Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.055
Library: The story of Mahabharata summarized.
वैशम्पायन उवाच॥
गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिः। सम्पूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान् ॥१-५५-१॥
महर्षेः सर्वलोकेषु विश्रुतस्यास्य धीमतः। प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥१-५५-२॥
श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम्। गुरोर्वक्तुं परिस्पन्दो मुदा प्रोत्साहतीव माम् ॥१-५५-३॥
शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत्। राज्यार्थे द्यूतसम्भूतो वनवासस्तथैव च ॥१-५५-४॥
यथा च युद्धमभवत्पृथिवीक्षयकारकम्। तत्तेऽहं सम्प्रवक्ष्यामि पृच्छते भरतर्षभ ॥१-५५-५॥
मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम्। नचिरादिव विद्वांसो वेदे धनुषि चाभवन् ॥१-५५-६॥
तांस्तथा रूपवीर्यौजःसम्पन्नान्पौरसंमतान्। नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्श्रीयशोभृतः ॥१-५५-७॥
ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः। तेषां निग्रहनिर्वासान्विविधांस्ते समाचरन् ॥१-५५-८॥
ददावथ विषं पापो भीमाय धृतराष्ट्रजः। जरयामास तद्वीरः सहान्नेन वृकोदरः ॥१-५५-९॥
प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम्। तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत् ॥१-५५-१०॥
यदा प्रबुद्धः कौन्तेयस्तदा सञ्छिद्य बन्धनम्। उदतिष्ठन्महाराज भीमसेनो गतव्यथः ॥१-५५-११॥
आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत्। सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा ॥१-५५-१२॥
तेषां तु विप्रकारेषु तेषु तेषु महामतिः। मोक्षणे प्रतिघाते च विदुरोऽवहितोऽभवत् ॥१-५५-१३॥
स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः। पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः ॥१-५५-१४॥
यदा तु विविधोपायैः संवृतैर्विवृतैरपि। नाशक्नोद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान् ॥१-५५-१५॥
ततः संमन्त्र्य सचिवैर्वृषदुःशासनादिभिः। धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत् ॥१-५५-१६॥
तत्र तान्वासयामास पाण्डवानमितौजसः। अदाहयच्च विस्रब्धान्पावकेन पुनस्तदा ॥१-५५-१७॥
विदुरस्यैव वचनात्खनित्री विहिता ततः। मोक्षयामास योगेन ते मुक्ताः प्राद्रवन्भयात् ॥१-५५-१८॥
ततो महावने घोरे हिडिम्बं नाम राक्षसम्। भीमसेनोऽवधीत्क्रुद्धो भुवि भीमपराक्रमः ॥१-५५-१९॥
अथ सन्धाय ते वीरा एकचक्रां व्रजंस्तदा। ब्रह्मरूपधरा भूत्वा मात्रा सह परन्तपाः ॥१-५५-२०॥
तत्र ते ब्राह्मणार्थाय बकं हत्वा महाबलम्। ब्राह्मणैः सहिता जग्मुः पाञ्चालानां पुरं ततः ॥१-५५-२१॥
ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः। विदिता हास्तिनपुरं प्रत्याजग्मुररिंदमाः ॥१-५५-२२॥
त उक्ता धृतराष्ट्रेण राज्ञा शान्तनवेन च। भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति ॥ अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः ॥१-५५-२३॥
तस्माज्जनपदोपेतं सुविभक्तमहापथम्। वासाय खाण्डवप्रस्थं व्रजध्वं गतमन्यवः ॥१-५५-२४॥
तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः। नगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः ॥१-५५-२५॥
तत्र ते न्यवसन्राजन्संवत्सरगणान्बहून्। वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः ॥१-५५-२६॥
एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः। अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितांस्तदा ॥१-५५-२७॥
अजयद्भीमसेनस्तु दिशं प्राचीं महाबलः। उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा ॥१-५५-२८॥
दक्षिणां सहदेवस्तु विजिग्ये परवीरहा। एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुन्धराम् ॥१-५५-२९॥
पञ्चभिः सूर्यसङ्काशैः सूर्येण च विराजता। षट्सूर्येवाबभौ पृथ्वी पाण्डवैः सत्यविक्रमैः ॥१-५५-३०॥
ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरः। वनं प्रस्थापयामास भ्रातरं वै धनञ्जयम् ॥१-५५-३१॥
स वै संवत्सरं पूर्णं मासं चैकं वनेऽवसत्। ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदाचन ॥१-५५-३२॥
लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम्। अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम् ॥१-५५-३३॥
सा शचीव महेन्द्रेण श्रीः कृष्णेनेव सङ्गता। सुभद्रा युयुजे प्रीता पाण्डवेनार्जुनेन ह ॥१-५५-३४॥
अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम्। बीभत्सुर्वासुदेवेन सहितो नृपसत्तम ॥१-५५-३५॥
नातिभारो हि पार्थस्य केशवेनाभवत्सह। व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव ॥१-५५-३६॥
पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम्। इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम् ॥१-५५-३७॥
मोक्षयामास बीभत्सुर्मयं तत्र महासुरम्। स चकार सभां दिव्यां सर्वरत्नसमाचिताम् ॥१-५५-३८॥
तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः। ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम् ॥१-५५-३९॥
वनं प्रस्थापयामास सप्त वर्षाणि पञ्च च। अज्ञातमेकं राष्ट्रे च तथा वर्षं त्रयोदशम् ॥१-५५-४०॥
ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु। नालभन्त महाराज ततो युद्धमवर्तत ॥१-५५-४१॥
ततस्ते सर्वमुत्साद्य हत्वा दुर्योधनं नृपम्। राज्यं विद्रुतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः ॥१-५५-४२॥
एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम्। भेदो राज्यविनाशश्च जयश्च जयतां वर ॥१-५५-४३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.