग्विधाः ॥१-००२-२०२॥
तथा पात्रविशेषाश्च दानानां च परो विधिः । आचारविधियोगश्च सत्यस्य च परा गतिः ॥१-००२-२०३॥
एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम् । भीष्मस्यात्रैव सम्प्राप्तिः स्वर्गस्य परिकीर्तिता ॥१-००२-२०४॥
एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम् । अध्यायानां शतं चात्र षट्चत्वारिंशदेव च ॥ श्लोकानां तु सहस्राणि षट्सप्तैव शतानि च ॥१-००२-२०५॥
ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम् । तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम् ॥१-००२-२०६॥
सुवर्णकोशसम्प्राप्तिर्जन्म चोक्तं परिक्षितः । दग्धस्यास्त्राग्निना पूर्वं कृष्णात्सञ्जीवनं पुनः ॥१-००२-२०७॥
चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः । तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः ॥१-००२-२०८॥
चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनञ्जयः । सङ्ग्रामे बभ्रुवाहेन संशयं चात्र दर्शितः ॥ अश्वमेधे महायज्ञे नकुलाख्यानमेव च ॥१-००२-२०९॥
इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम् । अत्राध्यायशतं त्रिंशत्त्रयोऽध्यायाश्च शब्दिताः ॥१-००२-२१०॥
त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च । विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ॥१-००२-२११॥
तत आश्रमवासाक्यं पर्व पञ्चदशं स्मृतम् । यत्र राज्यं परित्यज्य गान्धारीसहितो नृपः ॥ धृतराष्ट्राश्रमपदं विदुरश्च जगाम ह ॥१-००२-२१२॥
यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा । पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता ॥१-००२-२१३॥
यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान् । लोकान्तरगतान्वीरानपश्यत्पुनरागतान् ॥१-००२-२१४॥
ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम् । त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः ॥१-००२-२१५॥
यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः । सञ्जयश्च महामात्रो विद्वान्गावल्गणिर्वशी ॥१-००२-२१६॥
ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः । नारदाच्चैव शुश्राव वृष्णीनां कदनं महत् ॥१-००२-२१७॥
एतदाश्रमवासाख्यं पूर्वोक्तं सुमहाद्भुतम् । द्विचत्वारिंशदध्यायाः पर्वैतदभिसङ्ख्यया ॥१-००२-२१८॥
सहस्रमेकं श्लोकानां पञ्च श्लोकशतानि च । षडेव च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ॥१-००२-२१९॥
अतः परं निबोधेदं मौसलं पर्व दारुणम् । यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शसहा युधि ॥ ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः ॥१-००२-२२०॥
आपाने पानगलिता दैवेनाभिप्रचोदिताः । एरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम् ॥१-००२-२२१॥
यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ । नातिचक्रमतुः कालं प्राप्तं सर्वहरं समम् ॥१-००२-२२२॥
यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम् । दृष्ट्वा विषादमगमत्परां चार्तिं नरर्षभः ॥१-००२-२२३॥
स सत्कृत्य यदुश्रेष्ठं मातुलं शौरिमात्मनः । ददर्श यदुवीराणामापाने वैशसं महत् ॥१-००२-२२४॥
शरीरं वासुदेवस्य रामस्य च महात्मनः । संस्कारं लम्भयामास वृष्णीनां च प्रधानतः ॥१-००२-२२५॥
स वृद्धबालमादाय द्वारवत्यास्ततो जनम् । ददर्शापदि कष्टायां गाण्डीवस्य पराभवम् ॥१-००२-२२६॥
सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम् । नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम् ॥१-००२-२२७॥
दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः । धर्मराजं समासाद्य संन्यासं समरोचयेत् ॥१-००२-२२८॥
इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम् । अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम् ॥१-००२-२२९॥
महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम् । यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः ॥ द्रौपद्या सहिता देव्या सिद्धिं परमिकां गताः ॥१-००२-२३०॥
अत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतं तथा । विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ॥१-००२-२३१॥
स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम् । अध्यायाः पञ्च सङ्ख्याताः पर्वैतदभिसङ्ख्यया ॥ श्लोकानां द्वे शते चैव प्रसङ्ख्याते तपोधनाः ॥१-००२-२३२॥
अष्टादशैवमेतानि पर्वाण्युक्तान्यशेषतः । खिलेषु हरिवंशश्च भविष्यच्च प्रकीर्तितम् ॥१-००२-२३३॥
एतदखिलमाख्यातं भारतं पर्वसङ्ग्रहात् । अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया ॥ तन्महद्दारुणं युद्धमहान्यष्टादशाभवत् ॥१-००२-२३४॥
यो विद्याच्चतुरो वेदान्साङ्गोपनिषदान्द्विजः । न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः ॥१-००२-२३५॥
श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते । पुंस्कोकिलरुतं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव ॥१-००२-२३६॥
इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयः । पञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः ॥१-००२-२३७॥
अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः । अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः ॥१-००२-२३८॥
क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः । इन्द्रियाणां समस्तानां चित्रा इव मनःक्रियाः ॥१-००२-२३९॥
अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते । आहारमनपाश्रित्य शरीरस्येव धारणम् ॥१-००२-२४०॥
इदं सर्वैः कविवरैराख्यानमुपजीव्यते । उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः ॥१-००२-२४१॥
द्वैपायनौष्ठपुटनिःसृतमप्रमेयं; पुण्यं पवित्रमथ पापहरं शिवं च । यो भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्करजलैरभिषेचनेन ॥१-००२-२४२॥
आख्यानं तदिदमनुत्तमं महार्थं; विन्यस्तं महदिह पर्वसङ्ग्रहेण । श्रुत्वादौ भवति नृणां सुखावगाहं; विस्तीर्णं लवणजलं यथा प्लवेन ॥१-००२-२४३॥