01.052
Library: Names of the snakes killed in the sacrifice.
शौनक उवाच॥
ये सर्पाः सर्पसत्रेऽस्मिन्पतिता हव्यवाहने। तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज ॥१-५२-१॥
सूत उवाच॥
सहस्राणि बहून्यस्मिन्प्रयुतान्यर्बुदानि च। न शक्यं परिसङ्ख्यातुं बहुत्वाद्वेदवित्तम ॥१-५२-२॥
यथास्मृति तु नामानि पन्नगानां निबोध मे। उच्यमानानि मुख्यानां हुतानां जातवेदसि ॥१-५२-३॥
वासुकेः कुलजांस्तावत्प्राधान्येन निबोध मे। नीलरक्तान्सितान्घोरान्महाकायान्विषोल्बणान् ॥१-५२-४॥
कोटिको मानसः पूर्णः सहः पैलो हलीसकः। पिच्छिलः कोणपश्चक्रः कोणवेगः प्रकालनः ॥१-५२-५॥
हिरण्यवाहः शरणः कक्षकः कालदन्तकः। एते वासुकिजा नागाः प्रविष्टा हव्यवाहनम् ॥१-५२-६॥
तक्षकस्य कुले जातान्प्रवक्ष्यामि निबोध तान्। पुच्छण्डको मण्डलकः पिण्डभेत्ता रभेणकः ॥१-५२-७॥
उच्छिखः सुरसो द्रङ्गो बलहेडो विरोहणः। शिलीशलकरो मूकः सुकुमारः प्रवेपनः ॥१-५२-८॥
मुद्गरः शशरोमा च सुमना वेगवाहनः। एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम् ॥१-५२-९॥
पारावतः पारियात्रः पाण्डरो हरिणः कृशः। विहङ्गः शरभो मोदः प्रमोदः संहताङ्गदः ॥१-५२-१०॥
ऐरावतकुलादेते प्रैविष्टा हव्यवाहनम्। कौरव्यकुलजान्नागाञ्शृणु मे द्विजसत्तम ॥१-५२-११॥
ऐण्डिलः कुण्डलो मुण्डो वेणिस्कन्धः कुमारकः। बाहुकः शृङ्गवेगश्च धूर्तकः पातपातरौ ॥१-५२-१२॥
धृतराष्ट्रकुले जाताञ्शृणु नागान्यथातथम्। कीर्त्यमानान्मया ब्रह्मन्वातवेगान्विषोल्बणान् ॥१-५२-१३॥
शङ्कुकर्णः पिङ्गलकः कुठारमुखमेचकौ। पूर्णाङ्गदः पूर्णमुखः प्रहसः शकुनिर्हरिः ॥१-५२-१४॥
आमाहठः कोमठकः श्वसनो मानवो वटः। भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोद्रपारगः ॥१-५२-१५॥
ऋषभो वेगवान्नाम पिण्डारकमहाहनू। रक्ताङ्गः सर्वसारङ्गः समृद्धः पाटराक्षसौ ॥१-५२-१६॥
वराहको वारणकः सुमित्रश्चित्रवेदिकः। पराशरस्तरुणको मणिस्कन्धस्तथारुणिः ॥१-५२-१७॥
इति नागा मया ब्रह्मन्कीर्तिताः कीर्तिवर्धनाः। प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः ॥१-५२-१८॥
एतेषां पुत्रपौत्रास्तु प्रसवस्य च सन्ततिः। न शक्याः परिसङ्ख्यातुं ये दीप्तं पावकं गताः ॥१-५२-१९॥
सप्तशीर्षा द्विशीर्षाश्च पञ्चशीर्षास्तथापरे। कालानलविषा घोरा हुताः शतसहस्रशः ॥१-५२-२०॥
महाकाया महावीर्याः शैलशृङ्गसमुच्छ्रयाः। योजनायामविस्तारा द्वियोजनसमायताः ॥१-५२-२१॥
कामरूपाः कामगमा दीप्तानलविषोल्बणाः। दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपीडिताः ॥१-५२-२२॥