Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.051
Library: King succumbs to Astika’s praise and stops the sacrifice.
जनमेजय उवाच॥
बालो वाक्यं स्थविर इव प्रभाषते; नायं बालः स्थविरोऽयं मतो मे। इच्छाम्यहं वरमस्मै प्रदातुं; तन्मे विप्रा वितरध्वं समेताः ॥१-५१-१॥
सदस्या ऊचुः॥
बालोऽपि विप्रो मान्य एवेह राज्ञां; यश्चाविद्वान्यश्च विद्वान्यथावत्। सर्वान्कामांस्त्वत्त एषोऽर्हतेऽद्य; यथा च नस्तक्षक एति शीघ्रम् ॥१-५१-२॥
सूत उवाच॥
व्याहर्तुकामे वरदे नृपे द्विजं; वरं वृणीष्वेति ततोऽभ्युवाच। होता वाक्यं नातिहृष्टान्तरात्मा; कर्मण्यस्मिंस्तक्षको नैति तावत् ॥१-५१-३॥
जनमेजय उवाच॥
यथा चेदं कर्म समाप्यते मे; यथा च नस्तक्षक एति शीघ्रम्। तथा भवन्तः प्रयतन्तु सर्वे; परं शक्त्या स हि मे विद्विषाणः ॥१-५१-४॥
ऋत्विज ऊचुः॥
यथा शास्त्राणि नः प्राहुर्यथा शंसति पावकः। इन्द्रस्य भवने राजंस्तक्षको भयपीडितः ॥१-५१-५॥
सूत उवाच॥
यथा सूतो लोहिताक्षो महात्मा; पौराणिको वेदितवान्पुरस्तात्। स राजानं प्राह पृष्टस्तदानीं; यथाहुर्विप्रास्तद्वदेतन्नृदेव ॥१-५१-६॥
पुराणमागम्य ततो ब्रवीम्यहं; दत्तं तस्मै वरमिन्द्रेण राजन्। वसेह त्वं मत्सकाशे सुगुप्तो; न पावकस्त्वां प्रदहिष्यतीति ॥१-५१-७॥
एतच्छ्रुत्वा दीक्षितस्तप्यमान; आस्ते होतारं चोदयन्कर्मकाले। होता च यत्तः स जुहाव मन्त्रै; रथो इन्द्रः स्वयमेवाजगाम ॥१-५१-८॥
विमानमारुह्य महानुभावः; सर्वैर्देवैः परिसंस्तूयमानः। बलाहकैश्चाप्यनुगम्यमानो; विद्याधरैरप्सरसां गणैश्च ॥१-५१-९॥
तस्योत्तरीये निहितः स नागो; भयोद्विग्नः शर्म नैवाभ्यगच्छत्। ततो राजा मन्त्रविदोऽब्रवीत्पुनः; क्रुद्धो वाक्यं तक्षकस्यान्तमिच्छन् ॥१-५१-१०॥
इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः। तमिन्द्रेणैव सहितं पातयध्वं विभावसौ ॥१-५१-११॥
ऋत्विज ऊचुः॥
अयमायाति वै तूर्णं तक्षकस्ते वशं नृप। श्रूयतेऽस्य महान्नादो रुवतो भैरवं भयात् ॥१-५१-१२॥
नूनं मुक्तो वज्रभृता स नागो; भ्रष्टश्चाङ्कान्मन्त्रविस्रस्तकायः। घूर्णन्नाकाशे नष्टसञ्ज्ञोऽभ्युपैति; तीव्रान्निःश्वासान्निःश्वसन्पन्नगेन्द्रः ॥१-५१-१३॥
वर्तते तव राजेन्द्र कर्मैतद्विधिवत्प्रभो। अस्मै तु द्विजमुख्याय वरं त्वं दातुमर्हसि ॥१-५१-१४॥
जनमेजय उवाच॥
बालाभिरूपस्य तवाप्रमेय; वरं प्रयच्छामि यथानुरूपम्। वृणीष्व यत्तेऽभिमतं हृदि स्थितं; तत्ते प्रदास्याम्यपि चेददेयम् ॥१-५१-१५॥
सूत उवाच॥
पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि। इदमन्तरमित्येवं तदास्तीकोऽभ्यचोदयत् ॥१-५१-१६॥
वरं ददासि चेन्मह्यं वृणोमि जनमेजय। सत्रं ते विरमत्वेतन्न पतेयुरिहोरगाः ॥१-५१-१७॥
एवमुक्तस्ततो राजा ब्रह्मन्पारिक्षितस्तदा। नातिहृष्टमना वाक्यमास्तीकमिदमब्रवीत् ॥१-५१-१८॥
सुवर्णं रजतं गाश्च यच्चान्यन्मन्यसे विभो। तत्ते दद्यां वरं विप्र न निवर्तेत्क्रतुर्मम ॥१-५१-१९॥
आस्तीक उवाच॥
सुवर्णं रजतं गाश्च न त्वां राजन्वृणोम्यहम्। सत्रं ते विरमत्वेतत्स्वस्ति मातृकुलस्य नः ॥१-५१-२०॥
सूत उवाच॥
आस्तीकेनैवमुक्तस्तु राजा पारिक्षितस्तदा। पुनः पुनरुवाचेदमास्तीकं वदतां वरम् ॥१-५१-२१॥
अन्यं वरय भद्रं ते वरं द्विजवरोत्तम। अयाचत न चाप्यन्यं वरं स भृगुनन्दन ॥१-५१-२२॥
ततो वेदविदस्तत्र सदस्याः सर्व एव तम्। राजानमूचुः सहिता लभतां ब्राह्मणो वरम् ॥१-५१-२३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.