01.036
Library: Shringi comes to know about the episode of King Parikshit placing dead snake on his father's neck.
शौनक उवाच॥
जरत्कारुरिति प्रोक्तं यत्त्वया सूतनन्दन। इच्छाम्येतदहं तस्य ऋषेः श्रोतुं महात्मनः ॥१-३६-१॥
किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि। जरत्कारुनिरुक्तं त्वं यथावद्वक्तुमर्हसि ॥१-३६-२॥
सूत उवाच॥
जरेति क्षयमाहुर्वै दारुणं कारुसञ्ज्ञितम्। शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैः शनैः ॥१-३६-३॥
क्षपयामास तीव्रेण तपसेत्यत उच्यते। जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा ॥१-३६-४॥
एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा। उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन् ॥१-३६-५॥
सूत उवाच॥
अथ कालस्य महतः स मुनिः संशितव्रतः। तपस्यभिरतो धीमान्न दारानभ्यकाङ्क्षत ॥१-३६-६॥
स ऊर्ध्वरेतास्तपसि प्रसक्तः; स्वाध्यायवान्वीतभयक्लमः सन्। चचार सर्वां पृथिवीं महात्मा; न चापि दारान्मनसाप्यकाङ्क्षत् ॥१-३६-७॥
ततोऽपरस्मिन्सम्प्राप्ते काले कस्मिंश्चिदेव तु। परिक्षिदिति विख्यातो राजा कौरववंशभृत् ॥१-३६-८॥
यथा पाण्डुर्महाबाहुर्धनुर्धरवरो भुवि। बभूव मृगयाशीलः पुरास्य प्रपितामहः ॥१-३६-९॥
मृगान्विध्यन्वराहांश्च तरक्षून्महिषांस्तथा। अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः ॥१-३६-१०॥
स कदाचिन्मृगं विद्ध्वा बाणेन नतपर्वणा। पृष्ठतो धनुरादाय ससार गहने वने ॥१-३६-११॥
यथा हि भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि। अन्वगच्छद्धनुष्पाणिः पर्यन्वेषंस्ततस्ततः ॥१-३६-१२॥
न हि तेन मृगो विद्धो जीवन्गच्छति वै वनम्। पूर्वरूपं तु तन्नूनमासीत्स्वर्गगतिं प्रति ॥ परिक्षितस्तस्य राज्ञो विद्धो यन्नष्टवान्मृगः ॥१-३६-१३॥
दूरं चापहृतस्तेन मृगेण स महीपतिः। परिश्रान्तः पिपासार्त आससाद मुनिं वने ॥१-३६-१४॥
गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम्। भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः ॥१-३६-१५॥
तमभिद्रुत्य वेगेन स राजा संशितव्रतम्। अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः ॥१-३६-१६॥
भो भो ब्रह्मन्नहं राजा परिक्षिदभिमन्युजः। मया विद्धो मृगो नष्टः कच्चित्त्वं दृष्टवानसि ॥१-३६-१७॥
स मुनिस्तस्य नोवाच किञ्चिन्मौनव्रते स्थितः। तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत् ॥१-३६-१८॥
धनुष्कोट्या समुत्क्षिप्य स चैनं समुदैक्षत। न च किञ्चिदुवाचैनं शुभं वा यदि वाशुभम् ॥१-३६-१९॥
स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम्। दृष्ट्वा जगाम नगरमृषिस्त्वास्ते तथैव सः ॥१-३६-२०॥
तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः। शृङ्गी नाम महाक्रोधो दुष्प्रसादो महाव्रतः ॥१-३६-२१॥
स देवं परमीशानं सर्वभूतहिते रतम्। ब्रह्माणमुपतस्थे वै काले काले सुसंयतः ॥ स तेन समनुज्ञातो ब्रह्मणा गृहमेयिवान् ॥१-३६-२२॥
सख्योक्तः क्रीडमानेन स तत्र हसता किल। संरम्भी कोपनोऽतीव विषकल्प ऋषेः सुतः ॥ ऋषिपुत्रेण नर्मार्थं कृशेन द्विजसत्तम ॥१-३६-२३॥
तेजस्विनस्तव पिता तथैव च तपस्विनः। शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव ॥१-३६-२४॥
व्याहरत्स्वृषिपुत्रेषु मा स्म किञ्चिद्वचो वदीः। अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु ॥१-३६-२५॥
क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः। दर्पजाः पितरं यस्त्वं द्रष्टा शवधरं तथा ॥१-३६-२६॥