01.040
Library: Parikshit dies by Takshaka’s bite. Janamejaya is installed as king. Marries Vapushtama.
सूत उवाच॥
तं तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितम्। विवर्णवदनाः सर्वे रुरुदुर्भृशदुःखिताः ॥१-४०-१॥
तं तु नादं ततः श्रुत्वा मन्त्रिणस्ते प्रदुद्रुवुः। अपश्यंश्चैव ते यान्तमाकाशे नागमद्भुतम् ॥१-४०-२॥
सीमन्तमिव कुर्वाणं नभसः पद्मवर्चसम्। तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः ॥१-४०-३॥
ततस्तु ते तद्गृहमग्निना वृतं; प्रदीप्यमानं विषजेन भोगिनः। भयात्परित्यज्य दिशः प्रपेदिरे; पपात तच्चाशनिताडितं यथा ॥१-४०-४॥
ततो नृपे तक्षकतेजसा हते; प्रयुज्य सर्वाः परलोकसत्क्रियाः। शुचिर्द्विजो राजपुरोहितस्तदा; तथैव ते तस्य नृपस्य मन्त्रिणः ॥१-४०-५॥
नृपं शिशुं तस्य सुतं प्रचक्रिरे; समेत्य सर्वे पुरवासिनो जनाः। नृपं यमाहुस्तममित्रघातिनं; कुरुप्रवीरं जनमेजयं जनाः ॥१-४०-६॥
स बाल एवार्यमतिर्नृपोत्तमः; सहैव तैर्मन्त्रिपुरोहितैस्तदा। शशास राज्यं कुरुपुङ्गवाग्रजो; यथास्य वीरः प्रपितामहस्तथा ॥१-४०-७॥
ततस्तु राजानममित्रतापनं; समीक्ष्य ते तस्य नृपस्य मन्त्रिणः। सुवर्णवर्माणमुपेत्य काशिपं; वपुष्टमार्थं वरयां प्रचक्रमुः ॥१-४०-८॥
ततः स राजा प्रददौ वपुष्टमां; कुरुप्रवीराय परीक्ष्य धर्मतः। स चापि तां प्राप्य मुदा युतोऽभव; न चान्यनारीषु मनो दधे क्वचित् ॥१-४०-९॥
सरःसु फुल्लेषु वनेषु चैव ह; प्रसन्नचेता विजहार वीर्यवान्। तथा स राजन्यवरो विजह्रिवा; न्यथोर्वशीं प्राप्य पुरा पुरूरवाः ॥१-४०-१०॥
वपुष्टमा चापि वरं पतिं तदा; प्रतीतरूपं समवाप्य भूमिपम्। भावेन रामा रमयां बभूव वै; विहारकालेष्ववरोधसुन्दरी ॥१-४०-११॥