01.054
Library: Requested, Vyasa asks Vaishampaya to narrate Mahabharata.
सूत उवाच॥
श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम्। अभ्यागच्छदृषिर्विद्वान्कृष्णद्वैपायनस्तदा ॥१-५४-१॥
जनयामास यं काली शक्तेः पुत्रात्पराशरात्। कन्यैव यमुनाद्वीपे पाण्डवानां पितामहम् ॥१-५४-२॥
जातमात्रश्च यः सद्य इष्ट्या देहमवीवृधत्। वेदांश्चाधिजगे साङ्गान्सेतिहासान्महायशाः ॥१-५४-३॥
यं नातितपसा कश्चिन्न वेदाध्ययनेन च। न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना ॥१-५४-४॥
विव्यासैकं चतुर्धा यो वेदं वेदविदां वरः। परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतः शुचिः ॥१-५४-५॥
यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्यजीजनत्। शन्तनोः सन्ततिं तन्वन्पुण्यकीर्तिर्महायशाः ॥१-५४-६॥
जनमेजयस्य राजर्षेः स तद्यज्ञसदस्तदा। विवेश शिष्यैः सहितो वेदवेदाङ्गपारगैः ॥१-५४-७॥
तत्र राजानमासीनं ददर्श जनमेजयम्। वृतं सदस्यैर्बहुभिर्देवैरिव पुरंदरम् ॥१-५४-८॥
तथा मूर्धावसिक्तैश्च नानाजनपदेश्वरैः। ऋत्विग्भिर्देवकल्पैश्च कुशलैर्यज्ञसंस्तरे ॥१-५४-९॥
जनमेजयस्तु राजर्षिर्दृष्ट्वा तमृषिमागतम्। सगणोऽब्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः ॥१-५४-१०॥
काञ्चनं विष्टरं तस्मै सदस्यानुमते प्रभुः। आसनं कल्पयामास यथा शक्रो बृहस्पतेः ॥१-५४-११॥
तत्रोपविष्टं वरदं देवर्षिगणपूजितम्। पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा ॥१-५४-१२॥
पाद्यमाचमनीयं च अर्घ्यं गां च विधानतः। पितामहाय कृष्णाय तदर्हाय न्यवेदयत् ॥१-५४-१३॥
प्रतिगृह्य च तां पूजां पाण्डवाज्जनमेजयात्। गां चैव समनुज्ञाय व्यासः प्रीतोऽभवत्तदा ॥१-५४-१४॥
तथा सम्पूजयित्वा तं यत्नेन प्रपितामहम्। उपोपविश्य प्रीतात्मा पर्यपृच्छदनामयम् ॥१-५४-१५॥
भगवानपि तं दृष्ट्वा कुशलं प्रतिवेद्य च। सदस्यैः पूजितः सर्वैः सदस्यानभ्यपूजयत् ॥१-५४-१६॥
ततस्तं सत्कृतं सर्वैः सदस्यैर्जनमेजयः। इदं पश्चाद्द्विजश्रेष्ठं पर्यपृच्छत्कृताञ्जलिः ॥१-५४-१७॥
कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान्। तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज ॥१-५४-१८॥
कथं समभवद्भेदस्तेषामक्लिष्टकर्मणाम्। तच्च युद्धं कथं वृत्तं भूतान्तकरणं महत् ॥१-५४-१९॥
पितामहानां सर्वेषां दैवेनाविष्टचेतसाम्। कार्त्स्न्येनैतत्समाचक्ष्व भगवन्कुशलो ह्यसि ॥१-५४-२०॥
तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा। शशास शिष्यमासीनं वैशम्पायनमन्तिके ॥१-५४-२१॥
कुरूणां पाण्डवानां च यथा भेदोऽभवत्पुरा। तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि ॥१-५४-२२॥
गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा। आचचक्षे ततः सर्वमितिहासं पुरातनम् ॥१-५४-२३॥
तस्मै राज्ञे सदस्येभ्यः क्षत्रियेभ्यश्च सर्वशः। भेदं राज्यविनाशं च कुरुपाण्डवयोस्तदा ॥१-५४-२४॥