Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.037
Library: Shringi curses King Parikshit. Father Shamika teaches Shringi on ascetic dharma.
सूत उवाच॥
एवमुक्तः स तेजस्वी शृङ्गी कोपसमन्वितः। मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना ॥१-३७-१॥
स तं कृशमभिप्रेष्क्य सूनृतां वाचमुत्सृजन्। अपृच्छत कथं तातः स मेऽद्य मृतधारकः ॥१-३७-२॥
कृश उवाच॥
राज्ञा परिक्षिता तात मृगयां परिधावता। अवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भुजङ्गमः ॥१-३७-३॥
शृङ्ग्युवाच॥
किं मे पित्रा कृतं तस्य राज्ञोऽनिष्टं दुरात्मनः। ब्रूहि त्वं कृश तत्त्वेन पश्य मे तपसो बलम् ॥१-३७-४॥
कृश उवाच॥
स राजा मृगयां यातः परिक्षिदभिमन्युजः। ससार मृगमेकाकी विद्ध्वा बाणेन पत्रिणा ॥१-३७-५॥
न चापश्यन्मृगं राजा चरंस्तस्मिन्महावने। पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम् ॥१-३७-६॥
तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासाश्रमातुरः। पुनः पुनर्मृगं नष्टं पप्रच्छ पितरं तव ॥१-३७-७॥
स च मौनव्रतोपेतो नैव तं प्रत्यभाषत। तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समासृजत् ॥१-३७-८॥
शृङ्गिंस्तव पिताद्यासौ तथैवास्ते यतव्रतः। सोऽपि राजा स्वनगरं प्रतियातो गजाह्वयम् ॥१-३७-९॥
सूत उवाच॥
श्रुत्वैवमृषिपुत्रस्तु दिवं स्तब्ध्वेव विष्ठितः। कोपसंरक्तनयनः प्रज्वलन्निव मन्युना ॥१-३७-१०॥
आविष्टः स तु कोपेन शशाप नृपतिं तदा। वार्युपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः ॥१-३७-११॥
शृङ्ग्युवाच॥
योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य च। स्कन्धे मृतमवास्राक्षीत्पन्नगं राजकिल्बिषी ॥१-३७-१२॥
तं पापमतिसङ्क्रुद्धस्तक्षकः पन्नगोत्तमः। आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः ॥१-३७-१३॥
सप्तरात्रादितो नेता यमस्य सदनं प्रति। द्विजानामवमन्तारं कुरूणामयशस्करम् ॥१-३७-१४॥
सूत उवाच॥
इति शप्त्वा नृपं क्रुद्धः शृङ्गी पितरमभ्ययात्। आसीनं गोचरे तस्मिन्वहन्तं शवपन्नगम् ॥१-३७-१५॥
स तमालक्ष्य पितरं शृङ्गी स्कन्धगतेन वै। शवेन भुजगेनासीद्भूयः क्रोधसमन्वितः ॥१-३७-१६॥
दुःखाच्चाश्रूणि मुमुचे पितरं चेदमब्रवीत्। श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना ॥१-३७-१७॥
राज्ञा परिक्षिता कोपादशपं तमहं नृपम्। यथार्हति स एवोग्रं शापं कुरुकुलाधमः ॥१-३७-१८॥
सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमः। वैवस्वतस्य भवनं नेता परमदारुणम् ॥१-३७-१९॥
तमब्रवीत्पिता ब्रह्मंस्तथा कोपसमन्वितम्। न मे प्रियं कृतं तात नैष धर्मस्तपस्विनाम् ॥१-३७-२०॥
वयं तस्य नरेन्द्रस्य विषये निवसामहे। न्यायतो रक्षितास्तेन तस्य पापं न रोचये ॥१-३७-२१॥
सर्वथा वर्तमानस्य राज्ञो ह्यस्मद्विधैः सदा। क्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः ॥१-३७-२२॥
यदि राजा न रक्षेत पीडा वै नः परा भवेत्। न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम् ॥१-३७-२३॥
रक्ष्यमाणा वयं तात राजभिः शास्त्रदृष्टिभिः। चरामो विपुलं धर्मं तेषां चांशोऽस्ति धर्मतः ॥१-३७-२४॥
परिक्षित्तु विशेषेण यथास्य प्रपितामहः। रक्षत्यस्मान्यथा राज्ञा रक्षितव्याः प्रजास्तथा ॥१-३७-२५॥
तेनेह क्षुधितेनाद्य श्रान्तेन च तपस्विना। अजानता व्रतमिदं कृतमेतदसंशयम् ॥१-३७-२६॥
तस्मादिदं त्वया बाल्यात्सहसा दुष्कृतं कृतम्। न ह्यर्हति नृपः शापमस्मत्तः पुत्र सर्वथा ॥१-३७-२७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.