01.039
Library: Giving money, Takshaka sends back Kashyapa who came to save the King. Through Maya, Takshaka disguises himself as a worn inside some fruit.
तक्षक उवाच॥
दष्टं यदि मयेह त्वं शक्तः किञ्चिच्चिकित्सितुम्। ततो वृक्षं मया दष्टमिमं जीवय काश्यप ॥१-३९-१॥
परं मन्त्रबलं यत्ते तद्दर्शय यतस्व च। न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम ॥१-३९-२॥
काश्यप उवाच॥
दश नागेन्द्र वृक्षं त्वं यमेनमभिमन्यसे। अहमेनं त्वया दष्टं जीवयिष्ये भुजङ्गम ॥१-३९-३॥
सूत उवाच॥
एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना। अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः ॥१-३९-४॥
स वृक्षस्तेन दष्टः सन्सद्य एव महाद्युते। आशीविषविषोपेतः प्रजज्वाल समन्ततः ॥१-३९-५॥
तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत्। कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम् ॥१-३९-६॥
भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा। भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत् ॥१-३९-७॥
विद्याबलं पन्नगेन्द्र पश्य मेऽस्मिन्वनस्पतौ। अहं सञ्जीवयाम्येनं पश्यतस्ते भुजङ्गम ॥१-३९-८॥
ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः। भस्मराशीकृतं वृक्षं विद्यया समजीवयत् ॥१-३९-९॥
अङ्कुरं तं स कृतवांस्ततः पर्णद्वयान्वितम्। पलाशिनं शाखिनं च तथा विटपिनं पुनः ॥१-३९-१०॥
तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना। उवाच तक्षको ब्रह्मन्नेतदत्यद्भुतं त्वयि ॥१-३९-११॥
विप्रेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा। कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन ॥१-३९-१२॥
यत्तेऽभिलषितं प्राप्तुं फलं तस्मान्नृपोत्तमात्। अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम् ॥१-३९-१३॥
विप्रशापाभिभूते च क्षीणायुषि नराधिपे। घटमानस्य ते विप्र सिद्धिः संशयिता भवेत् ॥१-३९-१४॥
ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम्। विरश्मिरिव घर्मांशुरन्तर्धानमितो व्रजेत् ॥१-३९-१५॥
काश्यप उवाच॥
धनार्थी याम्यहं तत्र तन्मे दित्स भुजङ्गम। ततोऽहं विनिवर्तिष्ये गृहायोरगसत्तम ॥१-३९-१६॥
तक्षक उवाच॥
यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम्। अहं तेऽद्य प्रदास्यामि निवर्तस्व द्विजोत्तम ॥१-३९-१७॥
सूत उवाच॥
तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः। प्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान् ॥१-३९-१८॥
दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा। क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः ॥१-३९-१९॥
लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम् ॥१-३९-१९॥
निवृत्ते काश्यपे तस्मिन्समयेन महात्मनि। जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम् ॥१-३९-२०॥
अथ शुश्राव गच्छन्स तक्षको जगतीपतिम्। मन्त्रागदैर्विषहरै रक्ष्यमाणं प्रयत्नतः ॥१-३९-२१॥
स चिन्तयामास तदा मायायोगेन पार्थिवः। मया वञ्चयितव्योऽसौ क उपायो भवेदिति ॥१-३९-२२॥
ततस्तापसरूपेण प्राहिणोत्स भुजङ्गमान्। फलपत्रोदकं गृह्य राज्ञे नागोऽथ तक्षकः ॥१-३९-२३॥
तक्षक उवाच॥
गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया। फलपत्रोदकं नाम प्रतिग्राहयितुं नृपम् ॥१-३९-२४॥
सूत उवाच॥
ते तक्षकसमादिष्टास्तथा चक्रुर्भुजङ्गमाः। उपनिन्युस्तथा राज्ञे दर्भानापः फलानि च ॥१-३९-२५॥
तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान्। कृत्वा च तेषां कार्याणि गम्यतामित्युवाच तान् ॥१-३९-२६॥
गतेषु तेषु नागेषु तापसच्छद्मरूपिषु। अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः ॥१-३९-२७॥
भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः। तापसैरुपनीतानि फलानि सहिता मया ॥१-३९-२८॥
ततो राजा ससचिवः फलान्यादातुमैच्छत। यद्गृहीतं फलं राज्ञा तत्र कृमिरभूदणुः ॥ ह्रस्वकः कृष्णनयनस्ताम्रो वर्णेन शौनक ॥१-३९-२९॥
स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत्। अस्तमभ्येति सविता विषादद्य न मे भयम् ॥१-३९-३०॥
सत्यवागस्तु स मुनिः कृमिको मां दशत्वयम्। तक्षको नाम भूत्वा वै तथा परिहृतं भवेत् ॥१-३९-३१॥
ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः। एवमुक्त्वा स राजेन्द्रो ग्रीवायां संनिवेश्य ह ॥ कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः ॥१-३९-३२॥
हसन्नेव च भोगेन तक्षकेणाभिवेष्टितः। तस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितम् ॥१-३९-३३॥